गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
१३२ आयुर्वेद्रीयग्रन्थमाला । [गुटिकाधिकारः
एष निष्परिहारस्तु पानभोजनमैथुने ।
सतताभ्यासयोगेन वलीपलितनाशनः ॥ ३३० ॥
नाडीव्रणे त्रिफलाद्यो गुग्गुलुः ।
हन्ति नाडीव्रणक्लेदभगन्दरगलामयान् ।
विद्रधिगुल्मपिटका गुग्गुलुस्त्रिफलान्वितः ॥ ३३१ ॥
प्रमेहे गोक्षुरगुग्गुलुगुटिका ।
त्रिकटुत्रिफले तुल्ये गुग्गुलुं च समांशकम् ।
गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद्बुधः ॥ ३३२ ॥
देशकालबलापेक्षी भक्षयेच्चानुलोमिनीम् ।
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ॥ ३३३॥
प्रमेहान्वातरोग्रांश्च वातशोणितमेव च ।
मूत्राघातं मूत्रदोषं प्रदरं चापि नाशयेत् ॥ ३३४ ॥
वातगुल्मे वातरक्ते च कैशोरको गुग्गुलुः ।
वरमहिषलोचनोदरसन्निभवर्णस्य गुग्गुलोः प्रस्थम् ।
प्रक्षिप्य तोयराशौ त्रिफलां च यथोक्तपरिमाणाम् ॥ ३३५॥
द्वात्रिंशच्छिन्नरुहापलानि देयानि यत्नेन ।
संसाधयेत्प्रयत्नाद्दर्व्या संघट्टयेच्च तद्यावत् ॥ ३३६ ॥
अर्धक्षयितं जातं तोयं ज्वलनस्य संपर्कात् ।
अवतार्य वस्त्रपूतं पुनरपि संसाधयेदयःपात्रे ॥ ३३७ ॥
सान्द्रीभूते तस्मिन्नवतार्य हिमोपलस्पर्शे ।
पथ्याचूर्णं द्विपलं त्रिकटुकचूर्णं षडक्षपरिमाणम् ३३८
कृमिरिपुचूर्णार्धपलं कर्षं कर्षं त्रिवृद्दन्त्योः ।
पलमेकं गुडूच्या दत्त्वा संमूर्छयेद्यत्नेन ॥ ३३९ ॥
संस्थापयेच्च गुप्तं स्निग्धे भाण्डे घृतेन सुरभीणाम् ।
आदाय तस्य मात्रां विहितातिथिदेवताप्रणतिः ॥ ३४० ॥
खादेद्यथाग्नि मनुजो व्याधिकलापेक्षया सम्यक् ।
उष्णोदकं चानुपानं यूषं क्षीरं सुगन्धिसलिलं च ॥ ३४१॥
४.] गदनिग्रहः । १३३
इच्छाहारविहारो भेषजकालश्च सर्व एवात्र ।
तनुरोधि वातशोणितमेकद्वित्र्युल्बणं चिरोत्थमपि ॥३४२॥
भग्नस्रुतपरिशुष्कं स्फुटितमपि तन्निहन्ति यत्नेन ।
व्रणकासकुष्ठगुल्मश्वयथूदरपाण्डुरोगमेदांसि ॥ ३४३ ॥
मन्दाग्नित्वविबन्धं प्रमेहदोषांश्च नाशयति ।
सततं निषेव्यमाणः कालेन निहन्ति रोगगणम् ॥ ३४४॥
अभिभूय जरादोषं करोति कैशोरिकं रूपम् ।
त्रिफलाद्यो गुग्गुलुः ।
पलानि काथयेत्षष्टिं त्रिफलायास्तु गुग्गुलोः ।
पलैः षोडशभिः सार्धमपां द्रोणद्वयेन तु ॥ ३४५ ॥
चतुर्थागावशेषं तु कृत्वा भूयोऽप्यधिश्रयेत् ।
घनीभूतं कषायं तु ज्ञात्वा चोद्धृत्य निःक्षिपेत् ॥३४६॥
छिन्नाविडङ्गव्योषाणां चूर्णानि पलिकानि च ।
ततो मात्रां बलापेक्षी भक्षयेद्भातरक्तिनम् ॥ ३४७ ॥
कुष्ठिनं श्वित्रिणं चैव गुल्मिनं मेहिनं तथा ।
बलं मेधां स्मृतिं ज्ञानं तेज आयुर्विवर्धयेत् ॥ ३४८ ॥
गृध्रस्यां कंसाह्वयो गुग्गुलुः ।
पथ्याविभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् ।
प्रस्थेन युक्तं तु पलङ्कषस्य द्रोणे जलस्य स्थितमेकरात्रम् ॥ ३४९॥
अर्धावशेषं कथितं कषायं भाण्डे पचेतं पुनरेव लौहे ।
अमूनि पश्चादवतार्य दद्याद्द्रव्याणि संचूर्ण्य पलार्धकानि ॥३५०
विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृत्र्यूषणचित्रकाणि ।
यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानाहितभोजनानि ॥ ३५१ ॥
निषेवमाणस्य निहन्ति रोगाञ्जङ्गागतान्गृध्रसिवातजान्गदान् ।
प्लीहानमुग्रं जठराणि गुल्मं पाण्ड्व्यर्कण्डूकृमिवातरक्तम् ॥३५२॥
कंसाह्वयो गुग्गुलुरेष नाम्ना ख्यातः क्षितौ तत्प्रथितप्रभावः ।
बलेन नागेन्द्रसमं मनुष्यं वेगेन कुर्याद्धरिवेगतुल्यम् ॥ ३५३ ॥
१२
१३४ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः
आयुष्यप्रदो हर्षकरोऽतिपथ्यश्चक्षुष्प्रदः पुष्टिकरो विषघ्नः ।
क्षतस्य सन्धानकरो विशेषाद्व्रणेषु शस्तः सकलेषु चैव ॥३५४॥
गण्डमालायां त्रिफलाद्या गुग्गुलुगुटिका ।
त्रिफलात्रिवृतादन्तीनीलिनीचतुरङ्गुलाः ।
एषां तु भिषजा ग्राह्या प्रत्येकं पलविंशतिः ॥ ३५५ ॥
कुट्टितैः कथितैरेभिश्चतुर्द्रोणमपाम्भसः ।
पचेत्तु सलिलं तावद्यावद्द्रोणावशेषितम् ॥ ३५६ ॥
पञ्चाशच्चात्र निक्षिप्य गुग्गुलोस्तु पलान्यपि ।
ततः पाकघनीभूते त्वगेलानागकेसरम् ॥ ३५७ ॥
त्रिकटुत्रिफलामुस्तं यवानीजीरकानि च ।
पिप्पलीमूलदहनहपुषाकृष्णजीरकम् ॥ ३५८ ॥
बाष्पिका साजमोदा च तिन्तिडीकाम्लवेतसौ ।
सौवर्चलं च कृत्वैषां श्लक्ष्णचूर्णं विनिक्षिपेत् ॥ ३५९॥
प्रत्येकमर्धपलिकैर्भागैः सम्यग्विचक्षणः ।
ततोऽक्षमात्रां गुटिकां भक्षयेत्तां दिने दिने ॥ ३६० ॥
गण्डमालार्बुदग्रन्थ्यूरुस्तम्भोदरपीडितः ।
अनेनैव विधानेन गिरिजं वा प्रयोजयेत् ॥ ३६१ ॥
वातरक्ते बृहत्स्वायम्भुवगुग्गुलुः ।
अलम्बुषालोहचूर्णमनयोर्द्वे पले पले ।
पलत्रयं च ताप्युत्थाद्वाकुची पलपञ्चकम् ॥ ३६२ ॥
शिलाजतु तयोस्तुल्यं पलानि दश गुग्गुलोः ।
सर्वाण्येकत्र संचूर्ण्य गुटिकां कारयेद्बुधः ॥ ३६३ ॥
शाणं कर्षार्धकर्षं वा ततः खादेत्प्रयत्नतः ।
वातरक्तं च कुष्ठानि श्वित्राणि विविधानि च ॥ ३६४॥
भगन्दरान् क्षुद्ररोगानर्शांसि ग्रहणीगदान् ।
बस्तिवातगुददोषांश्च पाण्डुतामुदराणि च ॥ ३६५ ॥
गदनिग्रहः । १३५
शोफश्लीपदमानाहं यक्ष्माणं च विशेषतः ।
नाडीव्रणांश्च सर्वांस्तु हन्याद्विद्रधिहृद्गदान् ॥ ३६६ ॥
वृष्यो बल्यश्च धन्यश्च केश्यो मेधाग्निवर्धनः ।
आयुर्वर्णकरस्त्वच्यः पुत्रसौभाग्यदस्तथा ॥ ३६७ ॥
गर्भसन्धानकृत्प्रोक्तो गर्भपुष्टिकराः परम् ।
कालपादेन विख्यातो नाम्ना स्वायंभुवो भुवि ॥३६८॥
कासे सप्तचत्वारिंशतिका गुग्गुलुगुटिका ।
त्रिकटुत्रिफलामुस्तं कुटजं गजपिप्पलीम् ।
त्वगेलापत्रहपुषाग्रन्थिकं जीरकद्वयम् ॥ ३६९ ॥
विडङ्गं चित्रकं पाठां त्रायमाणां दुरालभाम् ।
पटोलेन्द्रयवान् दारु पञ्चैव लवणानि च ॥ ३७० ॥
यवानीं बाष्पिकां भार्गीं हरिद्रे सारिवाद्वयम् ।
दाडिमं पौष्करं धान्यं वचां क्षारद्वयं तथा ॥ ३७१ ॥
हरेणुकाजमोदं च तिन्तिडीकाम्लवेतसौ ।
सतुम्बरूणि सर्वाणि कार्षिकाण्युपकल्पयेत् ॥ ३७२ ॥
गुग्गुलुश्च समो देयो हविषा सह योजयेत् ।
अक्षमात्रां तु गुटिकां भक्षयेन्मधुना सह ॥ ३७३ ॥
कासं श्वासं तथा शोफमर्शांस्य भगन्दरम् ।
हृत्पृष्ठपार्श्वशूलं च हन्ति मन्दाग्नितामपि ॥ ३६४ ॥
आमवातमुदावर्तमेदोवृद्धिगुदकृमीन् ।
अश्नाहं च तथोन्मादं कुष्ठपाण्डूदरामयान् ॥ ३७५ ॥
नाडीदुष्टव्रणान् सर्वान्प्रमेहंश्लीपदानपि ।
वातरक्ते कण्डिका गुग्गुलुगुटिका ।
त्रिफलातिविषादारुदार्वीमुस्ताटरूषकैः ।
खदिरासननक्ताह्वागुडूचीनृपपादपैः ॥ ३७६ ॥
भूनिम्बनिम्बकटुकाकलिङ्गकुलकैः समैः ।
क्वाथं कृत्वा ततः पूर्वं शीतमष्टगुणेऽम्भसि ॥ ३७७ ॥
१३६ आयुर्वेदग्रन्थमाला । [ गुटिकाधिकारः
गुडूच्याः कारयेत्क्वाथमर्धे शिष्टेऽथ वारिणि ।
क्षिप्त्वा पुरं नवे भाण्डे स्थापयेद्रजनीमथ ॥ ३७८ ॥
आतपेनैव तीव्रेण कौशिकं परिशोषयेत् ।
शुष्कस्य तु पलान्यष्टौ तावन्मानं शिलाजतु ॥ ३७९ ॥
ताप्यचूर्णात्पलं चैकं द्वे पले मधुसर्पिषोः ।
एकीकृतं सुसंक्षुद्य लिह्यात्तं त्रिफलाम्बुना ॥ ३८० ॥
तनुना मुद्गयूषेण जाङ्गलानां रसेन च ।
जीर्णे यूषेण भुञ्जीत पुराणं शालिषष्टिकम् ॥ ३८१ ॥
यथारोगं यथासात्म्यं रसैर्यूषैश्च संस्कृतैः ।
त्रिसप्ताहप्रयोगेण वातरक्तं सुदारुणम् ॥ ३८२ ॥
निहन्ति वीर्यतः शीघ्रं कुष्ठरोगं व्रणानपि ।
छिन्नभिन्नांश्च संधत्ते दरिद्र इव कन्थडीम् ॥ ३८३ ॥
गण्डमालायामष्टाचत्वारिंशत्संज्ञा गुग्गुलुगुटिका ।
त्रिकटुत्रिफलामुस्तं कुटजं गजपिप्पलीम् ।
त्वगेलापत्रहपुषाग्रन्थिकं जीरकद्वयम् ॥ ३८४ ॥
विडङ्गं चित्रकं पाठां त्रायमाणां दुरालभाम् ।
पटोलेन्द्रयवान् दारु पञ्चैव लवणानि च ॥ ३८५ ॥
यवानीं बाष्पिकां भार्गीं हरिद्रे सारिवाद्वयम् ।
दाडिमं पौष्करं धान्यं वचां क्षारद्वयं तथा ॥ ३८६ ॥
पिप्पलीं चाजमोदं च तिन्तिडीकाम्लवेतसम् ।
तुम्बरूणि च सर्वाणि कार्षिकाण्युपकल्पयेत् ॥ ३८७ ॥
सूक्ष्मचूर्णीकृतेष्वेषु पलानि दश पञ्च च ।
महिषाक्षस्य मतिमान् तत्पादेन च माक्षिकम् ॥३८८॥
अष्टचत्वारिंशत्संज्ञः कृष्णात्रेयेण भाषितः ।
गण्डमालापचीग्रन्थिमुकमुन्मिणगद्गदान् ॥ ३८९ ॥
श्वयाढ्यवातशोफांश्च मन्यास्तम्भं तथार्दितम् ।
अश्रींसि च प्रमेहांश्च स्थौल्यदोषगुदामयान् ॥ ३९० ॥
४.] गदनिग्रहः । १३७
अर्बुदं घ्राणरोगं च बाधिर्यं गृध्रसीं तथा ।
पूतिनासं प्रतिश्यायं पिटकां क्षतविद्रधिम् ॥ ३९१ ॥
सोदरामन्त्रवृद्धिं च जयेदग्निं च दीपयेत् ।
अमृताद्या गुग्गुलुगुटिका ।
अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलकानि गुग्गुलुः ।
क्रमवृद्धमिदं मधुप्लुतं पिटिकास्थौल्यभगन्दराञ्जयेत् ॥ ३९२ ॥
शोफे गुडार्द्रकगुटिकाः।
गुडार्द्रकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा ।
कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ॥
शोफप्रतिश्यायगलास्यरोगान् सश्वासकासारुचिपीनसादीन् ।
जीर्णज्वरार्शोग्रहणीविकारान् हन्यात्तथान्यन्कफवातरोगान् ॥
गुल्मे आरोग्यलवणम् ।
पलानि दश वारुण्याः स्रुकाण्डात्पलविंशतिः ।
शतं सिंहीफलानां तु कुमार्याश्च पलद्वयम् ॥ ३९५ ॥
अर्कपत्रशतं चैकं शतं पूतीकपत्रकात् ।
महिषाख्यात्पाणिमानीं रसोनात्पलपञ्चकम् ॥ ३९६ ॥
पलानि पञ्च सिन्धूत्थाच्चिरबिल्वत्वचस्तथा ।
सौवर्चलात्तथा त्रीणि व्योषात्पञ्च पलानि च ॥३९७॥
पलद्वयं तु काचस्य सामुद्रलवणाद्दश ।
पलमेकं बिडाख्यस्य कुडवं दरकृष्णतः ॥ ३९८ ॥
यवान्याश्चाजमोदायाः पलार्धं तु पृथक् पृथक् ।
रामठस्य पलं चैकं पलैकं जीरकद्वयात् ॥ ३९९ ॥
कुडवं राजिकायाश्च प्रस्थार्धं चित्रकस्य च ।
सर्वमेकत्र संयोज्य कुट्टयित्वा ह्युलूखले ॥ ४०० ॥
प्रस्थार्धं चार्कदुग्धस्य मानीं सर्षपतैलतः ।
एकत्र मिलितं कृत्वा चान्तर्धूमं ततो दहेत् ॥ ४०१ ॥
३. तृतीय खण्ड: वातरोग, आमवात, उरुस्तम्भ व शिरोरोग चिकित्सा
१३८ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकार
मस्तुना तं पिबेत्क्षारं कर्षार्धं कर्षमेव वा ।
गुल्मं शूलं तथानाहमरुचिं पाण्डुतां तथा ॥ ४०२ ॥
हृद्रोगं ग्रहणीदोषमर्शोऽजीर्णं विषूचिकाम् ।
अष्ठीलामूर्ध्ववातं च वातकुण्डलिकं तथा ॥ ४०३ ॥
मूत्रग्रन्थि प्रतिश्यायं कासं श्वासं तथाऽश्मरीम् ।
प्लीहानमामदोषांश्च वातश्लेष्मोद्भवान् गदान् ॥ ४०४॥
हन्यादारोग्यलवणं सन्नस्याग्नेश्च दीपनम् ।
गण्डमालायां काञ्चनारगुग्गुलुः ।
पलानां दशकं ग्राह्यं काञ्चनारत्वचो बुधैः ।
षट्पला त्रिफला ग्राह्या व्योषं ग्राह्यं पलत्रयम्॥४०५॥
पलैकं वरुणस्यापि त्वगेलापत्रकं तथा ।
कर्षकर्षमितं ग्राह्यं सर्वाण्येकत्र चूर्णयेत् ॥ ४०६ ॥
सर्वै चूर्णमिदं यावत्तावन्मात्रस्तु गुग्गुलुः ।
संमर्द्य गुटिकाः कार्याः शाणमात्रास्ततो बुधैः ॥४०७॥
भक्षयेत्प्रातरेकैकामनुपानविशेषतः ।
गण्डमालां जयेदुग्रामपचीमर्बुदानि च ॥ ४०८ ॥
ग्रन्थीन्ब्रणां सगुल्मांश्च विद्रधिं च भगन्दरम् ।
अनुपाने प्रयोक्तव्यः क्वाथो मुण्डीसमुद्भवः ॥ ४०९ ॥
क्वाथो वा खदिरस्याथ पथ्याक्वाथोष्णकं जलम् ।
गण्डमालायां काञ्चनगुटिका ।
त्रिफलायास्त्रयो भागा व्योषाच्च द्विगुणो मतः॥४१०॥
तस्माच्च द्विगुणं ज्ञेयं काञ्चनारस्य वल्कलम् ।
एकीकृते तु चूर्णेऽस्मिन् समो देयोऽथ गुग्गुलुः॥४११॥
क्षौद्रं दशगुणं दद्यात्त्रिफलाचूर्णतो भिषक् ।
सर्वासु गण्डमालासु गलगण्डे तथैव च ॥ ४१२ ॥
नाडीव्रणे विद्रधौ च गुटिकेयं प्रशस्यते ।
इति श्रीसोढलप्रथिते गदनिग्रहे गुटिकाधिकारश्चतुर्थः ।
५.] गदनिग्रहः । १३९
अथातः पञ्चमो लेहाधिकारः प्रारभ्यते ।
अर्शसि पथ्यावलेहः ।
श्यामागूडूच्यामलचित्रकाणां भागान् पलानां शतसंमितांश्च ।
सर्वान्पृथक्संपरिकल्प्य युक्त्या द्रोणद्वयेऽपां तु विपाच्य पात्रे ॥ १
लौहे दृढे मन्दहुताशने च पादावशिष्टं विधिवाद्द्विजिज्ञः ।
भूयः पचेत्तं तुलया गुडस्य शुक्लेन वस्त्रेण विशोधितस्य ॥ २ ॥
चूर्णीकृतैर्जीरकयुग्मदन्तीपाठात्रिवृत्त्र्यूषणग्रन्थिकाद्यैः ।
धान्याजमोदेभकणायवानीभल्लातकारुष्करैश्च पलप्रमाणैः ॥ ३ ॥
प्रस्थत्रयेणाथ हरीतकीनामैकध्यमालोड्य शनैस्तु दर्य्या ।
ज्ञात्वा सुपक्वं रसगन्धवर्णैः कुम्भे निदध्यात्त्रिसुगन्धियुक्तम्॥४॥
प्रस्थार्धयुक्तं मधुनोऽत्र शीते भल्लातकास्थिप्रभवाच्च तैलात् ।
दत्त्वा पलार्धं यवशूकजस्य चाष्टौ पलान्येव सितोपलायाः ॥ ५ ॥
एनं लिहेदक्षफलप्रमाणमर्शोविकारी प्रसमीक्ष्य वह्निम् ।
कुष्ठानि सर्वाणि निहन्ति हिक्कां श्वासं च कासारुचिपाण्डुरोगान्
मन्दानलत्वं ग्रहणीविकारान् गुल्मान्सशोफान्उदरामयांश्च ।
शूलानि यक्ष्माममसृक्प्रवृत्तिं पथ्यावलेहोऽयमिति प्रदिष्टः ७॥
अर्शसि चित्रकावलेहः ।
चित्रकस्य शतं दद्यात्तत्तुल्यो ग्रन्थिको मतः ।
पञ्चाङ्गदशमूलस्य शेषान् पञ्चपलान् पृथक् ॥ ८ ॥
बलां भार्गी शठीं पाठां पौष्करं मूलमेव च ।
चतुर्द्रोणेऽम्भसां पक्त्वा द्रोणशेषे तथैव च ॥ ९ ॥
पचेद्गुडशतं दत्त्वा लेहवत्साधु साधयेत् ।
चतुष्पलं तु पिप्पल्यास्तुगाक्षीर्याः पलद्वयम् ॥ १० ॥
त्रिजाताच्च पलं चैकं मरिचस्य पलं तथा ।
सूक्ष्मचूर्णं ततः कृत्वा दर्या सम्यग्विघट्टयेत् ॥ ११ ॥
पलमात्रं ततः खादेत्प्लीहगुल्मोदरर्शसाम् ।
१४० आयुर्वेदीयग्रन्थमाला। [लेहाधिकारः
हन्ति यक्ष्माणमत्युग्रं शीतार्त्ति चाम्लपित्तकम् ॥ १२ ॥
भारद्वाजेन कथितो लेहश्चित्रकसंज्ञकः ।
अर्शसि चित्रकावलेहः ।
तोयद्रोणे चित्रकमूलतुलार्धं
साध्यं यावत्पाददलस्थमथेदम् ।
अष्टौ दत्त्वा जीर्णगुडस्य पलानि
क्वाथ्यं भूयः सान्द्रतया समवेतम् ॥ १३ ॥
त्रिकटुकमिशिपथ्याकुष्ठमुस्तावराङ्ग-
कृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः ।
जयति गुदजकुष्ठप्लीहगुल्मोदराणि
प्रबलयति हुताशं शश्वदभ्यस्यमानः ॥ १४ ॥
रक्तपित्ते कूष्माण्डावलेहः ।
कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ।
पचेत्तप्ते घृतप्रस्थे पात्रे ताम्रमये दृढे ॥ १५ ॥
यदा मधुनिभः पाकस्तदा खण्डशतं क्षिपेत् ।
पिप्पलीशृङ्गवेराच्च द्वे पले जीरकस्य च ॥ १६ ॥
त्वगेलापत्रमरिचधान्यकानां पलार्धकम् ।
न्यसेच्चूर्णीकृतं तत्र दर्व्या संघट्टयेत्ततः ॥ १७ ॥
तत्पक्वं स्थापयेद्भाण्डे क्षौद्रं दत्त्वा घृतार्धकम् ।
तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी ॥ १८ ॥
श्वासकासारुचिच्छर्दितृष्णाज्वरनिपीडितः ।
वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ॥ १९ ॥
उरःसन्धानकरणं बृंहणं स्वरबोधनम् ।
अश्विभ्यां निर्मितं सिद्धं कूष्माण्डकरसायनम् ॥ २० ॥
१. अस्मत्प्रे 'क्षौद्रार्धकां सितां केचित् केचिद्राक्षां सितार्धकाम् । द्राक्षार्धानि
लवङ्गानि मनाक् कर्पूरकं क्षिपेत्' इति योगरत्नाकरेऽधिकः पाठः ।
५.] गदनिग्रहः । १४१
रक्तपित्ते खण्डकूष्माण्डकावलेहः ।
प्रस्थेनाज्यस्य भृष्टं पलशतमलघुच्छिन्नकूष्माण्डकस्य
पक्तव्यं खण्डतुल्यं मधु शिशिरतरे तत्र दद्याद्धृतार्थम् ।
व्योषं धान्यं सजीरं प्रसृतिमितमथ स्याच्चतुर्जातकं च
प्रक्षेप्यं रक्तपित्तं हरति बलकरः खण्डकूष्माण्डकोऽयम् ॥२१
अर्शसि खण्डसूरणावलेहः ।
कूष्माण्डकविधानेन शस्यते सूरणं सदा ।
अर्शसां मूढवातानां मन्दाग्नीनां विशेषतः ॥ २२ ॥
गुडकूष्माण्डकावलेहः ।
कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ।
प्रस्थं तैलघृतादेयं तस्मिंस्तप्ते प्रदापयेत् ॥ २३ ॥
त्वक्पत्रधान्यकं व्योषं जीरकैलाह्वयानलम् ।
ग्रन्थिकं चव्यमातङ्गपिप्पलीशृङ्गवेरकम् ॥ २४ ॥
शृङ्गाटकं कसेरुं च पेलवं तालमस्तकम् ।
चूर्णीकृत्य पलांशेन गुडस्य तुलया पचेत् ॥ २५ ॥
शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ।
कफपित्तानिलहरं मन्दाग्नीनां च दीपनम् ॥ २६ ॥
कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम् ।
प्रमदासु प्रसक्तानां ये चान्ये क्षीणरेतसः ॥ २७ ॥
क्षयेणैव गृहीतानां परमुक्तं भिषग्जितम् ।
कासं श्वासं ज्वरं हिक्कां हन्ति छर्दिमरोचकम् ॥ २८ ॥
गुडकूष्माण्डकं ख्यातं कृष्णात्रेयेण पूजितम् ।
शोषे एलाद्यवलेहः ।
एलाजमोदामलकामयाक्षगायत्र्यरिष्टासनसारसालान् ।
विडङ्गभल्लातकचित्रकोग्रकट्त्रिकाम्भोदसुराष्ट्राजांश्च ॥ २९ ॥
पक्त्वा जलेनैव पचेद्धि सर्पिस्तस्मिन्सुसिद्धे त्ववतारिते च ।
त्रिंशत्पलं चात्र सितोपलाया दद्यात्तुगायाश्च पलानि षड् ॥३०॥
१४२ आयुर्वेदौयग्रन्थमाला । [ लेहाधिकारः
प्रस्थं घृतस्य द्विगुणं च कुर्यात्क्षौद्रं ततो मन्थहतं निदध्यात् ।
पलं पलं प्रातरतः प्रलिह्यात्पश्चात्पिबेत्क्षीरमतन्द्रितश्च ॥ ३१ ॥
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथ यशस्यम् ।
यक्ष्माणमाशु व्यपहन्ति चैव पाण्ड्वामयञ्च क्षतमूर्ध्वरक्तम्॥
श्वासं च हन्ति स्वरभेदकासं हृद्दाहगुल्मग्रहणीगदांश्च
न चात्र किंचित्परिवर्जनीयं रसायनं चैतदुपास्यमानम् ॥३२
अर्शसि भल्लातकावलेहः ।
भल्लातकसहस्रं तु द्रोणेऽपां विधिवत्पचेत् ।
ततः पादावशिष्टं तु पुनरग्नावधिश्रयेत् ॥ ३४ ॥
गुडस्य तु तुलां दत्त्वा तत्र भूयो विपाचयेत् ।
त्र्यूषणं त्रिफला दन्ती चित्रको हस्तिपिप्पली ॥ ३५ ॥
चव्यञ्चामेोदापाठाश्च पिप्पलीमूलमेव च ।
एषां द्विपलिकान्भागान् सूक्ष्मचूर्णानि कारयेत् ॥३६॥
लेहीभूते ततः पश्चात्प्रक्षिपेन्मतिमान्भिषक् ।
शीतीभूते ततः पश्चाच्चातुर्जातपलं क्षिपेत् ॥ ३७ ॥
उदुम्बरसमां मात्रां खादयेच्च यथाबलम् ।
अर्शांसि ग्रहणीदोषं प्लीहानं विषमज्वरम् ॥ ३८ ॥
दुष्टगुल्मोदरं हन्ति मन्दाग्नित्वमरोचकम् ।
कासश्वासहरो हृद्यो भल्लातकगुडः स्मृतः ॥ ३९ ॥
ग्रहण्यां कल्याणको गुडावलेहः ।
प्रस्थत्रये ह्याममलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य ।
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषेभकृष्णाहपुषाजमोदैः ॥ ४० ॥
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पलप्रमाणैः ।
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टौ ह्यष्टौ च तैलस्य पचेद्यथावत् ४१
तं भक्षयेदक्षकफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम् ।
अनेन सर्वे ग्रहणीविकाराः सश्रासकासस्वरभेददोषाः ॥ ४२॥
५.] गदनिग्रहः । १४३
पाण्डूदरं गुल्मभगन्दरात्तिमेदःसमुत्थं च विकारजातम् ।
शाम्यन्ति, चायं चिरमन्दवह्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ४३
स्त्रीणां च वन्ध्यामयनाशनः स्यात्कल्याणको नाम गुडः प्रतीतः।
भृष्ट्वैषत्रिवृतां तैले त्रिसुगन्धि पिचुं पिचुम् ।
सिद्धे विधेयमत्रैव गुडे कल्याणपूर्वके ॥ ४४ ॥
कार्श्ये पञ्चजीरकावलेहः ।
कुस्तुम्बर्यो यवानी समरिचमगधा दीप्यकाजाजिचव्याः
पथ्या श्यामा च मूलं कृमिहरहपुषे कारवी शीतकञ्च ।
शुण्ठीवन्दाकनागोद्भवशतकुसुमा मेथिका चाक्षभागाः
कंसेल्लाङ्गागयुग्मं सकलगणमिदं चूर्णयेदौषधानाम् ॥४५॥
सर्पिःप्रस्थं प्रदद्याद्गुडपलदशभिः साधयेन्मन्दवह्नौ
क्षीरप्रस्थैश्चतुर्भिः स च सकलगदान्हन्ति युक्तस्त्रिगन्धैः ।
लेहोऽयं चानिलघ्नः कृशबलजननः शोधनश्चार्त्तवस्य
या स्त्री गर्भं न धत्ते जनयति तनयं दीर्घजीवानुयुक्तम् ४६
योनिरोगे पञ्चजीरकावलेहः ।
जीरकं हपुषा धान्यं यवानी बदराणि च ।
शताह्वां मेथिका हिङ्गुपत्रिका कामवृक्षकम् ॥ ४७ ॥
पिप्पलीपिप्पलीमूलमजमोदा च वाष्पिका ।
चित्रकं च पलांशानि तथा चैव चतुःपलम् ॥ ४८ ॥
कसेरुकं नागरं च कृष्णा जीरकमेव च ।
गुडस्यार्धशतं दद्याद्धृतप्रस्थं तथैव च ॥ ४९ ॥
क्षीरद्विप्रस्थसंयुक्तं शनैर्मृद्वग्निना पचेत् ।
पञ्चजीरक इत्येष सूतिकानां प्रशस्यते ॥ ५० ॥
गर्भार्थिनीनां नारीणां प्रदुष्टे चैव मारुते ।
विंशतिर्व्यापदो योनेः कासं श्वासं स्वरक्षयम् ॥ ५१ ॥
हलीमकं पाण्डुरोगं दौर्गन्ध्यं कृच्छ्रमूत्रताम् ।
हन्ति पीनोन्नतकुचाः पद्मपत्रायतेक्षणाः ॥ ५२ ॥
१४४ आयुर्वेदीयग्रन्थमाला । [ लेहाधिकारः
उपयोगात्स्त्रियो नित्यमलक्ष्मीकलिवर्जिताः ।
श्रीबाहुशालो गुडावलेहः ।
त्रिवृत्तेजोवतीदन्तीश्वदंष्ट्राचित्रकं शठी ।
गवाक्षीमुस्तबिल्वाह्वं विडङ्गानि हरीतकी ॥ ५३ ॥
पलानि षड् वृद्धदारोः षोडशैव तु सूरणात् ।
जलद्रोणद्वये क्वाथ्य चतुर्थांगावशेषितम् ॥ ५४ ॥
पूतं रसं तु तं दत्त्वा क्वाथेभ्यस्त्रिगुणो गुडः ।
लेहं पचेद्धि तं यावद्दवींलेपं व्रजेद्बुधः ॥ ५५ ॥
अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ।
त्रिवृत्तेजोवतीकट्वीचित्रकं द्विपलांशकम् ॥ ५६ ॥
एलात्वक्पत्रनागाह्वं षट्पलं परिकीर्तितम् ।
द्वात्रिंशच्च पलानीह चूर्णीकृत्व प्रदापयेत् ॥ ५७ ॥
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीरं रसायनम् ।
पञ्चगुल्मान् प्रमेहांश्च पाण्डुरोगं हलीमकम् ॥ ५८ ॥
जयेदर्शांसि सर्वाणि तथा सर्वोदराणि च ।
अयं सर्वान् गदांश्चैव कल्याणो लेह उत्तमः ॥ ५९ ॥
दुर्नामान्तकरश्चैव मेधाजनन उत्तमः ।
गुडः श्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्तितः ॥ ६० ॥
सर्वरोगं निहन्त्याशु वृक्षमिन्द्राशनिर्यथा ।
श्वासकासे बिभीतकावलेहः ।
प्रस्थं बिभीतकानामनस्थां साधयेद्गवां मूत्रे ।
लेहवदवलेहो मधुसहितः श्वासकासहरः ॥ ६१ ॥
कासेऽगस्त्यहरीतक्यवलेहः ।
द्विपञ्चमूलेभकणात्मगुप्ताभार्ङ्गीशठीपुष्करमूलविश्वाः ।
पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यापामार्गबलायवासाः ॥६२॥
द्विपालिकांस्तच्च यवाढकं च हरीतकीनां च शतं गुरूणाम् ।
द्रोणे जलस्याढकसंयुते तु क्वाथीकृते पूतचतुर्थभागे ॥ ६३ ॥
५.] गदनिग्रहः । १४५
पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक्सतैलात्कुडवं घृताच्च ।
चूर्णं च तावन्मगधोद्भवाना मनेकरोगौघमथाशु हन्यात् ॥६४॥
तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वर भेदकासान् ।
पाण्ड्वामयश्वासशिरोऽक्षिरोगान्हृद्रोगहिक्काविषमज्वरांश्च ॥ ६५ ॥
मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ।
कासे द्वितीयोऽगस्त्यहरीतक्यवलेहः ।
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ ६६ ॥
भार्गीं पुष्करमूलं च द्विपलांशान् यवाढकम् ।
हरीतकीशतं चैकं जले पञ्चाढके पचेत् ॥ ६७ ॥
यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् ।
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥ ६८ ॥
तैलाच्च पिप्पलीचूर्णात्सिद्धे शीते च माक्षिकात् ।
कुडवं, पलमानं च चतुर्जातं समावपेत् ॥ ६९ ॥
लेिह्याद्वे चाभये नित्यं ततः खादेद्रसायनात् ।
वलीं च पलितं हन्याद्वर्णाग्निबलवर्धनम् ॥ ७० ॥
पञ्च कासान् क्षयं श्वासं सहिध्मं विषमज्वरम् ।
गुल्ममेहग्रहण्यर्शोहृद्रोगारुचिपीनसान् ॥ ७१ ॥
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् ।
यथोद्दिष्टान् गुणं कुर्वन्निचं चेत्कुरुते यदि ॥ ७२ ॥
तदा सायं गुडो योज्य एष एवाल्पमात्रया ।
पादशेषे कषायेऽत्र स्विन्ना विद्याद्धरीतकीः ॥ ७३ ॥
भर्जितास्तिलतैलस्य कुडवे गोघृतस्य वा ।
पचेत्ताम्रमये पात्रे आपाकाल्लोहितोदयात् ॥ ७४ ॥
सङ्ख्या फलानां शतश्चातुर्जातं पृथक्पलम् ।
बद्ध्वा पोटलके पथ्या यवान् स्विन्नांश्च कारयेत् ॥ ७५ ॥
१३
१४६ आयुर्वेदीयग्रन्थमाला । [ लेहाधिकारः
वासिष्ठहरीतक्यवलेहः ।
यवाढकं सप्त जलाढकानि हरीतकीनां च शतं गुरूणाम् ।
दन्त्यश्वगन्धाचिरिबिल्वमूलं भल्लातकांश्चापि च पक्वबिल्वम् ७६
उभे हरिद्रे गजपिप्पली च मूलानि पत्राणि च चित्रकस्य ।
पिप्पल्यपामार्गमथात्मगुप्ता सर्वाणि कुर्यात्पलसंमितानि ॥७७॥
लौहे समादाय पचेत्कटाहे द्विपञ्चमूलं च यवप्रमाणम् ।
मृद्वग्निसिद्धांश्च यवान्विदित्वा शनैः प्रयत्नादवतारयेच्च ॥ ७८॥
निःस्त्राव्य तेनैव जलेन सम्यक् सार्धं पुराणस्य शतं गुडस्य ।
भूयो गुरूणामथ तत्र दद्याद्धरीतकीनां च सहस्रमन्यत् ॥७९॥
प्रस्थं पुराणस्य घृतस्य चैव नवस्य तैलस्य च तावदेव ।
शीते मधु स्नेहसमं च दद्यात्पलानि चाष्टावथ पिप्पलीनाम्॥८०॥
पथ्ये सलेहे त्वथ भक्ष्यमाणे सर्वा रुजो नाशयतो हि मासात् ।
मासद्वयेनैव च नेत्ररोगान्निहन्ति गार्ध्रं लभते च चक्षुः॥ ८१ ॥
मासैस्त्रिभिर्नाशयतो हि कुष्ठं विशीर्णतां चाङ्गुलिनासिकानाम् ।
भगन्दरश्लीपदवातगुल्मानर्शांस्यथो मासचतुष्टयेन ॥ ८२ ॥
केशान्घनान्कुञ्चितदीर्घनीलान् पञ्चभिश्चैव करोति मासैः ।
सहस्रसङ्ख्यां च तथोपयुज्य बलं लभेदुत्तमकुञ्जरस्य ॥ ८३ ॥
स्वरं मयूरस्य जवं हयस्य शरच्छशाङ्कस्य तथैव कान्तिम् ।
सौभाग्यमेधास्मृतिसत्त्वतेजःशोभान्वितः पद्मसमानगन्धः ८४
जीवेत्समानां च सहस्रमन्यत्प्रयोगकालादिति सिद्धवाक्यम् ।
न चान्नपानेऽध्वनि मैथुने वा नरेण किंचित्परिहार्यमस्मिन् ॥
समीक्ष्य कल्पं तु रसायनानां चकार योगं भगवान्वसिष्ठः॥८५॥
वासाहरीतक्यवलेहः ।
तुलामादाय वासायाः संक्वाथ्याष्टगुणे जले ।
तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ८६ ॥
१. प्रत्यहं हरीतकीद्वयं लेहं च पलप्रमाणं भक्षयेदित्यर्थः ।
गदनिग्रहः । १४७
गुरूणामभयानां तु खण्डाच्छुद्धात्तथा शतम् ।
शीतीभूते निदध्यात्तु क्षौद्रस्याष्टौ पलानि च ॥ ८७ ॥
वंशोद्भवायाश्चत्वारि पिप्पल्यर्धपलं तथा ।
चातुर्जातपलं चैव सर्वदा हन्ति सेवितः ॥ ८८ ॥
विद्रधिं जठरं गुल्मं रक्तपित्तं सुदारुणम् ।
श्वासं क्षयं तथा कासं तृष्णाहृद्रोगपीनसान् ॥ ८९ ॥
पलार्धं भक्षयेदस्य यथेष्टं चात्र भोजनम् ।
गुल्मे दन्तीहरीतक्यवलेहः ।
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः ॥ ९० ॥
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च ।
अष्टभागावशेषं च रसं पूतमधिश्रयेत् ॥ ९१ ॥
दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः ।
तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम् ॥ ९२ ॥
चूर्णितं चार्थपलिकं पिप्पलीविश्वभेषजम् ।
लेहवत्साधयेत्तं च शीते तैलसमं मधु ॥ ९३ ॥
क्षिपेच्चूर्णं पलं चैकं त्वगेलापत्रकेसरात् ।
ततो लेहपलं लिह्याज्जग्ध्वा चैकां हरीतकीम् ॥ ९४ ॥
सुखं विरिच्यते स्निग्धो दोषान् प्रशमयत्यलम् ।
गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम् ॥ ९५ ॥
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् ।
कुष्ठं प्लीहानमानाहं तथा हन्त्युपसेवितः ॥ ९६ ॥
निरत्ययक्रमश्च स्याद्भोज्यो मांसरसौदनः ।
कासे व्याघ्रीहरीतक्यवलेहः ।
व्याघ्रीशतं हरीतक्यो दत्त्वा च शतसंमिताः ॥ ९७ ॥
जले चतुर्गुणे पक्त्वा चतुर्थांशावशेषिते ।
आलोप्यार्धतुलां तस्मिन् गुडस्य त्वभयाश्च ताः ॥९८॥
१४८ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः
प्रक्षिप्यास्मिन् घनीभूते त्वगेलापत्रकेसरम् ।
मगधोषणसंयुक्तं पालिकं, चार्धकार्षिकम् ॥ ९९ ॥
यवक्षारं च संचूर्ण्य तस्मिंस्तत्प्रक्षिपेत्पुनः ।
मधुनः पलषट्केन युक्तः कासामयापहः ॥ १०० ॥
स्वरवर्णवहः पुंसामग्नेर्दीप्तिकरः परम् ।
सर्वकासे द्वितीयो व्याघ्रीहरीतक्यवलेहः ।
समूलपुष्पच्छदकण्टकार्यास्तुलां जलद्रोणपरिप्लुतां च ।
हरीतकीनां च शतं विदध्यादथात्र पक्त्वा चरणावशेषम् १०१
गुडस्य दत्त्वा शतमेतदग्नौ विपक्वमुत्तार्य ततः सुशीते ।
कटुत्रिकं च त्रिपलप्रमाणं पलानि षट् पुष्परसस्य तत्र॥१०२॥
क्षिपेच्चतुर्जातपलं यथाग्नि प्रयुज्यमानो विधिनाऽवलेहः ।
वातात्मकं पित्तकफोद्भवं च द्विदोषजं कासमपि त्रिदोषम् १०३
क्षतोद्भवं च क्षयजं च हन्यात्सपीनसश्वासमुरःक्षतं च ।
यक्ष्माणमेकादशरूपमुग्रं भृगूपदिष्टं हि रसायनं स्यात् ॥१०४॥
प्लीहोदरे रोहीतकावलेहः ।
पक्त्वा शतं रोहितवल्कलानां पथ्याशतं माहिषमूत्रमग्नौ ।
पादावशेषं तु सपञ्चकोलैरुद्धृत्य मूत्रं सह दन्तिनीभिः १०५
भूयः पचेद्यावदुपैति लेहः पथ्याद्वयं नित्यमथोपयुज्य ।
पश्चाल्लिहेल्लेहहितं हिताशी प्लीहोदरं हन्ति यकृच्च शीघ्रम् १०६
शोफे पुनर्नवहरीतक्यवलेहः ।
पुनर्नवायाः प्रस्थं तु चित्रकस्य तथैव च ।
पाठानागरदन्तीनां भागान्दशपलोन्मितान् ॥ १०७ ॥
दशमूलतुलार्धं तु पथ्यानां शतमेव च ।
चतुर्गुणेऽम्भसः पक्त्वा पूतं पादावशेषितम् ॥ १०८ ॥
गुडस्यैकां तुलां क्षित्वा लेहवत्साधु साधयेत् ।
क्षिपेच्चूर्णीकृतं तत्र त्रिजातं त्रिकटुं तथा ॥ १०९ ॥
५.] गदनिग्रहः । १४९
नागकेसरसंयुक्तं पलांशमुपकल्पितम् ।
शीतीभूते ततो दद्यात्कुडवं माक्षिकस्य च ॥ ११० ॥
अतो लेहपलं लीढ्वा पथ्यां चैकां च भोजयेत् ।
शोफगुल्मोदरार्शोघ्नी पुनर्नवहरीतकी ॥ १११ ॥
शोफे कंसहरीतक्यवलेहः ।
द्विपञ्चमूलस्य तुला कषाये कंसोऽभयानां च शतं गुडाच्च ।
लेहे सुसिद्धे च विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुपस्थिते च ॥
प्रस्थार्धमात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात् ।
एकां ततः प्राश्य तथा च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्॥
कासज्वरारोचकमेहहिक्काप्लीहत्रिदोषोदरपाण्डुरोगान् ।
कार्श्याम्लवातासृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ११४॥
शोफे हरीतक्यवलेहः ।
दशमूलकषायस्य कंसे पथ्याशतं पचेत् ।
दत्त्वा गुडतुलां तस्मिँल्लेहे दद्यात्सुचूर्णितम् ॥ ११५ ॥
त्रिजातकं त्रिकटुकं किंचिच्च यवशूकजम् ।
प्रस्थार्धं च हिमे क्षौद्रात्स निहन्त्युपयोजितः ॥ ११६ ॥
प्रवृद्धशोफज्वरमेहगुल्मकार्श्याम्लवाताम्लकरक्तपित्तम् ।
वैवर्ण्यमूत्रानलशुक्रदोषश्वासारुचिप्लीहगरोदरांश्च ॥ ११७ ॥
अर्शःपीनसयोश्चित्रकहरीतक्यवलेहः ।
चित्रककषायपलशतममृताधात्रीरसं च तुल्यांशम् ।
संमिश्र्य गुडशतं च हि द्विपञ्चमूलीकषायेण ॥ ११८ ॥
तत्तुल्येन हरीतक्याढकमेकं विपाच्य गुडपाकम् ।
अर्धप्रस्थं मधुनस्तस्मिन्दत्त्वा ततोऽन्येद्युः ॥ ११९ ॥
द्वे द्वे पले निदध्यादेलात्वक्पत्रत्रिकटुकानाम् ।
सयवक्षारार्धपलं यथाग्नि पश्चात्प्रयुञ्जीत ॥ १२० ॥
एतद्रसायनोत्तममश्विभ्यामश्विद्वये प्रोक्तम् ।
उपयुक्तवतां पुंसामपि काष्ठतृणानि जीर्यन्ति ॥ १२१ ॥
१५० आयुर्वैदीयग्रन्थमाला । [ लेहाधिका
अर्शःश्वासभगन्दरकासकृमिशोफकुष्ठगुल्मांश्च ।
मासद्वयोपयोगादेद्विनाशयत्यग्निबृद्धिमपि ॥ १२२ ॥
रोगानीकसमेतं विशेषतो हन्ति राजयक्ष्माणम् ।
अजितमपि भेषजशतैः पीनसरोगं त्र्यहाज्जयति ॥ १२३ ॥
मन्दाग्नौ द्वितीयश्चित्रकहरीतक्यवलेहः ।
चित्रकपलशतमभिनवमाहृत्य कषायमेव कुर्वीत ।
धात्रीरसस्य पलशतममृतायाः स्वरसमेव तत्तुल्यम् ॥१२४॥
दशमूलस्य पलशतमष्टाविंशत्तथा जलद्रोणे ।
अभयाढकं च भिषजा साध्यं पूते कषायेऽस्मिन् ॥१२५॥
शुद्धगुडस्य शतं स्याद्रसेन चालोड्य सपदि तत्रैव ।
अभयाश्च ताः समस्ता मृदुना ज्वलनेन मार्दवं नेयाः१२६
मधुनः पलानि षोडश तस्मिन्देयानि शीतलीभूते ।
त्वक्पत्रमरिचकेसरमागधिकैलापले द्वे स्युः ॥ १२७ ॥
यवक्षारपलैकमेतत्प्राश्याग्निमात्रया विद्वान् ।
जरयति तृणकाष्ठान्यपि त्रिसप्तदिवसोपयोगेन ॥ १२८ ॥
कासश्वासभगन्दरकुष्ठान्यष्टादशोदराण्राष्टौ ।
मासोपयोगादेतत्क्षतक्षयं हन्ति राजयक्ष्माणम् ॥ १२९ ॥
षण्ढोऽप्यषण्ढतां च याति वर्षमात्रोपयोगेन ।
सुरलोकरोगनिचयप्रशमनकरणैकलक्ष्यमाहात्म्यौ ॥१३०॥
दिव्यं रसायनमिदं कृतवन्तावश्विनौ देवौ ।
हलीमके आमलकावलेहः ।
रसमामलकानां तु सुशुद्धं यन्त्रपीडितम् ।
द्रोणं पचेत्तु मृद्वग्नौ तत्र चेमानि दापयेत् ॥ १३१ ॥
चूर्णितं पिप्पलीप्रस्थं मधुकद्विपलं तथा ।
प्रस्थं गोस्तनिकायाश्च द्राक्षायाः कल्कपेषितम् ॥१३२॥
शृङ्गवेरपले द्वे च तुगाक्षीर्याः पलद्वयम् ।
तुलार्धं शर्करायाश्च तद्घनीभूतमुद्धरेत् ॥ १३३ ॥
५.] गदनिग्रहः । १५१
मधुप्रस्थसमायुक्तं लेहयेत्पलसंमितम् ।
हलीमकं कामलां च पाण्डुत्वं चापकर्षति ॥ १३४ ॥
कामलायां विडङ्गाद्यवलेहः ।
विडङ्गतिकफलामुस्तमधुकं कटुरोहिणी ।
अयोरजो हरिद्रे च चित्रकं गुडशर्करा ॥ १३५ ॥
खदिरस्य कषायेण चूर्णान्येतानि साधयेत् ।
मृद्वग्निसिद्धं तं लेहं लेहयेन्मधुसर्पिषा ॥ १३६ ॥
स लेहः कामलां हन्यादपि संवत्सरोत्थिताम् ।
पाण्डुरोगं च नुदति श्वयथुं चापि पैत्तिकम् ॥ १३७ ॥
श्वासे हरीतक्यवलेहः ।
भार्गीजटापलशतं सलिलार्मणाभ्यां
युक्तं च मूलतुलया सहितं विपाच्य ।
पादस्थिते तु शतमत्र हरीतकीनां
पक्तव्यमुज्ज्वलगुडस्य शतेन सार्धम् ॥ १३८ ॥
उत्तार्य तत्र शिशिरे मधुनः पलानि
चत्वारि च त्रिगुणितानि पलत्रयं च ।
व्योषं त्रुटित्वगिभकेसरपत्रकाणा-
मेषां पलं खलु निधेयमथोपयुज्य ॥ १३९ ॥
श्वासं सकासमपि शोषमथातिहिक्का-
मेकाहिकं ज्वरमपीनसमुत्कटं च ।
हन्याद्रसायनमिदं हि पुरन्दरस्य
प्रोक्तं सहस्रकरपुत्रभिषग्वराभ्याम् ॥ १४० ॥
अर्शसि कुटजावलेहः ।
कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् ।
चतुर्भागावशेषं तु कषायमुपकल्पयेत् ॥ १४१ ॥
१. मूलतुलयेति दशमूलतुल्येत्यर्थः ।