सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

वस्तुनिष्ठप्रश्नाः ६६१
(अ) वशिष्ठस्य (स) पराशरस्य
(ब) गर्गस्य (द) कश्यपस्य
१७७. दिवि भुक्तशुभफलानां पततां प्राणिनां किंस्वरूपम् ?
(अ) धिष्ण्या (स) उल्का
(ब) अशनि (द) विद्युत्
१७८. स्वास्त्राणि संसृज्यन्त्येते शुभाशुभनिवेदिनः ।
लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥
इति कस्य वचनम्?
(अ) वशिष्ठस्य (स) पराशरस्य
(ब) गर्गस्य (द) वृद्धगर्गस्य
१७९. अस्त्राणि लोकपाला लोकाभावाय सन्त्यजन्त्युल्काः ।
केषाञ्चित्पुण्यकृतां तत्रोल्का विच्युतिः स्वर्गात् ॥
इति वाक्यं कुत्रत्यः?
(अ) स्वल्पसंहितातः (स) गर्गसंहितातः
(ब) सूतसंहितातः (द) बृहत्संहितातः
१८०. उल्कापातस्य फलं कियद्भिर्दिवसैः भवति?
(अ) दशभिर्दिवसैः (स) द्वादशभिर्दिवसैः
(ब) पञ्चदशदिवसैः (द) षोडशदिवसैः
१८१. का नाम उल्का?
(अ) क्षीणे पुण्ये स्वर्गात् समागताः जीवाः।
(ब) लोकपालानां परीक्षणाय प्रक्षिप्तान्यस्त्राणि।
(स) इन्द्रस्य वज्रम्।
(द) अशुभसूचकं नभोमण्डलम्।
१८२. उल्का कतिधा?
(अ) चतुर्धा (स) द्विधा
(ब) त्रिधा (द) पञ्चधा
१८३. धिष्ण्याफलं कतिभिः दिवसैः भवति?
(अ) दशदिवसैः (स) चतुर्दशदिवसैः
(ब) द्वादशदिवसैः (द) पञ्चदशदिवसैः
१८४. उल्काऽथ पञ्चरूपा धिष्ण्योल्का विद्युतोऽशनिस्तारा ।
धिष्ण्योल्के पक्षफले तत्रिगुणाश्वाशनिः षडधिकेऽन्ये ॥
इति पद्यं कुतः गृहीतमस्ति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६६२ बृहत्संहिता
(अ) भृगुसंहितातः (स) अगस्त्यसंहितातः
(ब) वशिष्ठसंहितातः (द) समाससंहितातः
१८५. कस्य फलमर्धं भवति?
(अ) धिष्ण्याफलम् (स) विद्युत्फलम्
(ब) ताराफलम् (द) अशनिफलम्
१८६. 'अशनिः प्राणिषु निपतति दारयति धरातलं बृहच्छब्दा' इति पद्यं कुत्रास्ति?
(अ) समाससंहितायाम् (स) वसिष्ठसंहितायाम्
(ब) गर्गसंहितायाम् (द) अगस्त्यसंहितायाम्
१८७. धिष्ण्या उल्का कियत्परिमाणा दीर्घा?
(अ) द्विहस्तपरिमिता (स) पञ्चहस्तपरिमिता
(ब) त्रिहस्तपरिमिता (द) चतुर्हस्तपरिमिता
१८८. विद्युत् कुत्र पतति?
(अ) प्राणिषु (स) गृहेषु
(ब) वृक्षेषु (द) क्षेत्रेषु
१८९. कया गत्या विद्युत्पतति?
(अ) सहसा पतति (स) त्वरितं वतति
(ब) शनैः पतति (द) द्रुतं पतति
१९०. 'धिष्ण्या सिता द्विहस्ता धनूंषि दश याति कृष्णदेहा' इति पद्यं कुत्राऽस्ति?
(अ) समाससंहितायाम् (स) गर्गमनोरमायाम्
(ब) अगस्त्यसंहितायाम् (द) बृहत्पाराशरहोराशास्त्रे
१९१. तारा कति हस्तपरिमिता दीर्घा भवति?
(अ) द्विहस्तपरिमिता दीर्घा (स) चतुर्हस्तपरिमिता दीर्घा
(ब) त्रिहस्तपरिमिता दीर्घा (द) एकहस्तपरिमिता दीर्घा
१९२. उल्का कान् विपत्तीं सूचयति?
(अ) राज्ञां विपत्तीं सूचयति (स) लोकान् विपत्तीं सूचयति
(ब) जनान् विपत्तीं सूचयति (द) सर्वान् विपत्तीं सूचयति
१९३. किंरूपा उल्का भवति?
(अ) प्रेतरूपा (स) कपिरूपा
(ब) गर्दभरूपा (द) मृगरूपा
१९४. कति शिरा उल्का भवति?
(अ) द्विशिरा (स) चतुःशिरा
(ब) त्रिशिरा (द) पञ्चशिरा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६६३
१९५. किंरूपा उल्का कुशलं सुभिक्षञ्च करोति लोकान्?
(अ) स्वस्तिकरूपा (स) नारिकेलरूपा
(ब) शङ्खरूपा (द) राजभवनरूपा
१९६. किंरूपा उल्का द्विजात्राशयति?
(अ) शुक्लरूपा (स) रक्तरूपा
(ब) कृष्णरूपा (द) पीतरूपा
१९७. पुच्छस्था उल्का कात्राशयति?
(अ) द्विजान् (स) वैश्यान्
(ब) क्षत्रियान् (द) शूद्रान्
१९८. कुतः समुद्भूता उल्का शुभफलदा भवति?
(अ) सूर्यकिरणात्समुद्भूताः
(ब) चन्द्रप्रदक्षिणक्रमेण समागता
(स) सूर्यप्रदक्षिणक्रमेण समागता
(द) सूर्यचन्द्रमसोः प्रदक्षिणक्रमेण समागता
१९९. आकाशे भ्रममाणा उल्का किं करोति?
(अ) राज्ञः नाशयति (स) नागरिकान् नाशयति
(ब) लोकान् नाशयति (द) ग्रामीणान् नाशयति
२००. नक्षत्राणि ग्रहाश्चैव यद्युल्का ध्वस्तधूमिता।
तद्देशनाथनाशाय लोकानां सम्भ्रमाय च॥
इति वचनं कस्य?
(अ) कश्यपस्य (स) भारद्वाजस्य
(ब) वशिष्ठस्य (द) विश्वामित्रस्य
२०१. राजभीतिका उल्का कीदृशी भवति?
(अ) यस्यानुसङ्गः खे चिरं तिष्ठति (स) या गगने रज्जुबद्धेव विलोक्यते
(ब) या दण्डाकारा विलोक्यते (द) या महेन्द्रध्वजतुल्या दृश्यते
२०२. कीदृशी उल्का श्रेष्ठिनः विनाशयति?
(अ) प्रतीपगा (स) तिर्यगा
(ब) ऋजुगा (द) अधोगा
२०३. ऊर्ध्वगा उल्का कान् पीडयति?
(अ) ब्राह्मणान् (स) वैश्यान्
(ब) क्षत्रियान् (द) शूद्रान्
२०४. कोल्का राष्ट्रदोषकारिणी भवति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६६४ बृहत्संहिता
(अ) मण्डलाकृतिः (स) व्यालशूकरोपमा
(ब) वंशगुल्मवत् (द) विस्फुलिङ्गमालिनी
२०५. सुरपतिचापप्रतिमोल्का कन्नाशयति?
(अ) राज्यम् (स) जनपदम्
(ब) ग्रामम् (द) मण्डलम्
२०६. पार्थिवे प्रस्थिते दीप्ता पतत्युल्का महास्वनाः ।
तां दिशं सिद्ध्यते सिद्धिं विजयं लभतेऽचिरात् ॥
इति कस्य कथनम् ?
(अ) कश्यपस्य सत्र. अत्रे:
(ब) वशिष्ठस्य (द) विश्वामित्रस्य
२०७. इन्द्रकृतः परिवेषः किंवर्णकः?
(अ) रक्तवर्णकः (स) हरितवर्णकः
(ब) पीतवर्णकः (द) कृष्णवर्णकः
२०८. वरुणकृतः परिवेषः किंवर्णकः?
(अ) श्वेतवर्णकः (स) हरितवर्णकः
(ब) कपोतवर्णकः (द) श्यामवर्णकः
२०९. कुवेरकृतः परिवेषः किंवर्णकः?
(अ) मयूरकण्ठसदृशः नीलवर्णकः (स) रक्तवर्णकः
(ब) पीतवर्णकः (द) श्वेतवर्णकः
२१०. सितपीतेन्द्रनीलाभरक्तकापोतबभ्रवः ।
शबला बर्हिवर्णाश्च विज्ञेयास्ते शुभप्रदाः ॥
इति कस्योक्तिः?
(अ) वशिष्ठस्य (स) यमस्य
(ब) विश्वामित्रस्य (द) कश्यपस्य
२११. दिवा सूर्ये परिवेषो रात्रौ चन्द्रे यदा भवेत् ।
एकस्मिंश्चेदहोरात्रे तदा नश्यति पार्थिवः ॥
इति कस्य वचनम्?
(अ) गर्गस्य (स) वशिष्ठस्य
(ब) कश्यपस्य (द) विश्वामित्रस्य
२१२. मयूरकण्ठसदृशनीलवर्णपरिवेषः कः करोति?
(अ) कुवेरः (स) वायुः
(ब) वरुणः (द) यमः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६६५
२१३. प्रतिपदि दृष्टः परिवेषः कन्नाशयति?
(अ) ब्राह्मणान् (स) वैश्यान्
(ब) क्षत्रियान् (द) शूद्रान्
२१४. कस्यान्तिथौ दृष्टः परिवेषः नृपान्नाशयति?
(अ) दशम्याम् (स) नवम्याम्
(ब) एकादश्याम् (द) अष्टम्याम्
२१५. कस्यान्तिथौ समवलोकितः परिवेषः वैश्यान्नाशयति?
(अ) द्वितीयायाम् (स) पञ्चम्याम्
(ब) तृतीयायाम् (द) चतुर्थ्याम्
२१६. क्व गता रेखाः नगरवासिनः पीडयति?
(अ) परिवेषमध्यगताः (स) परिवेषोपरिगताः
(ब) परिवेषबहिर्गताः (द) परिवेषनीचैः गताः
२१७. अनन्तकुलजाता ये पन्नगाः कामरूपिणः।
तेषां विश्वाससम्भूतं इन्द्रचापं प्रचक्षते ॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) वशिष्ठस्य
(ब) गालवस्य (द) विश्वामित्रस्य
२१८. कुत्रत्य इन्द्रधनुः शुभफलदो भवति?
(अ) अवनिगतः (स) विविधवर्णः
(ब) द्युतिमत् (द) प्रतीचिस्थम्
२१९. किंवर्णमिन्द्रायुधं वृष्टिकरम्?
(अ) अविकलम् (स) द्विरुदितम्
(ब) विविधवर्णयुतम् (द) अनुलोमम्
२२०. द्विरुत्तरमविच्छिन्नं स्निग्धमिन्द्रायुधं महत्।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥
इति कस्य कथनम्?
(अ) ऋषिपुत्रस्य (स) वसिष्ठस्य
(ब) कश्यपस्य (द) नारदस्य
२२१. नीलताग्रमविच्छिन्नं द्विगुणं सिद्धमायतम्।
पृष्ठतः पार्श्वयोर्वापि जयायेन्द्रधनुर्भवेत् ॥
इति कस्योक्तिः?
(अ) कश्यपस्य (स) नारदस्य
(ब) बृहस्पतेः (द) गालवस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६६६ बृहत्संहिता
२२२. पीतवर्णमिन्द्रधनुः किं करोति?
(अ) शत्रुदोषं करोति (स) वायुदोषं जनयति
(ब) अग्निदोषं जनयति (द) जलदोषं जनयति
२२३. कस्यां दिशि गतमिन्द्रायुधं वृष्टिं करोति?
(अ) पूर्वस्याम् (स) दक्षिणगतम्
(ब) प्रतीच्याम् (द) अग्निकोणगतम्
२२४. 'बहूदकं सुभिक्षञ्च शिवं सस्यप्रदं भवेत्' इति कस्य वाक्यम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) कश्यपस्य (द) नारदस्य
२२५. कुत्र विलोकितं गन्धर्वनगरं पुरोहितं विनाशयति?
(अ) उदीच्याम् (स) प्राच्याम्
(ब) प्रतीच्याम् (द) दक्षिणस्याम्
२२६. कदा नृपं विनाशयति गन्धर्वनगरम्?
(अ) पूर्वस्याम् (स) दक्षिणस्याम्
(ब) उत्तरस्याम् (द) पश्चिमायाम्
२२७. बहुवर्णपताकाढ्यं गन्धर्वनगरं महत्।
दृष्टं प्रजाक्षयकरं संग्रामे लोमहर्षणम्॥
इति कस्य वचनम्?
(अ) वशिष्ठस्य (स) गर्गस्य
(ब) कश्यपस्य (द) बृहस्पतेः
२२८. कुत्रावलोकितः प्रतिसूर्यः वृष्टिं करोति?
(अ) पूर्वस्यां दिशि (स) प्रतीच्यां दिशि
(ब) दक्षिणस्यां दिशि (द) उदीच्यां दिशि
२२९. याम्ये वातप्रदो ज्ञेय उत्तरे वृद्धिदो रवेः।
उभयोः पार्श्वयोर्भाति सलिलं भूरि यच्छति॥
इति वाक्यं कस्य?
(अ) कश्यपस्य (स) पराशरस्य
(ब) वशिष्ठस्य (द) गर्गस्य
२३०. यदान्तरिक्षे बलवान् मरुतो मरुतावृतः।
पतत्यधः सनिर्घातो भवेदनिलसम्भवः॥
इति केनोक्तम्?
(अ) वसिष्ठेन (स) गर्गेण
(ब) अत्रिणा (द) पराशरेण
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६६७
२३१. निर्घातोऽहोरात्रेण हन्ति नृपपौरभृत्यराष्ट्रजनान्।
तस्करविप्राश्वार्कोदयाद्दिशं पतति यस्याम्॥
इति वाक्यं कुत्रास्ति?
(अ) गर्गसंहितायाम् (स) समाससंहितायाम्
(ब) कश्यपसंहितायाम् (द) बृहत्संहितायाम्
२३२. भानोः वृश्चिक-वृषप्रवेशे ग्रीष्मशरत्सस्यानां सदसद्योगा केन प्रोक्ताः?
(अ) पराशरेण (स) वादरायणेन
(ब) वसिष्ठेन (द) अगस्त्येन
२३३. सूर्याद् बुधे द्वितीये शुक्रे वा युगपदेन तयोः।
रिष्फगयोरप्येवं निष्पत्तिर्गुरुदृशाऽतीव॥
इति वचनं केन प्रोक्तम्?
(अ) कश्यपेन (स) गालवेन
(ब) वादरायणेन (द) नारदेन
२३४. क्व गतः सूर्यः धान्यं नाशयति?
(अ) पापमध्यगतः (स) कुम्भराशिगतः
(ब) वृश्चिकराशिगतः (द) शनिमङ्गलयोरेकः स्यात्
२३५. सूर्यात् सप्तमस्थः पापोऽन्यः केन्द्रगतश्च हानिकरौ।
सौम्यग्रहनिर्दिष्टौ न तथा.............................................॥
इति कस्य वाक्यम्?
(अ) वादरायणस्य (स) विश्वामित्रस्य
(ब) वसिष्ठस्य (द) नारदस्य
२३६. वृषे महिषगोवस्त्रशालयः पुष्यसम्भवाः।
मिथुने धान्यशालूकवल्व्यः कार्पासशारदम्॥
इति कस्योक्तिः?
(अ) वसिष्ठस्य (स) नारदस्य
(ब) कश्यपस्य (द) धौम्यस्य
२३७. 'पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वर' इति कस्य कथनम्?
(अ) वसिष्ठस्य (स) कश्यपस्य
(ब) विश्वामित्रस्य (द) नारदस्य
२३८. सिंहराशिगते सूर्ये संगृहीतानि रत्नानि कतिमासानन्तरं विक्रेतव्यानि?
(अ) चतुर्मासानन्तरम् (स) षण्मासानन्तरम्
(ब) पञ्चमासानन्तरम् (द) सप्तमासानन्तरम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६६८ बृहत्संहिता
२३९. राशौ राशौ स्थितः सूर्यः शशी वा मित्रसंयुतः?
अधिमित्रेण सन्दृष्टो यथालाभप्रदः स्मृतः॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) विश्वामित्रस्य
(ब) नारदस्य (द) गौतमस्य
२४०. क्षीरोदे देवान् कः केतुं दास्यति?
(अ) रामः (स) विष्णुः
(ब) कृष्णः (द) केशवः
२४१. केतुं देवान् स्यतीति क आह?
(अ) ब्रह्मा (स) शिवः
(ब) विष्णुः (द) नारदः
२४२. असुरास्तं ध्वजं दृष्ट्वा ध्वजस्तेजःसमाहताः।
विसंज्ञाः समरे भग्नाः पराभूता प्रदुद्रुवुः॥
इति केनोक्तम्?
(अ) गर्गेण (स) नारदेन
(ब) वसिष्ठेन (द) गौतमेन
२४३. प्रौष्ठपादे प्रतिपदि ध्वजार्थं पूर्वतो वनम्।
गत्वा वृक्षं परीक्षेत वयःसारगुणान्वितम्॥
इति कस्य महर्षेः वाक्यम्?
(अ) गर्गस्य (स) अत्रेः
(ब) वसिष्ठस्य (द) पराशरस्य
२४४. ध्वजार्थं को वृक्षः शुभः?
(अ) अर्जुनवृक्षः (स) प्रियकः
(ब) उदुम्बरवृक्षः (द) धवः
२४५. ध्वजार्थं काष्ठं राजा कदा नगरे प्रवेशयेत्?
(अ) भाद्रशुक्लाष्टम्याम् (स) आषाढशुक्लाष्टम्याम्
(ब) श्रावणशुक्लाष्टम्याम् (द) आश्विनशुक्लाष्टम्याम्
२४६. प्रोष्ठपादे सिताष्टम्यां ज्येष्ठायोगे स्वलंकृताम्।
यष्टिं पौरन्दरीं राजा नगरं सम्प्रवेशयेत्॥
इति कस्य कथनम्?
(अ) वसिष्ठस्य (स) नारदस्य
(ब) कश्यपस्य (द) गर्गस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्ना: ६६९
२४७. नगरे किंवर्णिका पताका शुभा?
(अ) श्वेता (स) हरिता
(ब) रक्ता (द) कृष्णा
२४८. राजा कदा जागरणं कुर्यात्?
(अ) एकादश्याम् (स) त्रयोदश्याम्
(ब) दशम्याम् (द) नवम्याम्
२४९. तत्र श्रवणयोगेन ध्वजोत्थानं प्रशस्यते।
द्वादश्यां विजये वाश्वमुहूर्त्ते वा दिनेऽथ वा ॥
इति कस्योक्तिः?
(अ) गर्गस्य (स) गौतमस्य
(ब) गालवस्य (द) अत्रे:
२५०. ध्वजोपरि शक्रकुमार्यः विधातव्या कति?
(अ) पञ्च (स) अष्टौ
(ब) सप्त (द) दश
२५१. ध्वजाय प्रथमाभूषणं केन प्रदत्तम् ?
(अ) ब्रह्मणा (स) शिवेन
(ब) विश्वकर्मणा (द) विष्णुना
२५२. नीराजनशान्तिः कदा कर्तव्या?
(अ) कार्तिकशुक्लाष्टम्याम् (स) कार्तिकशुक्लद्वादश्याम्
(ब) आश्विनशुक्लाष्टम्याम् (द) कार्तिकशुक्लपौर्णमास्याम्
२५३. शालिजातकसिद्धार्थान् कुष्ठं भल्लातकं तथा।
अश्वेषु कण्ठे बध्नीयात् सप्ताहं शान्तिमाचरेत् ॥
इति वचनं केन भणितम्?
(अ) कश्यपेन (स) पराशरेण
(ब) वसिष्ठेन (द) विश्वामित्रेण
२५४. कति हस्तपरिमिता वेदी ब्राह्मणानां यज्ञे विधातव्या?
(अ) सप्तहस्ता (स) दशहस्ता
(ब) पञ्चहस्ता (द) अष्टहस्ता
२५५. यज्ञे विवाहे ब्राह्मणानां वेदिमानं किम्?
(अ) त्रिसप्त हस्ता (स) अष्टौ हस्ता
(ब) दश हस्ता (द) नव हस्ता
२५६. त्रिसप्तहस्तविस्तारा वेदी केषां कृते?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७० बृहत्संहिता
(अ) ब्राह्मणानां कृते (स) वैश्यानां कृते
(ब) क्षत्रियाणां कृते (द) शूद्राणां कृते
२५७. अश्वं समारूह्य राजा कस्यां दिशि प्रस्थानं कुर्यात्?
(अ) ऐशान्याम् (स) प्रतीच्याम्
(ब) पूर्वस्याम् (द) उदीच्याम्
२५८. 'नामानुरूपेण फलं विहगानां विनिर्दिशेत्' इति कस्य कथनम्?
(अ) कश्यपस्य (स) गालवस्य
(ब) गौतमस्य (द) विश्वामित्रस्य
२५९. मैथुनं कुरुते यत्र तत्र वै निधिमादिशेत्।
भुक्तं छर्दयते यत्र तत्र काचमधो भवेत्॥
इति कस्योक्तिः?
(अ) वसिष्ठस्य (स) कश्यपस्य
(ब) गौतमस्य (द) नारदस्य
२६०. राजानं पुष्यस्नानं कः कारयति?
(अ) पुरोहितः (स) प्रजा
(ब) ज्योतिषी (द) मन्त्रिणः
२६१. पुष्यस्नानं कुत्र कर्तव्यम्?
(अ) शोभने कानने (स) नूतनलतायुते वने
(ब) दुर्गन्धवृक्षरहिते स्थाने (द) अशुभकारकै पक्षिभिः रहिते स्थाने
२३२. समुद्रतीरे सोद्याने नदीनां सङ्गमे शुभे।
महाह्रदेऽथवा तीर्थे देवतायतने तथा॥
सर्वर्तुकुसुमोपेते वने द्विजवरैर्युते।
गृहे रम्ये विविक्ते वा पुष्यस्नानं समाचरेत्॥
इति कस्य वाक्यम्?
(अ) वसिष्ठस्य (स) वृद्धगर्गस्य
(ब) गर्गस्य (द) शौनकस्य
२६३. पुष्यस्नानविधौ पुरोहितः किं कुर्यात् ?
(अ) दध्यक्षतबलिं चरेत् (स) पुण्यक्षेत्रे पुष्पबलिं चरेत्
(ब) पायसबलिं दद्यात् (द) पायसदधिपुष्पयुतं बलिं दद्यात्
२६४. कस्यां दिशि बलिं चरेत् ?
(अ) पूर्वस्यां दिशि (स) वायव्यकोणे
(ब) उत्तरस्यां दिशि (द) ऐशान्यां दिशि
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७१
२६५. बलिप्रदानान्तरं पुरोधा किं कुर्यात् ?
(अ) आवाहनं कुर्यात् (स) प्रार्थनां कुर्यात्
(ब) मन्त्रान् पठेत् (द) आवाहनसामग्रीं निरीक्षेत्
२६६. आगच्छन्तु सुराः सर्वे येऽत्र पूजाऽभिलाषिणः ।
दिशो नागा द्विजाश्चैव ये चाऽप्यन्येऽंशभागिनः ॥
अनेन मन्त्रेण किं कुर्यात् ?
(अ) आवाहनम् (स) वन्दनम्
(ब) पूजनम् (द) विसर्जनम्
२६७. 'पूजां प्राप्य प्रयास्यन्ति दत्वा शान्तिं महीपतेः' इदं वाक्य कः कथयति?
(अ) पुरोहितः (स) आचार्यः
(ब) सचिवः (द) अङ्गरक्षकः
२६८. आवाहनानन्तरं तदानीं पुरोहितादयः किं कुर्युः?
(अ) तां रात्रिं तत्रैव व्यतीयुः।
(ब) गच्छन्तु।
(स) केवलं पुरोहितः तां रात्रीं तत्रैव तिष्ठेत्।
(द) सर्वे तत्रैव निवसन्तु।
२६९. द्वितीयेऽह्नि कस्य वचनं पठितव्यम् ?
(अ) वसिष्ठस्य (स) शौनकस्य
(ब) पराशरस्य (द) वृद्धगर्गस्य
२७०. यात्राप्रस्थानकाले कस्य ग्रन्थानुसारं पूजा विधातव्या?
(अ) यात्रानां पुस्तकानुसारम् (स) कर्मकाण्डप्रदीपानुसारम्
(ब) ग्रहशान्त्यानुसारम् (द) पूजापारिजातानुसारम्
२७१. नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।
वामनाय विरूपाय स्वप्नाधिपतये नमः ॥
अयं मन्त्रः कदा पठितव्यः?
(अ) यात्रायाः पूर्वसन्ध्यायां (स) उत्थाय
(ब) यात्राकाले (द) यात्रातः पूर्वम्
२७२. ग्रहयज्ञे मण्डलं विधाय कस्य पूजा विधातव्या?
(अ) देवतानाम् (स) मातृकानाम्
(ब) पितॄणाम् (द) लोकपालानाम्
२७३. यात्राकालिके ग्रहयज्ञे कतिसङ्ख्याकाः कलशाः भवन्ति?
(अ) चत्वारः कलशाः (स) सप्त कलशाः
(ब) पञ्च कलशाः (द) अष्टौ कलशाः
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

६७२ बृहत्संहिता
२७४. बृहत् रूपे कति कलशाः?
(अ) अष्टोत्तरशतकलशाः (स) अष्टाविंशतिकलशाः
(ब) अष्टौ कलशाः (द) चतुर्विंशति कलशाः
२७५. मण्डलस्य कस्यां दिशि वेदी भवेत्?
(अ) मण्डलस्य पूर्वभागे (स) मण्डलस्य दक्षिणभागे
(ब) मण्डलस्योत्तरभागे (द) मण्डलस्य पश्चिमभागे
२७६. चतुर्षु कलशेषु कतिविधा औषधयः प्रक्षेपणीयाः?
(अ) षोडश (स) चतुर्दश
(ब) पञ्चदश (द) सप्तदश
२७७. अन्यानि मङ्गलद्रव्याणि कियन्ति?
(अ) त्रीणि (स) चत्वारि
(ब) पञ्च (द) सप्त
२७८. आसने प्रथमं किं स्तरणीयम् ?
(अ) वृद्धवृषभचर्म (स) मृगचर्म
(ब) युवावृषभचर्म (द) गजचर्म
२७९. गोचर्मोपरि किं भवेत् ?
(अ) युवावृषभचर्म (स) अजाचर्म
(ब) वत्सचर्म (द) सिंहचर्म
२८०. वृषभचर्मोपरि किं स्तरणीयम् ?
(अ) सिंहचर्म (स) गजचर्म
(ब) अजाचर्म (द) व्याघ्रचर्म
२८१. सिंहचर्मोपरि आसने किं स्यात् ?
(अ) मृगचर्म (स) गजचर्म
(ब) व्याघ्रचर्म (द) अजाचर्म
२८२. नृपस्यासने कतिविधानि चर्माणि?
(अ) चतुर्विधानि (स) त्रिविधानि
(ब) पञ्चविधानि (द) षड्विधानि
२८३. नृपासने चर्मोपरि किं स्तरणीयं भवति?
(अ) सुवर्णासनम् (स) ताम्रासनम्
(ब) रजतासनम् (द) लौहासनम्
२८४. राज्ञ आसनं कियद्विस्तृतं भवेत्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७३
(अ) सपादहस्तपरिमितम् (स) द्विहस्तपरिमितम्
(ब) सार्धहस्तपरिमितम् (द) सार्धद्विहस्तपरिमितम्
२८५. नृपासनं कस्योपरि समाच्छादनीयम्?
(अ) व्याघ्रचर्मोपरि (स) सिंहचर्मोपरि
(ब) गजचर्मोपरि (द) वृषभचर्मोपरि
२८६. नृपः स्वासने केन सह तिष्ठेत्?
(अ) मन्त्रिणा सह (स) प्रजाभिः साकम्
(ब) सचिवेन साकम् (द) पुरोधसमम्
२८७. पुरोधा स्वासनस्थं राजानं केन वस्तुना समभिषिञ्चेत्?
(अ) घृतेन (स) पयसा
(ब) जलेन (द) पञ्चगव्येन
२८८. आज्यं तेजःसमुद्दिष्टमाज्यं पापहरं परम्।
आज्यं सुराणामाहारं सर्वमाज्ये प्रतिष्ठितम्॥
केन पठितोऽयं मन्त्रः?
(अ) वसिष्ठेन (स) गौतमेन
(ब) गर्गेण (द) वृद्धगर्गेण
२८९. घृताभिषेककाले केनाच्छादयति राजानम्?
(अ) कम्बलेन (स) कार्पासवस्त्रेण
(ब) पट्टवस्त्रेण (द) सामान्यवस्त्रेण
२९०. कियद्भिर्मन्त्रैरभिषिक्तो भवति नृपः?
(अ) अष्टभिर्मन्त्रैः (स) पञ्चदशमन्त्रैः
(ब) द्वादशमन्त्रैः (द) षोडशमन्त्रैः
२९१. द्वितीयवेद्यां कीदृगासनं समास्तीर्यते?
(अ) वृषभचर्मणः (स) व्याघ्रचर्मणः
(ब) गजचर्मणः (द) सिंहचर्मणः
२९२. द्वितीयायां वेद्यां वृषभचर्मोपरि किं समास्तीर्यते?
(अ) गजचर्म (स) कृष्णमृगचर्म
(ब) मार्जारचर्म (द) हरिणचर्म
२९३. स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
स्निग्धप्रदक्षिणशिखो हुतभुङ्नृपस्य।
गङ्गादिवाकरसुताजलचारुहारं
भूमिं समुद्रवसनां वशगां करोति॥
केनोच्चरितोऽयं मन्त्रः?
बृ० सं० प्र०-४३
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७४ बृहत्संहिता
(अ) पुरोहितेन (स) प्रजावर्गेण
(ब) सचिवेन (द) निजसचिवेन
२९४. दत्वा वित्तं ब्राह्मणेभ्यो गावो हेमपरिष्कृता ।
वास्तुयुग्मं महीं रूप्यं तेभ्यश्च बहुभोजनम् ॥
कस्येदं वाक्यम्?
(अ) वृद्धगर्गस्य (स) वशिष्ठस्य
(ब) गर्गस्य (द) शौनकस्य
२९५. पुष्यस्नानेन किं फलं प्राप्नोति राजा?
(अ) सुखं प्राप्नोति (स) यशः प्राप्नोति
(ब) शुभं लभते (द) धनानि लभते
२९६. पुष्यस्नानमिन्द्राय केनोक्तम्?
(अ) वसिष्ठेन (स) गर्गेण
(ब) सुराचार्येण (द) विश्वामित्रेण
२९७. पुष्यस्नानं किं फलं ददाति राजानम्?
(अ) सौभाग्यं करोति (स) धनं ददाति
(ब) पूजावृद्धिं करोति (द) आयुर्वृद्धिं करोति
२९८. प्रतिपुष्येण यो राजा स्नायति विधिपूर्वकम्।
तस्य राष्ट्रे न सीदन्ति मर्त्या ये जन्तवो मुनिः॥
इदं वचनं कस्यास्ति?
(अ) वसिष्ठस्य (स) पराशरस्य
(ब) गर्गस्य (द) बृहस्पतेः
२९९. अनेन विधिना केषामन्येषामभिषेको भवति?
(अ) गजस्य (स) वृषभस्य
(ब) अश्वस्य (द) प्रजावर्गस्य
३००. कियदङ्गुलपरिमितं मुकुटं राजा अन्यान् परिधापयितुं शक्नोति?
(अ) द्व्यङ्गुलपरिमितम् (स) चतुरङ्गुलपरिमितम्
(ब) त्र्यङ्गुलपरिमितम् (द) पञ्चाङ्गुलपरिमितम्
३०१. राजा कियदङ्गुलपरिमितं मुकुटं परिदधाति?
(अ) अष्टाङ्गुलपरिमितम् (स) पञ्चदशाङ्गुलपरिमितम्
(ब) द्वादशाङ्गुलपरिमितम् (द) नवाङ्गुलपरिमितम्
३०२. कियत्परिमितं दैर्घ्यं भवति राज्ञः मुकुटम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७५
(अ) षोडशाङ्गुलपरिमितम् (स) चतुर्विंशत्यङ्गुलपरिमितम्
(ब) दशाङ्गुलपरिमितम् (द) विंशत्यङ्गुलपरिमितम्
३०३. महिष्याः मुकुटस्य कियदङ्गुलपरिमितो विस्तारो भवेत्?
(अ) सप्ताङ्गुलपरिमितम् (स) अष्टाङ्गुलपरिमितम्
(ब) दशाङ्गुलपरिमितम् (द) एकादशाङ्गुलपरिमितम्
३०४. राज्ञ्याः मुकुटस्य दैर्घ्यं भवेत्—
(अ) चतुर्दशाङ्गुलम् (स) सप्तदशाङ्गुलम्
(ब) द्वादशाङ्गुलम् (द) अष्टादशाङ्गुलम्
३०५. युवराजस्य मुकुटविस्तारो भवेत्—
(अ) षडङ्गुलम् (स) अष्टाङ्गुलम्
(ब) सप्ताङ्गुलम् (द) दशाङ्गुलम्
३०६. युवराजस्य मुकुटस्य दैर्घ्यं कियत् परिमितम्भवेत्?
(अ) दशाङ्गुलम् (स) त्रयोदशाङ्गुलम्
(ब) द्वादशाङ्गुलम् (द) पञ्चदशाङ्गुलम्
३०७. राज्ञां प्रजाभ्य दीयमानस्य मुकुटस्य विस्तारो भवति?
(अ) द्व्यङ्गुलम् (स) पञ्चाङ्गुलम्
(ब) चतुरङ्गुलम् (द) त्र्यङ्गुलम्
३०८. पञ्चशिखं मुकुटं कस्य कृते भवति?
(अ) राज्ञः (स) राजकुमारस्य
(ब) महिष्याः (द) राजकुमार्याः
३०९. क्रियमात्रं यदा पत्रं मध्ये स्फुटति भिद्यते।
तदा नृपभयं प्रोक्तं यत्स्थाने वा प्रकल्पितम्॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) वसिष्ठस्य
(ब) गर्गस्य (द) पराशरस्य
३१०. एकशिखायुतं मुकुटं कस्य कृते?
(अ) सेनापतेः (स) महिष्याः
(ब) युवराजस्य (द) प्रजायाः
३११. उत्तमखड्गः कियदङ्गुलपरिमितं भवति?
(अ) पञ्चाशदङ्गुलपरिमितम् (स) त्रिंशदङ्गुलपरिमितम्
(ब) चत्वारिंशदङ्गुलपरिमितम् (द) चतुश्चत्वारिंशदङ्गुलपरिमितम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७६ बृहत्संहिता
३१२. मृत्योः सूचकं भवति?
(अ) खड्गात् शब्दानिःसरणम् (स) खड्गस्य पतनम्
(ब) खड्गस्य कम्पनम् (द) खड्गस्य कुटिलम्
३१३. खड्गस्य प्रमाणाधिक्यात् किं कर्तव्यम्?
(अ) कर्तितव्यम् (स) घर्षणीयम्
(ब) वक्रीकर्तव्यम् (द) तापनीयम्
३१४. तत्र देशे दिशः कालं व्याहारं द्रव्यदर्शनम्।
अङ्गप्रत्यङ्गसंस्पर्शं समीक्ष्य फलमादिशेत्॥
कस्य वाक्यमिदम्?
(अ) पराशरस्य (स) वसिष्ठस्य
(ब) गौतमस्य (द) धौम्यस्य
३१५. प्रश्नः कुत्र कर्तव्यः?
(अ) जलपूर्णभूमौ (स) फलितवृक्षभूमौ
(ब) अङ्कुरितदूर्वाभूमौ (द) सुगन्धभरितभूमौ
३१६. वेलाः सर्वाः प्रशस्यन्ते पूर्वाह्ने परिपृच्छताम्।
सन्ध्ययोरपराह्ने तु क्षपायान्तु विगर्हिता॥
कस्य वाक्यमिदम्?
(अ) वसिष्ठस्य (स) गर्गस्य
(ब) पराशरस्य (द) शौनकस्य
३१७. कियन्ति पुरुषसंज्ञकाङ्गानि?
(अ) एकोनविंशतिः (स) एकविंशतिः
(ब) विंशतिः (द) द्वाविंशतिः
३१८. पुत्रेच्छुः राजा केन वस्तुना शस्त्रस्नानं कारयेत्?
(अ) घृतेन (स) जलेन
(ब) दुग्धेन (द) पयसा
३१९. शस्त्रं राजा जलेन किमर्थं स्नापयति?
(अ) धनार्थम् (स) विजयार्थम्
(ब) पुत्रार्थम् (द) ऐश्वर्यार्थम्
३२१. अङ्गुष्ठेन लिखेद् भूमिं क्षेत्रचिन्तां विचिन्तयेत्।
हस्तेन पादौ कण्डूयेत् कुर्याद्दाशीकृतां सताम्॥
इति कस्य वाक्यम्?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्नाः ६७७
(अ) पराशरस्य (स) वसिष्ठस्य
(ब) गर्गस्य (द) शौनकस्य
३२२. कुटुम्बस्य वृद्धिः कदा भवति?
(अ) प्रश्नकाले धान्यपूर्णपात्रदर्शनात् (स) पयःपूर्णपात्रदर्शनात्
(ब) जलपूर्णकुम्भदर्शनात् (द) घृतपूर्णपात्रदर्शनात्
३२३. प्रश्नकाले पादाङ्गुष्ठस्पर्शने कश्चौरः?
(अ) दासचौरः (स) दूतचौरः
(ब) दासी चौरः (द) भगिनी चौरः
३२४. हस्ताङ्गुलीस्पर्शने कश्चौरः?
(अ) निजकन्या (स) निजभार्या
(ब) निजपुत्रः (द) निजमित्रम्
३२५. प्रश्नकाले दक्षिणोरुस्पर्शने किं फलम्?
(अ) द्वे कन्यके (स) चतस्रः कन्यकाः
(ब) तिस्रः कन्यकाः (द) षट् कन्यकाः
३२६. प्रश्नकाले शिरःस्पर्शे कस्मिन् नक्षत्रे बालकस्य जन्म?
(अ) अश्विनीनक्षत्रे (स) मूलनक्षत्रे
(ब) उत्तराषाढानक्षत्रे (द) हस्तनक्षत्रे
३२७. प्रश्नकाले केशस्पर्शनात् का सन्ततिसङ्ख्या?
(अ) त्रयः पुत्राः (स) द्वौ पुत्रौ
(ब) चतस्रः कन्यकाः (द) तिस्रः कन्याः
३२८. केवलैका कन्यका किं स्पर्शने भवति?
(अ) पादाङ्गुष्ठस्पर्शने (स) अङ्गुष्ठस्पर्शने
(ब) पार्णियुग्मस्पर्शने (द) तर्जनीस्पर्शने
३२९. प्रश्नकाले दक्षिणोरुस्पर्शने कति सन्तत्यः?
(अ) चतस्रः कन्यकाः (स) द्वौ पुत्रौ
(ब) पञ्च कन्यकाः (द) त्रयः पुत्राः
३३०. इदं सम्यग् विजानाति चेत् सः किं लभते?
(अ) राज्ञः समादरं लभते (स) समाजतः समादरं लभते
(ब) प्रजाभ्यः समादरं लभते (द) सर्वतः समादरं लभते
३३१. प्रश्नकाले कर्णस्पर्शात् कति पुत्राः जायन्ते?
(अ) पञ्च पुत्राः (स) षट् पुत्राः
(ब) चत्वारः पुत्राः (द) सप्त पुत्राः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६७८ बृहत्संहिता
३३२. हस्तस्पर्शने कति पुत्राः जायन्ते?
(अ) त्रयः पुत्राः (स) पञ्च पुत्राः
(ब) चत्वारः पुत्राः (द) द्वौ पुत्रौ
३३३. ललाटमध्ये स्पर्शने कति कन्यकाः जायन्ते?
(अ) चतस्रः कन्यके (स) पञ्च कन्यके
(ब) तिस्रः कन्यके (द) द्वे कन्यके
३३४. स्त्रियाः शिरःस्पर्शने कस्मिन्नक्षत्रे सन्ततिर्जायते?
(अ) कृत्तिकानक्षत्रे (स) मृगशिरानक्षत्रे
(ब) रोहिणीनक्षत्रे (द) आर्द्रानक्षत्रे
३३५. श्वेतपिटकं कस्य कृते शुभम्?
(अ) विप्रस्य कृते (स) वैश्यस्य कृते
(ब) क्षत्रियस्य कृते (द) शूद्रस्य कृते
३३६. क्षत्रियस्य कृते किंवर्णकं पिटकं शुभम्भवति?
(अ) रक्तवर्णकम् (स) धूम्रवर्णकम्
(ब) श्वेतवर्णकम् (द) कृष्णवर्णकम्
३३७. अन्त्यजस्य कृते किंवर्णकं पिटकं शुभम्?
(अ) कृष्णवर्णकम् (स) धूम्रवर्णकम्
(ब) रक्तवर्णकम् (द) सर्ववर्णकम्
३३८. क्व गतं पिटकं धनलाभाय भवति?
(अ) हस्तगतम् (स) शिरोगतम्
(ब) पादगतम् (द) ऊरुगतम्
३३९. नासिकायां पिटकः स्यात्तदा किं लभते?
(अ) वस्त्रलाभः (स) भोजनलाभः
(ब) धनलाभः (द) मानलाभः
३४०. यदि गण्डस्थले पिटकः स्यात्तदा को लाभः?
(अ) पुत्रलाभः (स) कन्यालाभः
(ब) राज्यलाभः (द) धनलाभः
३४१. नेत्रपुटस्थपिटकः किं ददाति?
(अ) शोकम् (स) दैन्यम्
(ब) दुःखम् (द) क्लेशम्
३४२. कराङ्गुलिगतः पिटकः किं ददाति?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्तुनिष्ठप्रश्ना: ६७९
(अ) सौभाग्यम् (स) अन्नम्
(ब) धनम् (द) फलानि
३४३. बाहुगतः पिटकः किं करोति?
(अ) शोकं ददाति (स) शत्रून्नाशयति
(ब) सौभाग्यं करोति (द) मैत्रीं विस्तारयति
३४४. मणिबन्धगः पिटकः किं करोति?
(अ) अन्नवस्त्रादिलाभं करोति (स) हस्तबन्धनं करोति
(ब) भूषणलाभं करोति (द) शत्रून्नाशयति
३४५. हृद्गतः पिटकः किं करोति?
(अ) धनलाभं करोति (स) सौख्यलाभं करोति
(ब) पुत्रलाभं करोति (द) मित्रलाभं करोति
३४६. क्व गतः पिटकः शस्त्रपीडां करोति?
(अ) शिरोगतः (स) गलगतः
(ब) हस्तगतः (द) बाहुगतः
३४७. नाभिगतः पिटकः किं ददाति?
(अ) धनधान्यम् (स) विद्याम्
(ब) सौभाग्यम् (द) सर्वसौख्यम्
३४८. क्व गतः पिटकः वनितां ददाति?
(अ) गलङ्गतः (स) हस्तगतः
(ब) नाभिगतः (द) पादगतः
३४९. जानुगतः पिटकः किं करोति?
(अ) शत्रुबाधां करोति (स) दस्युभयङ्करोति
(ब) चौरभयं करोति (द) राजभयङ्करोति
३५०. मार्गे क्व गतः पिटकः कष्टं प्रापयति?
(अ) गुल्फगतः (स) पार्ष्णिगतः
(ब) पादतलगतः (द) करगतः
३५१. पादगतः पिटकः किं करोति?
(अ) भ्रामयति (स) परदेशं गमयति
(ब) पर्यटनं कारयति (द) देशान्तरं प्रापयति
३५२. अगुष्ठस्थः पिटकः किं करोति?
(अ) बन्धुभिः पूजयति (स) सम्मानं ददाति
(ब) सर्वैः सत्कारयति (द) सर्वत्र पूजां ददाति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६८० बृहत्संहिता
३५३. दक्षिणाङ्गगताः पिटकाः केषां कृते शुभावहाः?
(अ) स्त्रीणां कृते (स) वैश्यानां कृते
(ब) पुरुषाणां कृते (द) कन्यकानां कृते
३५४. वामाङ्गे गताः पिटकाः केषां कृते दुःखदा?
(अ) नारीणां कृते (स) कुमारीणां कृते
(ब) वृद्धानां कृते (द) बालानां कृते
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA