बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 74, कुल 728 में से
संदर्भ में पढ़ें३४ बृहत्संहिता
आश्लेषार्द्धादासीद्यदा निवृत्तिः किलोष्णकिरणस्य।
युक्तमयनं तदाऽऽसीत् साम्प्रतमयनं पुनर्वसुतः॥
तथा च वक्ष्यति—
आश्लेषार्द्धाद्दक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम्।
नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु॥
साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत्।
उक्ताभावे विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः॥
तथा च दृष्टिवेधमाचार्य एव वक्ष्यति—
दूरस्थचिह्नवेधादुदयेऽस्तमये सहस्रांशोः।
छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति॥ इति।
कथं प्रतिपादने कुशलः। प्रत्यक्षं दृश्यमानं पीठयन्त्रादिभिः कालयन्त्रैर्यथा लोकाः
प्रतिपद्यन्ते। अपिशब्दः समुच्चये। तथा सममण्डललेखासम्प्रयोगाभ्युदितांशकानां च
प्रतिपादने कुशलः। यथा स्वदेशसममण्डलाख्या लेखा विषुवल्लेखेत्यर्थः। तया योऽसौ
ग्रहाणां सम्प्रयोगः सम्प्रवेशस्तत्र येऽभ्युदितांशका अभिमुखेनोद्गताः शेषा वांशकाः।
स्वाहोरात्रवृत्ते ये दिनभागा दिनगतघटिकाः शेषघटिका वेत्यर्थः। यथास्मिन्निष्टदिने
भगवतो भास्करस्य एतावतीभिर्दिनगतघटिकाभिः सममण्डलप्रवेशो भवति तावतीभिश्च
शेषाभिः। तासां प्रतिपादने कुशलः।
अर्कस्य सममण्डलप्रवेशकाल आचार्येण तत्रोक्तः। तथा च—
इष्टोत्तरगोलापक्रमांशकज्यां खभास्कराभ्यस्ताम्।
हृत्वाक्षजीवया तच्चापादुदयेन तत्कालः॥
तस्मिन् दिनकृत् कुरुते सममण्डलसंश्रयं दिनाद्ये वा।
तावच्छेषे परतो न तुलादिषु विद्यते चैतत्॥
मेषस्थः सूर्यः प्रथमेऽह्नि सममण्डलरेखायामेवोदितस्तस्यामेवास्तमयं याति, क्रान्त्य-
भावात्। ततः प्रतिदिनं यथा यथाऽर्कस्य क्रान्तिसम्भवो भवति, तथा तथा दिनगते काले
सममण्डलप्रवेशो भवति। यावति दिनगते काले तावति दिनशेषेऽपि भवति। एवं यावत्क-
न्यान्तं तावद्भवति सममण्डलप्रवेशो राशिषट्केऽर्कस्य। तुलादिष्वेतन्न सम्भवति। एवं
मेषादिराशिषट्के स्थितस्य सममण्डलप्रवेशो भवति, न तुलादिराशिषट्के स्थितस्य। तत्र
प्रविष्टस्याभिज्ञानमिदम्—
कृतदिग्ग्रहणे वृत्ते रेखां पूर्वापरां यदा छाया।
प्रविशति सम्यक् शङ्कोः सममण्डलगस्तदा सूर्यः॥
तत्र च काले शङ्क्वानयनम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA