गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
३.] गदनिग्रहः। ७५
अरोचके सूक्ष्मैलाद्यं चूर्णम् ।
सूक्ष्मैला केसरं त्वक् पत्रं तालीसकं तुगा ।
पृथ्विका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥५३॥
पिप्पल्यः पिप्पलीमूलं चव्यचित्रकनागरम् ।
मरिचं दीप्यकं चैव वृक्षाम्लं साम्लवेतसम् ॥ ५४ ॥
अजमोदाजगन्धे च दधित्थं चेति कार्षिकम् ।
प्रदेयमिह शुद्धायाः शर्करायाश्चतुष्पलम् ।
चूर्णमग्निप्रदं ह्येतत्परमं रुचिवर्धनम् ॥ ५५ ॥
अरोचके लवङ्गाद्यं चूर्णम् ।
लवङ्गकङ्कोलमुशीरचन्दनं
शुद्धं सनीलोत्पलकृष्णजीरकम् ।
एला सकृष्णाऽगुरुभृङ्गकेसरं
कणा सविश्वा नलदं सहाम्बुना ॥ ५६ ॥
कर्पूरजातीफलवंशरोचनाः
सिताष्टभागं समसूक्ष्मचूर्णितम् ।
सुरोचनं तर्पणमग्निदीपनं
बलप्रदं वृष्यतमं त्रिदोषजित् ॥ ५७ ॥
उरोविवन्धं तमकं गलग्रहं
सकासहिध्मारुचियक्ष्मपीनसम् ।
ग्रहण्यतीसारमथासृजः क्षयं
प्रमेहगुल्मांश्च निहन्ति सत्वरम् ॥ ५८ ॥
अरुचौ द्वितीयं लवङ्गाद्यं चूर्णम् ।
लवङ्गजातीफलपिप्पलीनां भागं समं कर्षमितं प्रकुर्यात् ।
पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥५९॥
सितासमं चूर्णमिदं प्रयोजयेत्प्रसह्य रोगान्प्रबलाभिहन्यात् ।
कासक्षयारोचकमेहगुल्ममर्शांसि चोग्रान्यग्रहणीप्रदोषान् ॥६०॥
७६ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः
हृत्कण्ठनासावदनप्रवोधं करोति सन्दीपयते च वह्निम् ।
तृतीयं लवङ्गाद्यं चूर्णम् ।
लवङ्गकङ्कोलवणावराङ्गातालीसचव्यत्रुटिग्रन्थिकौन्त्यः ।
शृङ्गेलवालुं लवली तुरङ्गी सकेसरा सोषणपत्रिका च ॥ ६१ ॥
द्विदाडिमं तिन्तिडिकोलमम्लं रोध्रत्वचा तूणभवं च तैलम् ।
कर्शांशमानानि पलं च शुण्ठ्याः सिता समांशा कलचन्द्रसंज्ञः ६२
लवङ्गनामा रुचिषक्तिदाता सुगन्धी हृद्यः क्षयरोहन्ता ।
बलाग्निसंवर्धन एष चूर्णो वरः प्रयोज्यो नृपतेर्हिताय ॥ ६३ ॥
रक्तपित्ते चन्दनाद्यं चूर्णम् ।
चन्दनं नलदं रोध्रमुशीरं पद्मकेसरम् ।
नागपुष्पं तथा बिल्वं भद्रमुस्तं सशर्करम् ॥ ६४ ॥
ह्रीवेरं चैव पाठा च कुटजस्य फलं त्वचम् ।
शृङ्गवेरं चातिविषा धातकी च रसाञ्जनम् ॥ ६५ ॥
आम्रास्थि जम्बूसारं च तथा मोचरसोद्भवम् ।
नीलोत्पलं समङ्गा च सूक्ष्मैला दाडिमत्वचः ॥ ६६ ॥
चतुर्विशतिरेतानि समभागानि कारयेत् ।
तन्दुलोदकसंयुक्तं क्षौद्रेण सह योजयेत् ॥ ६७ ॥
चलतां चामगर्भाणां स्तम्भनं परमुच्यते ।
अश्विभ्यां विहितं पूर्वं रक्तपित्तविनाशनम् ॥ ६८ ॥
हितं लोहितपित्तिनामर्शस्सु लोहितेषु च ।
मूर्च्छातमोपसृष्टानां तृषार्तानां च दापयेत् ॥ ६९ ॥
प्रतिश्याये व्योषादिचूर्णम् ।
व्योषचित्रकतालीसतन्तिडीकाम्लवेतसैः ।
अजाजीचव्यतुल्यांशैरेलात्वक्पत्रपादिकैः ॥ ७० ॥
१ 'कर्मूवलीसंभूतं तोयं तूणोद्भवं विदुः । महाभिकरं तच्च दन्तदार्ढ्यकरं
परम् ॥' इति हस्तलिखितपुस्तके टिप्पणमुपलभ्यते ।
३.] गदनिग्रहः । ७७
व्योषादिकमिदं नाम पुराणगुडसंयुतम् ।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ७१ ॥
शोषे षाडवं चूर्णम् ।
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ।
सिता पलचतुष्कं च नागरार्धपलं तथा ॥ ७२ ॥
धान्यसौवर्चलाजाजीत्वगेलाश्चार्धकार्षिकाः ।
कोलदाडिमवृक्षाम्लयवान्यम्लवेतसः ॥ ७३ ॥
कार्षिकांश्चूर्णयेत्सर्वान् हृद्यं त्वन्नप्ररोचकम् ।
प्लीहहृद्ग्रहणीदोषपञ्चकासनिबर्हणम् ॥ ७४ ॥
षाडवं नाम गुल्मार्त्तिविबन्धानाहशूलनुत् ।
शोषे महाषाडवं चूर्णम् ।
तालीसोषणचव्यनागलवणैस्तुल्यांशकैर्द्विस्ततः
कृष्णाग्रन्थिकतिन्तिडीकहुतभुक्त्वग्जीरकाख्यैर्युतः ।
विश्वैलाबदराम्लवेतसघनैर्धान्याजमोदायुतै-
र्द्व्यंशैर्दाडिमबीजपादसहितैः श्रेष्ठः सितार्धांशकः ७५
कण्ठास्योदरहृद्विकारशमनः कायाग्निसन्दीपनो
गुल्माध्मानविषूचिकागुदरुजाश्वासकृमिच्छर्दिहां ।
कासारुच्यतिसारमूढमरुतां हृद्रोगिणां कीर्तित-
श्चूर्णोऽयं भिषजामतीव दयितः ख्यातो महाषाडवः ७६
अरोचके दाडिमाद्यं चूर्णम् ।
द्वे पले दाडिमादष्टौ खण्डाद्व्योषात्पलत्रयम् ।
त्रिसुगन्धिपलं चैकं चूर्णमेतच्च कारयेत् ॥ ७७ ॥
रोचनं दीपनं स्वर्यं पीनसश्वासकासजित् ।
कासे लघुतालीसाद्यं चूर्णम् ।
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ॥ ७८ ॥
यथोत्तरं भागवृद्ध्यास्त्वगेले चार्धभागिके ।
पिप्पल्याष्टगुणा चात्र प्रदेया सितशर्करा ॥ ७९ ॥
श्वासकासारुचिहरं चूर्णं दीपनकं परम् ।
हृत्पाण्डुग्रहणीदोषप्लीहशोफज्वरापहम् ॥ ८० ॥
छर्द्यतीसारशूलघ्नं मूढवातानुलोमनम् ।
कल्पयेद्गुटिकां चैव चूर्णं पक्त्वा सितोपलाम् ॥ ८१ ॥
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतरा मता ।
गुल्मे शार्दूलं चूर्णम् ।
भागवृद्ध्युत्तरं हिङ्गुवचाविडमहौषधम् ॥ ८२ ॥
यवानीमभयां चैव चूर्णं मस्वादिभिः पिबेत् ।
विबन्धानाहशूलार्शोवर्ध्मश्वासोदरापहम् ॥ ८३ ॥
ग्रहणीरोगशूलघ्नं शार्दूलं नाम दीपनम् ।
उदरे नारायणं चूर्णम् ।
यवानी त्रिफला धान्यं हपुषा सोपकुञ्चिका ॥ ८४ ॥
पृथ्वीका पिप्पलीमूलमजगन्धा शठी वचा ।
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका ॥ ८५ ॥
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ।
विडङ्गं च समांशानि दन्तीभागत्रयं तथा ॥ ८६ ॥
त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा ।
एष नारायणो नाम चूर्णो रोगगणापहः ॥ ८७ ॥
एनं प्राप्य निवर्तन्ते रोगा विष्णुमिवासुराः ।
तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना ॥ ८८ ॥
आबद्धवाते सुरया वातरोगे प्रसन्नया ।
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसि ॥ ८९ ॥
परिकर्तरि तिक्ताम्लैरूष्णाम्भोभिरजीर्णके ।
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ॥ ९० ॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।
गवाक्षीसिंहकोष्टेन पेयमेतद्विरेचनम् ॥ ९१ ॥
३.] गदनिग्रहः । ७९
उदरे हपुषाद्यं चूर्णम् ।
हपुषां काञ्चनक्षीरीं त्रिफलां कटुरोहिणीम् ।
नीलिनीं त्रायमाणां च सप्तलां त्रिवृतां वचाम् ॥ ९२ ॥
सैन्धवं काचलवणं पिप्पलीं चेति चूर्णयेत् ।
दाडिमत्रिफलामांसरसमूत्रसुखोदकैः ॥ ९३ ॥
पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च ।
श्वित्रकुष्ठेष्वजरके सदने विषमाग्निषु ॥ ९४ ॥
शोफार्शःपाण्डुरोगेषु कामलायां हलीमके ।
वातपित्तकफोद्भूतान् विकारान् सन्निवारयेत् ॥ ९५ ॥
उदरे नाराचकं चूर्णम् ।
विडङ्गाजाजिकाचव्यत्रिफलाधान्यकं वचा ।
द्वौ क्षारौ पञ्चलवणं ग्रन्थिकं पुष्करं शठी ॥ ९६ ॥
यवानी कुञ्चिकी कुष्ठं विशाला धान्यकं वचा ।
शतपुष्पाऽजगन्धा च हेमक्षीरी सनीलिका ॥ ९७ ॥
हपुषा त्रिवृता दन्ती सातला द्विगुणोत्तरा ।
चूर्णं नाराचकं पीतं मद्यमस्त्वम्लकाञ्जिकैः ॥ ९८ ॥
गुल्मार्शोग्रहणीरोगान् श्वासकासोदराञ्जयेत् ।
उदरे सुवर्णसमकं चूर्णम् ।
पञ्चकोलं समरिचं द्वौ क्षारौ त्रिफला वचा ॥ ९९ ॥
यवानी कुञ्चिका हिङ्गु तिन्तिडीकाम्लवेतसौ ।
धान्याजगन्धात्रायन्तीदाडिमं सयवाग्रजम् ॥ १०० ॥
कटुका कौटजं बीजं सैन्धवं च समान् पृथक् ।
त्रिवृता सप्तला दन्ती कम्पिल्लो नीलिकाऽभया ॥ १०१ ॥
स्वर्णक्षीरी च द्विगुणा सर्वमेकत्र चूर्णयेत् ।
उष्ट्रमूत्रे तथा गव्ये सप्ताहं परिभावयेत् ॥ १०२ ॥
द्विगुणां शर्करां चात्र दापयेत्तत्पिबेत्त्र्यहम् ।
गोमूत्रत्रिफलाक्षाररसैर्मद्यैः सुखाम्बुना ॥ १०३ ॥
८२ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
गुल्मे द्वितीयमग्निमुखं चूर्णम् ।
चित्रकहपुषाग्रन्थिकसैन्धवसौवर्चलाजमोदाभिः ।
बिडधान्यसठीपुष्करकर्कूराजाजितिन्तिडीकैश्च ॥ १२५॥
चव्ययवानीदाडिमपृथ्वीकैलाम्लवेतसैश्च समैः ।
अग्निमुखोऽयं चूर्णः काञ्जिकमस्तूष्णवारिसीधूनाम् १२६
पीतोऽन्यतमेन नृभिर्गुल्मारुचिवाह्रिसादर्शूलानि ।
दुर्नामप्लीहोदरकफवातगदान्विनाशयति ॥ १२७ ॥
गुल्मे बृहदग्निमुखं चूर्णम् ।
द्वौ क्षारौ चित्रकं पाठा विडङ्गं लवणानि च ।
सूक्ष्मैला तगरं भार्गी कारवी हिङ्गु पौष्करम् ॥ १२८॥
सठी दार्वी त्रिवृन्मुस्ता वचा चेन्द्रयवास्तथा ।
धात्रीजी रकवृक्षाम्लश्रेयस्यः सोपकुञ्चिकाः ॥ १२९ ॥
अम्लवेतसमम्लीका दाडिमं सक्रडुत्रयम् ।
भल्लातकाजमोदं च यवानी सुरदारु च ॥ १३० ॥
अभयाऽतिविषा चव्या हपुषारग्वधस्तथा ।
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः ॥ १३१ ॥
क्षाराम्यूनि तुल्यानि सूक्ष्मचूर्णानि कारयेत् ।
लौहकिट्टं च सप्ताहं तप्तं गोमूत्रसेचितम् ॥ १३२ ॥
विद्वान्सुभावितं कृत्वा योगेऽस्मिन्रिक्षिपेत्ततः ।
मातुलुङ्गरसेनैव भावयेत्तु दिनत्रयम् ॥ १३३ ॥
दिनत्रयं तु शुक्तेन तथाऽऽर्द्रकरसेन च ।
सुभावितं ततः कृत्वा भक्तमध्ये प्रयोजयेत् ॥ १३४ ॥
एषोऽग्निकल्पचूर्णस्तु नाशयत्यचिराद्गदान् ।
अजीर्णकं तथाऽऽनाहं पञ्च गुल्मान् सुदुस्तरान् ॥ १३५॥
ग्रहणीपाण्डुरोगांश्च श्वासकासांश्च दारुणान् ।
अपस्मारं तथोन्मादं विभ्रमं च मदालयम् ॥ १३६ ॥
३.] गदनिग्रहः । ८३
प्रणोदत्युल्बणानेतानष्टमग्निं च दीपयेत् ।
समस्तव्यञ्जनोपेतं भक्तं कृत्वा तु भोजने ॥ १३७ ॥
प्रदद्यादस्य चूर्णस्य विडालपदकं भिषक् ।
ततस्तद्भवतां याति कोष्णत्वं च प्रपद्यते ॥ १३८ ॥
एतदग्निमुखं चूर्णं चूर्णराजो निगद्यते ।
ब्रह्मणा निर्मितं ह्येतदश्विभ्यां परिकीर्तितम् ॥ १३९ ॥
अग्निमान्द्ये वैश्वानरं चूर्णम् ।
लवणयवानीदीप्यककणनागरमुत्तरोत्तरं वृद्धम् ।
सर्वसमांशा पथ्या चूर्णो वैश्वानरः साक्षात् ॥ १४० ॥
गुल्मे द्वितीयं वैश्वानरं चूर्णम् ।
सैन्धवलवणात्कर्षौ द्वौ च यवान्यास्त्रयोऽजमोदायाः ।
पिप्पल्याश्चापि पलं पञ्चकर्षाणि शुण्ठ्याश्च ॥१४१ ॥
द्वादश हरीतकीनां चूर्णमिदं कारयेच्छ्लक्ष्णम् ।
मद्योष्णोदकयूषैः पिबेद्धि तक्रेण सर्पिषा वापि ॥१४२॥
गुल्मे तथा रुजायां पार्श्वोदरबस्तियोनिशूलेषु ।
वातानुलोमनकरं चूर्णं वैश्वानरं नाम ॥ १४३ ॥
गुल्मे तृतीयं वैश्वानरं चूर्णम् ।
माणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव च ।
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ॥ १४४ ॥
दश चैव हरीतक्याः सूक्ष्मचूर्णीकृताः शुभाः ।
मस्त्वारनालमद्येन सर्पिषोष्णोदकेन वा ॥ १४५ ॥
पीतं जयत्यामवातं गुल्मं हृद्वस्तिजं गदम् ।
वातानुलोमनं श्रेष्ठं चूर्णं वैश्वानरं स्मृतम् ॥ १४६ ॥
अग्निदीप्त्यर्थे ज्वालामुखं चूर्णम् ।
हिङ्ग्वम्लवेतसकटुत्रिकचित्रकेभ्यः
सक्षारपौष्करफलत्रिकदाडिमेभ्यः ।
८४ आयुर्वेदियग्रन्थमाला । [चूर्णाधिकारः
कर्षान्पृथग्गुडपलान्यवचूर्ण्य बद्ध्वा
ज्वालामुखोऽयमनलस्य करोति दीप्तिम् ॥ १४७ ॥
उदावर्ते नाराचकं चूर्णम् ।
हिङ्गु कुष्ठं वचा चैव स्वर्जिका बिडमेव च ।
एको द्वावथ चत्वारस्तथाऽष्टौ षोडशैव च ॥ १४८ ॥
यथाक्रमकृतान् भागांश्चूर्णमानाहभेदनम् ।
एष नाराचविवृतो योगो नाराचको मतः ॥ १४९ ॥
उदावर्तेषु शूलेषु गुल्मेष्वथ भगन्दरे ।
हृद्रोगे च प्रमेहे च योगोऽयं शमनः परः ॥ १५० ॥
सारस्वतं चूर्णम् ।
कुष्ठाश्वगन्धसैन्धवपिप्पलिमरिचं द्विजीरकं शुण्ठी ।
पाठाऽजमोदसहिता समभागा चूर्णिता च वचा १५१
प्रातर्मधुसर्पिभ्यां बिडालपदमात्रमेतदवलिह्य ।
सप्ताहं पथ्याशी किन्नरमधुरस्वरो भवति मर्त्यः॥१५२॥
द्विगुणीकृते च तस्मिन्मेधावी भवति मृष्टवाक्यश्च ।
त्रिगुणीकृते च तस्मिञ्छ्लोकसहस्रं पठत्याशु ॥ १५३ ॥
दुर्मेधसः किलायं भिक्षोराचार्यलोकसेनेन ।
अप्रार्थितेन दत्तो योगवरो नन्दनविहारे ॥ १५४ ॥
बृहत्सारस्वतं चूर्णम् ।
कुष्ठाश्वगन्धे लवणाजमोदे द्वे जीरके त्रीणि कटूनि पाठा ।
माङ्गल्यपुष्पी च समानि चूर्णं कृत्वा तु चूर्णेन वचोद्भवेन १५५
तुल्येन युक्तं बहुशो रसेन तद्भावितं ब्रह्मविनिर्मितायाः ।
सर्पिर्मधुभ्यां च ततोऽक्षमात्रं लिह्यान्नरः सप्तदिनं हिताशी १५६
सौस्वर्यमिच्छन्मनसश्च धैर्यं मेधां तथेच्छन्द्विगुणं च कालम् ।
पठेन्नरः श्लोकसहस्रमह्ना तद्द्ब्रह्मयुक्तं त्रिगुणं च कालम्॥१५७॥
१ प्रत्येकं कर्षमितान् हिङ्ग्वादीनां यावन्तः कर्षास्तावन्ति गुडपलानीत्यर्थः ।
३.] गदनिग्रहः । ८५
सारस्वतमिदं चूर्णं ब्रह्मणा निर्मितं स्वयम् ।
जगद्धितार्थं लोकानां दुर्मेधसां विचेतसाम् ॥ १५८ ॥
अर्शोरोगे यवानिकाद्यं चूर्णम् ।
यवान्यतिविषा कुष्ठं वचा हिङ्गु हरीतकी ।
कत्तृणं रोहिषं मुस्तं रास्ना विबुधदारु च ॥ १५९ ॥
पिप्पल्यः शृङ्गवेरं च मरिचं चव्यचित्रकौ ।
मातुलुङ्गस्य मूलानि पलाशमूलकानि च ॥ १६० ॥
त्रिफला पुष्करसठी सूक्ष्मैला त्वग्हरीतकी ।
अजाजी चेति तच्चूर्णं पिबेदुष्णोदकासवैः ॥ १६१ ॥
एतदर्शोविबन्धानां प्रयोगादमृतोपमम् ।
श्वासकासे बिभीतकाद्यं चूर्णम् ।
बिभीतकं सातिविषं भद्रमुस्तं च पिप्पली ।
भार्गी च शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् ॥ १६२ ॥
तानि चूर्णानि मद्येन पीतान्युष्णोदकेन वा ।
नाशयन्ति नृणां क्षिप्रं श्वासकासापतन्त्रकान् ॥ १६३ ॥
हिक्काकासे रेणुकाद्यं चूर्णम् ।
हरेणुश्चोरकं मुस्तं सूक्ष्मैलासठिनागरम् ।
त्वगेला पुष्करं शृङ्गी ह्रीवेरागरुकेसरम् ॥ १६४ ॥
यवान्यामलकी भार्गी पिप्पली सुरसा तथा ।
सिताचतुर्गुणं चूर्णं तत्पीतं लीढमेव वा ॥ १६५ ॥
अन्नपानप्रयुक्तं वा भक्षितं वापि केवलम् ।
कासहिक्काज्वरश्वासपार्श्वशूलं च नाशयेत् ॥ १६६ ॥
हिक्काश्वासे सुरसाद्यं चूर्णम् ।
सुरसा चोरकं शृङ्गी सूक्ष्मैला पुष्करं सठी ।
पिप्पलीत्वग्विडाक्षारशुण्ठीहिङ्ग्वम्लवेतसम् ॥ १६७ ॥
भार्गी तामलकी जीवा वृक्षाम्लश्चेति चूर्णितम् ।
हिक्काश्वासविबन्धाशःकासहृत्पार्श्वशूलनुत् ॥ १६८ ॥
८
४६ आयुर्वेदौयग्रन्थमाला । [चूर्णाधिकारः
तमकश्वासे शठ्याद्यं चूर्णम् ।
शठीचोरकजीवन्तीत्वग्मुस्तापुष्कराह्वयम् ।
सुरसातामलक्येलापिप्पल्यगरुनागरम् ॥ १६९ ॥
वालकं च समं चूर्णं कृत्वाष्टगुणशर्करम् ।
सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत् ॥ १७० ॥
दन्तरोगे तिक्तकं चूर्णम् ।
मुस्तं त्रिकटुकं पाठां त्वग्बीजं वत्सकस्य च ।
निम्बं पटोलं कटुकां हरिद्रां धन्वयासकम् ॥ १७१ ॥
जातीप्रवालं भूनिम्बं मधुकं सरसाञ्जनम् ।
त्रायमाणां गुडूचीं च त्रिफलां चेति चूर्णयेत् ॥ १७२ ॥
चूर्णोऽयं तिक्तको नाम कवलः प्रतिसारिणम् ।
दन्तमूलास्यगलजाञ्रोगानाशु व्यपोहति ॥ १७३ ॥
दन्तरोगे पीतकं चूर्णम् ।
पटोलदार्बीमधुकं प्रियङ्गुमतिविषा घनम् ।
सनागपुष्पं त्रायन्ती भूनिम्बं तिक्तरोहिणी ॥ १७४ ॥
विभीतकं दाडिमत्वग्घरिहालं मनःशिला ।
समांशानि त्रिभागांशं सशैलेयं रसाञ्जनम् ॥ १७५ ॥
पीतकं चूर्णमेतद्धि मध्वाक्तं प्रतिसारणम् ।
दन्तमूलगलास्योष्ठजिह्वातालुविकारिणाम् ॥ १७६ ॥
गलरोगे कालकं चूर्णम् ।
गृहधूमो यवक्षारः पाठा व्योषं रसाञ्जनम् ।
तेजोह्वा त्रिफला रोध्रं चित्रकं चेति चूर्णयेत् ॥ १७७ ॥
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम् ।
कालकं नाम चूर्णं तु दन्तास्यगलरोगनुत् ॥ १७८ ॥
मुखरोगे द्वितीयं पीतकं चूर्णम् ।
मनःशिला यवक्षारो हरितालं ससैन्धवम् ।
दार्बी त्वगेति तच्चूर्णं माक्षिकेण समायुक्तम् ॥ १७९ ॥
३.] गदनिग्रहः । ८७
मूर्च्छितं घृतखण्डेन कण्ठरोगेषु धारयेत् ।
मुखरोगेषु च श्रेष्ठं पीतकं नाम चूर्णकम् ॥ १८० ॥
कासे जीवन्त्याद्यं चूर्णम् ।
जीवन्ती मधुकं पाठा त्वक्क्षीरी त्रिफला सठी ।
मुस्तैलापद्मकं द्राक्षा द्वे बृहत्यौ वितुन्नकम् ॥ १८१ ॥
सारिवा पौष्करं मूलं कर्कटाख्यं रसाञ्जनम् ।
पुनर्नवा लोहरजस्त्रायमाणा यवानिका ॥ १८२ ॥
भार्गी तामलकी वृद्धिविडङ्गं धन्वयासकम् ।
क्षारचित्रकचव्याम्लवेतसव्योषदारु च ॥ १८३ ॥
चूर्णीकृत्य समांशानि लेहयेन्मधुसर्पिषा ।
चूर्णं पाणितलं कृत्वा पञ्चकासान्व्यपोहति ॥ १८४ ॥
अतिसारे भूनिम्बाद्यं चूर्णम् ।
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान् ।
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत् ॥ १८५॥
चूर्णं मस्त्वम्बुना पीतं ग्रहणीदोषगुल्मजित् ।
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित् ॥ १८६ ॥
ग्रहण्यां पाठायं चूर्णम् ।
पाठा प्रतितिषा मुस्तं व्योषभूनिम्बवत्सकाः ।
तिक्ताचित्रकदुस्पर्शास्तुल्यैस्तैः कुटजः समः ॥ १८७ ॥
गुडशीताम्बुना पीतो ग्रहणीहाऽग्निकारकः ।
ग्रहण्यां नागराद्यं चूर्णम् ।
नागरातिविपामुस्तं भूनिम्बं सरसाञ्जनम् ।
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् ॥ १८८॥
पिबेत्समांशकं चूर्णं सक्षौद्रं तण्डुलाम्बुना ।
पैत्तिके ग्रहणीदोषे रक्तं यश्चोपवेश्यते ॥ १८९ ॥
राजयक्ष्मणि सितोपलाद्यं चूर्णम् ।
सितोपलां तवक्षीरीं पिप्पलीं बहुलां त्वचम् ॥ १९० ॥
४८ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
अन्त्यादूर्ध्वं द्विगुणीतं लेहयेत्क्षौद्रसर्पिषा ।
चूर्णकं प्राशयेच्चैतच्छ्वासकासकफातुरम् ॥ १९१ ॥
सुप्तजिह्वारोचकिनं मन्दाग्निं पार्श्वशूलिनम् ।
हस्तपादांशदाहेषु ज्वरे रक्ते तथोर्ध्वगे ॥ १९२ ॥
योनिदोषे पुष्यानुगं चूर्णम् ।
पाठा जम्ब्वाम्रयोर्मज्जा शिलोद्भेदं रसाञ्जनम् ।
अम्बष्ठकी मोचरसः समङ्गा पद्मकेशरम् ॥ १९३ ॥
बाह्लिकातिविषे बिल्वं रोध्रं मुस्तं सगैरिकम् ।
कट्फलं मरिचं शुण्ठी मृद्वीका रक्तचन्दनम् ॥ १९४॥
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ।
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् ॥ १९५॥
तानि क्षौद्रेण संयोज्य पाययेत्तण्डुलाम्बुना ।
अर्शःसु चातिसारेषु रक्तं यच्चोपवेश्यते ॥ १९६ ॥
दोषा दन्तकृता ये च बालानां तांश्च नाशयेत् ।
योनिदोषं रजोदोषं जलं श्वेतं सपाण्डुरम् १९७ ॥
स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत् ।
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ॥ १९८ ॥
पाण्डुरोगे योगराजं चूर्णम् ।
त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च ।
भागश्चित्रकमूलस्य विडङ्गानां तथैव च ॥ १९९ ॥
मुस्ताकम्पिल्लयोर्भागो देयश्चापि पृथक् पृथक् ।
पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च ॥ २००॥
माक्षिकस्य तु शुद्धस्य लोहस्य रजसस्तथा ।
अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम् ॥ २०१ ॥
माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे ।
उदुम्बरसमां मात्रां नरः खादेद्यथाग्निना ॥ २०२ ॥
गदनिग्रहः । ८९
दिने दिने प्रयोक्तव्यं जीर्णे भोज्यं यथेप्सितम्
वर्जयित्वा कुलत्थांश्च काकमाचीं कपोतकान् ॥२०३॥
योगराजोऽयमाख्यातो योगोऽयममृतोपमः ।
रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम् ॥ २०४ ॥
पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम् ।
कुष्ठान्यजरकं मेहान् श्वासं हिक्कामरोचकम् ।
विशेषाद्गन्त्यपस्मारं कामलां गुदजानि च ॥ २०५ ॥
कुष्ठे त्रिफलाद्यं चूर्णम् ।
त्रिफलातिविषाकटुकानिम्बकलिङ्गवचापटोलानाम् ।
मागधिकरजनीद्वयपद्मकमार्गीमूर्वाविशालानाम् २०६॥
भूनिम्बपलाशानां दद्याद्विपलं त्रिवृत्त्रिगुणा ।
तैश्च समाना ब्राह्मी तच्चूर्णं सुसितुत् परम् ॥ २०७ ॥
मन्दाग्नौ व्योषाद्यं चूर्णम् ।
सव्योषं क्रिमिजित्सपञ्चलवणं साजाजिकं साभयं
सक्षारं सहुताशनं सचविकं सग्रन्थिकं सत्रिवृत् ।
एतच्चूर्णमुदश्विता प्रपिबतोष्णेन वा वारिणा
वह्निर्वृद्धिसुपैति सर्वगदजिद्ब्राजिष्णुतामावहेत् ॥२०८॥
पाण्डुरोगे खण्डसमकं चूर्णम् ।
त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः ।
त्वगेलापत्रचविकातिन्तिण्डीकाम्लवेतसैः ॥ २०९ ॥
समांशैर्धातुमाक्षीकं सर्वैस्तुल्यं प्रदापयेत् ।
लौहचूर्णं समं तैश्च सर्वैः खण्डं समांशकम् ॥ २१० ॥
चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् ।
भक्षयित्वा यथासात्म्यमनुपानं प्रयोजयेत् ॥ २११ ॥
नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलाः ।
पाण्डुरोगं तथा कासं हलीमकशिरोरुजम् ॥ २१२ ॥
९० आयुर्वेदियग्रन्थमाला । [चूर्णाधिकारः
प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् ।
रक्तपित्तं परीसर्पं श्वयथुं च नियच्छति ॥ २१३ ॥
शोफे पाठाद्यं चूर्णम् ।
पाठा सकुष्णा गजपिप्पली च निदिग्धिका नागरचित्रकौ च ।
सपिप्पलीमूलमजाजीरात्रिमस्तं च चूर्णं सुखतोयपीतम् ।
हन्यात्रिदोषं चिरजं च शोफं कुष्ठं च चूर्णस्य हि सुप्रयोगात् २१४
कुष्ठे बाकुचिकाद्यं चूर्णम्
बाकुची त्रिफला वह्निर्भल्लातं च शतावरी ।
सिन्दुवारोऽश्वगन्धा च निम्बः पञ्चाङ्गसंयुतः ॥२१५॥
मासैकं भक्षितं हन्ति चूर्णमेषां समांशकम् ।
सर्वकुष्ठानि वातांश्च रोगिणां नात्र संशयः ॥ २१६ ॥
कुष्ठे पृथुनिम्बपञ्चकं चूर्णम् ।
काले त्वक्छदसारबीजकुसुमैर्निम्बस्य तुल्यांशकैः
कृत्वा चूर्णमदः कटुत्रिकनिशाधात्र्यक्षपथ्यायुतैः ।
पञ्चारिष्टमिदं पयोमधुघृतैरुष्णाम्बुना वा पुमान्
पीत्वा कासगरप्रमेहपिटिकाकुष्ठादिभिर्मुच्यते ॥ २१७॥
कुष्ठे बृहत्पञ्चनिम्बकं चूर्णम् ।
रसायनं प्रवक्ष्यामि ब्रह्मणाऽमिततेजसा ।
प्रोक्तं यच्च्यवनादिभिरुपयुक्तं महर्षिभिः ॥ २१८ ॥
पुष्पकाले तु निम्बस्य कुसुमानि समाहरेत् ।
फलकाले फलं चैव मूलं पत्रं त्वचं तथा ॥ २१९ ॥
चित्रकोऽथ विडङ्गानि व्याधिघातकशक्रजौ ।
भल्लातकं हरीतक्यः शुण्ठी चामलकैः सह ॥ २२० ॥
श्वदंष्ट्रा लोहचूर्णं च भृङ्गरस्वरसाभावितम् ।
अरिष्टखदिराभ्यां च भावयेत्पञ्चनिम्बकम् ॥ २२१ ॥
भावयित्वा पुनः पिष्टमेकस्थाने च कारयेत् ।
ततो विडालपदकं सर्पिषा माक्षिकेण वा ॥ २२२ ॥
गदनिग्रहः । ९१
सुखाम्बुना वा तत्पीतं तत्क्षणादेव जीर्यति ।
हन्यात्कुष्ठानि सर्वाणि सप्त चैव महाक्षयान् ॥ २२३ ॥
अर्शांसि वातगुल्मं च खालित्यं पलितानि च ।
वातरक्तं विशेषेण श्वित्रं कुष्ठं तथैव च ॥ २२४ ॥
कुष्ठनाशनमेतद्धि ब्रह्मणा गदितं पुरा ।
वातातपसहो ह्येष न चात्र नियमः कचित् ॥ २२५ ॥
ग्राम्यधर्मं च कुर्वाणो भोजनं सार्वकार्मिकम् ।
मासमात्रोपयोगेन जीवेद्वर्षशतं पुमान् ॥ २२६ ॥
सर्वकामप्रसक्तोऽपि सर्वरोगैः प्रमुच्यते ।
षण्मासमुपपयोगेन सर्पैरपि न दश्यते ॥ २२७ ॥
वर्षमात्रोपयोगेन जीवेद्वर्षशतत्रयम् ।
नास्मात्परमस्त्वन्यत्कुष्ठरोगस्य भेषजम् ॥ २२८ ॥
साध्यानि यानि कुष्ठानि तान्येवासुं प्रकुर्वतः ।
निवर्तन्ते यथा क्रुद्धे सौपर्णे पवनाशिनः ॥ २२९ ॥
मन्दाग्नौ लवणभास्करं चूर्णम् ।
पिप्पली पिप्पलीमूलं धान्यकं कृष्णजीरकम् ।
सैन्धवं च बिडं चैव पत्रं तालीसकेसरम् ॥ २३० ॥
एषां द्विपलिकान् भागान् पञ्च सौवर्चलस्य च ।
सारिवाजाजिशुण्ठीनामेकैकस्य पलं पलम् ॥ २३१ ॥
त्वगेला चार्धभागे च समुद्रात्कुडवद्वयम् ।
दाडिमात्कुडवं चैकं द्वे पले चाम्लवेतसात् ॥ २३२ ॥
एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम् ।
लवणं भास्करं नाम भास्करेण विनिर्मितम् ॥ २३३॥
जगतोऽस्य हितार्थाय वातश्लेष्मामयापहम् ।
तक्रमस्तुसुराशुक्तसीधुकाञ्जिकयोजितम् ॥ २३४ ॥
जाङ्गलानूपमांसेषु भक्ष्येषु विविधेषु च ।
मन्दाग्नीनां खादयतां शक्तो भवति पावकः ॥ २३५ ॥
९२ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
अर्शांसि ग्रहणीदोषशोषकुष्ठभगन्दरान् ॥
हृद्रोगमामदोषांश्च विविधानुदरस्थितान् ॥ २३६ ॥
प्लीहानं वातगुल्मं च श्वासकासोदरक्षयान् ।
शूलं च नाशयेत्तत्तुष्टो नृप इवापदः ॥ २३७ ॥
परिणामशूले सामुद्राद्यं चूर्णम् ।
सामुद्रं सैन्धवं क्षारौ रुचकं रोमकं बिडम् ।
दन्ती लोहरजः किट्टं त्रिवृत्सूरणकं समम् ॥ २३८ ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
तं यथाग्निबलं चूर्णं किंचिदुष्णेन वारिणा ॥ २३९ ॥
जीर्णे जीर्णे तु भुञ्जीत मांसादिस्निग्धभोजनम् ।
नाभिशूलमुरःशूलं गुल्मप्लीहभवं च यत् ।
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ २४० ॥
तुम्बर्वाद्यं चूर्णम् ।
चूर्णं तदेतदिति तुम्बरुपुष्कराह्व-
पथ्याम्लवेतसविडं रुचकं सहिङ्गु ।
सिन्धूद्भवेन सहितं यववारिपीतं
शूलापतन्त्रकविकारहरं यदुक्तम् ॥ २४१ ॥
शूले हिङ्ग्वष्टकं चूर्णम् ।
व्योषाममोदयुतजीरकयुग्मसिन्धु-
चूर्णं सरामठविभागमिति प्रयुक्तम् ।
हिङ्ग्वष्टकं हरति हृज्जठरान्तराल-
शूलानि गुल्मगुदजग्रहणीविकारान् ॥ २४२ ॥
अरोचके द्वितीयं हिङ्ग्वष्टकं चूर्णम् ।
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणधृतानामष्टमो हिङ्गुभागः ।
प्रथमकवलयुक्तं सर्पिषा चूर्णमेत-
ज्जनयति जठराग्निं वातगुल्मं निहन्ति ॥२४३॥
३.] गदनिग्रहः । ९३
मन्दाग्नौ रामठायं चूर्णम् ।
रामठं रुचकं वह्निर्बचाजीरकनागरम् ।
विडङ्गं चित्रकं कुष्ठं कणामरिचवेतसम् ॥ २४४ ॥
दीप्यकं चेति सर्वाणि समभागानि कारयेत् ।
चूर्णमुष्णाम्बुना पीतं वह्निवृद्धिकरं परम् ॥ २४५ ॥
सर्वाङ्गशूले चित्रकाद्यं चूर्णम् ।
चित्रकं पिप्पलीमूलं पिप्पली गजपिप्पली ।
हिङ्गु पुष्करमूलं च दाडिमं कृष्णजीरकम् ॥ २४६ ॥
विडङ्गधान्यहपुषाशताह्वाहिङ्गुपत्रिकाः ।
चव्याम्लवेतसाजाजीबस्तगन्धाशटीवचाः ॥ २४७ ॥
तुम्बरूण्यजमोदा च यवानी रुचकं तथा ।
समभागानि सर्वाणि सर्वैस्तुल्यं तु नागरम् ॥ २४८ ॥
सूक्ष्मचूर्णं ततः कृत्वा मातुलुङ्गेन भावयेत् ।
ततो बिडालपदकं पिबेदुष्णेन वारिणा ॥ २४९ ॥
मद्येन मस्तुना वापि यूषेणापि रसेन वा ।
जयेत्सर्वाङ्गजं शूलं कोष्ठगं कुक्षिगं तथा ॥ २५० ॥
अर्शोजठरगुल्मघ्नं दीपनीयं विशेषतः ।
चित्रकाद्यमिदं चूर्णमामवातहरं परम् ॥ २५१ ॥
मन्दाग्नौ सैन्धवाद्यं चूर्णम् ।
सिन्धुसौवर्चलव्योषपथ्याजीरकचित्रकैः ।
विडङ्गयावशूकाह्वपाक्यग्रन्थिकरोमकैः ॥ २५२ ॥
तृवृच्चव्ययुतैश्चूर्णं तक्रेणाम्लाम्बुना पिबेत् ।
कल्पितं वह्निदीप्त्यर्थं प्रातरुत्थाय मानवः ॥ २५३ ॥
वातव्याधौ सामुद्राद्यं चूर्णम् ।
सामुद्रसौवर्चलसैन्धवानां क्षारो यवानामाजमोदभागः ।
हरीतकीपिप्पलीशृङ्गवेरं हिङ्गु विडङ्गं च समानि कुर्यात् ॥२५४॥
९४ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
एतानि चूर्णानि घृतप्लुतानि भुञ्जीत पिण्डान् प्रथमं तु पञ्च।
अजीर्णवातं ग्रहगुल्मवातं वातप्रमेहं विषमं च वातम्।
विषूचिकाकामलपाण्डुरोगान् श्वासं च कासं च हरेत्प्रयुक्तं २५५
नारसिंहं चूर्णम् ।
प्रस्थं शतावरीचूर्णं प्रस्थं गोक्षुरकस्य च ।
वाराह्या विंशतिपलं गडूच्याः पञ्चविंशतिः ॥ २५६ ॥
भल्लातकानां द्वात्रिंशच्चित्रकस्य दशैव तु ।
तिलानां लुञ्चितानां च प्रस्थं दद्यात्सुचूर्णितम् ॥ २५७
त्र्यूषणस्य पलान्यष्टौ शर्करायाश्च सप्ततिः ।
माक्षिकं शर्करार्धेन तदर्धेन च वै घृतम् ॥ २५८ ॥
शतावरीसमं देयं विदारीकन्दचूर्णकम् ।
एतानि सूक्ष्मचूर्णानि स्निग्धे भाण्डे निधापयेत् ॥२५९
पलार्धमुपयुञ्जीत यथेष्टं चात्र भोजनम् ।
एष मासोपयोगेन जरां हन्ति रुजामपि ॥ २६० ॥
वलीपलितखालित्यप्लीहव्याधींश्च पीनसान् ।
भगन्दरं मूत्रकृच्छ्रमश्मरींश्च भिनत्त्यपि ॥ २६१ ॥
अष्टादशैव कुष्ठानि तथाष्टावुदराणि च ।
प्रमेहं च महाव्याधिं पञ्चकासान् सुदुस्तरान् ॥ २६२ ॥
अशीतिर्वातजान् रोगांश्चत्वारिंशच्च पैत्तिकान् ।
विंशतिः श्लैष्मिकांश्चैव संसृष्टान् सान्निपातिकान् ।
एतान् सर्वरुजो हन्ति वृक्षमन्द्राशनिर्यथा ॥ २६३ ॥
सकाञ्चनाभो मृगराजविक्रमस्तुरङ्गवेगो जलदौघनिःस्वनः ।
स्त्रीणां शतं गच्छति सोऽतिरम्यः सुरूपवान् सत्ववतां वरिष्ठः ॥
पुत्रान् संजनयेद्धिमान्नारसिंहनिभांस्तथा ।
नारसिंहेति विख्यातश्चूर्णो रोगगणापहः ॥ २६५ ॥
गदनिग्रहः । ९५
अतिसारे गङ्गाधरं चूर्णम् ।
अरुलुकघनशुण्ठीधातकीबिल्वरोध्रं
कुटजफलसमेतं मोचनिर्यासयुक्तम् ।
अतिविषजलपाठाः साहकारं च बीजं
मसृणमधुविमिश्रं तण्डुलाम्बुप्रपीतम् ॥ २६६ ॥
कफोद्भवं मारुतपित्तसंभवं जयेदतीसाररयं तथाऽऽमजम् ।
प्रवृद्धगङ्गाधरनाम चूर्णकं तथा हि दोषं ग्रहणीभवं च ॥ २६७ ॥
गुल्मे कटुत्रिकाद्यं चूर्णम् ।
कटुत्रिकं तिक्तकरोहिणीघनं किराततिक्तोऽथ शतक्रतोर्यवाः ।
ससप्तपर्णातिविषादुरालभाः पटोलमूलं सह त्रायमाणया ॥ २६८
गडूचीचव्यं सविडङ्गनिम्बकं प्रियङ्गुनीलोत्पलरोध्रमञ्जनम् ।
सधातकीमोचरसं सुचूर्णितं बुभुक्षितेऽद्यान्मृदुभोजनं हितम् ॥
शशैः सलावैरथवापि तित्तिरीर्निहन्ति गुल्मान् कफपित्तसंभवान्।
ज्वरातिसारग्रहणीगदारुचीन् प्रमेहमूत्रक्षयवर्ध्मविद्रधीन् २७०
अजीर्णपाण्डुक्षतकासशोफान् सदा प्रयुक्तः सगुडः कटुत्रिकः ।
स्थौल्ये व्योषाद्यं चूर्णम् ।
व्योषकट्वीवराशिश्रुविडङ्गातिविषास्थिराः ।
हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः ॥ २७१ ॥
निशे बृहत्यौ हपुषा पाठा मूलं च केबुकात् ।
एतच्चूर्णं मधु घृतं तैलं चापि दशांशकम् ॥ २७२ ॥
शक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत् ।
नृणां स्थौल्यादिकान्दोषान् कफमेदोभवांस्तथा ॥२७३॥
हृद्रोगकामलाश्रित्रश्वासकासगलग्रहान् ।
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम् ॥ २७४ ॥
वातकासे विडङ्गाद्यं चूर्णम् ।
विडङ्गं नागरं द्राक्षा पिप्पली हिङ्गु सैन्धवम् ।
भार्गी क्षारश्च तच्चूर्णं पिवेद्धि घृतमात्रया ॥ २७५ ॥
९६ आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
सकलेऽनिलजे कासे हिक्कायामनिलार्तिषु ।
गुल्मे वचाद्यं चूर्णम् ।
वचा वत्सकबीजं च कुष्ठं चित्रकमेव च ॥ २७६ ॥
पिप्पली शृङ्गवेरं च पाठा कटुकरोहिणी ।
यवानी च पटोलं च सैन्धवातिविषे तथा ॥ २७७ ॥
हपुषा चाजगन्धा च शठी पौष्करमेव च ।
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ २७८ ॥
ततो बिडालपदकं पिबेदुष्णेन वारिणा ।
गुल्मान् पञ्च च हृद्रोगान् कुक्षिशूलं च नाशयेत् २७९
पाण्डुरोगे किराततिक्ताद्यं चूर्णम् ।
किराततिक्तं सुरदारु दार्वी मुस्ता गडूची कटुका पटोलम् ।
दुरालभा पर्पटकं सनिम्बं फलत्रिकं वह्निकटुत्रिकं च ॥ २८० ॥
विडङ्गसारं च समांशकानि ह्ययोरजोऽर्धेन विचूर्णितानि ।
खादन्नरः क्षौद्रघृतेन ईपत्स्थिरांश्च घोरानथ पाण्डुरोगान् २८१
आमोद्भवान् वातसमुत्थितांश्च पित्तोद्भवांश्श्लेष्मसमुद्भवांश्च ।
दुष्टव्रणान्वै कफविद्रधींश्च श्वित्राणि हन्याच्छतशः प्रयोगः २८२
कुष्ठादौ खण्डसमं चूर्णम् ।
त्रिफलाव्योषबिल्वाब्दपिप्पलीमूलचित्रकैः ।
त्वगेलापत्रचविकातिन्तिडीकाम्लवेतसैः ॥ २८३ ॥
समांशं धातुमाक्षीकं सर्वैस्तुल्या सिता भवेत् ।
भक्षयित्वा यथा सम्यगनुपानं प्रयोजयेत् ॥ २८४ ॥
चूर्णितं मधुना लेह्यं वटकान् वा समाक्षिकान् ।
नाशयेत्कुष्ठमालस्यं प्रमेहोदरकामलान् ॥ २८५ ॥
पाण्डुत्वं ग्रहणीदोषं हलीमकशिरोरुजम् ।
प्रसेकमरुचिं मूर्च्छां हृल्लासं मन्दवह्निताम् ॥ २८६ ॥
रक्तपित्तं परीसर्पं श्वयथुं चाङ्गतापताम् ।
लभेताऽऽयुस्सुत्साहं बलवर्णस्थिराङ्गताम् ॥ २८७ ॥