सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

(त्च) or त्चि, or त्ति?
Look at: म - यै - त् - [?]
Wait, look at line 22:
मयैतच्चिरजीवितायाः
Let's look at the letter between 'यै' and 'र':
It is: 'त' then 'चि' with a hook below?
Wait, it's त्चि: "मयैत्चि..." no, "मयैतच्चिरजीवितायाः". Wait, the first letter after यै is 'त'. Then the next is 'चि' with a bar below? No, it's 'च्चि' where one 'च' is above the other? No, it's 'त्' and 'च' = 'त्च'? No, look at the top of the next letter: it has 'ि' (i-matra). The i-matra goes over... wait, it goes over BOTH!
Ah, the i-matra loop goes over two consonants!
First consonant is 'त' (or 'च'?).
Second consonant is 'चि'?
Wait, look at it: it looks like 'त्चि' or 'च्चि':
Wait, compare 'त्च' with 'च्च':
In 'तत्त्व' (line 15), 'त्त्व' has 'त्' + 'त'.
Here, look at: म यै त [something] चि र...
Wait, let me look really closely at:

'!
Because in Daśarūpaka:
"श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ॥"
The printer accidentally repeated "खेदो" instead of "स्वेदो"!
Let's look at the image: it literally printed खेदोऽस्मिन्मर्दनादयः!
Yes, look: खेदोऽध्वरत्यादेः खेदोऽस्मिन्मर्दनादयः ।
Both have the identical 'खेदो'! That is a clear misprint in the book, and as a line-by-line transcription of the page, we transcribe what's printed: खेदोऽस्मिन्मर्दनादयः ।

Let's check line 28:
अध्वतो यथोत्तररामचरिते ( १।२४ )—
Line 29:
'अलसलुलितमुग्धान्यध्वसंजातखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
Wait, look at "दत्तसंवाहनानि":
In line 29:
"दत्तसंवाहनानि" or "दत्तसंववाहनानि"?
Look at the letters:
द त्त सं व वा ह ना नि
Wait! Look at line 29:
द (da) त्त (tta) सं (saṃ) then 'व' then 'वा' (vā) ह (ha)

श्लो० १०-१४ ] अवलोकसमेतम् । ८१
अथ धृतिः—
संतोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत् ॥ १२ ॥
ज्ञानाद्यथा भर्तृहरिशतके ( वैराग्य० श्लो० ५३ )
‘वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥’
शक्तितो यथा रत्नावल्याम् ( १।९ )—
‘राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः
सम्यक्पालनपालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं
कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥’
इत्याद्यूह्यम् ।
अथ जडता—
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १३ ॥
इष्टदर्शनाद्यथा ( कुमार० ८।५ )—
‘एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥’
अनिष्टश्रवणाद्यथोदात्तराघवे—‘राक्षसः—
तावन्तस्ते महात्मानो निहताः केन राक्षसाः ।
येषां नायकतां यातास्त्रिशिरःखरदूषणाः ॥
द्वितीयः—गृहीतधनुषा रामहतकेन । प्रथमः—किमेकाकिनैव ।
द्वितीयः—अदृष्ट्वा कः प्रत्येति । पश्य तावतोऽस्मद्बलस्य,—
सद्यश्छिन्नशिरःश्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः केवलं जातास्तालोत्ताला रणाङ्गणे ॥
प्रथमः—सखे, यद्येवं तदाहमेवंविधः किं करवाणि ।’ इति ।
अथ हर्षः—
प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः ।
प्रियागमनपुत्रजननोत्सवादिविभावैश्चेतःप्रसादः=हर्षः । तत्र चाश्रुस्वेदगद्गदाद-
योऽनुभावाः । यथा ( अमरु० श्लो० ७७ )—
‘आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पकलिलामासज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् खेनाञ्चलेनादरा-
दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥’
निर्वेदवदितरदुन्नेयम् ।

८२ दशरूपकं [ प्रकाशः ४
अथ दैन्यम्—
दौर्गत्याद्यैरनौजस्यं दैन्यं काष्र्ण्यामृजादिमत् ॥ १४ ॥
दारिद्र्यन्यक्कारादिविभावैरनौजस्कता चेतसः=दैन्यम्। तत्र च कृष्णतामलि-
नवसनदर्शनादयोऽनुभावाः । यथा (भोजप्र० श्लो० २५५)—
'वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्संचिततैलविन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भमरालसां सुतवधूं श्वश्रूश्चिरं रोदिति ॥'
शेषं पूर्ववत् ।
अथौग्र्यम्—
दुष्टेऽपराधदौर्मुख्यैक्रौर्यैश्चण्डत्वमुग्रता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १५ ॥
यथा वीरचरिते ( २।४८)—'जामदग्न्यः—
उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा-
दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् ।
पित्र्यं तद्रक्तपूर्णह्रदहवनमहानन्दमन्दायमान-
क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥'
अथ चिन्ता—
ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् ।
यथा—
'पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् ।
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते ॥'
यथा वा—
'अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्वसिता ।
ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥'
अथ त्रासः—
गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः ॥ १६ ॥
यथा माघे ( ८।२४)—
'त्रस्यन्ती चलशफरीविघट्टितोर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥'
१ 'चौर्यै०' इति पाठः.

श्लो० १४-१८] अवलोकसमेतम् । ८३
अथासूया-
परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा ।
दोषोक्त्यवज्ञे भ्रुकुटिमन्युक्रोधेङ्गितानि च ॥ १७ ॥
गर्वे यथा वीरचरिते (२।९)—
'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्षं च परस्य मानयशसोर्विध्वंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिर्दशमुखो दृष्टः कथं मृष्यते ॥'
दौर्जन्यायथा—
'यदि परगुणा न क्षम्यन्ते यतस्व गुणार्जने
नहि परयशोनिन्दाव्याजैरल परिमार्जितुम् ।
विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो
दिनकरकरान्पाणिच्छत्रैर्नुदन् श्रममेष्यसि ॥'
मन्युजा यथामरुशतके (श्लो० ५१-५२)—
'पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रोषप्रणयरभसाद्गद्गदगिरा ।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥'
अथामर्षः-
अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १८ ॥
यथा वीरचरिते (३।८)—
'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेवं दूषयिष्यामि शस्त्रग्रहणमहाव्रतम् ॥'
यथा वा वेणीसंहारे (१।१२)—
'युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥'

८४ दशरूपकं [ प्रकाशः ४

अथ गर्वः—
गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।
कर्माण्यधर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥ १९ ॥
यथा वीरचरिते ( २।२७ )—
‘मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे क्षत्रियाऽसि ।
तपसि विततकीर्तेर्दपकण्डूलदोष्र्णः परिचरणसमर्थो राघवः क्षत्रियोऽहम् ॥’
यथा वा तत्रैव—
‘ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥’ ( वीर० २।१० )
अथ स्मृतिः—
सदृशज्ञानचिन्ताद्यैः संस्कारात्स्मृतिरत्र च ।
ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ॥ २० ॥
यथा—
‘मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण-
मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥’
यथा वा मालतीमाधवे—‘माधवः—मम हि प्राक्तनोपलम्भसंभाविता-
त्मजन्मनः संस्कारस्यानवरतप्रबोधात्प्रतायमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृ-
प्रवाहः प्रियतमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमिव करोति वृत्तिसारूप्यत-
श्चैतन्यम् ।
‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रसारघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि-
श्चिन्तासंततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ॥’ ( मालती० ५।१० )
अथ मरणम्—
मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।
यथा—
‘संप्राप्तेऽवधिवासरे क्षणमनु स्वद्वर्त्मवातायनं
वारंवारमुपेत्य निष्क्रियतया निश्चिल्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररीं साश्रं सखीभ्यः कृशो-
र्मध्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥’
इत्यादिवच्छृङ्गारस्यालम्बनत्वेन मरणे व्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र
कामचारः । यथा वीरचरिते—‘पश्यन्तु भवन्तस्ताडकाम्—...

श्लो० १९–२४ ] अवलोकसमेतम् । ८५
'हृन्मर्मभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गभङ्गा ।
नासाकुटीरकुहरद्वयतुल्यनिर्यदुद्बुद्बुद्ध्वनदसृक्प्रसरा मृतेव ॥'
( वीर० १।३९ )
अथ मदः—
हर्षोत्कर्षो मदः पानात्स्खलदङ्गवचोगतिः ॥ २१ ॥
निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।
यथा माघे ( १०।१३ )—
'हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥'
इत्यादि ।
अथ सुप्तम्—
सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रियापरम् ॥ २२ ॥
यथा—
लघूनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुपुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्मावद्धरेखस्तुषारः ॥'
अथ निद्रा—
मनःसंमीलनं निद्रा चिन्तालस्यक्लमादिभिः ।
तत्र जृम्भाङ्गभङ्गाक्षीमीलनोच्छ्वसतादयः ॥ २३ ॥
यथा ( विल्हणः )—
'निद्रार्धमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि ।
अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥'
यथा च माघे ( ११।४ )—
'प्रहरकमपनीय खं निदिद्रासतोच्चैः प्रतिपदमपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णं निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥'
अथ विबोधः—
विबोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ।
यथा माघे ( ११।१३ )—
'चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥'
अथ व्रीडा—
दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तदुच्यतेत् ।
साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥ २४ ॥
यथामरुशतके ( श्लो० ४१ )—
'पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
१ 'उच्छ्वासनादयः' इति पाठः.
द० ८

८६ दशरूपकं [ प्रकाशः ४
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यल्यन्तः प्रथमपरिहासे नववधूः ॥'
अथापस्मारः-
आवेशो ग्रहदुःखायैरपस्मारो यथाविधिः ।
भूपात कम्पप्रस्वेदलालाफेनोद्गमादयः ॥ २५ ॥
यथा माघे (३।७२)-
'आश्लिष्टभूमिं रसतारमुच्चैर्लोलद्धुजाकारवृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'
अथ मोहः-
मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः ।
तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ २६ ॥
यथा कुमारसंभवे (३।७३)-
'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥'
यथा चोत्तररामचरिते (१।३५)-
'विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥'
अथ मतिः-
भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।
यथा किराते (२।३०)-
'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥'
यथा च-
'न पण्डिताः साहसिक भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥'
अथालस्यम्-
आलस्यं श्रमगर्भादेर्जह्ययजृम्भासितादिमत् ॥ २७ ॥
यथा ममैव-
'चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालिनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥'
अथावेगः-
आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो
वातात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
१ 'मायाभियोगो' इति पाठः.

श्लो० २५–२८ ] अवलोकसमेतम् । ८७
उत्पातात्त्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा
वह्नेर्धूमाकुलास्यः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८॥
अभिसरः=राजविद्रवादिः, तद्धेतुरावेगः । यथा ममैव—
‘आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे
खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम् ।
संरम्भोन्निद्रितानां क्षितिमृति गहनेऽन्योन्यमेवं प्रतीच्छन्
वादः क्षप्राभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥’
इत्यादि ।
‘तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विश्वगुद्धटाः सुभटोक्तयः ॥’
यथा वा—
‘प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया-
मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी
सद्यो मुक्तसमाधयो निजवृसीष्वेवोच्चपादं स्थिताः ॥’
वातावेगो यथा—‘वाताहतं वसनमाकुलमुत्तरीयम्’ इत्यादि ।
वर्षजो यथा—
‘देवे वर्षत्यशनपवनव्यापृता वह्निहेतो-
र्गेहाद्गेहं फलकनिचितैः सेतुभिः पङ्कसीताः ।
नीध्रप्रान्तप्रविरलजलान्पाणिभिस्ताडयित्वा
शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥’
उत्पातजो यथा—
‘पौलस्त्यपीनभुजसंपदुदस्यमानकैलाससंभ्रमविलोळदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निहुतकोपचिह्नमलिङ्गितोत्पुलकमासितमिन्दुमौलेः ॥’
अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तथथोदात्तराघवे—‘चित्रमयः—
( ससंभ्रमम् ।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् । (इत्याकुलतां
नाटयति ।)’ इत्यादि । पुनः ‘चित्रमयः—
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः—
वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसा-
त्र्रस्तश्चैष मुनिर्बिरौति मनसश्चास्त्येव मे संभ्रमः ।
माहासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते
न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥’
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।

८८ दशरूपकं [ प्रकाशः ४
इष्टप्राप्तिकृतो यथात्रैव—'(प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः ।) वानरः—
मेहराज, एदं खु पवणगंदणागमणेण पहरिस-' इत्यादि 'देवैस्स हिअआणंद-
जणणं विअलिदं मधुवणं ।' इत्यन्तम् ।
यथा वा वीरचरिते ( १।५५ )—
'एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥'
वह्निजो यथामरुशतके ( श्लो० २ )—
'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्त्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥'
यथा वा रत्नावल्याम् ( ४।१६ )—
विरम विरम वहे मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं लं करोषि ॥'
करिजो यथा रघुवंशे ( ५।४९ )—
'स च्छिन्नबन्धद्रुतयुग्मशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥'
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रशूकरवानरादिप्रभवा आवेग
व्याख्याताः ।
अथ वितर्कः—
तर्को विचारः संदेहाद्भूशिरोऽङ्गुलिनर्तकः ।
यथा—
'किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं
सद्यः स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा ।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥'
अथवा,—
'कः समुचिताभिषेकादार्यं प्रच्यवयेद्गुणज्येष्ठम् ।
मन्ये ममैष पुण्यैः सेवावसरः कृतो विधिना ॥'
अथावहित्थम्—
लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया ।
१ 'महाराज, एतत्खलु पवननन्दनागमनेन प्रहर्ष—' इति च्छाया. २ 'देवस्य
हृदयानन्दजननं विदलितं मधुवनम्' इति च्छाया.

पृ० २९)—'हा आर्ये ताडके, किं हि नामैतत् । अम्बुनिLine 26:मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते ।Line 27:'नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् ।Line 28:दृष्टः स्थितेन च मया स्वजनप्रमाथो दैन्यं जरा च निरुणद्धि कथं करोमि ॥'Line 29:( वीर० १।४० )Line 30:अथौत्सुक्यम्—Line 31:कालाक्षमत्वमौत्सुक्यं रम्येच्छारतिसंभ्रमैः ।Line 32:तत्रोच्छ्वासत्वैनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ ३२ ॥Line 33:यथा कुमारसंभवे ( ७।२२ )—Line 34:'आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।Line 35:हरोपयाने

९० दशरूपकं [ प्रकाशः ४
यथा वा तत्रैव—
‘पशुपतिरपि तान्यहानि कृच्छ्रादनिनयद्रद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥’
( कुमार० ६।९५ )
अथ चापलम्—
मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ ३३ ॥
यथा विकटनितम्बायाः—
‘अन्यास तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥’
यथा वा—
‘विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराणि ।
अहमहमिकया पतन्तु कोपात्सममधुनैव किमत्र मन्मुखानि ॥’
अथवा प्रस्तुतमेव तावत्सुविहितं करिष्ये ।’ इति ।
अन्ये च चित्तवृत्तिविशेषा एतेषामेव विभावानुभावस्वरूपानुप्रवेशान्न पृथ-
ग्वाच्याः ।
अथ स्थायी—
विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्यान्यान्स स्थायी लवणाकरः ॥ ३४ ॥
सजातीयविजातीयभावान्तरैरतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी ।
यथा वृहत्कथायां नरवाहनदत्तस्य मदनमञ्जूषायामनुरागः । तत्तदवान्तरानैक-
नायिकानुरागैरतिरस्कृतः स्थायी । यथा च मालतीमाधवे श्मशानाङ्के बीभ-
त्सेन मालत्यानुरागस्यातिरस्कारो मम हि प्राक्तनोपलम्भसंभावितात्मजन्मनः
संस्कारस्यानवरतप्रबोधात्प्रतीयमानस्तद्विसदृशैः प्रत्ययान्तरैरतिरस्कृतप्रवाहः प्रिय-
तमास्मृतिप्रत्ययोत्पत्तिसंतानस्तन्मयमित्र करोत्यन्तर्वृत्तिसारूप्यतश्चैतन्यमित्यादि-
नोपनिबद्धः । तदनेन प्रकारेण विरोधिनामविरोधिनां च समावेशो न
विरोधी । तथा हि—विरोधः सहानवस्थानं बाध्यबाधकभावो वा । उभयरूपेणापि
न तावत्तादात्म्यमनैकरूपत्वेनैवाविर्भावात् । स्थायिनां च विभावादीनां यदि
विरोधस्तत्रापि न तावत्सहानवस्थानं रत्याद्युपरक्ते चेतसि एकसूत्रन्यायेनावि-
रोधिनां व्यभिचारिणां चोपनिबन्धः समस्तभावकस्वसंवेदनसिद्धः । यथैव
खसंवेदनसिद्धस्तथैव काव्यव्यापारसंरम्भेणानुकार्येऽप्यावेश्यमानः स्वचेतःसंभे-
देन तथाविधानन्दसंविदुन्मीलनहेतुः संपद्यते । तस्मान्न तावद्भावानां सहानव-
स्थानम् । बाध्यबाधकभावस्तु भावान्तरैर्भावान्तरतिरस्कारः । स च व्यभिचा-
रिणां स्थायिनामविरुद्धव्यभिचारिभिः स्थायिनोऽविरुद्धस्तेषामङ्गत्वात्प्रधानविरुद्धस्य
चाङ्गत्वायोगादानन्तर्यविरोधित्वमप्यनेन प्रकारेणापास्तं भवति । तथा च मालती-
माधवे शृङ्गारानन्तरं बीभत्सोपनिबन्धेऽपि न किंचिद्दैरस्यं तदेवमेव स्थिते

श्लो० ३३-३४ ] अवलोकसमेतम् । ९१
विरुद्धरसैकावलम्बनत्वमेव विरोधे हेतुः । सत्त्वविरुद्धरसान्तरव्यवधानेनोपनिब-
ध्यमानो न विरोधी । यथा—
'अेण्णहुणाहमहेलिअहुजुहुपरिमलुसुसुअंधु ।
मुहुकंतह अगत्थहअंग ण फिट्टइ गंधु ॥'
इत्यत्र वीभत्सरसस्याङ्गभूतसान्तरव्यवधानेन शृङ्गारसमावेशो न विरुद्धः प्रका-
रान्तरैरेकाश्रयविरोधी परिहर्त्तव्यः । ननु यत्रैकतात्पर्येणेतरेषां विरुद्धानामविरु-
द्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेनाविरोधः । यत्र तु समप्रधान-
त्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा—
'ऐक्कत्तो रुअइ पिआ अण्णत्तो समरतूरणिग्घोसो ।
पेम्मेण रणरसेण अ भडस्स डोलाइअं हिअअं ॥'
इत्यादौ रत्युत्साहयोः । यथा वा (शृंगार० ३६)—
'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥'
इत्यादौ रतिशमयोः । यथा च—
'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः
स चायं दुष्टात्मा खसुरपकृतं येन मम तत् ।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः
कृतो वेपश्वायं कथमिदमिति भ्राम्यति मनः ॥'
इत्यादौ तु रतिक्रोधयोः ।
'अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल-
व्यक्तोत्तंसभृतः पिनद्धशिरसा हृत्पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिव-
न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥'
(मालती० ५।१८)
इत्यादावेकाश्रयत्वेन रतिजुगुप्सयोः ।
'एकं ध्याननिमीलनानमुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् ।
अन्यद्दूरनिकृष्टचापमदनक्रोधनलोद्दीपितं
शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥'
इत्यादौ शमरतिक्रोधानाम् ।
'एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं
भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तम् ।
१ नितान्तास्फुटत्वादस्य श्लोकस्य व्याख्या न लिख्यतेऽस्माभिः.
२ 'एकतो रोदिति प्रियान्यतः समरतूर्यनिर्घोषः ।
प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ॥' इति च्छाया.

९२ दशरूपकं [ प्रकाशः ४
अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी
द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥'
इत्यादौ रतिशोकक्रोधानां समप्राधान्येनोपनिबन्धस्तत्कथं न विरोधः ? अत्रो-
च्यते—अत्राप्येक एव स्थायी । तथा हि—'एक्कत्तो रुअइ पिआ' इत्यादौ
स्थायिभूतोत्साहव्यभिचारिलक्षणवितर्कभावहेतुसंदेहकारणतया करुणसंग्रामतूर्य-
योरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः
समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते । किंचो-
पक्रान्ते संग्रामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासीन्येन महद-
नौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेव प्रकाशयन्प्रियतमाकरुणो
वीरमेव पुष्णाति । एवम् 'मात्सर्यम्—' इत्यादावपि चिरप्रवृत्तरतिवासनाया
हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम्' इत्यनेन प्रकाशितम् ।
एवम् 'इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचर-
त्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिक्रोध-
योरुपादानं रौद्रपरमेव । 'अङ्गैः कल्पितमङ्गलप्रतिसराः' इत्यादौ हास्यरसैक-
परत्वमेव । 'एकं ध्याननिमीलनात्' इत्यादौ शंभोर्भावान्तरैरनाक्षिप्ततया
शमस्थस्यापि योग्यन्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतैव 'समाधिसमये'
इत्यनेन स्फुटीकृता । 'एकेनाक्ष्णा' इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्र-
लम्भविषयमिति न क्वचिदनेकतात्पर्यम् । यत्र तु श्लेषादिवाक्येष्वनेकतात्पर्य-
मपि तत्र वाक्यार्थभेदेन स्वतन्त्रतया चार्थद्वयपरतेत्यदोषः । यथा—
'श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित-
त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्सचक्षुर्द्वध-
त्स्थाने यां स्तनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ॥'
इत्यादौ । तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोधः । यथा वा श्रूय-
माणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्यं तथाग्रे दर्शयिष्यामः ।
ते च—
रत्युत्साहजुगुप्साः क्रोधो हासः स्मयो भयं शोकः ।
शममपि केचित्प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ ३५ ॥
इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः । तत्र केचिदाहुः—
नास्त्येव शान्तो रसः । तस्याचार्येण विभावाद्यप्रतिपादनाल्लक्षणाकरणात् । अन्ये
तु वस्तुतस्तस्याभावं वर्णयन्ति । अनादिकालप्रवाहायातरागद्वेषयोरुच्छेत्तुमश-
क्यत्वात् । अन्ये तु वीरबीभत्सादावन्तर्भावं वर्णयन्ति । एवं वदन्तः शममपि
नेच्छन्ति । यथा तथास्तु । सर्वथा नाटकादावभिनयात्मनि स्थायित्वमस्माभिः
शमस्य निषिध्यते । तस्य समस्तव्यापारप्रविलयरूप

श्लो० ३५–३६ ] अवलोकसमेतम् । ९३
प्रवृत्तेन विद्याधरचक्रवर्तित्वप्राप्त्याऽविरुद्धम् । न ह्येकानुकार्यविभावालम्बनौ विष-
यानुरागापरागानुपलब्धौ । अतो दयावीरोत्साहस्यैव तत्र स्थायित्वम् । तत्रैव
शृङ्गारस्याङ्गत्वेन चक्रवर्तित्वावाप्तेश्च फलत्वेनाविरोधादीप्सितमेव च सर्वत्र कर्त-
व्यमिति परोपकारप्रवृत्तस्य विजिगीषोर्नान्तरीयकतया फलं संपद्यत इत्यावेदित-
मेव प्राक् । अतोऽष्टावेव स्थायिनः । ननु च 'रसनाद्रसत्वमेषां मधुरादीना-
मिवोक्तमाचार्यैः । निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः ॥' इत्यादिना
रसान्तराणामप्यन्यैरभ्युपगतत्वात्स्थायिनोऽप्यन्ये कल्पिता इत्यवधारणानुपपत्तिः ।
अत्रोच्यते—
निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।
[L

९४ दशरूपकं [ प्रकाशः ४
इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवाऽशब्दापि
शृङ्गारप्रतीतिरुदेति । रसान्तरेष्वप्ययमेव न्यायः । न केवलं रसेष्वेव यावद्व-
स्तुमात्रेऽपि । यथा ( गाथा० २।७५ )—
'भम धम्मिअ वीसद्धो सो सुणहो अज्ज मारिओ तेण ।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण ॥'
इत्यादौ निषेधप्रतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव । तथालंकारेष्वपि—
'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥'
इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्याद्युपमाद्यलंकारप्रतिपत्तिर्व्यञ्जकत्वनि-
बन्धनेति । न चासावर्थापत्तिजन्या । अनुपपद्यमानार्थापेक्षाभावात् । नापि
वाक्यार्थत्वम्, व्यङ्ग्यस्य तृतीयकक्षाविषयत्वात् । तथाहि—'भ्रम धार्मिक' इत्यादौ
पदार्थविषयाभिधालक्षणप्रथमकक्षातिक्रान्तक्रियाकारकसंसर्गात्मकविधिविषयवा-
क्यार्थकक्षातिक्रान्ततृतीयकक्षाक्रान्तो निषेधात्मा व्यङ्ग्यलक्षणोऽर्थो व्यञ्जकश-
क्त्यधीनः स्फुटमेवावभासते । अतो नासौ वाक्यार्थः । ननु च तृतीयकक्षावि-
षयत्वमश्रूयमाणपदार्थतात्पर्येषु 'विषं भुङ्क्ष्व' इत्यादिवाक्येषु निषेधार्थविषयेषु
प्रतीयत एव वाक्यार्थः । न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेष्यते तात्प-
र्यादन्यत्वाद्ध्वनेः । तत्र स्वार्थस्य द्वितीयकक्षायामविश्रान्तस्य तृतीयकक्षाभा-
वात् । सैव निषेधकक्षा तत्र द्वितीयकक्षाविधौ क्रियाकारकसंसर्गानुपपत्तेः । प्रक-
रणात्पितरि वक्तरि पुत्रस्य विषभक्षणनियोगाभावात् । रसवद्वाक्येषु च विभाव-
प्रतिपत्तिलक्षणद्वितीयकक्षायां रसानवगमात् । तदुक्तम्—
'अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम् ।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥
यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां तावदागतम् ।
तत्प्रसर्पति तत्र स्यात्सर्वत्र ध्वनिना स्थितिः ॥'
इत्येवं सर्वत्र रसानां व्यङ्ग्यत्वमेव । वस्त्वलंकारयोस्तु क्वचिद्वाच्यत्वं क्वचिद्व्यङ्ग्य-
त्वम् । तत्रापि यत्र व्यङ्ग्यस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणी-
भूतव्यङ्ग्यत्वम् । तदुक्तम्—
'यत्रार्थः शब्दो वा यमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥'
यथा—'उपोढरागेण' इत्यादि । तस्य च ध्वनेर्विवक्षितवाच्याविवक्षितवा-
च्यत्वेन द्वैविध्यम् । अविवक्षितवाच्योऽत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसंक्रमितवा-
१ 'भ्रम धार्मिक विश्रब्धः स श्वाऽद्य मारितस्तेन ।
गोदावरीनदीकच्छकुटङ्गवासिना दरीसिंहेन ॥' इति च्छाया.

३. तृतीय-चतुर्थ प्रकाश: दश रूपक भेद (नाटक, प्रकरण, भाण, प्रहसन आदि), रस-स्वरूप व उपसंहार

श्लो० ३७ ] अवलोकसमेतम् । ९५
च्येति द्विधा । विवक्षितवाच्यश्च असंलक्ष्यक्रमः क्रमद्योतश्चेति द्विविधः । तत्र
रसादीनामसंलक्ष्यक्रमे ध्वनित्वं प्राधान्यप्रतीतौ सत्यामङ्गत्वेन प्रतीतौ रसवद-
लंकार इति ।
अत्रोच्यते—
वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ ३७ ॥
यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु ‘गामभ्याज—’ इत्यादिष्वश्रूयमाण-
क्रियेषु च ‘द्वारं द्वारम्’ इत्यादिषु स्वशब्दोपादानात्प्रकरणादिवशाद्बुद्धिसंनिवे-
शिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा काव्येष्वपि स्वशब्दोपादानात्क-
चित् ‘प्रीत्यै नवोढा प्रिया’ इत्येवमादौ, क्वचिच्च प्रकरणादिवशान्नियताविहित-
विभावायविनाभावाद्वा साक्षाद्भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी

९६ दशरूपकं [ प्रकाशः ४

प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद्यदि ।
वक्तुर्विवक्षितप्राप्तेर्विश्रान्तिर्न वा कथम् ॥
पौरुषेयस्य वाक्यस्य विवक्षापरतन्त्रता ।
वक्त्रभिप्रेततात्पर्यमतः काव्यस्य युज्यते ॥'
इति । अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः । किं तर्हि भाव्यभा-
वकसंबन्धः ? काव्यं हि भावकम् । भाव्या रसादयः । ते हि सतो भवन्त एव
भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते । न चान्यत्र शब्दान्तरेषु
भाव्यभावकलक्षणसंबन्धाभावात्काव्यशब्देष्वपि तथा भाव्यमिति वाच्यम् ।
भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात् । किंच मा चान्यत्र तथास्त्वन्वयव्यतिरेकाभ्या-
मिह तथावगमात् । तदुक्तम्—
‘भावाभिनयसंबन्धान्भावयन्ति रसानिमान् ।
यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥’
इति । कथं पुनरगृहीतसंबन्धेभ्यः पदेभ्यः स्थाय्यादिप्रतिपत्तिरिति चेल्लोके
तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति
रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेया विनाभावेन लाक्षणिकी रत्या-
दिप्रतीतिः । यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः ।
रसः स एव स्वाद्यत्वाद्रसिकस्यैव वर्तनात् ।
नानुकार्यस्य वृत्तत्वात्काव्यस्यातत्परत्वतः ॥ ३८ ॥
द्रष्टुः प्रतीतिर्ब्रीडेर्ष्यारागद्वेषप्रसङ्गतः ।
लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ३९ ॥
काव्यार्थोपप्लावितो रसिकवर्ती रत्यादिः स्थायीभावः स इति प्रतिनिर्दिश्यते ।
स च स्वाद्यतां निर्भरानन्दसंविदात्मतामापाद्यमानो रसो रसिकवर्तीति वर्तमा-
नत्वान्नानुकार्यरामादिवर्ती वृत्तत्वात्तस्यं । अथ शब्दोपहितरूपत्वेनावर्तमानस्यापि
वर्तमानवदवभासनमिष्यत एव । तथापि तदवभासस्यास्मादादिभिरनुभूयमान-
ह्लादैकसमतैकास्वादं प्रति विभावेन तु रामादेर्वर्तमानवदवभासनमिष्यत
एव । किंच न काव्यं रामादीनां रसोपजननाय कविभिः प्रवर्त्यते । अपि तु
सहृदयानन्दयितुम् । स च समस्तभावकस्वसंवेद्य एव । यदि चानुकार्यस्य
रामादेः शृङ्गारः स्यात्ततो नाटकादौ तद्दर्शने लौकिक इव नायके शृङ्गारिणि
स्वकान्तासंयुक्ते दृश्यमाने शृङ्गारवानयमिति प्रेक्षकाणां प्रतीतिमात्रं भवेन्न
रसानां स्वादः सत्पुरुषाणां च लज्जेतरेषां त्वसूयानुरागापहरेच्छादयः प्रसज्ये-
रन् । एवं च सति रसादीनां व्यङ्ग्यत्वमपास्तम् । अन्यतो लब्धसत्ताकं वस्त्व-
न्येनापि व्यज्यते । प्रदीपेनेव घटादि । न तु तदानीमेवाभिव्यञ्जकत्वाभिमतैरा-
पाद्य स्वभावम् । भाव्यन्ते च विभावादिभिः प्रेक्षकेषु रसा इत्यावेदितमेव ।
ननु च सामाजिकाश्रयेषु रसेषु को विभावः ? कथं सीतादीनां देवीनां
विभावत्वेनाविरोधः ? उच्यते—

श्लो० ३८-४५ ] अवलोकसमेतम् । ९७
धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभावयति रत्यादीन्स्वदन्ते रसिकस्य ते ॥ ४० ॥
न हि कवयो योगिन इव ध्यानचक्षुषा ध्यात्वा प्रातिस्विकीं रामादीनामवस्थां
इतिहासवदुपनिबध्नन्ति । किं तर्हि सर्वलोकसाधारणाः स्वोत्प्रेक्षाकृतसन्निधयो
धीरोदात्ताद्यवस्थाः क्वचिदाश्रयमात्रदायिन्यो दधति ।
ता एव च परित्यक्तविशेषा रसहेतवः ।
तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनः किमिवा-
निष्टं कुर्युः । किमर्थं तर्ह्युपादीयन्त इति चेदुच्यते—
क्रीडतां मृन्मयैर्यद्वद्बालानां द्विरदादिभिः ॥ ४१ ॥
स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः ।
एतदुक्तं भवति । नात्र लौकिकशृङ्गारादिवत्ह्रयादिविभावादीनामुपयोगः ।
किं तर्हि प्रतिपादितप्रकारेण लौकिकरसविलक्षणत्वं नाट्यरसानाम् । यदाह—
‘अष्टौ नाट्यरसाः स्मृताः’ इति ।
काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ॥ ४२ ॥
नर्तकोऽपि न लौकिकरसेन रसवान्भवति । तदानीं भोग्यत्वेन स्वमहिला-
देरग्रहणात् काव्यार्थभावनया लसदादिवत्काव्यरसास्वादोऽस्यापि न वार्यते ।
कथं च काव्यात् स्वादोधूतिः, किमात्मा चासाविति व्युत्पाद्यते—
स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः ।
विकासविस्तरक्षोभविक्षेपैः स चतुर्विधः ॥ ४३ ॥
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ।
हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ॥ ४४ ॥
अतस्तज्जन्यता तेषामत एवावधारणम् ।
काव्यार्थेन विभावादिसंसृष्टस्थाय्यात्मक्रेन भावकचेतः संभेदेऽन्योन्यसं-
चलने प्रत्यस्तमितस्वपरविभागे सति प्रवलतरस्वानन्दोद्भूतिः=स्वादः । तस्य च
सामान्यात्मकत्वेऽपि प्रतिनियतविभावादिकारणजन्यत्वेन संभेदेन चतुर्धा चित्त-
भूमयो भवन्ति । तद्यथा—शृङ्गारे विकासः, वीरे विस्तरः, बीभत्से क्षोभः,
रौद्रे विक्षेप इति, तदन्येषां चतुर्णां हास्याद्भुतभयानककरुणानां स्वसामग्रीलब्ध-
परिपोषाणां त एव चत्वारो विकासाद्याश्चेतसः संभेदाः । अत एव—
‘शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः ।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥’
इति । हेतुहेतुमद्भाव एव संभेदापेक्षया दर्शितो न कार्यकारणभावाभिप्रायेण तेषां
कारणान्तरजन्यत्वात् ।
‘शृङ्गारानुकृतिर्या तु स हास इति कीर्तितः ।’
इत्यादिना विकासादिसंभेदैकलस्यैव स्फुटीकरणादवधारणमप्यत एवाष्टाविति
संभेदानां भावात् । ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु वाक्यार्थ-
द० ९

९८ दशरूपकं [ प्रकाशः ४
संभेदादानन्दोद्भव इति । करुणादौ तु दुःखात्मकत्वे कथमिवासौ प्रादुःष्यात् ।
तथा हि—तत्र करुणात्मककाव्यश्रवणाद्दुःखाविर्भावोऽश्रुपातादयश्च रसिकाना-
मपि प्रादुर्भवन्ति । न चैतदानन्दात्मकत्वे सति युज्यते । सत्यमेतत् । किंतु
तादृश एवासावानन्दः सुखदुःखात्मको यथा प्रहरणादिषु संभोगावस्थायां कुट्ट-
मिते स्त्रीणामन्यश्च लौकिकात्करुणात् काव्यकरुणः । तथा हि—अत्रोत्तरोत्तररसिकानां
प्रवृत्तयः । यदि वा लौकिककरुणवद्दुःखात्मकत्वमेवेह स्यात्तदा न कश्चित्तत्र
प्रवर्तेत । ततः कारुण्यैकरसानां रामायणादिमहाप्रबन्धानामुच्छेद एव भवेद्-
श्रुपातादयश्चेति वृत्तवर्णनाकर्णनेन विनिपातितेषु लौकिकवैकल्यदर्शनादिवत् प्रेक्ष-
काणां प्रादुर्भवन्तो न विरुध्यन्ते । तस्माद्रसान्तरवत् करुणस्याप्यानन्दात्मक-
त्वमेव ।
ननु शान्तरसस्यानभिधेयतयाद्यद्यपि नाट्येऽनुप्रवेशो नास्ति तथापि सूक्ष्मा-
तीतादिवस्तूनां सर्वेषामपि शब्दप्रतिपाद्यतया विद्यमानत्वात् काव्यविषयत्वं न
निवार्यते । अतस्तदुच्यते—
शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता ॥ ४५ ॥
शान्तो हि यदि तावत्—
‘न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसस्तु शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः ॥’
इत्येवंलक्षणः, तदा तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तस्य
च स्वरूपेणानिर्वचनीयता । तथा हि—श्रुतिरपि ‘स एष नेति नेति’ इत्यन्या-
पोहरूपेणाह । न च तथाभूतस्य शान्तरसस्य सहृदयाः स्वादयितारः सन्त्यथ
तदुपायभूतो मुदितामैत्रीकरुणोपेक्षादिलक्षणस्तस्य च विकाशविस्तारक्षोभविक्षेप-
रूपतैविति । तदुक्तयैव शान्तरसास्वादो निरूपितः ।
इदानीं विभावादिविषयावान्तरकाव्यव्यापारप्रदर्शनपूर्वकः प्रकरणेनोपसंहारः
प्रतिपाद्यते—
पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः ।
काव्याद्विभावसंचार्यनुभावप्रख्यतां गतैः ॥ ४६ ॥
भावितः स्वदते स्थायी रसः स परिकीर्तितः ।
अतिशयोक्तिरूपकाव्यव्यापाराहितविशेषैश्चन्द्राद्यैरुद्दीपनविभावैः प्रमदाप्रभृति-
भिरालम्बनविभावैर्निर्वेदादिभिर्व्यभिचारिभावै रोमाञ्चाश्रुभ्रूक्षेपकटाक्षाद्यैरनुभावै-
रवान्तरव्यापारतया पदार्थीभूतैर्वाक्यार्थः स्थायीभावो भावितो भावरूपता-
मानीतः स्वदते स रस इति प्राक्प्रकरणे तात्पर्यम् ।
विशेषलक्षणान्युच्यन्ते—तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च
पृथग्लक्षणानि विभावादिप्रतिपादनेनोदितानि । अत्र तु—
लक्षणैक्यं विभावैक्याद्भेदाद्रसभावयोः ॥ ४७ ॥
क्रियत इति वाक्यशेषः ।