बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
सांवत्सरसूत्राध्यायः १७
हस्तोरुजानुगुल्फपादेषु सन्धयो यस्य। अविकलोऽव्यङ्गः परिपूर्णावयवः। चारुकरचरण-
नखनयनचिबुकदशनश्रवणललाटभ्रूत्तमाङ्गः। करौ हस्तौ। चरणौ पादौ। नखाः कररुहाः।
नयने चक्षुषी। चिबुकमधराधोभागः। दशना दन्ताः। श्रवणौ कर्णौ। ललाटं मुखपृष्ठभागः।
भ्रुवौ नयनोपरि रोमलेखे। उत्तमाङ्गं शिरः। एतानि चारूणि दर्शनीयानि यस्य। प्रशस्त-
लक्षणयुक्तानीत्यर्थः। वपुष्मान् वपुः शरीरं शोभनं विद्यते यस्य। रूपवानित्यर्थः। गम्भीरो-
दात्तघोषः गम्भीरः सानुनाद उदात्त उद्भटो घोषः शब्दो यस्य। मेघमृदङ्गसमध्वनिरित्यर्थः।
हि यस्मादर्थे। प्रायो बाहुल्येन शरीराकारानुवर्तिनः। शरीरस्याकारः शरीराकारस्तमनुवर्तन्ते
शरीराकारानुवर्तिनः। के ते गुणा दोषाश्च भवन्ति। शरीरस्य सादृश्यं गुणा दोषाश्चानुवर्तन्ते।
निर्दोषं शरीरं गुणा अनुवर्तन्ते। सदोषं शरीरं दोषाश्चानुवर्तन्त इति। तथा चोक्तम्—
‘यत्राकृतिस्तत्र गुणा भवन्ति’ इति।।२।।
अथ गुणानाह—
तत्र गुणाः—शुचिर्दक्षः प्रगल्भो वाग्मी प्रतिभानवान् देशकालवित्
सात्त्विको न पर्षद्वीरुः सहाध्यायिभिरनभिभवनीयः कुशलोऽव्यसनी
शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवासनिरतः स्व-
तन्त्राश्चर्योत्पादितप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिता-
होराग्रन्थार्थवेत्तेति ॥३॥
दैवज्ञों के गुण कहते हैं—पवित्र, चतुर, सभा में बोलने वाला, वाचाल, प्रतिभाशाली,
देश-काल को जानने वाला, निर्मल चित्त वाला, सभी में निर्भय, सहपाठियों से पराजय
को नहीं पाने वाला, चेष्टाओं को जानने वाला, व्यसनों से रहित, शान्तिक ( उत्पातों के
निवारणार्थ वेदोक्त मन्त्र-पाठ-विनियोग का अनुष्ठान ), पौष्टिक ( आयु, धन आदि को
बढ़ाने वाली विद्या ), अभिचार ( मारण, मोहन, उच्चाटन, विद्वेषण, वशीकरण, स्तम्भन,
चालन आदि विद्या )—इनको जानने वाला, देवपूजन्, व्रत, उपवासों में निरत, अपने
शास्त्र द्वारा आश्चर्यजनक विषय लाकर प्रभाव को बढ़ाने वाला, प्रश्नोत्तर करने वाला,
दैवात्यय ( प्राकृतिक अशुभ उत्पात ) के निवारणार्थ बिना पूछे भी शान्तिकर्म बताने
वाला और ग्रहों की गणित, संहिता, होरा—इनके ग्रन्थों के अर्थ को जानने वाला दैवज्ञ
होना चाहिए।।३।।
तत्र गुणा इति। तत्र तस्मिन् सांवत्सरे शरीरे वा गुणाः। के ते? तद्यथा शुचिः
शास्त्रोक्तशौचानुष्ठाता परस्वदेवधनाद्यलुब्धश्च। दक्षश्चतुरः शीघ्रकारी। प्रगल्भः सभायां
वक्तुं शक्तः। वाग्मी प्रशस्ता शास्त्रार्थानुसारिणी वाग्यस्य। प्रतिभानवान् प्रतिभा एव
प्रतिभानम्, तद्विद्यते यस्यासौ प्रतिभानवान्। पृष्टः सन् पौर्वापर्यं शास्त्रं स्मृत्वोत्तरं
ददातीत्यर्थः। देशकालवित् देशवित्सर्वदेशेषु व्यवहारज्ञः। मध्यदेशादिष्वार्यदेशेषु यच्चेष्टितं
तज्जानाति। कालस्वरूपज्ञः पूर्वाह्नमध्याह्नाऽपराह्नादिषु कालेषु घर्मवर्षशीतसाधारणकालेषु
चेदं क्रियते इदं न क्रियत इति जानाति। अथवा देशमानूपजाङ्गलमरुभूमीत्यादिकं
बृ० भ० प्र०-२
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१८ बृहत्संहिता
हस्त्यश्वखरोष्ट्रनावादिषु मनुष्यगम्यं जानाति। कालं यात्रादाविदं योग्यमिदमयोग्यमिति
जानाति। अथवा देशविद्यथा—कश्मीरादिषु हिमप्रधानेषु बहुव्रीहिसम्भवं दृष्ट्वोत्पातं न
वक्ति मध्यदेशादौ वक्ति। कालविद्यथा—
चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु।
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः।। इति।
सात्त्विको निर्मलचित्तः। भयहर्षशोकादिभिरनभिभवनीयः। न पर्षद्वीरुः। परिषदि सभा-
यामभीरुस्त्यक्तभयः। सहाध्यायिभिरनभिभवनीया। सह सार्द्धमध्ययनं पठनं कृतं यैस्ते सहा-
ध्यायिनस्तैः सहाध्यायिभिः समानतन्त्रैरनभिभवनीयो ज्ञेयः। कुशलः शिक्षित इङ्गितज्ञः।
अव्यसनी गीतवाद्यनृत्यस्त्रीद्यूतद्युनिद्रादिषु व्यसनेष्वसक्तः। शान्तिकपौष्टिकाभिचारस्नान-
विद्याभिज्ञः। उत्पातप्रतीकारार्थं वेदोक्तमन्त्रपाठविनियोगानुष्ठाता शान्तिकविद्याभिज्ञः। आयु-
र्धनादिवृद्धिकरणं पौष्टिकविद्या तदभिज्ञः। कृत्यावेतालोत्थापनमारणोच्चाटनविद्वेषणवशी-
करणस्तम्भनचालनादिकमभिचारविद्या तदभिज्ञः। स्नानविद्यासु नित्यनैमित्तिककाम्यक्रिया-
ङ्गस्स्वभिज्ञः। पुष्यस्नानादिषु वेत्ता। आभिमुख्येन जानातीत्यभिज्ञः। विबुधार्चनव्रतोपवास-
निरतः। विबुधा देवास्तेषामर्चनं पूजा आवाहनस्नानमाल्यानुलेपनधूपोपहारवाद्यगेयनृत्य-
स्तोत्रपाठादिका तस्यामभिज्ञः। व्रतानि कृच्छ्रपराकचान्द्रायणप्रभृतीनि। उपवासः अभोजनम्।
यथा—एकादश्यां न भुञ्जीतेत्यादि, एतेषु निरतः सक्तः। स्वतन्त्राश्चर्योत्पादितप्रभावः। स्व-
तन्त्रं ग्रहगणितं तत्रार्कचन्द्रग्रहणग्रहसमागमयुद्धानामनागताभिधायकत्वाद्यन्त्राणां कूर्ममयूर-
चापशङ्खघण्टापुरुषादीनां काष्ठादिविरचितानां स्वयमेव कालव्यञ्जकत्वाद्यदाश्चर्यं कुतूहलं
तेनोत्पादितो जनित आत्मनः प्रभाव उत्कर्षो येन। पृष्टाभिधायी परिपृष्टस्यार्थस्याभिधायको
वक्ता। नापृष्टस्य किन्त्वन्यत्र देवात्ययात्। दिव्यामन्तरिक्षभौमेषूत्पातेषु यद्भाव्यशुभं स देवात्य-
यस्तन्निवारणाय शान्त्यादिकमपृष्टेनाप्यभिधातव्यं वक्तव्यम्। ग्रहगणितसंहिताहोराग्रन्था-
र्थवेत्ता। ग्रहगणिते पञ्चसिद्धान्तिकायां संहितायां फलग्रन्थे होरायां जातकादौ ग्रन्थार्थवेत्ता
ग्रन्थज्ञोऽर्थज्ञश्च। सूत्रार्थपाठकस्तदर्थविदित्यर्थः॥३॥
अथान्यल्लक्षणमाह—
तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युग-
वर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्तनाडीप्राणत्रुटित्रुट्यद्यवयवादिकस्य कालस्य
क्षेत्रस्य च वेत्ता ॥४॥
ग्रहगणित के प्रसंग में पौलिश, रोमक, वासिष्ठ, सौर, पैतामह—इन पाँच सिद्धान्तों में
प्रतिपादित युग, वर्ष, अयन, ऋतु, मास, पक्ष, अहोरात्र, प्रहर, मुहूर्त, घटी, पला, प्राण,
त्रुटि, त्रुटि के अवयव आदि कालों का तथा भगण, राशि, अंश, कला, विकला आदि क्षेत्रों
का ज्ञाता ज्योतिषी को होना चाहिये।
ब्राह्मस्फुट सिद्धान्त में युगों का प्रमाण—तैंतालीस लाख बीस हजार सौरवर्ष
(४३२००००) सन्ध्या सन्ध्यांशसहित चारो युग (एक महायुग) का मान है। इसके
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः १९
दशमांश ४३२००० को चार से गुणा करने पर सन्ध्या-सन्ध्यांशसहित कृतयुग का
मान = १७२८०००, तीन से गुणा करने पर सन्ध्या-सन्ध्यांशसहित त्रेता का मान =
१२९६०००, दो से गुणा करने पर सन्ध्या-सन्ध्यांशसहित द्वापर का मान = ८६४०००
और एक से गुणा करने पर सन्ध्या-सन्ध्यांशसहित कलियुग का मान = ४३२०००
होता है।
सौरवर्ष-प्रमाण—मेष से लेकर मीनपर्यन्त जितने सायनकाल में रवि भोग करता
है, वह सौरवर्षकाल होता है। यह वर्षादि ३६५/१५/३०/२२/३० होते हैं।
अयनज्ञान-प्रमाण—मकरादि छः राशियों में यदि सूर्य हो तो उत्तरायण और कर्क
आदि छः राशियों में हो तो दक्षिणायन होता है।
मकर-कुम्भ के सूर्य में शिशिर ऋतु, मीन-मेष के सूर्य में वसन्त ऋतु, वृष-मिथुन
के सूर्य में ग्रीष्म ऋतु, कर्क-सिंह के सूर्य में वर्षा ऋतु, कन्या-तुला के सूर्य में शरत् ऋतु
और वृश्चिक-धनु के सूर्य में हेमन्त ऋतु होती है॥४॥
तत्रेति। तत्र तस्मिन् ग्रहगणिते पञ्चसिद्धान्ता भवन्ति। के ते? पौलिशरोमकवासिष्ठ-
सौरपैतामहाः, पुलिशसिद्धान्तः, रोमकसिद्धान्तः, वासिष्ठसिद्धान्तः, सूर्यसिद्धान्तः, ब्रह्म-
सिद्धान्त इति। एतेषु सिद्धान्तेषु पञ्चसु वेत्ताऽभिज्ञः। युगवर्षायनर्तुमासपक्षाहोरात्रयाम-
मुहूर्त्तनाडीविनाडीप्राणत्रुटित्रुट्याद्यवयवस्य कालस्य वेत्ता। युगानां कृतत्रेताद्वापरकलीनां
प्रमाणज्ञः। यथैतावद्भिः सौरैर्वर्षैः कृतयुगं भवति, एतावद्भिस्त्रेता, एतावद्भिर्द्वापरम्, एता-
वद्भिः कलिरिति। तद्यथा—खखखदन्ताब्धयः कलियुगपरिमाणं तदेव द्विगुणं द्वापरप्रमाणं
त्रिगुणं त्रेताप्रमाणं चतुर्गुणं कृतयुगप्रमाणं भवति। एतैः सर्वैरेकीकृत्य चतुर्युगप्रमाणं
भवति। तथा च ब्रह्मसिद्धान्ते—
खचतुष्टयरदवेदा ४३२०००० रविवर्षाणां चतुर्युगं भवति।
सन्ध्यासन्ध्यांशैः सह चत्वारि पृथक् कृतादीनि॥
युगदशभागो गुणितः कृतं चतुर्भिस्त्रिभिर्गुणस्त्रेता।
द्विगुणो द्वापरमेकेन सङ्गुणः कलियुगं भवति॥
तथा च पुलिशसिद्धान्ते दिव्येन मानेन पठ्यन्ते—
अष्टाचत्वारिंशत् पादविहीना क्रमात् कृतादीनाम्।
अब्दास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वम्॥ इति।
तद्यथा—४८००। ३६००। २४००।१२००। एते दिव्येन मानेनातः षष्टिस-
मधिकशतत्रयेण गुणिता जाताः १७२८००० कृतम्। १२९६००० त्रेता। ८६४०००
द्वापरम्। ४३२००० कलिः। एवं युगानां वेत्ता।
यावता कालेनार्को द्वादशराशिकं भचक्रं मेषादिमीनान्तं भुङ्क्ते, तद्वर्षं तेन सौरवर्षप्रमा-
णेन युगसंख्यानम्। एवं रविराशिभोगो मासः। द्वादशभिर्मासैर्वर्षमिति। तथा च ब्रह्म-
सिद्धान्ते—'नृवत्सरोऽर्काब्दः' इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२० बृहत्संहिता
अयने दक्षिणोत्तरे षड्भिः सूर्यमासैरूत्तरमयनं षड्भिर्दक्षिणमिति। तत्र मकरादिरा-
षिषट्कस्थेऽर्क उत्तरमयनं कर्क्यादिराशिषट्कस्थे दक्षिणमिति।
ऋतवः षड् भवन्ति शिशिरादयः। ते च मासद्वयात्मकाः। तद्यथा—मकरकुम्भस्थेऽर्के
शिशिरः। मीनमेषस्थे वसन्तः। वृषमिथुनस्थे ग्रीष्मः। कर्कटसिंहस्थे वर्षाः। कन्यातुलास्थे
शरत्। वृश्चिकधन्विस्थिते हेमन्त इति। तथा चाचार्यः—
उदयगयनं मकरादावृतवः शिशिरादयश्च सूर्यवशात्।
द्विभवनकालसमाना दक्षिणमयनं च कर्कटकात्।। इति।
तथा च ब्रह्मसिद्धान्ते—
द्वौ द्वौ राशी मकरादृतवः षट् सूर्यगतिवशाद्योज्याः।
शिशिरवसन्तग्रीष्मवर्षाशरदः सहेमन्ताः।। इति।
मासश्चैत्रादिकः। स च रविराशिभोगस्त्रिंशद्दिनात्मकः। पक्षो मासार्धं पञ्चदश दिनानि।
अहोरात्रं षष्टिर्घटिकाः। यामोऽहोरात्राष्टमभागः। दिनस्य चतुर्थभागो रात्रेश्च। मुहूर्तोऽह्नः
पञ्चदशांशः, रात्रेश्च पञ्चदशभागः। नाडी घटिकाऽहोरात्रषष्ट्यंशः। विनाडी विघटिका घटिका-
षष्ट्यंशः। प्राणः श्वासनिर्गमप्रवेशौ। त्रुटिश्चक्षुर्निमेषद्वयम्। त्रुट्याद्यवयवस्तदर्धम्। आदि-
ग्रहणात् त्रुटिचतुर्थभागमपि। एवमादिकस्य वेत्ता।
तथा च भगवान् पराशरः—यावता कालेन विकृतमक्षरमुच्चार्यते स निमेषः। निमेष-
द्वयं त्रुटिः। त्रुटिद्वयं लवः। लवद्वयं क्षणः। दश क्षणाः काष्ठा। दश काष्ठाः कला। दश
कला नाडिका। नाडिकाद्वयं मुहूर्तः। त्रिंशन्मुहूर्ता दिनमिति। एवं कालस्य वेत्ता। तथा
क्षेत्रस्य वेत्ता। तत्र कालक्षेत्रयोः साम्यम्। तद्यथा—काले षट् प्राणा विघटिका। विघटिकानां
षष्ट्या घटिका। घटिकानां षष्ट्या दिनम्। दिनानां त्रिंशता मासः। मासैर्द्वादशभिर्वर्षं
भवति। अथ क्षेत्रे। षष्ट्या तत्पराणां विलिप्ता भवति। विलिप्तानां षष्ट्या लिप्ता।
लिप्तानां षष्ट्या भागः। भागानां त्रिंशता राशिः। राशिद्वादशकं भगण इति। तथा च
ब्रह्मसिद्धान्ते—
प्राणैर्विनाडिका षड्भिर्घटिकैका विनाडिकाषष्ट्या।
घटिकाषष्ट्या दिवसो दिवसानां त्रिंशता मासः।।
मासा द्वादश वर्षं विकलालिप्तांशराशिभगणान्तः।
क्षेत्रविभागस्तुल्यः कालेन विनाडिकाद्येन।।
तथा च पौलिशे—
षट् प्राणास्तु विनाडी तत्षष्ट्या नाडिका दिनं षष्ट्या।
एतासां तत्त्रिंशन्मासस्तैर्द्वादशभिरब्दः।।
षष्ट्या तु तत्पराणां विकला तत्षष्टिरपि कला तासाम्।
षष्ट्यांशस्ते त्रिंशद्राशिस्ते द्वादश भचक्रम्।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः २१
तथा चार्यभटः—
वर्षं द्वादश मासास्त्रिंशद्दिवसो भवेत् स मासस्तु।
षष्टिर्नाड्यो दिवसः षष्टिश्च विनाडिका नाडी।।
गुर्वक्षराणि षष्टिर्विनाडिकार्क्षी षडेव वा प्राणाः।
एवं कालविभागः क्षेत्रविभागस्तथा भगणात्।।४।।
अन्यदप्याह—
चतुर्णां च मानानां सौरसावननाक्षत्रचान्द्राणामधिमासकावमसम्भवस्य च
कारणाभिज्ञः।।५।।
सौर, सावन, नाक्षत्र, चान्द्र—इन चारो मासों को और अधिकमास, क्षयमास—
इनके उत्पत्ति-कारणों को जानने वाला ज्योतिषी होना चाहिये।।५।।
विशेष—सूर्य के एक अंश भोग्य काल को एक सौर दिन, सूर्योदय से अग्रिम
सूर्योदय तक एक सावन दिन, नक्षत्रोदय से नक्षत्रोदय तक एक नाक्षत्र दिन और एक तिथि
भोग्य काल को चान्द्र दिन कहते हैं।
अधिमास और क्षयमास का लक्षण—शुक्ल प्रतिपदा से लेकर अमा तक एक
चान्द्र मास होता है। यदि इस चान्द्र मास में रवि की संक्रान्ति न हो तो अधिक मास एवं
दो संक्रान्ति हो तो क्षयमास होता है। क्षयमास कार्तिक आदि तीन महीने में ही होता है तथा
जिस वर्ष में क्षयमास होता है, उस वर्ष में दो अधिमास पतित होते हैं।
चतुर्णां च मानानामिति । त्रिंशद्भागपरिकल्पनया यावता कालेनार्को भागमेकं भुङ्क्ते
तत्सौरं दिनम्। तत्त्रिंशता मासः। एवं राशिभोगेन संक्रान्त्यवधिर्यो मास एतत्सौरं मानम्।
सर्वेषां ग्रहनक्षत्राणां स्वोदयात् पुनः स्वोदयं यावत्तत्सावनं दिनम्। तत्त्रिंशता मास इति।
एवं सावनं मानम्। नाक्षत्रं मानं चन्द्रनक्षत्रभोगः। यावता कालेन नक्षत्रमेकं चन्द्रमा भुङ्क्ते
तन्नाक्षत्रं दिनम्। तत्र च दिनानां सप्तविंशत्या मासो भवति। एवं नाक्षत्रं मानम्। अमा-
वास्यान्तात् प्रतिपत्प्रभृत्यर्काच्चन्द्रः प्रतिदिनमग्रगो भूत्वा प्रतिपदाद्यान् पञ्चदश तिथीन्
निर्वर्तयति यावत्पौर्णमास्यन्तम्। तथा च कृष्णपक्षप्रतिपत्प्रभृत्यर्कसमीपं क्रमेण गत्वा
अमाबास्यान्तं निर्वर्तयतीति चान्द्रं मानम्। एवं तिथिरेव चन्द्रदिनम्। त्रिंशत्तिथयो मास
इति। तथा च पुलिशसिद्धान्ते—
सावनमकृतं चान्द्रं सूर्येन्दुसमागमान् दिनीकृत्य।
सौरं भूदिनराशिं शशिभगणदिनानि नाक्षत्रम्।।
सावनमकृतं स्वयमेव सिद्धं यावन्तश्चतुर्युगेणार्कभगणास्तावन्त एव सौरमानेनाब्दाः।
यदस्माकं सौरमानं तत्पुलिशाचार्यसावनम्। तत्र चतुर्युगाब्दाः ४३२००००। एत एव
द्वादशहताः सावनमासाः ५१८४००००। एतावत्यश्चतुर्युगेणार्कसंक्रान्तयः। एतास्त्रिंशद्गुणाः
सावनमानदिनानि १५५५२०००००। एतावतश्चतुर्युगेणार्को भागान् भुङ्क्ते, तत्र यावता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२ बृहत्संहिता
कालेनार्को भागमेकं भुङ्क्ते स सावनमानदिवसः सिद्धः—'चान्द्रं सूर्येन्दुसमागमान् दिनी-
कृत्यै'ति। तद्यथा—
परिवर्त्तैरयुतगुणैर्द्वित्रिकृतैर्भास्करो युगं भुङ्क्ते।
इति रविभगणाः ४३२००००।
रसदहनहुतवहानलशरमुनिपवनेन्द्रियैश्चन्द्रः।
इति चन्द्रभगणाः ५७७५३३३६।
अर्कचन्द्रभगणानामन्तरम् ५३४३३३३६।
एतान् सूर्येन्दुसमागमान् दिनीकृत्य त्रिंशता सङ्गुण्य दिनरूपा भवन्ति। ते च दिनी-
कृत्य जाताः १६०३००००८० चतुर्युगेणैतावन्तांश्चान्द्रेण मानेन दिवसा भवन्ति। यदेव
चान्द्रं मानं सैव तिथिः।
सौरं भूदिनराशिमिति। भूदिनराशिश्चतुर्युगभगणाः। तस्यानयनमहर्गणविधिनैव।
तच्च प्रदर्श्यते। सावनमासानामेतेषां ५१८४०००० चतुर्युगाधिमासका उच्यन्ते—
अधिमासकाः षडग्नित्रिकदहनच्छिद्रशररूपाः।
न्यासः १५९३३३६ एतान् संयोज्य जाताः ५३४३३३३६। एत एव रविचन्द्र-
समागमा उत्पन्नाः। यत उक्तम्—
भगणान्तरशेषं यत्समागमास्ते द्वयोर्ग्रहयोः।। इति।
अत एव त्रिंशता गुणिता जाताः १६०३००००८०। एते चन्द्रमानदिवसा उत्पन्नाः।
एतेषां चतुर्युगोनरात्राः के ते उच्यन्ते—
तिथिलोपाः खवसुद्विकदस्त्राष्टकशून्यशरपक्षाः २५०८२२८०।
एतान् संशोध्य जातम् १५७७९१७८००। एष भूदिनराशिश्चतुर्युगाहर्गणः। तावन्तश्च-
तुर्युगेण दिवसाः सौरेण मानेन भवन्ति। अस्माकं सावनं तत्पुलिशाचार्यस्य सौरमानम्।
अर्द्धरात्रादर्द्धरात्रं यावत्सौरेण मानेन दिनमुदयादुदयं वा।
शशिभगणदिनानि नाक्षत्रमिति। तत्र शशिभगणाः ५७७५३३३६। एते त्रिंशद्गुणिताः
सन्तो दिनीकृताः १७३२६०००८०। एतावन्तश्चतुर्युगेण नाक्षत्रमानदिवसाः। अत्र नक्षत्र-
भोगदिनं चन्द्रभगणत्रिंशद्भागो दिनम्। एवं यावता कालेन चन्द्रो द्वादश भागान् भुङ्क्ते तावता
कालेन नाक्षत्रं दिनम्। भगवद्वसिष्ठादिभिश्चन्द्रनक्षत्रभोगेन नाक्षत्रदिनमभिहितम्, किन्तु तैर्न-
क्षत्रमानैः सप्तविंशत्या दिनैर्मासोऽभिहितः। एवं पुलिशाचार्यस्य नाक्षत्रं मानं वसिष्ठादिभिः
सह भिन्नम्। अस्य सर्वमानेषु त्रिंशद्दिनात्मको मास इति प्रतिज्ञा। पराशरादीनां यत्सौरं
मानं तस्यानेन सावनमिति संज्ञा कृता सावनस्य सौर इति। अथैतानेव पठति—
दस्रार्थबाणतिथयो लक्षहताः १५५५२००००० सावनेन ते दिवसाः।
वियदष्टखचतुष्कत्रिखषोडश १६०३००००८० चान्द्रमानेन।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः २३ ।
वसुसप्तरूपनवमुनिनगतिथयः शतगुणाश्च १५७७९१७८०० सौरेण।
आर्क्षेण खाष्टखत्रयषड्दस्रगुणानिलशशाङ्काः १७३२६०००८०।।
अथ चन्द्रभगणाः सप्तविंशत्या गुणिता वसिष्ठादिमतेन नाक्षत्रं मानम्—
पक्षसप्तखशून्याब्धिगुणगोऽर्थशरेन्दवः १५५९३४००७२।
चतुर्युगार्क्षाण्येतानि कथितानि पुरातनैः।। इति।
तथा च भट्टबलभद्रः—
रव्यंशभोगोऽहोरात्रः सौरश्चान्द्रमसस्थितिः।
चन्द्रनक्षत्रभोगश्च नाक्षत्रः परिकीर्तितः।।
स्वसावनो ग्रहर्क्षाणामुदयादुदयावधिः।
नक्षत्रमाने मासः स्यात् सप्तविंशतिवासरैः।।
शेषमानेषु निर्दिष्टो मासस्त्रिंशद्दिनात्मकः।
इष्टाः सर्वेषु मानेषु समा द्वादशमासिकाः।। इति।
अन्यच्च नाक्षत्रं मानं सावनमानस्य मूलभूतं यतो नक्षत्रपरिवर्त्ता नियता एव, एषा-
मगतित्वात्। नक्षत्रपरिवर्तेभ्यो ग्रहभगणान् संशोध्य प्रत्येकस्य ग्रहस्य सावनं मानं भवति।
यतो नक्षत्रग्रहौ यदैकत्र स्थितौ भवतस्तदा नक्षत्रमगतित्वात्तत्रैव तिष्ठति। ग्रहः स्वस्वगतिवशेन
प्रतिदिनं नक्षत्रादग्रगो भूत्वोदयास्तमयौ करोति। भूम्यासन्नो दृष्टिपथं यातीति यावत्।
तेन नाक्षत्रं मानं सावनसाधकम्। तथा च पुलिशसिद्धान्ते पठ्यन्ते नक्षत्रपरिवर्त्ताः—
खखाष्टमुनिरामाश्विनेत्राष्टशररात्रिपाः १५८२२३७८००।
भानां चतुर्युगेणैते परिवर्त्ताः प्रकीर्तिताः।।
एभ्यः सूर्यभगणान् संशोध्य जाताः सावनदिवसा इति १५७७९१७८००। तथा
च ब्रह्मसिद्धान्ते—
रविभगणोना भानां सावनदिवसाः कुदिवसा वा।
तथा च—
नक्षत्रसावनदिनात् सूर्यादीनां स्वसावनदिनानि।
यस्मात्तस्मादार्क्षं दुरधिगमं मन्दबुद्धीनाम्।। इति।
अधिमासकावमसम्भवस्य च कारणाभिज्ञः। अधिमासकसम्भवः सौरमासचान्द्रमास-
योरन्तरात्। यथाऽहर्गणे क्रियमाणे पूर्वं सौरो वर्षगणो भवति। तस्मिन् मासीकृते वर्त्तमान-
वर्षगतमाससंयुक्ते त्रैराशिकोपलब्धान् गताधिमासकान् संयोज्य चान्द्रो मासगणो भवति।
तेन सौरमासचान्द्रमासानान्तरमधिमासकाः। तथा च ब्रह्मसिद्धान्ते—‘शशिमासाः सूर्य-
मासोना अधिमासाः' इति।
अथावमसम्भवः प्रदर्श्यते—शशिमानसावनमानयोरन्तरादवमोत्पत्तिः। चान्द्रं मानं
२४ बृहत्संहिता
यावत्सावनमानेन मीयते तावत्प्रतिवर्षं षड्दिनान्यधिकतराणि न पूर्यन्ते तान्येवोनरात्रवाच्यानि
तिथीनां न्यूनताऽवमानि तत्र तिथ्यानयने कर्म। अर्कोनस्य चन्द्रस्य लिप्तापिण्डीकृतस्य खय-
मस्वरै७२०भागे हृते भुक्ततिथयो लभ्यन्ते। शिष्टस्य षष्टिगुणस्य चन्द्रार्कस्फुटभुक्त्यन्तरं
भागहारः। तच्च कदाचिन्न्यूनं कदाचिदधिकं भवति। तेन मध्यमभुक्त्योरन्तरेणोत्पत्तिः
प्रदर्श्यते। तद्यथा—अर्कमध्यमभुक्तिः ५९। चन्द्रमध्यमभुक्तिः ७९०। अनयोरन्तरं सप्तशत-
मेकत्रिंशदधिकम् ७३१। अत्र खयमस्वरान् ७२० विशोध्यैकादश ११ अवशिष्यन्ते,
तान्यवमशब्दवाच्यानि। तानि चानुदिनं तिथिप्रमाणादधिकमग्रतोऽर्काच्चन्द्रो भूत्वा तिथिलोपं
करोति तदेवावमरात्रसंज्ञम्। एवं शशिदिवसानां सावनदिवसानां चान्तरमवमानि। तथा
च ब्राह्मे—‘शशिसावनदिवसान्तरमवमानि’ इति। एवमत्र ज्ञानं यथा—सौरचान्द्रमानयोरन्त-
रमधिमासकाः शशिसावनयोरन्तरमवमानि। अत्र पुलिशाचार्यः—
चान्द्रैः सावनवियुतैः प्रचयस्तैरपचयोऽर्कदिनहीनैः।
चतुर्युगचन्द्रदिवसानां सावनदिवसान् संशोध्य चतुर्युगाधिमासकदिवसा भवन्ति।
तेषां त्रिंशता भागमपहृत्य चतुर्युगाधिमासकाः। तैरेव चन्द्रदिवसैरर्कसावनदिनहीनैर्यदवशि-
ष्यते तावन्ति चतुर्युगेणापचयदिनानि भवन्ति। ऊनरात्रा इत्यर्थः। सावनमासस्य चन्द्रमानेन
सहान्तरे कृते यदतिरिच्यते तदधिमासकाख्यः। चन्द्रमानात्सौरं यदूनं तदूनरात्राः। तद्यथा—
चतुर्युगे चन्द्रदिवसानामेतेषां १६०३००००८० सावनमानाहनीमानि १५५५२०००००
संशोध्य जातं ४७८०००८० सावनमानादेतावन्ति चतुर्युगे चन्द्रदिनान्यतिरिच्यन्ते।
एतेषां त्रिंशता भागमपहृत्यावाप्तं १५९३३३६ एतावन्तश्चतुर्युगेणाधिमासकाः। अथवा
सावनदिनानां चन्द्रदिनानां च त्रिंशता भागमपहृत्य मासाः कार्यास्तेषामन्तरेऽधिकमासकाः।
अथोनरात्रार्थं चान्द्रमानदिवसानामेतेषां १६०३००००८० सौरमानदिनान्येतानि
१५७७९१७८०० संशोध्य जातं २५०८२२८० एतावन्तश्चतुर्युगेणोनरात्राः। एवं चतु-
र्युगस्य प्रदर्शिताः।
अथ संवत्सरस्य प्रदर्श्यते। तत्र सावनमानेन स्वानि संवत्सरदिनानि ३६०। अस्मिन्नेव
सावनसंवत्सरे चन्द्रदिनानि ३७१/२८००८०/४३२००००। एतेषामुत्पत्तिमग्रतः प्रदर्श-
यिष्यामः। अत्र सावनमानाहनीमानि ३६० संशोध्य जातं ११/२८००८०/४३२००००।
एतावन्ति दिनानि प्रतिसंवत्सरे प्रचयो भवति।
अथ संवत्सरप्रचयदिनानि प्रकारान्तरेणानीयन्ते त्रैराशिकेन। न्यासः ४३२००००।
४७८०००८०। १। अतः फलं तदेव।
अथ कियता कालेनाधिमासकः पततीति त्रैराशिकेन प्रदर्श्यते। न्यासः—११/२
८००८०/४३२००००। ३६०। ३०। अत्राद्यो राशिः सवर्णीकृतो जातः ४७८०००
८०। यस्मादाद्यो राशिश्चतुर्युगाब्दैर्गुणितः सवर्णीभूतस्तस्मादन्योऽपि राशिश्चतुर्युगाब्दैरेवं
गुणितो जातः १२९६०००००। अथ भागहारराशिशेषः ४७८०००८०। गुण्यराशिना
सांवत्सरसूत्राध्यायः २५
षष्ट्यधिकैस्त्रिभिः शतैरपवर्तितः १३२७७८। एष भागहारराशिः। अथ भाज्यभाजकराशी
जातौ १२९६००००००। १३२७७८। एतौ पुनरपि द्वाभ्यामपवर्तितौ जातौ ६४८००
०००। ६६३८९। भाज्यस्य भाजकराशिना भागमपहृत्यावाप्तम् ९७६/४३३६/६६
३८९। एतावद्भिः सावनदिवसैर्गतैरधिमासः पतति। वर्षद्वयं मासाष्टकं षोडशदिवसा दर्शिता-
ऽवशेषसहिताः। अनेन कालेन भवति। एतेषामेव दिवसानां प्रकारान्तरेणानयनं त्रैराशिकेन
१५९३३३६। १५५५२०००००। १। फलम् ९७६/१०४०६४/१५९३३३६।
अत्रावशेषच्छेदौ चतुर्विंशत्याऽपवर्तितौ जातौ ४३३६/६६३८९। एवमधिमासकोत्पत्तिः
प्रदर्शिता।
अथापचयाः प्रदर्श्यन्ते। तत्र चतुर्युगचन्द्रदिनानामेतेषां १६०३००००८०। सूर्यदिव-
सानेतान् १५७७९१७८०० संशोध्य जातम् २५०८२२८०। एतावन्तश्चतुर्युगेणोनरात्राः।
एवं चतुर्युगस्य प्रदर्शिताः।
अथ संवत्सरस्य प्रदर्श्यन्ते। तत्र वक्ष्यमाणविधिना चन्द्रसंवत्सरे सौरमानदिनानि
३५४/१६३४३८८/४४५२७७८। एतानि चन्द्रसंवत्सरस्वदिनेभ्यः ३६० संशोध्य
जातम् ५/२८१८३९०/४४५२७७८। अत्रावमशेषच्छेदौ द्वाभ्यामपवर्तितौ। एतावन्तः
संवत्सरेणोनरात्रा भवन्ति। एतेषां त्रैराशिकेन प्रकारान्तरेणानयनम्। न्यासः—१६०३
०००८०। २५०८२२८०। ३६०। अत्राद्यो भागहारराशिर्गुणकारराशिना षष्ट्यधिकैस्त्रिभिः
शतैरपवर्तितो जातः ४४५२७७८। अनेन राशिना चतुर्युगोनरात्राणां भागमपहृत्यावाप्तम्
५/२८१८३९०/४४५३७७८। एतावन्त ऊनरात्राः संवत्सरेण भवन्ति पूर्वानीतेषु
संविदिता इति। अथ कतिभिर्दिवसैरूनरात्रपातो भवतीति तथा त्रैराशिकेन तत्प्रदर्श्यते।
न्यासः—५/२८१८३९०/४४५२७७८। ३६०। १। अत्राद्यो राशिः सवर्णीकृतः २५०
८२२८०। यस्मादनेन ४४५२७७८ राशिना गुणितो आद्यो राशिः सवर्णीभूतस्त-
स्मादनेनैव राशिनान्त्यो राशिरेष १ गुणितो जातः ४४५२७७८। एष भाज्यो राशिः।
अथास्य भाजकराशेः २५०८२२८० गुण्यराशिनानेन ३६० भागमपहृत्यावाप्तम् ६९६
७३। अनेन भाज्यस्याऽस्य राशेः ४४५२७७८ भागमपहृत्यावाप्तम् ६३/६३२७९/
६९६७३। एतावद्भिश्चान्द्रमानदिवसैरूनरात्रः पतति। अस्यैवोनरात्रस्यानयने त्रैराशिकेनापरः
प्रकारः। २५०८२२८०। १६०३००००८०। १। अतः फलम् ६३। अत्रावशेषच्छेदौ
षष्ट्यधिकैस्त्रिभिः शतैरपवर्तितौ जातौ ६३२७९/६९६७३। एतावन्त एव ऊनरात्रदिवसाः
पूर्वानीतेषु संविदिता इति। तथा चाचार्यः—
युगवर्षमासपिण्डं रविमानं साधिमासकं चान्द्रम्।
अवमविहीनं सावनमैन्दवमब्दान्वितं त्वाक्षम्॥ इति।
एवमधिमासकावमसम्भवस्य च कारणाभिज्ञः।। इति।।५।।
अन्यत् कीदृशो दैवविदित्याह—
षष्ट्यब्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिच्छेदवित् ॥६॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
२६ बृहत्संहिता
प्रभव आदि साठ संवत्सर, तदन्तर्गत युग, वर्ष, मास, दिन, होरा—इनके अधिपतियों
की प्रतिपत्ति ( प्रवर्तन ) और छेद ( निवृत्ति ) का ज्ञान भी दैवज्ञ को होना चाहिये ।। ६ ।।
षष्टिवर्षाणि षष्ट्यब्दः। स च पुनः पुनर्भवति। तस्य प्रतिपत्तिः प्रवर्तनं कस्मिन् काले
षष्ट्यब्दस्य प्रारम्भो भविष्यति। एतच्च बृहस्पतिचारे वक्ष्यत्याचार्यः—
आद्यं धनिष्ठांशमभिप्रवृत्तो माघे यदा यात्युदयं सुरेज्यः।
षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते भूतहितस्तदाब्दः ।। इति।
छेदस्तस्यैव षष्ट्यब्दस्य निवृत्तिः। तज्जानातीति छेदवित्। तन्मध्ये च तत्र द्वादशयुगानि
भवन्ति।
विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च।
क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः।। इति।
एतेषामाचार्यो बृहस्पतिचारे गणितविधानं वक्ष्यति। वयमपि तत्रैव व्याख्यास्यामः।
एषामपि प्रतिपत्तिच्छेदवित्। अत्र च सावनमानेन वर्षपतिर्भवति। तत्र चानयनमाचार्येणोक्तम्।
तथाऽहर्गणानयनम्—
सप्ताश्विवेदसंख्यं शक्रकालमपास्य चैत्रशुक्लादौ।
अर्द्धास्तमिते भानौ यवनपुरे सोमदिवसाद्ये।।
मासीकृते समासे द्विष्ठे सप्ताहतेऽष्टयमपक्षैः २२८।
लब्धैर्युतोऽधिमासैस्त्रिंशद्घ्नस्तिथियुतोऽधःस्थः ।।
रुद्रघ्नः समनुशरो ५१४ लब्धोनो गुणखसप्तभि७०३र्द्युगणः।
रोमकसिद्धान्तेऽयं नातिचिरे पौलिशेऽप्येवम् ।। इति।
अतो वर्षाधिपानयनम्—
मुनियमयमद्वि२२२७युक्ते द्युगणे शून्यद्विपञ्चयमभक्ते २५२०।
प्रतिराशि खर्तुदहनैर्लब्धं वर्षाणि यातानि।।
तानि प्रपन्नसहितान्यग्निगुणान्यश्विवर्जितानि हरेत्।
सप्तभिरेवं शेषो वर्षाधिपतिः क्रमात् सूर्यात्।।
तत्राहर्गणस्य षष्टिशतत्रयेण भागे हृते यच्छेषं तानि दिनानि प्रवृत्तस्याब्दपतेर्गतानि
तान्येव षष्ट्यधिकाच्छतत्रयात् संशोध्य यदवशिष्यते तावन्ति दिनान्येवाब्दपतिर्भविष्यति।
एवमब्दपतेः प्रतिपत्तिच्छेदौ ज्ञातौ। मासपतेरपि सावनेनैव मानेन प्रवृत्तिनिवृत्ती भवतः।
तस्य चानयनमाचार्येण तत्रैवोक्तम्। तथा च—
त्रिंशद्भक्ते मासाः प्रतिपत्सहिता द्विसंगुणा व्येकाः।
सप्तोद्धृतावशेषो मासाधिपतिस्तथैवार्कात्।।
तत्र त्रिंशता भागे हृते यदवशिष्यते तावन्त्येव दिनानि तस्य मासपतेः प्रवृत्तस्य
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः २७
गतानि। तानि च त्रिंशतः संशोध्य यदवशिष्यते तावन्ति दिनानि स एव मासपतिर्भवति।
एवं मासाधिपतेः प्रतिपत्तिच्छेदौ जातौ। तथा च ब्रह्मसिद्धान्ते—
षष्टिशतत्रयभक्तात् कल्पगताहर्गणात्फलं त्रिगुणम्।
सैकं सप्तविभक्तं सावनवर्षाधिपोऽर्कादिः॥
द्युगणात्त्रिंशद्भक्ताद्यल्लब्धं द्विगुणीतं सरूपं तत्।
सप्तविभक्ते शेषः सावनमासाधिपोऽर्कादिः॥
दिनपतिहोराधिपत्योराचार्याणां निश्चयो नास्ति। केषाञ्चिदौदयिको वारपतिः। अन्येषां
माध्याह्निकोऽन्येषामस्तमयिकोऽन्येषामार्द्धरात्रिक इति। तथा चाचार्यः—
द्युगणाद्दिनवाराप्तिर्द्युगणोऽपि हि देशकालसम्बन्धः।
लाटाचार्येणोक्तो यवनपुरेऽर्द्धास्तगे सूर्ये॥
रव्युदये लङ्कायां सिंहाचार्येण दिनगणोऽभिहितः।
यवनानां निशि दशभिर्गतैर्मुहूर्तैश्च तद्गुरुणा॥
लङ्कार्द्धरात्रसमये दिनप्रवृत्तिं जगाद चार्यभटः।
भूयः स एव चार्कौदयात् प्रभृत्याह लङ्कायाम्॥
देशान्तरसंशुद्धिं कृत्वा चेन्न घटते तथा तस्मिन्।
कालस्यास्मिन् साम्यं तैरेवोक्तं यथा शास्त्रम्॥
मध्याह्नं भद्राश्वेष्वस्तमयं कुरुषु केतुमालानाम्।
कुरुतेऽर्द्धरात्रमुद्यन् भारतवर्षे युगपदर्कः॥
उदयो यो लङ्कायां योऽस्तमयः सवितुरेव सिद्धपुरे।
यमकोट्यां मध्याह्नं रोमकविषयेऽर्द्धरात्रं च॥
अधिमासकोनरात्रग्रहदिनतिथिविसमेषचन्द्राकाः ।
अयनर्त्वक्षगतिनिशाः समं प्रवृत्ता युगस्यादौ॥
अन्यद्रोमकविषयाद् देशान्तरमन्यदेव यवनपुरात्।
लङ्कार्द्धरात्रसमयादन्यत् सूर्योदयाच्चैव॥
सूर्यस्यार्द्धास्तमयात् प्रतिविषयं यदि दिनाधिपं ब्रूमः।
तत्रापि नाप्तवाक्यं न च युक्तिः काचिदप्यस्ति॥
सन्ध्या क्वचित्क्वचिदहः क्वचिन्निशा दिवसपतेः क्वचित्क्वचित्।
स्वल्पे स्वल्पे स्थाने व्याकुलमेवं दिनपतित्वम्॥
होरावार्त्ताप्येवं यस्माद्धोरा दिनाधिपस्याद्या।
तस्यापरिनिष्ठाने होराधिपतिः कथं भवति॥
अविदित्तैवं प्रायो दिनवारे जनपदः प्रवृत्तोऽयम्।
स्फुटतिथिविच्छेदसमं युक्तमिदं प्राहुराचार्याः॥ इति।
एवं स्थिते सति दिनवार औदयिक इत्यस्माकं मतम्। यस्माद्भट्टब्रह्मगुप्तेनोक्तम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
जगति तमोभूतेऽस्मिन् सृष्ट्यादौ भास्करादिभिः सृष्टैः।
यस्माद् दिनप्रवृत्तिर्दिनवारोऽर्कोदयात् तस्मात्।।
तत्र च विशेषः—
दिनवारादिः पश्चादुज्जयिनीदक्षिणोत्तरायाः प्राक्।
देशान्तरघटिकाभिः प्राक् पश्चाद्भवति रव्युदयात्।। इति।
दिनाधिपस्तु सावनेनैव मानेन भवति, किन्तु देशे देशे स्वदेशान्तरघटिकाभिश्चराद्ध-
कालयुक्ताभिर्वियुक्ताभिर्वा क्वचित्सूर्योदयाद्दिवागते काले क्वचित्सूर्योदयात्पूर्वं दिनप्रवृत्तिः।
तद्यथा—उज्जयिनीयाम्योत्तररेखायाः प्राग्भागे स्वदेशान्तरघटिकाभिः सूर्योदयात्परतो
वारप्रवृत्तिर्भवति। रेखापश्चिमभागे स्वदेशान्तरतुल्याभिर्घटिकाभी रात्रिशेषाभिर्वारप्रवृत्तिरिति।
एवं विषुवद्दिने चरदलाभावादन्यकाले चरदलं स्वधिया योज्यं यथासम्भवम्। तत्रायं प्रयोगः—
स्वदेशमध्याह्नघटिकाः पञ्चदशभ्यो विशोध्यावशेषघटिकाभिस्ताभी रेखाप्राग्भागे मध्याह्नात्
प्राग् वारादिः स्वदेशे नित्यं वक्तव्यः। रेखापश्चिमभागे मध्याह्नादूर्ध्वं तावतीभिरेव घटिका-
भिरिति। तथा च भट्टबलभद्रः—
उज्जयिनीतस्तु गता या रेखा दक्षिणेन लङ्कायाम्।
उत्तरतस्तु सुमेरोर्ज्ञेया देशान्तराख्या सा।।
स्वदेशरेखान्तरयोजनानां षष्ट्या हतानां स्फुटभूतहृतानाम्।
ज्ञेयः स लब्ध्या घटिकादिकालो देशान्तराख्यः सततं स्वदेशे।।
चराद्धैतत्कालयुतौ गतायां दिवा सुराहे दिनपादिवेला।
रेखादिभागे च परे निशायां कालेन शेषेण महेन्द्ररात्रौ।।
रेखादिभागे त्रिदिवेशरात्रौ कालान्तरोनश्चरखण्डशेषः।
काले नते तत्क्षणदावशेषे न्यूने चराद्धे तु दिवागते स्यात्।।
रेखापरार्द्धे तु कृतान्तराले चराद्धकालाभ्यधिके दिनस्य।
काले प्रयाते त्रिदशाह्नि वेला तदूनतायां क्षणदावशेषे।।
एवं यस्मिन् काले वर्तमानस्य दिनपतेः प्रवृत्तस्तस्मिन् कालेऽतीतस्य निवृत्तिरिति।
एवं दिनपतेः प्रतिपत्तिच्छेदौ ज्ञातौ।
अथ होराधिपत्यानयने तत्र यावतीनां घटीनां वारपतेरारम्भात्प्रभृति दिनगतानां रात्रि-
गतानां वा कालहोरा ज्ञातुमिष्यते ता घटिका अभीष्टकाले गता एकीकृत्य यावत्यो भवन्ति
ता द्विगुणाः कार्याः। ततस्तासां पञ्चभिर्भागमपहृत्यावशेषाङ्कसमो दिनपात्प्रभृतीष्टे काले
होराधिपो भवति। पञ्चभिर्भागे हृते यच्छेषं तदधः पञ्चभ्यो विशोधयेत्। ततो द्वावप्यूर्ध्वाधः-
स्थितावङ्कावर्द्धीकृत्योर्ध्वस्थो वर्तमानहोरापतेर्गतः कालः। अधःस्थितो यस्तावत्कालः स
एव होराधिपतिः। तथा च भट्टबलभद्रः—
प्रारम्भकालाद्दिनपस्य याते काले यमघ्नेऽर्थहृते तु लब्धिः।
शराहता चन्द्रयुताद्रिभक्ता शेषस्तु होराधिपतिर्द्युपादेः।।
सांवत्सरसूत्राध्यायः २९
तथा चास्मदीयवचनम्—
वारपतेरारम्भात्कालाद्द्विगुणाच्छरैर्हताल्लब्धम्।
पञ्चघ्नं रूपयुतं मुनिभक्तं वारपात् स होरेशः।।
तत्र होराधिपतेर्नाडिकाद्वयं सार्द्धभागं परिकल्प्य प्रवृत्तिनिवृत्त्योः परिकल्पना कार्या।
तथा च ब्रह्मसिद्धान्ते—
दिनगतघटिका द्विगुणाः पञ्चहता वान्यमतमेतत्।। इति।
तथा चाऽऽचार्यः—
सप्तोद्धृते दिनेशास्त्रिगुणो व्येको युतश्च होराभिः।
पञ्चघ्नः सप्तहतो विज्ञेयः कालहोरेशः।। इति।
अत्राऽहर्गणाद्यो दिनपतिस्ततोऽस्यानयनं कार्यम्। एवं वर्षाधिपादीनामयं गणनाक्रमः।
वर्तमानवर्षाधिपाच्चतुर्थोऽन्यस्मिन् वर्षे भवति। मासाधिपाद् मासपतिस्तृतीयः। होराधिपा-
द्धोरापतिः षष्ठः। दिनपतिर्निरन्तर इति। तथा चाऽऽचार्यः कक्षाक्रममुक्त्वाऽऽह—
मासाधिपा यथोर्ध्वं चन्द्रात् सौरादधश्च होरेशाः।
ऊर्ध्वक्रमेण दिनपाश्च पञ्चमा वर्षपाः स्पष्टाः।। इति।
तथा च—
वर्षाधिपश्चतुर्थो मासाधिपतिस्तथा तृतीयोऽन्यः।
होराधिपश्च षष्ठो निरन्तरं दिवसनाथः स्यात्।।
एवं होराधिपतिप्रतिपत्तिच्छेदौ ज्ञातौ।।६।।
अथान्यदप्याह—
सौरादीनां च मानानामसदृशसदृशयोग्याययोग्यत्वप्रतिपादनपटुः ॥७॥
दैवज्ञ को अनेक शास्त्रों में कहे गये सौर आदि मानों में यथार्थ और अयथार्थ का
विचार करने में कुशल होना चाहिये अर्थात् इन शास्त्रोक्त भिन्न-भिन्न मानों में कौन ठीक
है? कौ नहीं? इसका विचार करने में योग्य होना चाहिये।।७।।
सौरमानं रविराशिभोगः। अनया कल्पनया यावता कालेनार्को राशिद्वादशकं भचक्रं
भुङ्क्ते तावान् कालो रविमानेन वर्षं भवति। द्वादश राशयो द्वादशमासा एव। एतच्च सौरं
मानं सावनदिनानां पञ्चषष्ट्यधिकं दिनशतत्रयं भवति घटिकापञ्चदशकेन सार्द्धेनाधिकम्।
सावनं मानं स्वोदयात् स्वोदयं यावत् षष्ट्यधिकेन दिनशतत्रयेण भवति। नाक्षत्रं
चन्द्रनक्षत्रभोगः। तच्च कदाचित् षट्षष्टिघटिका भवन्ति कदाचिच्चतुष्पञ्चाशत्। अत्रापि
मध्ये सञ्चरति।
चान्द्रं तिथिभोगः। तस्यापि नक्षत्रवदूनाधिकता। एतदसदृशत्वं मानानाम्। सदृशत्वं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३० बृहत्संहिता
चैककार्यकरणद्वारेण। तच्चैककार्यकरणं ग्रहगतिसाधनं नाम। तद्यथा—प्रथमं तावन्नक्षत्र-
परिवर्त्ता इष्टग्रहभगणोना यावत्क्रियन्ते तावदिष्टग्रहस्य सावनदिवसा भवन्ति। ते च नक्षत्र-
परिवर्त्ताः सूर्य्यभगणोना भूदिनसंज्ञास्तावत् स्थाप्याः। तत्रेष्टकाले कल्पाब्दा ये गता रवि-
परिवर्त्ताः सौरमानोत्पन्नास्ते च द्वादशगुणिता वर्त्तमानकाले चैत्रसिताद्यतीतमाससंयुक्ता
रविमानेनैव मासा भवन्ति। ततस्तस्मिन् मासगणे त्रैराशिकोपलब्धान् गताधिमासकान्
संयोज्य त्रिंशता सङ्गुण्य वर्त्तमानमासगततिथीः संयोज्य चान्द्रो दिनगणो भवति। स च
त्रैराशिकोपलब्धैस्तिथिलोपैर्विहीनः सावनोऽहर्गणो भवति। स चेष्टग्रहभगणगुणः सावनदिन-
हतः फलं भगणादिको ग्रहः। स च स्फुटीकृतो जातकादावुपयुज्यत इति।
एवं सर्वमानानामेककार्यत्वं नाम सादृश्यम्। अथवा पुलिशसिद्धान्तानुसारेण प्रद-
र्श्यते। तत्र सदृशत्वविज्ञाने सूत्रम्—
युगवत्सरैः प्रयच्छति यदि मानचतुष्टयं किमेकेन।
यदवाप्तं ते दिवसा विज्ञेयाः सावनादीनाम्।।
युगवत्सरैः यदि माने माने पठितदिवसा लभ्यन्ते तदैकस्मिन् संवत्सरे कियन्तः
स्युरिति त्रैराशिके न्यासः ४३२००००। १५५५२०००००। १। अतः फलम् ३६०।
एवं ज्ञातं यथा सावनमानवर्षे एतावद्भिः सावनमानदिवसैर्वर्षमिति।
न्यासः ४३२००००। १६०३००००८०। १। अतः फलम् ३७१/२८००८०/
४३२००००। सावनवर्षेणैतावन्तश्चान्द्रमानदिवसा भवन्ति।
न्यासः ४२२००००। १५७७९१७८००। १। फलम् ३६५/१११७८००/
४३२००००। सावनवर्षेणैतावन्तः सौरमानदिवसा भवन्ति।
न्यासः ४३२००००। १७३२६००८०। १। फलम् ४०१/२८००८०/४३२
०००० सावनवर्षेणैतावन्तो नाक्षत्रमानदिवसा भवन्ति।
न्यासः ४३२००००। १५५९३४००७२। १। फलम् ३६०/४१४००७२/
४३२००००। सावनवर्षेणैतावन्ति नक्षत्राणि भवन्ति।
अथ चान्द्रमानेन चातुर्युगदिवसानाम् १६०३००००८० एतेषां त्रिंशता भागमपहृत्या-
वाप्तम् ५३४३३३३६। एतावन्तश्चतुर्युगेण चान्द्रमानेन मासा भवन्ति। एतेषां द्वादश-
भिर्भागमपहृत्यावाप्तम् ४४५२७७८। एतावन्ति चतुर्युगेण चान्द्रेण मानेन वर्षाणि भवन्ति।
तत्र न्यासः ४४५२७७८। १६०३००००८०। १। फलम् ३६०। एतावन्तश्चान्द्रमानवर्षेण
चान्द्रमानदिवसा भवन्ति।
न्यासः ४४५२७७८। १५५५२०००००। १। फलम् ३४९/११८०४०८/४
४५२७७८। चान्द्रवर्षेणैतावन्तः सावनमानदिवसा भवन्ति।
न्यासः ४४५२७७८। १५७७९१७८००। १। फलम् ३५४/१६३४३८८/४
४५२७७८। एतावन्तश्चान्द्रवर्षेण सौरदिवसा भवन्ति।
सांवत्सरसूत्राध्यायः ३१
न्यासः ४४५२७७८। १७३२६०००८०। १। फलम् ३८९/४६९४३८/
४४ ५२७७८। एतावन्तश्चान्द्रवर्षेण नाक्षत्रमानदिवसा भवन्ति।
न्यासः ४४५२७७८। १५५९३४००७२। १। फलम् ३५०/८६७७७२/
४४ ५२७७८। एतावन्ति चान्द्रवर्षेण नक्षत्राणि भवन्ति।
अथ चतुर्युगसौरमानदिवसानामेतेषां १५७७९१७८०० त्रिंशता भागमपहृत्यावाप्तम्
५२५९७२६०। एतावन्तश्चतुर्युगेण सौरमानमासा भवन्ति। तेषां द्वादशभिर्भागमपहृत्या-
वाप्तम् ४३८३१०५। एतेषां चतुर्युगेण वर्षाणि भवन्ति।
न्यासः ४३८३१०५। १५७७९१७८००। १। फलम् ३६०। एतावन्तः सौरेण
वर्षेण सौरमानदिवसा भवन्ति।
न्यासः ४३८३१०५। १५५५२०००००। १। फलम् ३५४/३५८०८३०/४
३८३१०५। सौरवर्षेणैतावन्तः सावनमानदिवसा भवन्ति।
न्यासः ४३८३१०५। १६०३००००८०। १। फलम् ३६५/३१६६७५५/४
३८३१०५। एतावन्तः सौरवर्षेण चान्द्रमानदिवसा भवन्ति।
न्यासः ४३८३१०५। १७३२६०००८०। १। फलम् ३९५/१२७३६०५/४
३८३१०५। एतावन्ति सौरवर्षेण नाक्षत्रमानदिनानि भवन्ति।
न्यासः ४३८३१०५। १५५९३४००७२। १। फलम् ३५५/३३३७७९७/४
३८३१०५। एतावन्ति सौरवर्षेण नक्षत्राणि भवन्ति।
अथ चतुर्युगेण नाक्षत्रमानदिवसाः १७३२६०००८०। एतेषां त्रिंशता भागमप-
हृत्यावाप्तम् ५७७५३३३६। एतावन्तश्चतुर्युगेण नाक्षत्रमानमासाः। एतेषां द्वादशभि-
र्भागमपहृत्यावाप्तम् ४८१२७७८। एतावन्ति चतुर्युगनाक्षत्रमानवर्षाणि भवन्ति।
न्यासः ४८१२७७८। १७३२६०००८०। १। फलम् ३६०। नाक्षत्रमानवर्षेणैता-
वन्ति नाक्षत्रमानदिनानि भवन्ति।
न्यासः ४८१२७७८। १६०३००००८०। १। फलम् ३३३/३४५००६/४८
१२७७८। नाक्षत्रमानवर्षेणैतावन्ति चान्द्रमानदिनानि भवन्ति।
न्यासः ४८१२७७८। १५५५२०००००। १। फलम् ३२३/६७२७०६/४८
१२७७८। नाक्षत्रमानवर्षेणैतावन्ति सावनमानदिनानि भवन्ति।
न्यासः ४८१२७७८। १५७७९१७८००। १। फलम् ३२७/४१३९३९४/४
८१२७७८। नाक्षत्रमानवर्षेणैतावन्ति सौरमानदिनानि भवन्ति।
न्यासः ४८१२७७८। १५५९३४००७२। १। फलम् ३२४। नाक्षत्रमानवर्षेणैता-
वन्ति नक्षत्राणि भवन्ति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ चतुर्युगेण नाक्षत्राणामेतेषां १५५९३००७२ सप्तविंशत्या भागमपहृत्यावाप्तम्
५७७५३३३६। एतावन्तश्चतुर्युगेण नाक्षत्रमासाः पूर्वानीतेषु नाक्षत्रमानमासेषु संविदिताः।
एतेषां तुल्यत्वाद्वर्षाणि तुल्यान्येव। वर्षाणां तुल्यत्वात्सर्वमानेषु त्रैराशिकमपि तुल्यम्।
अत्र तात्पर्यार्थः—सौरमानं स्वमानेन षष्ट्यधिकं शतत्रयं दिनानां भवति। तस्मिन्नेव वर्षे
चान्द्राणि त्रीणि शतानि एकसप्तत्यधिकानि किञ्चिदधिकदिनानि आयान्ति। तस्मिन्नेव
सावनदिनानि त्रीणि शतानि पञ्चषष्ट्यधिकानि सपादान्यायान्ति। तस्मिन्नेव नाक्षत्रदिनानि
चत्वारि शतान्येकाधिकानि किञ्चिदधिकान्यायान्ति।
तथा चान्द्रमानं स्वमानेन षष्ट्यधिकं दिनशतत्रयं भवति। तस्मिन्नेव रविदिनानां
शतत्रयमेकान्नपञ्चाशदधिकं सपादं भवति। तस्मिन्नेव सावनदिनानां शतत्रयं चतुष्पञ्चाशदधिकं
सावशेषं भवति। तस्मिन्नेव नाक्षत्रदिनानां शतत्रयमेकान्ननवत्यधिकं भवति।
तथा सावनं वर्षं स्वमानेन षष्ट्यधिकं शतत्रयं दिनानां भवति। तस्मिन्नेव रविदिनानां
चतुष्पञ्चाशदधिकं शतत्रयमेकान्नपञ्चाशद्घटिकाधिकं भवति। तस्मिन्नेव चान्द्रं पञ्चषष्ट्यधिकं
शतत्रयं दिनानां त्रिचत्वारिंशद्घटिकाधिकं भवन्ति। तस्मिन्नेव शतत्रयं पञ्चनवत्यधिकं दिनानां
नाक्षत्रमानं भवति।
तथा नाक्षत्रं वर्षं स्वमानेन दिनानां षष्ट्यधिकं शतत्रयं भवति। तस्मिन्नेव चान्द्रदिनानां
शतत्रयं त्रयस्त्रिंशदधिकं भवति। तस्मिन्नेव शतत्रयं त्रयोविंशत्यधिकं दिनानां सौरं मानं
भवति। तस्मिन्नेव सावनं दिनं दिनानां शतत्रयं सप्तविंशत्यधिकं भवति। एवं प्रत्येकं
स्वमानेन षष्टिशतत्रयं दिनानां भवत्येव तत्सदृशत्वम्। एवं सौरादीनां च मानानामस-
दृशसदृशत्वं च ज्ञातम्।
अथ योग्यायोग्यत्वं प्रतिपाद्यते। सौरं मानं क्व योग्यं क्व वाऽयोग्यं तेन यन्निश्चीयते
तदुच्यते। तद्यथा—युगानि कृतयुगादीनि तथा वर्षाणि विषुवद्द्वयमयनद्वयमृतवो दिनप्रमाणं
चेति। अत्र तद्योग्यं नान्यत्र। तथा चान्द्रेण तिथयः करणान्यधिमासकोनरात्रामावास्यान्तं
पौर्णमास्यन्तम्। तत्र तद्योग्यं नान्यत्र। तथा सावनं यज्ञव्रतोपवासचिकित्सांसूतकप्रायश्चित्त-
ग्रहगतौ योग्यत्वं नान्यत्र। नाक्षत्रं मानं सावनमानस्य मूलभूतं यद्वशात् क्रियते तत्तत्र योग्यं
नान्यत्र। तथा च ब्रह्मसिद्धान्ते—
सौरेणाब्दा मासास्तिथयश्चान्द्रेण सावनैर्दिवसाः।
दिनमासाब्दपमध्या न तद्दिनाऽर्केन्दुमानाभ्याम्।।
मानानि सौरचान्द्रार्क्षसावनानि ग्रहानयनमेभिः।
चारैः पृथक् चतुर्भिः संव्यवहारश्च लोकस्य।।
युगवर्षविषुवदयनत्वहर्निशावृद्धिहानयः सौरात्।
तिथिकरणाधिकमासोनरात्रपूर्वक्रियाश्चान्द्रात् ।।
यज्ञसवनप्रमाणग्रहगत्युपवाससूतकचिकित्साः ।
सावनमानाज्ज्ञेयाः प्रायश्चित्ताः क्रियाश्चान्याः।।
सांवत्सरसूत्राध्यायः ३३
नक्षत्रसावनदिनात् सूर्यदीनां स्वसावनदिनानि।
यस्मात्तस्मादार्कं दुरधिगमं मन्दबुद्धीनाम्।। इति।
केचित्तु चन्द्रनक्षत्रभोगेन रूपसत्राख्यो यो व्रतविशेषस्तत्रोपयोगित्वमाहुर्नक्षत्रमानस्य।
तथा च भगवान् गर्गः—
सावनैन्दवसावित्रैर्दिनमाससमात्मकैः ।
व्यवहारो भसत्रेषु भमानेन प्रकीर्तितः ।। इति ।
एवं सौरादीनां मानानामसदृशसदृशयोग्यायोग्यत्वप्रतिपादने पटुः कुशलः ।।७।।
अन्यदप्याह—
सिद्धान्तभेदेऽप्ययननिवृत्तौ प्रत्यक्षं सममण्डललेखासम्प्रयोगाभ्युदितां-
शकानां छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः ॥८॥
सिद्धान्तों में सौर आदि मानों के भेद, अयननिवृत्ति के भेद, सममण्डल प्रवेशकालिक
उदित अंशों के भेद, छाया जलयन्त्र से दृग्गणितैक्य—इनको जानने में दैवज्ञ को कुशल
होना चाहिये ।।८।।
सिद्धान्तभेदेऽपीति । सिद्धान्ताः पौलिशादयः, तेषां भेदः असादृश्यम्, तस्मिन्नपि प्रति-
पादने कुशलः शक्तः । अतिगणितपटुत्वात् । यथा—अमुकसिद्धान्तस्याऽमुकसिद्धान्तेन सह
ग्रहाणामेतावदन्तरममुकेनापि सहैतावदन्तरमिति।
एवं ग्रहणसमागमादीनामपि। तथा चाऽऽचार्येण पञ्चसिद्धान्तिकायामेव प्रदर्शितम्।
तथा च—
खार्कघ्नेऽग्निहुताशनमपास्य रूपाग्निवसुहुताशकृतैः ।
हृत्वा क्रमाद्दिनेशो मध्यः केन्द्रं सविंशांशम्।।
इति पौलिशे। तथा च—
रोमकसूर्यो द्युगणात् खतिथिघ्नात्पञ्चकर्तुपरिहीणात्।
सप्ताष्टकसप्तकृतेन्द्रियोद्धृतात् मध्यमः सूर्यः ।।
तथा—
द्युगुणेऽर्कोऽष्टशतघ्ने विपक्षवेदारर्णवेऽर्कसिद्धान्ते।
स्वरखाश्विद्विनवयमोद्धते क्रमाद्दिनदलेऽवन्त्याम्।। इत्यादि।
एवं सिद्धान्तत्रयेणार्कमानीयान्तरं बोद्धव्यमिति। तथायनयोर्दक्षिणोत्तरयोर्या निवृत्ति-
र्निवर्तनं तस्यामपि प्रतिपादने कुशलः। यथा—अमुकसिद्धान्तेऽर्कस्यैतावद्भिर्दिनैरेतावती-
भिर्घटिकाभिरयनचलनममुकसिद्धान्ते एतावतीभिर्दृष्ट्याऽमुकस्मिन् दिने एतावतीभिर्घटिकाभिश्च
दृश्यते तत्प्रतिपादने च कुशलः। एतच्चाऽऽचार्येणैवं प्रतिपादितम्। तथा च पञ्चसिद्धान्ति-
कायाम्—
बृ० सं० [२८-३]. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३४ बृहत्संहिता
आश्लेषार्द्धादासीद्यदा निवृत्तिः किलोष्णकिरणस्य।
युक्तमयनं तदाऽऽसीत् साम्प्रतमयनं पुनर्वसुतः॥
तथा च वक्ष्यति—
आश्लेषार्द्धाद्दक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम्।
नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु॥
साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत्।
उक्ताभावे विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः॥
तथा च दृष्टिवेधमाचार्य एव वक्ष्यति—
दूरस्थचिह्नवेधादुदयेऽस्तमये सहस्रांशोः।
छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति॥ इति।
कथं प्रतिपादने कुशलः। प्रत्यक्षं दृश्यमानं पीठयन्त्रादिभिः कालयन्त्रैर्यथा लोकाः
प्रतिपद्यन्ते। अपिशब्दः समुच्चये। तथा सममण्डललेखासम्प्रयोगाभ्युदितांशकानां च
प्रतिपादने कुशलः। यथा स्वदेशसममण्डलाख्या लेखा विषुवल्लेखेत्यर्थः। तया योऽसौ
ग्रहाणां सम्प्रयोगः सम्प्रवेशस्तत्र येऽभ्युदितांशका अभिमुखेनोद्गताः शेषा वांशकाः।
स्वाहोरात्रवृत्ते ये दिनभागा दिनगतघटिकाः शेषघटिका वेत्यर्थः। यथास्मिन्निष्टदिने
भगवतो भास्करस्य एतावतीभिर्दिनगतघटिकाभिः सममण्डलप्रवेशो भवति तावतीभिश्च
शेषाभिः। तासां प्रतिपादने कुशलः।
अर्कस्य सममण्डलप्रवेशकाल आचार्येण तत्रोक्तः। तथा च—
इष्टोत्तरगोलापक्रमांशकज्यां खभास्कराभ्यस्ताम्।
हृत्वाक्षजीवया तच्चापादुदयेन तत्कालः॥
तस्मिन् दिनकृत् कुरुते सममण्डलसंश्रयं दिनाद्ये वा।
तावच्छेषे परतो न तुलादिषु विद्यते चैतत्॥
मेषस्थः सूर्यः प्रथमेऽह्नि सममण्डलरेखायामेवोदितस्तस्यामेवास्तमयं याति, क्रान्त्य-
भावात्। ततः प्रतिदिनं यथा यथाऽर्कस्य क्रान्तिसम्भवो भवति, तथा तथा दिनगते काले
सममण्डलप्रवेशो भवति। यावति दिनगते काले तावति दिनशेषेऽपि भवति। एवं यावत्क-
न्यान्तं तावद्भवति सममण्डलप्रवेशो राशिषट्केऽर्कस्य। तुलादिष्वेतन्न सम्भवति। एवं
मेषादिराशिषट्के स्थितस्य सममण्डलप्रवेशो भवति, न तुलादिराशिषट्के स्थितस्य। तत्र
प्रविष्टस्याभिज्ञानमिदम्—
कृतदिग्ग्रहणे वृत्ते रेखां पूर्वापरां यदा छाया।
प्रविशति सम्यक् शङ्कोः सममण्डलगस्तदा सूर्यः॥
तत्र च काले शङ्क्वानयनम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः ३५
उत्तरगोलेऽर्कज्या काष्ठान्तगुणा ध्रुवज्यया भक्ता।
ताः शङ्कुलिप्तिकाख्यास्ताभिः सममण्डले छाया।।
सममण्डलज्ञस्य फलम्—
सममण्डललेखासम्प्रवेशवेलां करोति योऽर्कस्य।
तत्प्रत्ययं च जनयति जानाति स भास्करं सम्यक्।।
तथा च ब्रह्मसिद्धान्ते—
विषुवत्कर्णेन गुणा विषुवच्छायायोद्धतोत्तरा क्रान्तिः।
यद्यूनाक्षज्याभ्यः शङ्कुः सममण्डलस्थेऽर्के।।
एवमेतेषां सर्वेषां सिद्धान्तभेदादीनां छायया तात्कालिकया यन्त्रैश्च चक्रधनुस्तुयगोलय-
ष्टिशङ्कुघटिकाकपालकर्तरीपीठैः कालपरिच्छेदकैस्तथा दृग्गणितसाम्येन दृष्टेर्गणितस्य च
यत्साम्यं सादृश्यमेकरूपता तेन प्रतिपादने कुशलः शक्तः। गणितेनोपलभ्यच्छायां यन्त्रै-
र्दृष्ट्या समीकरोतीत्यर्थः।।८।।
तथाऽन्यदप्याह—
सूर्यादीनां च ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः ।।९।।
सूर्य आदि ग्रहों के शीघ्र, मन्द, दक्षिण, उत्तर, नीच और उच्च गतियों के कारणों को
जानने में दैवज्ञ को कुशल होना चाहिये।।९।।
सूर्योदय आदित्यादयो ग्रहाः। आदित्यचन्द्रभौमबुधजीवशुक्रसौराः। तेषां कः शीघ्रः
को मन्द इत्यस्मिन् कारणेऽभिज्ञः। तत्र च सर्वग्रहेभ्यश्चन्द्रमाः शीघ्रस्ततो मन्दो बुधस्ततः
शुक्रस्ततोऽर्कस्ततः कुजस्ततो गुरुस्ततः शनिरिति। तथा सर्वग्रहेभ्यो मन्दः शनैश्चरस्ततो गुरुः
शीघ्रस्ततः शुक्रस्ततो बुधस्ततश्चन्द्रमा इति। यस्य तु भूमेरासन्नो भ्रमः सोऽन्यस्माच्छीघ्रः। यस्य
दूरः स मन्दः। यस्य च महती भुक्तिः स शीघ्रो यस्यान्या स मन्द इति। तथा चाऽऽचार्यः—
चन्द्रादूर्ध्वं बुधसितरविकुजजीवार्कजास्ततो भानि।
प्राग्गतयस्तुल्यजवा ग्रहास्तु सर्वे स्वमण्डलगाः।।
तथा च ब्रह्मसिद्धान्ते—
भगणस्याधःशनिगुरुभूमिजरविशुक्रसौम्यचन्द्राः।
कक्ष्याक्रमेण शीघ्राः शनैश्चराद्याः कलाभुक्त्या।।
तथा चाऽऽचार्यभटः—
भानामधःशनैश्चरबृहस्पतिगुजार्कशुक्रबुधचन्द्राः।
तेषामधश्च भूमिर्मेधीभूता खमध्यस्था।।
तत्र यस्य भूमिनिकटभ्रमः सोऽल्पेन कालेन भगणभोगं पूरयत्यतः शीघ्रः। यस्य दूरे
३६ बृहत्संहिता
स महता कालेनातो मन्दः। यतो भूम्यासन्नस्याल्पो भ्रमस्तत्र च राशिभागा अल्पा एव
भवन्ति। दूरस्थितस्य च महान् भ्रमस्तत्र च राशिभागा एव महान्तस्तेन चन्द्रमाः स्वल्पेन
कालेन भगणभोगं पूरयति महता कालेन सौरः। तथा चाऽऽचार्यः—
तैलिकचक्रस्य यथा विवरमराणां घनं भवति नाभ्याम्।
नेम्यां महदेवं संस्थितानि राश्यन्तराण्यूर्ध्वम्।।
पर्येति शशी शीघ्रं स्वल्पं नक्षत्रमण्डलाधःस्थः।
ऊर्ध्वस्थस्तुल्यजवोडपि संस्थितस्तथा न महदर्कसुतः।।
तथा च ब्रह्मसिद्धान्ते—
लघवोडल्पे राश्यंशा महति महान्तोऽल्पमल्पेन।
पूरयतीन्दुर्महता कालेन महाशनैश्चारी।।
तथा चाऽऽर्यभटः—
मण्डलमल्पमधःस्थात् कालेनाल्पेन पूरयति चन्द्रः।
उपरिष्टात् सर्वेषां महच्च महता शनैश्चारी।।
अल्पे हि मण्डलेऽल्पा महति महान्तश्च राशयो ज्ञेयाः।
अंशाः कलास्तथैव विभागतुल्याः स्वकक्ष्यासु।। इति।
तथा च याम्योत्तरादिगतिः। मेषादितः कन्यान्तं यावद्यो ग्रहो याति स उत्तरां गति-
माश्रितो भवति। तुलादितो मीनान्तं यावद्यो ग्रहो याति स दक्षिणां गतिमाश्रितो भवति।
तथा चाऽऽचार्यभटः—
मेषादेः कन्यान्तं समुदगयनमण्डलार्धमुपयातुम्।
तौल्यादेर्मीनान्तं शेषार्धं दक्षिणेनैव।।
एतत्सूर्यस्य दक्षिणोत्तरगतिकारणमुक्तम्। चन्द्रादिकस्तु पुनः सूर्यभ्रमणप्रदेशानुसारेण
स्वभ्रमणप्रदेशात् स्वविक्षेपवशेन दक्षिणेनोत्तरेण वा याति। एतदुक्तं भवति—आदित्यस्य
विक्षेपाभावात् क्रान्तिरेव स्वक्रान्तिः। चन्द्रादीनामर्कवत्क्रान्तिं कृत्वा तस्या विक्षेपेण
सहैकदिक्केन योगः कार्यो भिन्नदिक्केन वियोगः। एवं कृते स्वक्रान्तिर्भवति यस्य च
क्रान्तिरुत्तरा स उत्तरां गतिमाश्रितो भवति, यस्य दक्षिणा स दक्षिणाम्। अथवा मकरादौ
राशिषट्के स्थित उत्तरां गतिमाश्रितो भवति कर्कटादौ राशिषट्के दक्षिणाम्। यस्मा-
दुत्तरायणस्थो ग्रहः प्रतिदिनमुत्तरां दिशं याति दक्षिणायनस्थो दक्षिणाम्। एवं ग्रहाणां
याम्योत्तरा गतिः।
अथ नीचोच्चा ग्रहाणां गतिः। तत्र स्वभ्रमणप्रदेशात् कदाचिद् ग्रह उपरि स्थितो
भवति कदाचिदधःस्थः। यत्र मध्यमो ग्रहो भवति तत्कक्ष्यामण्डलम्। यत्र स्फुटग्रहो भवति
तत्प्रतिमण्डलम्। अर्कचन्द्रौ मन्दप्रतिमण्डले भ्रमतः। ताराग्रहाः शीघ्रप्रतिमण्डले भ्रमन्ति।
तत्र कक्ष्यामण्डलादुपरि स्थितो ग्रहो यदा भवति तदा द्रष्टुरतिदूरस्थो भवत्य-तिदूरत्वात्