बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 713, कुल 728 में से
संदर्भ में पढ़ेंवस्तुनिष्ठप्रश्नाः ६७१
२६५. बलिप्रदानान्तरं पुरोधा किं कुर्यात् ?
(अ) आवाहनं कुर्यात् (स) प्रार्थनां कुर्यात्
(ब) मन्त्रान् पठेत् (द) आवाहनसामग्रीं निरीक्षेत्
२६६. आगच्छन्तु सुराः सर्वे येऽत्र पूजाऽभिलाषिणः ।
दिशो नागा द्विजाश्चैव ये चाऽप्यन्येऽंशभागिनः ॥
अनेन मन्त्रेण किं कुर्यात् ?
(अ) आवाहनम् (स) वन्दनम्
(ब) पूजनम् (द) विसर्जनम्
२६७. 'पूजां प्राप्य प्रयास्यन्ति दत्वा शान्तिं महीपतेः' इदं वाक्य कः कथयति?
(अ) पुरोहितः (स) आचार्यः
(ब) सचिवः (द) अङ्गरक्षकः
२६८. आवाहनानन्तरं तदानीं पुरोहितादयः किं कुर्युः?
(अ) तां रात्रिं तत्रैव व्यतीयुः।
(ब) गच्छन्तु।
(स) केवलं पुरोहितः तां रात्रीं तत्रैव तिष्ठेत्।
(द) सर्वे तत्रैव निवसन्तु।
२६९. द्वितीयेऽह्नि कस्य वचनं पठितव्यम् ?
(अ) वसिष्ठस्य (स) शौनकस्य
(ब) पराशरस्य (द) वृद्धगर्गस्य
२७०. यात्राप्रस्थानकाले कस्य ग्रन्थानुसारं पूजा विधातव्या?
(अ) यात्रानां पुस्तकानुसारम् (स) कर्मकाण्डप्रदीपानुसारम्
(ब) ग्रहशान्त्यानुसारम् (द) पूजापारिजातानुसारम्
२७१. नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।
वामनाय विरूपाय स्वप्नाधिपतये नमः ॥
अयं मन्त्रः कदा पठितव्यः?
(अ) यात्रायाः पूर्वसन्ध्यायां (स) उत्थाय
(ब) यात्राकाले (द) यात्रातः पूर्वम्
२७२. ग्रहयज्ञे मण्डलं विधाय कस्य पूजा विधातव्या?
(अ) देवतानाम् (स) मातृकानाम्
(ब) पितॄणाम् (द) लोकपालानाम्
२७३. यात्राकालिके ग्रहयज्ञे कतिसङ्ख्याकाः कलशाः भवन्ति?
(अ) चत्वारः कलशाः (स) सप्त कलशाः
(ब) पञ्च कलशाः (द) अष्टौ कलशाः
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA