गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
गदनिग्रहः । ५९
बीजं कारञ्जं सार्षपं प्रापुनाटं
श्रेष्ठं जन्तुघ्नं त्र्यूषणं द्वे हरिद्रे ॥ ३१७ ॥
तैलं पक्वं साधितं तैः समूत्रैस्त्वग्दोषाणां कुष्ठनाडीव्रणानाम् ।
अभ्यङ्गेन श्लेष्मवातोद्भवानां नाशयालं वज्रकं वज्रतुल्यम् ३१८
कुष्ठे महावज्रकं तैलम् ।
एरण्डतार्क्ष्यघननीपकदम्बभार्गी-
कम्पिल्लवेल्लफलिनीसुरवारिणीभिः ।
निर्गुण्ड्यरुष्करमुराह्वसुवर्णदुग्धा-
श्रीवेष्टगुग्गुलुशिलापडुतालुकैश्च ॥ ३१९ ॥
तुल्यं स्नुगर्कदुग्धं सिद्धं तैलं महावज्रकाह्वम् ।
अतिशयति वज्रकगुणान् श्वित्रार्शोग्रन्थिमालाघ्नम् ॥३२०
कुष्ठे श्वेतकरवीराद्यं तैलम् ।
श्वेतकरवीरपल्लवमूलत्वक्पुष्पचित्रकविडङ्गानि ।
कुष्ठार्कमूलसर्षपशियुत्वग्रोहिणीकटुकाः ॥ ३२१ ॥
एतैस्तैलं सिद्धं कल्कैः पादांशकैर्गवां मूत्रम् ।
दत्त्वा तैलचतुर्गुणमभ्यङ्गात्कुष्ठकण्डूघ्नम् ॥ ३२२ ॥
कुष्ठे सिन्दूराद्यं सूर्यपाकं तैलम् ।
सिन्दूरशङ्खचूर्णकहरितालमनःशिलायवक्षारैः ।
कासीसकच्छसंभवगन्धाद्यैःसंयुक्तैस्तैलम् ॥ ३२३ ॥
दिनकरतप्तं पामाविर्चचिकादद्रुकुष्ठकिटिमादीन् ।
नाशयति लेपमात्राद्भूयो भूयः कपालकुष्ठमपि ॥ ३२४ ॥
कुष्ठे कुष्ठकालानलं तैलम् ।
क्षारद्वयं कटुत्रीणि पञ्चैव लवणानि च ।
वचा कुष्ठं हरिद्रे द्वे विडङ्गं चित्रकं विषम् ॥ ३२५ ॥
हरितालं शिला गन्धं सिन्दूरं तुत्थखर्परम् ।
रामठं च रसोनं च मदनं च रसाञ्जनम् ॥ ३२६ ॥
६० आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः
एतत्सर्वं समांशं च स्नुह्यर्कपयसा प्लुतम् ।
षड्गुणं सार्षपं तैलं तैलान्मूत्रं चतुर्गुणम् ॥ ३२७ ॥
सर्वं मन्दानले पक्कं ग्राह्यं तैलावशेषकम् ।
हन्त्यष्टादश कुष्ठानि मांसमेदोगतानि च ॥ ३२८ ॥
दुष्टव्रणानि शतानि जीर्णनाडीव्रणानि च ।
हन्ति श्वित्रमसाध्यं च दद्रुपामाविचर्चिकाः ॥ ३२९ ॥
एतत्तैलं सदाऽभ्यङ्गात्कुष्ठव्याधिहरं नृणाम् ।
कुष्ठे कनकक्षीर्याद्यं तैलम् ।
कनकक्षीरी शैलं भार्गी दन्तीफलानि मूलं च ॥३३०॥
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक् ।
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोटाः ॥ ३३१
गुञ्जैरण्डो बृहतीमूलकसुसराजर्कफलानि ।
कुष्ठं तुम्बरु पाठा मूर्वा मुस्तं निशा च षड्ग्रन्था ॥३३२
एडगजबीजशिग्रुत्र्यूषणभल्लातकाक्षवकाः ।
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासङ्गः॥३३३
सौराष्ट्री कासीसं दार्वी त्वक् खर्जिका लवणम् ।
कल्कैरेतैस्तैलं करवीरमूलपल्लवकषाये ॥ ३३४ ॥
सार्षपमथवा तैलं गोमूत्रे चतुर्गुणे साध्यम् ।
कडुकालाभौ स्थाप्यं तत्सिद्धं तेन मण्डलान्यशु ॥३३५
छिन्द्याद्भिषगभ्यङ्गात्कण्डूकोठांश्च विनिहन्यात् ।
पामायां आर्द्रकाद्यं तैलम् ।
आर्द्रकस्यार्कदुग्धस्य स्नुकक्षीरस्य पृथक् पृथक् ॥३३६॥
द्वे द्वे पले तु द्विपलं सिन्दूरं च समाहरेत् ।
भूर्जकर्षविमिश्राणि कटुतैलस्य पाचयेत् ॥ ३३७ ॥
पलानि दश चाभ्यङ्गात्कच्छूरोगविनाशनम् ।
दद्रूरोगे दाव्यद्यं सूर्यपाकतैलम् ।
दार्वीखण्डैः संयुक्तैः कासमर्द्दकसंभवैः ॥ ३३८ ॥
२.] गदनिग्रहः । ६१
मूलैर्महोटिकायास्तु स्वरसेन समन्वितैः ।
स्नुहीक्षीरनिशामूर्वागृहधूमफणिज्जकैः ॥ ३३९ ॥
रालाविडङ्गमगधागौरसर्षपनागरैः ।
चक्रमर्दकनाडीकाबाकुचीनक्तमालकैः ॥ ३४० ॥
मूलकस्य च बीजैस्तु सुरसारग्वधच्छदैः ।
सक्षारलवणोपेतैर्गोमूत्रैः परिपेषितैः ॥ ३४१ ॥
कटुतैलस्थितैः पक्कैः सम्यग्रविगमस्तिभिः ।
कृतमाशु नराणां तु हन्यादेभिः प्रलेपनम् ॥ ३४२ ॥
दद्रूं विचर्चिकां कण्डूं पामां दुर्मुक्तकं (?) तथा ।
कुष्ठे गुग्गुल्याद्यं सूर्यपाकतैलम् ।
गुग्गुलुमरिचविडङ्गैः सर्षपकासीसमुस्तसर्जरसैः॥३४३॥
श्रीवेष्टतालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः ।
उभयहरिद्रासहितैः कटुतैलं विमिश्रितैरेभिः ॥ ३४४ ॥
आदित्यरश्मिपक्कैः कुष्ठं विनिहन्ति संस्पर्शात् ।
कुष्ठे विद्रावणं तैलम् ।
मनःशिलाले सिन्दूरं सौराष्ट्री गन्धकस्तथा ॥ ३४५ ॥
ससिकथकं सर्जरसं कासीसं पुरकुन्दरू ।
श्व्याह्वः शल्लकि कम्पिल्लं कटुकुष्ठं चाप्यरुष्करम् ॥३४६॥
गवां मूत्रेण संसिद्धं कटुतैलं प्रयोजयेत् ।
पामाविचर्चिकादद्रूकण्डुकुष्ठक्रिमीन् व्रणान् ॥ ३४७ ॥
अभ्यङ्गाच्छमयेत्येतन्नाम्ना विद्रावणं मतम् ।
कुष्ठे महासुगन्धं तैलम् ।
चन्दनं कुङ्कुमोशीरं प्रियङ्गुत्रुटिरोचनाः ॥ ३४८ ॥
तुरुष्कागुरुकस्तूर्यः कर्पूरं जातिपत्रिका ।
जातीकङ्कोलपूगानां लवङ्गस्य फलानि च ॥ ३४९ ॥
नलिका नलदं कुष्ठं हरेणुस्तगरः प्लवम् ।
६
६२ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः
नखं व्याघ्रनखं स्पृक्का बोलो दमनको मुरा ॥ ३५०॥
स्थौणेयकं चोरकं च शैलेयं सैलवालुकम् ।
सरलः सप्तपर्णश्च च लाक्षा तामलकी तथा ॥ ३५१ ॥
लामजकं पद्मकं च धातक्याः कुसुमानि च ।
प्रपौण्डरीकं कर्पूरः समान्शैः शाणमात्रकैः ॥ ३५२ ॥
महासुगन्धमित्येतत्प्रस्थं तैलस्य साधयेत् ।
प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ॥ ३५३ ॥
अनेनाभ्यक्तगात्रः स्याद्वृद्धः सप्ततिकोऽपि वा ।
युवा भवति शुक्राढ्यः स्त्रीणां चात्यन्तवल्लभः ॥३५४॥
सुभगो दर्शनीयश्च गच्छेच्च प्रमदाशतम् ।
वन्ध्यापि लभते गर्भं षण्ढोऽपि पुरुषायते ॥ ३५५ ॥
अपुत्रः पुत्रमाप्नोति जीवेच्च शरदं शतम् ।
कुष्ठे मरीचाद्यं तैलम् ।
मरीचं त्रिवृता मुस्तं हरितालं मनःशिला ॥ ३५६ ॥
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ।
विशाला करवीरश्च भानुक्षीरं शक्रद्रसः ॥ ३५७ ॥
एतेषां कार्षिकान् भागान् विषस्यार्धपलं भवेत् ।
प्रस्थं च कटुतैलस्य गोमूत्रे द्विगुणे पचेत् ॥ ३५८ ॥
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना भिषक् ।
तैलेनानेन नश्यन्ति रोगा देहे शरीरिणाम् ॥ ३५९॥
पामा विचार्चिका चैव दद्रुविस्फोटकानि च ।
अभ्यङ्गेन प्रणश्यन्ति श्यामलत्वं प्रजायते ॥ ३६० ॥
प्रच्छिन्नान्यपि श्वित्राणि तैलेनानेन प्रक्षयेत् ।
चिरोत्थमपि यच्छिद्रं सवर्णं प्रक्षणाद्भवेत् ॥ ३६१ ॥
कुष्ठे आमरिकं तैलम् ।
गुञ्जामूलं फलं कुष्ठं विषं सिन्दूरसिक्थकम् ।
द्वे हरिद्रे जलञ्जाल्चौ गुग्गुलूत्रे तयैव च ॥ ३६२ ॥
२.] गदनिग्रहः । ६३
कृकलाससमायुक्तं कटुतैलं विपाचयेत् ।
क्षिपेत्स्वरुपद्रव्याणि सुदग्धान्यवतारयेत् ॥ ३६३ ॥
उद्धृत्य तैलमध्यात्तु सूक्ष्मचूर्णानि कारयेत् ।
चूर्णं तैले पुनः कृत्वा त्रिशूलीं दापयेत्ततः ॥ ३६४ ॥
जीवन्तीं जीवनीमूलं तथा च व्रणरोहिणीम् ।
एतच्चूर्णं समालोड्य त्वेकरात्रं तु धारयेत् ॥ ३६५ ॥
शिरोरोगं व्रणं कुष्ठं पामां चैव विचार्चिकाम् ।
ये व्रणा न प्ररोहन्ति गम्भीरा भैरवाश्च ये ॥ ३६६ ॥
तांस्तु नाशयते सर्वान् सप्ताहेन न संशयः ।
भिषजां नात्र सन्देहस्तैलं आमरिकं खलु ॥ ३६७ ॥
व्रणे महाकषायं तैलम् ।
उदुम्बरो वटश्चैव प्लक्षः पिप्पल एव च ।
मधूक आम्रः सर्जश्च जम्बूद्वयमथार्जुनः ॥ ३६८ ॥
कम्पिल्लकः पियालश्च कदम्बस्तिन्दुकस्तथा ।
पलाशो रोध्रसंमिश्रं बदरं पद्मकेसरम् ॥ ३६९ ॥
शिरीषो बीजकश्चैव तथा रक्तं च चन्दनम् ।
अमीषां क्वाथकल्काभ्यां तैलं मन्दाग्निसधितम् ॥३७०॥
नाम्ना महाकषायं तु क्षिप्रमभ्यञ्जनाद्धरेत् ।
व्रणांस्तु देहिनामेतच्चिरकालभवानपि ॥ ३७१ ॥
वल्मीके मनःशिलाद्यं तैलम् ।
मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः ।
जातीपल्लवपत्रैश्च निम्बतैलं विपाचयेत् ॥ ३७२ ॥
वल्मीकं नाशयत्येतद्द्बहुच्छिद्रं बहुस्रवम् ।
गण्डमालायां फणिज्जकाद्यं तैलम् ।
फणिज्जकः सक्षवको नादेयं नवमालिका ॥ ३७३ ॥
अश्मन्तको विडङ्गानि मयूरकफलानि च ।
वितुन्नकं देवदारु सहदेवा च कङ्कलः ॥ ३७४ ॥
६४ आयुर्वेदीयग्रन्थमाला । [ तैलाधिकारः
बीजं कारञ्जपालाशं मूलकस्र्यार्जकस्य च ।
महापर्पटको मुस्तं त्रिकटु त्रिफला वचा ॥ ३७५ ॥
सुवर्चला च हिङ्गुश्च समभागानि कारयेत् ।
अक्षमात्रैः पचेदेभिस्तैलप्रस्थं सुखाग्निना ॥ ३७६ ॥
अजाक्षीरेण संयुक्तमजाक्षीरे चतुर्गुणे ।
तदस्य नस्यं दद्याच्च गण्डमालाविनाशनम् ॥ ३७७ ॥
विदारिकां गलग्रन्थि गलगण्डं च नाशयेत् ।
गण्डमालायां काकादनीतैलम् ।
काकादनीलाङ्गलिकानदीहतुण्डिकाफलैः ॥ ३७८ ॥
जीमूतबीजकर्कोटैर्विशालाकृतवेधनैः ।
पाठान्वितैः पलार्धांशैर्विषकर्षयुतैः पचेत् ॥ ३७९ ॥
प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके ।
अनेन गण्डमाला हि चिरजा पूयवाहिनी ॥ ३८० ॥
सिद्ध्यत्यसाध्यकल्पापि पानाभ्यञ्जननावनैः ।
रक्तपित्ते मूर्वाद्यं तैलम् ।
मूर्वामधुकद्राक्षेक्षुरसचन्दनपद्मकैः ॥ ३८१ ॥
सारिवाद्ययनक्ताहैस्तैलप्रस्थं विपाचयेत् ।
क्षीरे चतुर्गुणे पक्त्वा कल्कैरक्षसमैर्भिषक् ॥ ३८२ ॥
रक्तपित्तहरं त्वेतद्वर्ण्यं वातघ्नमुत्तमम् ।
मूर्वातैलमिदं नाम्ना सवर्णकरणं परम् ॥ ३८३ ॥
कुष्ठे विषादनं तैलम् ।
कम्पिल्लकनिशायुग्मैः शालनिर्यासचित्रकैः ।
पुरकीटारिसंयुक्तैः पालिकैः सुविचूर्णितैः ॥ ३८४ ॥
एकीकृत्य समैरेभिर्विषस्य च पलद्वयम् ।
आतपे स्थापयेद्धीमान् कटुतैलपरिप्लुतम् ॥ ३८५ ॥
विषादनमिदं तैलं लेपात्सिध्मविचर्चिके ।
हन्ति पामापचीव्यङ्गादुष्टव्रणभगन्दरान् ॥ ३८६ ॥
गदनिग्रहः । ६५
कुष्ठे जीवन्त्याद्यं तैलम् ।
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकः पयस्तुत्थम् ।
एष घृततैलपाकः सिद्धः सर्जरससंयुक्तः ॥ ३८७ ॥
देयः समधुच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता ।
चर्मैककुष्ठं किटिभं सिध्मं शाम्यत्यलसकं च ॥ ३८८ ॥
पामायां जीरकाद्यं तैलम् ।
जीरकस्य पलं पिष्टं सिन्दूरार्धपलं तथा ।
कटुतैलं पचेदेभिः सद्यः पामाहरं परम् ॥ ३८९ ॥
कृमिरोगे विडङ्गाद्यं तैलम् ।
विडङ्गानि स्नुहीक्षीरमर्कक्षीरं तथैव च ।
गुञ्जाफलानि गण्डीरं श्यामा निर्दहनी तथा ॥३९०॥
एतैर्गोमूत्रसंपिष्टैस्तैलं मूर्ध्नि निधापयेत् ।
कृमयः पूरणादेव नश्यन्त्यपि विमार्गगाः ॥ ३९१ ॥
वातरोगे गडूचीतैलम् ।
तुलां पचेज्जलद्रोणे गडूच्याः पादशेषितम् ।
क्षीरद्रोणयुतं कल्कैः पचेत्तैलाढकं शनैः ॥ ३९२ ॥
पिष्टैर्मधुकमञ्जिष्ठाजीवनीयैर्युतं तथा ।
कुष्ठैलागुरुमृद्वीकामांसीव्याघ्रीनखैर्नखैः ॥ ३९३ ॥
हरेणुश्रावणीव्योषशताह्वाशृङ्गिसारिवैः ।
त्वक्पत्रागुरुविक्रान्तास्थिरातामलकीघनैः ॥ ३९४ ॥
नतकेसरह्रीवेरपद्मकोत्पलचन्दनैः ।
सिद्धं तच्छनकैस्तैलं पानाभ्यञ्जनबस्तिषु ॥ ३९५ ॥
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् ।
तोदकम्परुजायामशिरःकम्पामयार्दितान् ॥ ३९६ ॥
हन्याद्रुणकृतान्दोषान् गडूचीतैलमुत्तमम् ।
वातरोगे द्वितीयं गडूचीतैलम् ।
अमृतायास्तुलाः पञ्च द्रोणेष्वष्टास्वपां पचेत् ॥३९७॥
२. द्वितीय खण्ड: गुल्म, प्रमेह, कुष्ठ, श्वास व कास रोग चिकित्सा
३६ आयुर्वेदीयग्रन्थमाला । [तैलाधिकारः
पादशेषं तु सक्षीरं तैलस्यार्धाढकं पचेत् ।
एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः ॥ ३९८ ॥
शतपुष्पाबलामेदामहामेदद्धिर्जीवकैः ।
काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः ॥ ३९९ ॥
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः ।
शतावरीतामलकीकर्कटाख्याहरेणुभिः ॥ ४०० ॥
वचागोक्षुरकैरण्डरास्नाकालासहायचरैः ।
द्विजीरकर्षमसहदारुमिश्रापि कार्षिकैः ॥ ४०१ ॥
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन तु ।
कल्कैस्तत्क्षीणवीर्याग्निबलसंमूढचेतसः ॥ ४०२ ॥
उन्मादवेपापस्मारैर्युक्तांश्च प्रकृतिं नयेत् ।
वातव्याधिहरं श्रेष्ठं तैलामग्रममृताह्वयम् ॥ ४०३ ॥
वातरोगे सहचरं तैलम् ।
समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च ।
पलानि पञ्चाशदभीरुतश्च पादावशेषं विपचेद्ग्रहेऽपाम् ॥४०४॥
तत्र सेव्यनखकुष्ठहिमैलास्पृग्विग्रयङ्गनलिकाम्बुशिलाजैः ।
लोहितानलदलोहमुरार्वैः कोपनामिशितुरुष्कनखैश्च ॥ ४०५॥
तुल्यक्षीरे पालिकैस्तैलपात्रं
सिद्धं कृच्छ्रान् शीलितं हन्ति वातान् ।
कम्पाक्षेपस्तम्भशोषादियुक्तान्
गुल्मोन्मादान् पीनसं योनिरोगान् ॥ ४०६ ॥
वातरोगे नीलसहचरतैलम् ।
सहचरहस्ती नीलोत्पलशतगात्रस्तृषातुरः पक्कितः ।
सलिलद्रोणतडागे सुतसधर्मांशुतप्त इव ॥ ४०७ ॥
तैलमक्षमतोऽसौ दद्यात्तैलाच्चतुर्गुणं च पयः ।
षट्कं प्रसूनबिसैन्धवकल्कैश्चाप्योनितैलितैः ॥४०८॥
एलामृणालकुष्ठप्रियङ्गुकाश्मीरपुरलोहैः ।
श्रीवेष्टकसर्जरसैश्चन्दनशैलेयरजनीभिः ॥ ४०९ ॥
दारुशताह्वापथ्यैः केसररसपेलवघनैश्च ।
तीर्णो मालतीकुसुमैः सहचरनीलाञ्जवनपतितः॥ ४१०
मेदोस्थिमजमांशासृग्रुधिरशुक्रसंश्रयांश्चिरोत्पन्नान् ।
हन्याद्वातविकारानशीतिमेतन्महानीलम् ॥ ४११ ॥
वातरोगे दशमूलाद्यं तैलम् ।
दशाङ्घ्रिकेशरारिष्टब्राह्मीपाठाकटुत्रिकैः ।
शठीपुनर्नवाभार्गीसुरसाम्बुफलत्रिकैः ॥ ४१२ ॥
शङ्खपुष्पीत्वगेलार्कमुनिपादपपल्लवैः ।
अङ्कोटवरुणास्फोटशिरीषकटभीफलैः ॥ ४१३ ॥
कृमिघ्नमूलशम्पाकसर्पामरदारुभिः ।
प्रियङ्गुहिङ्गुमञ्जिष्ठासुमुखातन्दुलीयकैः ॥ ४१४ ॥
गिरिकर्णीवचाकुष्ठकङ्गुष्ठरजनीद्वयैः ।
मधुकसारसिन्धूत्थसितनीलोत्पलाम्बुदैः ॥ ४१५ ॥
कटुतैलं समैरेभिः पक्कं क्षीरे चतुर्गुणे ।
सोन्मादं हन्त्यपस्मारं पानाभ्यञ्जननावनैः ॥ ४१६ ॥
डाकिनीभूतवेतालनैगमेषादिकान् ग्रहान् ।
कृत्याभिचाररक्षांसि नाशयत्यखिलान्यपि ॥ ४१७ ॥
तैलमेतत्सुरेन्द्रेण नन्दस्य कथितं पुरा ।
बालस्य किल रक्षार्थ विष्णोरमिततेजसः ॥ ४१८ ॥
१ अनेकनीलपुष्पयुक्तं सहचरं शतपलमितं समूलपत्रशाखमुत्पाट्य खण्डशः
प्रकल्पयित्वा संक्षुद्य द्रवद्वैगुण्यग्रहणविधानात् द्विद्रोणमिते जले प्रक्षिप्य तीव्रा-
तपे शोषयेत् । पादशेषे कषाये गालयित्वा, तैलप्रस्थद्वयं, अष्टप्रस्थमितं दुग्धं,
मदगन्धा.(सप्तपर्णी)दीनां मालतीपुष्पान्तानां प्रत्येकं कर्षमितानां कल्कं च
दत्त्वा मन्दाग्निना तैलं साधयेदिति भावः ।
६८ आयुर्वेदीयग्रन्थमाला। [तैलाधिकारः
अभ्यज्य सर्वगात्राणि भोक्तव्यं रिपुवेश्मनि ।
तैलमभ्यञ्जनं श्रेष्ठं वसतोऽरातिसङ्कटे ॥ ४१९ ॥
अथ विलिप्तभगा भगशालिनी यदि रमेत नरं दिवसे शुभे ।
मदनसायकजर्जरितोरसो भवति तस्य तयाऽपहृतं मनः॥४२०॥
ताम्बूलमुखवासेषु व्यञ्जनाहारयोगतः ।
अनामिकाग्रसंयुक्तं वशीकरणमुत्तमम् ॥ ४२१ ॥
भग्ने गन्धतैलम् ।
रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले ।
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत् ॥४२२॥
तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना ।
ततः क्षीरं पुनः पीत्वा सुशुष्कांश्चूर्णयेद्बुधः ॥ ४२३ ॥
काकोल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा ।
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम् ॥ ४२४ ॥
शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत् ।
पीडनार्थे प्रकर्तव्यं सर्वगन्धशृतं पयः ॥ ४२५ ॥
चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक् ।
एलामंशुमतीं पत्रं जीरकं तगरं तथा ॥ ४२६ ॥
रोध्रं प्रपौण्डरीकं च तथा कालानुसारिवाम् ।
शिरीषकं क्षीरशुक्लामनन्तां समधूलिकाम् ॥ ४२७ ॥
पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च।
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना ॥ ४२८ ॥
एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु ।
आक्षेपके पक्षघाते तालुशोषे तथार्दिते ॥ ४२९ ॥
मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे ।
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः ॥ ४३० ॥
पथ्यं पाने तथाऽभ्यङ्गे नस्ये बस्तिषु भोजने ।
ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते ॥ ४३१ ॥
गदनिग्रहः। ६९
मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम् ।
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत् ।
राजार्हमेतत्कर्तव्यं राज्ञामेव विचक्षणैः ॥ ४३२ ॥
इति श्रीसोढलग्रथिते गदनिग्रहे तैलाधिकारो द्वितीयः ।
अथातस्तृतीयश्चूर्णाधिकारः ।
गुल्मे हिङ्ग्वाद्यं चूर्णम् ।
हिङ्गु त्रिकटुकं पाठां हपुषामभयां सठीम् ।
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसम् ॥ १ ॥
दाडिमं पौष्करं धान्यमजाजीं चित्रकं वचाम् ।
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत् ॥ २ ॥
चूर्णमेतत्प्रयोक्तव्यमन्नपानेऽप्यनत्ययम् ।
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा ॥ ३ ॥
पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके ।
आनाहे मूत्रकृच्छ्रे च गुदयोनिरुजासु च ॥ ४ ॥
ग्रहण्यार्शोविकारेषु प्लीहपाण्डामयेऽरुचौ ।
उरोविबन्धे हिक्कायां श्वासे कासे गलग्रहे ॥ ५ ॥
भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा ।
बहुशो गुटिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकाः॥६॥
शूले द्वितीयं हिङ्ग्वाद्यं चूर्णम् ।
हिङ्गुग्रन्थिकधान्यकाग्निकवचाचव्याग्निपाठाः सठी
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्वयं दाडिमम् ।
पथ्यापुष्करवेतसाम्लहपुषाजाज्याजगन्धैः कृतं
चूर्णं भावितमेतदार्द्रकरसे स्याद्बीजपूरस्य च ॥ ७ ॥
आध्मानग्रहणीविकारगुदजान् गुल्मानुदावर्तकान्
प्रत्याध्मानगरोदराश्मरिरुजस्तूणीद्वयारोचकान् !
७० आयुर्वेदीयग्रन्थमाला । [ चूर्णाधिकारः
ऊरुस्तम्भमतिभ्रमं च मनसो बाधिर्यमष्ठीलिकां
प्रत्यष्ठीलिकया सहापहरति प्राक्पीतमुष्णाम्बुना ॥ ८ ॥
रुक्कुक्षिवङ्क्षणकटीजठरान्तरेषु
बस्तिस्तनांसफलकेषु च पार्श्वयोश्च ।
शूलानि नाशयति वातबलासजानि
हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितायाम् ॥ ९ ॥
गुल्मे शार्दूलं चूर्णम् ।
हिङ्ग्राविडशुण्ठ्यजाजिविजयावाख्याभिधानामयै-
श्चूर्णं कुम्भनिकुम्भमूलसहितैर्भागोत्तरं वर्धितैः ।
पीतं कोष्णजलेन कोष्ठकरुजागुल्मोदरादीन्नयं
शार्दूलं प्रसमं प्रमथ्य हरति व्याधीन्मृगौघानिव ॥१०॥
गुल्मे नाराचं चूर्णम् ।
सिन्धूत्थपथ्याकणदीप्यकानां चूर्णानि तोयैः पिबतां कवोष्णैः।
प्रयाति नाशं कफवातजन्मा नाराचनिर्भिन्न इवामयौघः ॥११॥
गुल्मे पूतीकाद्यं चूर्णम् ।
पूतीकपत्रगजचिर्मटचव्यवह्नि-
व्योषं च संस्तरचितं लवणोपधानम् ।
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं
गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ १२ ॥
गुल्मे हिङ्ग्वाद्यं चूर्णम् ।
हिङ्गुत्रिगुणं सैन्धवमस्मात्रिगुणं च तैलमैरण्डम् ।
तन्त्रिगुणरसोनरसं गुल्मोदावर्तशूलघ्नम् ॥ १३ ॥
श्वासे विजयं चूर्णम् ।
त्रिकत्रयं वचा हिङ्गुः पाठा क्षारो निशाद्वयम् ।
चव्यतिक्ताकलिङ्गाग्निशताह्वालवणानि च ॥ १४ ॥
अन्त्रिबिल्वाजमोदं च गणोऽष्टाविंशको मतः ।
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ १५ ॥
३.] गदनिग्रहः । ७१
एरण्डतैलसंयुक्तं सद्यो लिह्यात्ततो नरः ।
बिडालपदकं चापि पिवेदुष्णेन वारिणा ॥ १६ ॥
श्वासं हन्यात्तथा शोषमर्शसि च भगन्दरम् ।
हृच्छूलं पार्श्वशूलं च बस्तिशूलमरोचकम् ॥ १७ ॥
प्लीहकासप्रमेहांश्च कामलां पाण्डुरोगताम् ।
आमवातमुदावर्त्तमन्त्रवृद्धिं गुदकृमीन् ॥ १८ ॥
हन्याच्च ग्रहणीरोगान् ये मया परिकीर्तिताः ।
महाज्वरोपसृष्टानां भूतोपहतचेतसाम् ॥ १९ ॥
अप्रजानां च नारीणां प्रजावर्धनमेव च ।
विजयं नाम चूर्णेदं सर्वव्याधिहरं परम् ॥ २० ॥
वातरोगे अजमोदाद्यं चूर्णम् ।
अजमोदमरिचपिप्पलिविडङ्गसुदारुचित्रकशताह्वाः ।
सैन्धवपिप्पलिमूलं भागा नवस्य पलिकाः स्युः ॥ २१ ॥
शुण्ठी दशपलिका स्यात्पलानि तावन्ति वृद्धदारुकस्यापि ।
अभया पलानि पञ्च सर्वाण्येकत्र कारयेच्चूर्णम् ॥ २२ ॥
समगुडवटकानदतस्तच्चूर्णं कोष्णवारिणा पिबतः ।
नश्यन्त्यामानिलजाः सर्वे रोगाः सुदारुणाः शीघ्रम् ॥२३॥
विश्वाचीप्रतूनीतूनीरोगाश्च गृध्रसी चोग्रा ।
कटिपृष्ठगुदस्फुटनं स्फुटनं चैवास्थिजङ्घयोस्तीव्रम् ॥ २४ ॥
श्वयथुः स्तब्धोऽङ्गसन्धिषु ये चान्ये चामवातसंभूताः ।
सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ॥ २५ ॥
क्षुद्बोधमरोगित्वं स्थिरयौवनतां च वलीपलितनाशम् ।
कुरुते च तदभ्यासाद्बहूनन्यानपि गुणांश्च ॥ २६ ॥
वातरोगे आभाद्यं चूर्णम् ।
आभा रास्ना गडूची च शतावर्यां महौषधम् ।
शतपुष्पाऽश्वगन्धा च हपुषा वृद्धदारकम् ॥ २७ ॥
७२ आयुर्वेदग्रन्थमाला । [ चूर्णाधिकारः
यवानी चाजमोदं च समभागानि कारयेत् ।
सूक्ष्मचूर्णमिदं कृत्वा बिडालपदकं पिबेत् ॥ २८ ॥
मद्यैर्मांसरसैर्युषैस्तत्रेणोष्णोदकेन वा ।
सर्पिषा वापि लेह्यं तु दधिमण्डेन वा पुनः ॥ २९ ॥
अस्थिसन्धिगतं वायुं स्नायुमज्जाश्रितं तथा ।
कटिग्रहं गृध्रसीं च मन्यास्तम्भं हनुग्रहम् ॥ ३० ॥
ये च कोष्ठगता रोगास्तांश्च सर्वान् प्रणाशयेत् ।
आमाद्यं नाम चूर्णेदं सर्वव्याधिविनाशनम् ॥ ३१ ॥
अतिसारे कपित्थाष्टकम् ।
यवानीपिप्पलीमूलचातुर्जातकनागरैः ।
मरिचेन्द्रयवाजाजीधान्यसौवर्चलैः समैः ॥ ३२ ॥
वृक्षाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः ।
त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणीकृतैः ॥ ३३ ॥
चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान् ।
कासश्वासाग्निसार्दार्शःपीनसारोचकाञ्जयेत् ॥ ३४ ॥
ग्रहण्यां द्वितीयं कपित्थाष्टकम् ।
कनकत्रुटिवराङ्गविश्वौषधं धान्यका
चव्याजाजीयवान्यश्च तुल्यांशकाः ।
मरिचदहनदाडिमं धातकी चुक्रिका
बिल्वसौवर्चलं पिप्पलीमूलवृक्षाम्लकम् ॥ ३५ ॥
अपरमपि कपित्थाष्टकं षड्गुणा
पिप्पली सर्वतुल्यांशका शर्करा ।
ग्रहणिगदनाशनं वह्निसन्दीपनं
कासहृद्रोगगुल्मार्शसां नाशनम् ॥ ३६ ॥
ग्रहण्यां दाडिमाष्टकम् ।
कर्षोन्मिता तुगाक्षीरी चातुर्जातं द्विकार्षिकम् ।
यवानीधान्यकाजाजीग्रन्थिव्योषं पलाशकम् ॥ ३७ ॥
३.] गदनिग्रहः । ७३
पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः ।
गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः ॥ ३८ ॥
अतिसारे द्वितीयं दाडिमाष्टकचूर्णम् ।
दाडिमस्य पलान्यष्टौ चातुर्जातं पलद्वयम् ।
अजाजीनां पलार्धं तु पलार्धं धान्यकस्य च ॥ ३९ ॥
पृथक्पलांशकान् भागान् त्रिकटोग्रन्थिकस्य च ।
त्वक्क्षीरी वालकं चैव दद्यात्कर्षसमान् भिषक् ॥ ४० ॥
शर्करायाः पलान्यष्टौ तदेकस्थं विचूर्णयेत् ।
आमातीसारशमनं कासहृत्पार्श्वशूलनुत् ॥ ४१ ॥
हृद्रोगमरुचिं गुल्मं ग्रहणीमग्निमार्दवम् ।
प्रयुक्तो नाशयत्येष चूर्णोऽयं दाडिमाष्टकः ॥ ४२ ॥
गलरोगे एलाद्यं चूर्णंम् ।
एला त्वग्दलनागपुष्पमरिचं स्यात्पिप्पली नागरं
भागैर्भागविवर्धितं क्रमयुतैः सर्वैश्च तुल्या सिता ।
एतच्चूर्णमजीर्णगुल्मजठरेऽप्यर्शःसु हृद्रोगिषु
कासश्वासिषु रक्तपित्तिषु हितं कण्ठे विकाराश्च ये ॥४३॥
अरोचके वृद्धैलाद्यं चूर्णम्
वृद्धैला पिप्पलीमूलं चव्यचित्रकनागरम् ।
मरिचं दीप्यकं चैव वृक्षाम्लं चाम्लवेतसम् ॥ ४४ ॥
अजमोदाऽजगन्धा च कपित्थं चार्थकार्षिकम् ।
अत्यन्तपरिशुद्धायाः शर्करायाश्चतुष्पलम् ॥ ४५ ॥
चूर्णं सेव्यमिदं पुम्भिः परमं रुचिवर्धनम् ।
प्लीहकासमथार्शांसि श्वासशूलं वमिज्वरम् ॥ ४६ ॥
निहन्ति दीपयत्यग्निं बलवर्णकरं परम् ।
वातानुलोमनं हृद्यं कण्ठजिह्वाविशोधनम् ॥ ४७ ॥
७४ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः
अरोचके कर्पूराद्यं चूर्णम् ।
कर्पूरचोचकङ्कोलजातीफलदलाः समाः ।
लवङ्गनागमरिचकृष्णाशुण्ठ्यो विवर्धिताः ॥ ४८ ॥
चूर्णं सितासमं हृद्यं रोचनं क्षयकासजित् ।
वैस्वर्यश्वासगुल्मार्शश्छर्दिकण्ठामयापहम् ॥ ४९ ॥
प्रयुक्तं चानपाने हि भेषजद्वेषिणां वरम् ।
अरोचके त्वगेलाद्यं चूर्णम् ।
त्वगेलाव्योषधान्याम्लनागकेसरजीरकम् ।
लवलीफलकङ्कोलं लवङ्गं जातिपत्रिका ॥ ५० ॥
भागानिमान् समान् कृत्वा दद्याद्विगुणितां सिताम् ।
ईषत्कर्पूरसंयुक्तं चूर्णं रुचिकरं परम् ॥ ५१ ॥
गुल्मे त्रिलवणाद्यं चूर्णम् ।
त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठी जी-
रकाजाजिकुस्तुम्बरीवाष्पिकाः कारवी तुम्बरुः स्वर्जिका या-
वशूको जटा पौष्करं दाडिमं तिन्तिडीकं विडङ्गानि भार्गी वरी
वेधको, मिशिमरिचगजोपकुल्याऽभया पञ्चकोलं निकुम्भा
विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूरार्द्रके-
णासकृद्भावितं यः पिबेत्प्रातराहारकालेऽथवा मासमात्रं हिताशी
नरः। प्लुतमशिशिरवारिणा जीर्णमद्येन तक्रेण मूत्रेण कोलाम्भ-
सा मस्तुना सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्चोत-
तोयेन वा दाडिमाद्वा रसेनात्मवानेभिरेवौषधैः साधितं वा घृतं,
हृदयगुदकटीयकृत्प्लीहजं तस्य शूलं प्रणश्येतथा गुल्मविष्टम्भ-
दुर्नामकृच्छ्रोदराध्मानहिध्मारुचिश्लीपदश्वासकासाः प्रपक्तुं च
शक्तो भवेत्पावकः प्राश्यमानानि पाषाणचूर्णान्यपि ॥ ५२ ॥
१ अत्र दण्डकाख्यश्छन्दः । तत्र प्रथमं द्वौ न गणौ, अनन्तरं द्वाविंशती
रगणा ज्ञेयाः ।
३.] गदनिग्रहः। ७५
अरोचके सूक्ष्मैलाद्यं चूर्णम् ।
सूक्ष्मैला केसरं त्वक् पत्रं तालीसकं तुगा ।
पृथ्विका दाडिमं धान्यं जीरकं च द्विकार्षिकम् ॥५३॥
पिप्पल्यः पिप्पलीमूलं चव्यचित्रकनागरम् ।
मरिचं दीप्यकं चैव वृक्षाम्लं साम्लवेतसम् ॥ ५४ ॥
अजमोदाजगन्धे च दधित्थं चेति कार्षिकम् ।
प्रदेयमिह शुद्धायाः शर्करायाश्चतुष्पलम् ।
चूर्णमग्निप्रदं ह्येतत्परमं रुचिवर्धनम् ॥ ५५ ॥
अरोचके लवङ्गाद्यं चूर्णम् ।
लवङ्गकङ्कोलमुशीरचन्दनं
शुद्धं सनीलोत्पलकृष्णजीरकम् ।
एला सकृष्णाऽगुरुभृङ्गकेसरं
कणा सविश्वा नलदं सहाम्बुना ॥ ५६ ॥
कर्पूरजातीफलवंशरोचनाः
सिताष्टभागं समसूक्ष्मचूर्णितम् ।
सुरोचनं तर्पणमग्निदीपनं
बलप्रदं वृष्यतमं त्रिदोषजित् ॥ ५७ ॥
उरोविवन्धं तमकं गलग्रहं
सकासहिध्मारुचियक्ष्मपीनसम् ।
ग्रहण्यतीसारमथासृजः क्षयं
प्रमेहगुल्मांश्च निहन्ति सत्वरम् ॥ ५८ ॥
अरुचौ द्वितीयं लवङ्गाद्यं चूर्णम् ।
लवङ्गजातीफलपिप्पलीनां भागं समं कर्षमितं प्रकुर्यात् ।
पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥५९॥
सितासमं चूर्णमिदं प्रयोजयेत्प्रसह्य रोगान्प्रबलाभिहन्यात् ।
कासक्षयारोचकमेहगुल्ममर्शांसि चोग्रान्यग्रहणीप्रदोषान् ॥६०॥
७६ आयुर्वेदौयग्रन्थमाला । [ चूर्णाधिकारः
हृत्कण्ठनासावदनप्रवोधं करोति सन्दीपयते च वह्निम् ।
तृतीयं लवङ्गाद्यं चूर्णम् ।
लवङ्गकङ्कोलवणावराङ्गातालीसचव्यत्रुटिग्रन्थिकौन्त्यः ।
शृङ्गेलवालुं लवली तुरङ्गी सकेसरा सोषणपत्रिका च ॥ ६१ ॥
द्विदाडिमं तिन्तिडिकोलमम्लं रोध्रत्वचा तूणभवं च तैलम् ।
कर्शांशमानानि पलं च शुण्ठ्याः सिता समांशा कलचन्द्रसंज्ञः ६२
लवङ्गनामा रुचिषक्तिदाता सुगन्धी हृद्यः क्षयरोहन्ता ।
बलाग्निसंवर्धन एष चूर्णो वरः प्रयोज्यो नृपतेर्हिताय ॥ ६३ ॥
रक्तपित्ते चन्दनाद्यं चूर्णम् ।
चन्दनं नलदं रोध्रमुशीरं पद्मकेसरम् ।
नागपुष्पं तथा बिल्वं भद्रमुस्तं सशर्करम् ॥ ६४ ॥
ह्रीवेरं चैव पाठा च कुटजस्य फलं त्वचम् ।
शृङ्गवेरं चातिविषा धातकी च रसाञ्जनम् ॥ ६५ ॥
आम्रास्थि जम्बूसारं च तथा मोचरसोद्भवम् ।
नीलोत्पलं समङ्गा च सूक्ष्मैला दाडिमत्वचः ॥ ६६ ॥
चतुर्विशतिरेतानि समभागानि कारयेत् ।
तन्दुलोदकसंयुक्तं क्षौद्रेण सह योजयेत् ॥ ६७ ॥
चलतां चामगर्भाणां स्तम्भनं परमुच्यते ।
अश्विभ्यां विहितं पूर्वं रक्तपित्तविनाशनम् ॥ ६८ ॥
हितं लोहितपित्तिनामर्शस्सु लोहितेषु च ।
मूर्च्छातमोपसृष्टानां तृषार्तानां च दापयेत् ॥ ६९ ॥
प्रतिश्याये व्योषादिचूर्णम् ।
व्योषचित्रकतालीसतन्तिडीकाम्लवेतसैः ।
अजाजीचव्यतुल्यांशैरेलात्वक्पत्रपादिकैः ॥ ७० ॥
१ 'कर्मूवलीसंभूतं तोयं तूणोद्भवं विदुः । महाभिकरं तच्च दन्तदार्ढ्यकरं
परम् ॥' इति हस्तलिखितपुस्तके टिप्पणमुपलभ्यते ।
३.] गदनिग्रहः । ७७
व्योषादिकमिदं नाम पुराणगुडसंयुतम् ।
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ७१ ॥
शोषे षाडवं चूर्णम् ।
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ।
सिता पलचतुष्कं च नागरार्धपलं तथा ॥ ७२ ॥
धान्यसौवर्चलाजाजीत्वगेलाश्चार्धकार्षिकाः ।
कोलदाडिमवृक्षाम्लयवान्यम्लवेतसः ॥ ७३ ॥
कार्षिकांश्चूर्णयेत्सर्वान् हृद्यं त्वन्नप्ररोचकम् ।
प्लीहहृद्ग्रहणीदोषपञ्चकासनिबर्हणम् ॥ ७४ ॥
षाडवं नाम गुल्मार्त्तिविबन्धानाहशूलनुत् ।
शोषे महाषाडवं चूर्णम् ।
तालीसोषणचव्यनागलवणैस्तुल्यांशकैर्द्विस्ततः
कृष्णाग्रन्थिकतिन्तिडीकहुतभुक्त्वग्जीरकाख्यैर्युतः ।
विश्वैलाबदराम्लवेतसघनैर्धान्याजमोदायुतै-
र्द्व्यंशैर्दाडिमबीजपादसहितैः श्रेष्ठः सितार्धांशकः ७५
कण्ठास्योदरहृद्विकारशमनः कायाग्निसन्दीपनो
गुल्माध्मानविषूचिकागुदरुजाश्वासकृमिच्छर्दिहां ।
कासारुच्यतिसारमूढमरुतां हृद्रोगिणां कीर्तित-
श्चूर्णोऽयं भिषजामतीव दयितः ख्यातो महाषाडवः ७६
अरोचके दाडिमाद्यं चूर्णम् ।
द्वे पले दाडिमादष्टौ खण्डाद्व्योषात्पलत्रयम् ।
त्रिसुगन्धिपलं चैकं चूर्णमेतच्च कारयेत् ॥ ७७ ॥
रोचनं दीपनं स्वर्यं पीनसश्वासकासजित् ।
कासे लघुतालीसाद्यं चूर्णम् ।
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ॥ ७८ ॥
यथोत्तरं भागवृद्ध्यास्त्वगेले चार्धभागिके ।
पिप्पल्याष्टगुणा चात्र प्रदेया सितशर्करा ॥ ७९ ॥
श्वासकासारुचिहरं चूर्णं दीपनकं परम् ।
हृत्पाण्डुग्रहणीदोषप्लीहशोफज्वरापहम् ॥ ८० ॥
छर्द्यतीसारशूलघ्नं मूढवातानुलोमनम् ।
कल्पयेद्गुटिकां चैव चूर्णं पक्त्वा सितोपलाम् ॥ ८१ ॥
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतरा मता ।
गुल्मे शार्दूलं चूर्णम् ।
भागवृद्ध्युत्तरं हिङ्गुवचाविडमहौषधम् ॥ ८२ ॥
यवानीमभयां चैव चूर्णं मस्वादिभिः पिबेत् ।
विबन्धानाहशूलार्शोवर्ध्मश्वासोदरापहम् ॥ ८३ ॥
ग्रहणीरोगशूलघ्नं शार्दूलं नाम दीपनम् ।
उदरे नारायणं चूर्णम् ।
यवानी त्रिफला धान्यं हपुषा सोपकुञ्चिका ॥ ८४ ॥
पृथ्वीका पिप्पलीमूलमजगन्धा शठी वचा ।
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रका ॥ ८५ ॥
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ।
विडङ्गं च समांशानि दन्तीभागत्रयं तथा ॥ ८६ ॥
त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा ।
एष नारायणो नाम चूर्णो रोगगणापहः ॥ ८७ ॥
एनं प्राप्य निवर्तन्ते रोगा विष्णुमिवासुराः ।
तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना ॥ ८८ ॥
आबद्धवाते सुरया वातरोगे प्रसन्नया ।
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसि ॥ ८९ ॥
परिकर्तरि तिक्ताम्लैरूष्णाम्भोभिरजीर्णके ।
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ॥ ९० ॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।
गवाक्षीसिंहकोष्टेन पेयमेतद्विरेचनम् ॥ ९१ ॥