सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 710, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 710

६६८ बृहत्संहिता
२३९. राशौ राशौ स्थितः सूर्यः शशी वा मित्रसंयुतः?
अधिमित्रेण सन्दृष्टो यथालाभप्रदः स्मृतः॥
इति कस्य वचनम्?
(अ) कश्यपस्य (स) विश्वामित्रस्य
(ब) नारदस्य (द) गौतमस्य
२४०. क्षीरोदे देवान् कः केतुं दास्यति?
(अ) रामः (स) विष्णुः
(ब) कृष्णः (द) केशवः
२४१. केतुं देवान् स्यतीति क आह?
(अ) ब्रह्मा (स) शिवः
(ब) विष्णुः (द) नारदः
२४२. असुरास्तं ध्वजं दृष्ट्वा ध्वजस्तेजःसमाहताः।
विसंज्ञाः समरे भग्नाः पराभूता प्रदुद्रुवुः॥
इति केनोक्तम्?
(अ) गर्गेण (स) नारदेन
(ब) वसिष्ठेन (द) गौतमेन
२४३. प्रौष्ठपादे प्रतिपदि ध्वजार्थं पूर्वतो वनम्।
गत्वा वृक्षं परीक्षेत वयःसारगुणान्वितम्॥
इति कस्य महर्षेः वाक्यम्?
(अ) गर्गस्य (स) अत्रेः
(ब) वसिष्ठस्य (द) पराशरस्य
२४४. ध्वजार्थं को वृक्षः शुभः?
(अ) अर्जुनवृक्षः (स) प्रियकः
(ब) उदुम्बरवृक्षः (द) धवः
२४५. ध्वजार्थं काष्ठं राजा कदा नगरे प्रवेशयेत्?
(अ) भाद्रशुक्लाष्टम्याम् (स) आषाढशुक्लाष्टम्याम्
(ब) श्रावणशुक्लाष्टम्याम् (द) आश्विनशुक्लाष्टम्याम्
२४६. प्रोष्ठपादे सिताष्टम्यां ज्येष्ठायोगे स्वलंकृताम्।
यष्टिं पौरन्दरीं राजा नगरं सम्प्रवेशयेत्॥
इति कस्य कथनम्?
(अ) वसिष्ठस्य (स) नारदस्य
(ब) कश्यपस्य (द) गर्गस्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA