बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 66, कुल 728 में से
संदर्भ में पढ़ें२६ बृहत्संहिता
प्रभव आदि साठ संवत्सर, तदन्तर्गत युग, वर्ष, मास, दिन, होरा—इनके अधिपतियों
की प्रतिपत्ति ( प्रवर्तन ) और छेद ( निवृत्ति ) का ज्ञान भी दैवज्ञ को होना चाहिये ।। ६ ।।
षष्टिवर्षाणि षष्ट्यब्दः। स च पुनः पुनर्भवति। तस्य प्रतिपत्तिः प्रवर्तनं कस्मिन् काले
षष्ट्यब्दस्य प्रारम्भो भविष्यति। एतच्च बृहस्पतिचारे वक्ष्यत्याचार्यः—
आद्यं धनिष्ठांशमभिप्रवृत्तो माघे यदा यात्युदयं सुरेज्यः।
षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते भूतहितस्तदाब्दः ।। इति।
छेदस्तस्यैव षष्ट्यब्दस्य निवृत्तिः। तज्जानातीति छेदवित्। तन्मध्ये च तत्र द्वादशयुगानि
भवन्ति।
विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च।
क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः।। इति।
एतेषामाचार्यो बृहस्पतिचारे गणितविधानं वक्ष्यति। वयमपि तत्रैव व्याख्यास्यामः।
एषामपि प्रतिपत्तिच्छेदवित्। अत्र च सावनमानेन वर्षपतिर्भवति। तत्र चानयनमाचार्येणोक्तम्।
तथाऽहर्गणानयनम्—
सप्ताश्विवेदसंख्यं शक्रकालमपास्य चैत्रशुक्लादौ।
अर्द्धास्तमिते भानौ यवनपुरे सोमदिवसाद्ये।।
मासीकृते समासे द्विष्ठे सप्ताहतेऽष्टयमपक्षैः २२८।
लब्धैर्युतोऽधिमासैस्त्रिंशद्घ्नस्तिथियुतोऽधःस्थः ।।
रुद्रघ्नः समनुशरो ५१४ लब्धोनो गुणखसप्तभि७०३र्द्युगणः।
रोमकसिद्धान्तेऽयं नातिचिरे पौलिशेऽप्येवम् ।। इति।
अतो वर्षाधिपानयनम्—
मुनियमयमद्वि२२२७युक्ते द्युगणे शून्यद्विपञ्चयमभक्ते २५२०।
प्रतिराशि खर्तुदहनैर्लब्धं वर्षाणि यातानि।।
तानि प्रपन्नसहितान्यग्निगुणान्यश्विवर्जितानि हरेत्।
सप्तभिरेवं शेषो वर्षाधिपतिः क्रमात् सूर्यात्।।
तत्राहर्गणस्य षष्टिशतत्रयेण भागे हृते यच्छेषं तानि दिनानि प्रवृत्तस्याब्दपतेर्गतानि
तान्येव षष्ट्यधिकाच्छतत्रयात् संशोध्य यदवशिष्यते तावन्ति दिनान्येवाब्दपतिर्भविष्यति।
एवमब्दपतेः प्रतिपत्तिच्छेदौ ज्ञातौ। मासपतेरपि सावनेनैव मानेन प्रवृत्तिनिवृत्ती भवतः।
तस्य चानयनमाचार्येण तत्रैवोक्तम्। तथा च—
त्रिंशद्भक्ते मासाः प्रतिपत्सहिता द्विसंगुणा व्येकाः।
सप्तोद्धृतावशेषो मासाधिपतिस्तथैवार्कात्।।
तत्र त्रिंशता भागे हृते यदवशिष्यते तावन्त्येव दिनानि तस्य मासपतेः प्रवृत्तस्य
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA