बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 706, कुल 728 में से
संदर्भ में पढ़ें६६४ बृहत्संहिता
(अ) मण्डलाकृतिः (स) व्यालशूकरोपमा
(ब) वंशगुल्मवत् (द) विस्फुलिङ्गमालिनी
२०५. सुरपतिचापप्रतिमोल्का कन्नाशयति?
(अ) राज्यम् (स) जनपदम्
(ब) ग्रामम् (द) मण्डलम्
२०६. पार्थिवे प्रस्थिते दीप्ता पतत्युल्का महास्वनाः ।
तां दिशं सिद्ध्यते सिद्धिं विजयं लभतेऽचिरात् ॥
इति कस्य कथनम् ?
(अ) कश्यपस्य सत्र. अत्रे:
(ब) वशिष्ठस्य (द) विश्वामित्रस्य
२०७. इन्द्रकृतः परिवेषः किंवर्णकः?
(अ) रक्तवर्णकः (स) हरितवर्णकः
(ब) पीतवर्णकः (द) कृष्णवर्णकः
२०८. वरुणकृतः परिवेषः किंवर्णकः?
(अ) श्वेतवर्णकः (स) हरितवर्णकः
(ब) कपोतवर्णकः (द) श्यामवर्णकः
२०९. कुवेरकृतः परिवेषः किंवर्णकः?
(अ) मयूरकण्ठसदृशः नीलवर्णकः (स) रक्तवर्णकः
(ब) पीतवर्णकः (द) श्वेतवर्णकः
२१०. सितपीतेन्द्रनीलाभरक्तकापोतबभ्रवः ।
शबला बर्हिवर्णाश्च विज्ञेयास्ते शुभप्रदाः ॥
इति कस्योक्तिः?
(अ) वशिष्ठस्य (स) यमस्य
(ब) विश्वामित्रस्य (द) कश्यपस्य
२११. दिवा सूर्ये परिवेषो रात्रौ चन्द्रे यदा भवेत् ।
एकस्मिंश्चेदहोरात्रे तदा नश्यति पार्थिवः ॥
इति कस्य वचनम्?
(अ) गर्गस्य (स) वशिष्ठस्य
(ब) कश्यपस्य (द) विश्वामित्रस्य
२१२. मयूरकण्ठसदृशनीलवर्णपरिवेषः कः करोति?
(अ) कुवेरः (स) वायुः
(ब) वरुणः (द) यमः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA