बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 709, कुल 728 में से
संदर्भ में पढ़ेंवस्तुनिष्ठप्रश्नाः ६६७
२३१. निर्घातोऽहोरात्रेण हन्ति नृपपौरभृत्यराष्ट्रजनान्।
तस्करविप्राश्वार्कोदयाद्दिशं पतति यस्याम्॥
इति वाक्यं कुत्रास्ति?
(अ) गर्गसंहितायाम् (स) समाससंहितायाम्
(ब) कश्यपसंहितायाम् (द) बृहत्संहितायाम्
२३२. भानोः वृश्चिक-वृषप्रवेशे ग्रीष्मशरत्सस्यानां सदसद्योगा केन प्रोक्ताः?
(अ) पराशरेण (स) वादरायणेन
(ब) वसिष्ठेन (द) अगस्त्येन
२३३. सूर्याद् बुधे द्वितीये शुक्रे वा युगपदेन तयोः।
रिष्फगयोरप्येवं निष्पत्तिर्गुरुदृशाऽतीव॥
इति वचनं केन प्रोक्तम्?
(अ) कश्यपेन (स) गालवेन
(ब) वादरायणेन (द) नारदेन
२३४. क्व गतः सूर्यः धान्यं नाशयति?
(अ) पापमध्यगतः (स) कुम्भराशिगतः
(ब) वृश्चिकराशिगतः (द) शनिमङ्गलयोरेकः स्यात्
२३५. सूर्यात् सप्तमस्थः पापोऽन्यः केन्द्रगतश्च हानिकरौ।
सौम्यग्रहनिर्दिष्टौ न तथा.............................................॥
इति कस्य वाक्यम्?
(अ) वादरायणस्य (स) विश्वामित्रस्य
(ब) वसिष्ठस्य (द) नारदस्य
२३६. वृषे महिषगोवस्त्रशालयः पुष्यसम्भवाः।
मिथुने धान्यशालूकवल्व्यः कार्पासशारदम्॥
इति कस्योक्तिः?
(अ) वसिष्ठस्य (स) नारदस्य
(ब) कश्यपस्य (द) धौम्यस्य
२३७. 'पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वर' इति कस्य कथनम्?
(अ) वसिष्ठस्य (स) कश्यपस्य
(ब) विश्वामित्रस्य (द) नारदस्य
२३८. सिंहराशिगते सूर्ये संगृहीतानि रत्नानि कतिमासानन्तरं विक्रेतव्यानि?
(अ) चतुर्मासानन्तरम् (स) षण्मासानन्तरम्
(ब) पञ्चमासानन्तरम् (द) सप्तमासानन्तरम्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA