बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
(backwards 3) shape?
NO! It is a single rounded curve with a tail to the right: it is IDENTICAL to रु!
Wait, but could it be ध where the top loop filled in?
No, it has a tail going down-right, exactly like रु in कुरु right next to it!
Wait, why would it be रुर्मारण्य?
Wait, is it कुरुक्षेत्रधर्माण्य?
Wait, let's look at the letter between क्षेत्र and सारस्वताः:
Let's read the whole sequence:
कुरुक्षेत्र (ku-ru-kṣe-tra)
Then: रु (ru)
Then: र्मा (rmā)
Then: र (ra)
Then: ण्य (ṇya)
Wait, is it कुरुक्षेत्ररुर्मारण्य?
Wait! In line 8, it says: धर्मारण्यं पुण्यक्षेत्रम्।
So the place is indeed Dharmāraṇya.
In the verse/prose quoted from Parāśara (line 21-24):
Let's search Parāśara's text:
"शूरसेनोद्देहिकपाण्डुगुडाश्वत्थनीपकाञ्चनकौरवोत्तमज्योतिषभद्रारिमेदमाध्यमिकसाल्वसाकेतमत्स्यकपिष्ठलचक्रदौलेपमाण
नक्षत्रकूर्मविभागाध्यायः २५९
शूर्पकर्ण, खस, मगध, शिबिरगिरि, मिथिला, समतट, ओड्र ( उड़ीसा ), अश्ववदन,
दन्तुरक, प्राग्ज्योतिष, लौहित्य नद, क्षीरोद समुद्र, पुरुषाद, उदयगिरि, भद्र, गौडक, पौण्ड्र,
उत्कल, काशी, मेकल, अम्बष्ठ, एकपद, ताम्रलिप्तक, कोशलक, वर्धमान—ये देश
आर्द्रा आदि तीन नक्षत्रों के वर्ग ( पूर्व दिशा ) में स्थित हैं।।५-७।।
अथानन्तरं पूर्वस्यां दिशि देशप्रविभागः। तद्यथा—अञ्जनम्। वृषभध्वजः। पद्मम्।
माल्यवान्। एते सर्व एव गिरयः पर्वताः। तथा व्याघ्रमुखा जनाः। सुह्माः। कर्वटाः।
चन्द्रपुरं पत्तनं तत्र भवाश्चान्द्रपुराः। शूर्पकर्णा जनाः।
खसाः। मगधाख्यो देशः। शिबिरो गिरिः पर्वतः। मिथिलाख्यो देशः। समतटो
देशः। उड्रा जनाः। अश्ववदनाः। दन्तुरकाः। प्राग्ज्योतिषः। लौहित्याख्यो नदः। क्षीरोदसमुद्रः।
पुरुषादाः पुरुषभक्षा जनाः।
उदयगिरिः पर्वतः। भद्रा जनाः। गौडकाः। पौण्ड्रा जनाः। उत्कलाः। काशयः।
मेकलाः। अम्बष्ठाः। एकपदाः। ताम्रलिप्तकाः। कोशलकाः। वर्धमानाश्चेति। एते आर्द्रादिके
नक्षत्रत्रये देशाः। तथा च पराशरः—
'अथ पूर्वस्यां माल्यवच्छिबिराञ्जनपद्मवृषभध्वजोदयशिखरिदन्तुरकाः काशिकोशल-
मिथिलमेकलोत्कलपुण्ड्रकर्वटसमतटोड्रगौडकभद्रद्रविडसुह्मताम्रलिप्तप्राग्ज्योतिषवर्द्धमान-
वाजिमुखाम्बष्ठपुरुषादकर्णिकोष्ठाधिश्रोत्रव्याघ्रमुखलौहित्यार्णवक्षीरोदार्णवमीनाशनकिरात-
सौवीरमहीध्रराविवसनैकपादोद्यानुवासिनश्चे'ति।।५-७।।
अथाग्नेय्यां दिशि देशान् जनपदांश्चाह—
आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः ।
शौलिकविदर्भवात्सान्ध्रचेदिकाश्चोर्ध्वकण्ठाश्च ॥८॥
वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी ।
श्मश्रुधरहेमकुड्यव्यालग्रीवा महाग्रीवाः ॥९॥
किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः ।
सह नग्नपर्णशबरैराश्लेषाद्ये त्रिके देशाः ॥१०॥
कोशल, कलिङ्ग, वंग, उपवंग, जठरांग, शौलिक, विदर्भ, वत्स, आन्ध्र, चेदिक,
ऊर्ध्वकण्ठ, वृष, नालिकेर, चर्मद्वीप, विन्ध्याचल के समीप, त्रिपुरी, श्मश्रुधर, हेमकूट,
व्यालग्रीव, महाग्रीव, किष्किन्धा, कण्टकस्थल, निषादराष्ट्र, पुरिक, दाशार्ण, नग्नशबर,
पर्णशबर—ये देश आश्लेषादि तीन नक्षत्रों के वर्ग ( आग्नेय ) में स्थित हैं।।८-१०।।
आग्नेय्यां पूर्वदक्षिणस्यां दिशि देशप्रविभागः। तद्यथा—कोशला जनाः। कलिङ्गाः।
वङ्गाः। उपवङ्गाः। जठराङ्गाः। शूलिकाः। विदर्भाः। वत्साः। अन्ध्राः। चेदिकाश्च।
ऊर्ध्वकण्ठाश्च।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२६० बृहत्संहिता
वृषः वृषस्थानम्। नालिकेरः। चर्मद्वीपः। विन्ध्यान्तवासिनः। विन्ध्यपर्वते ये निव-
सन्ति। त्रिपुरी नगरी। श्मश्रुधरा जनाः। हेमकूड्यं स्थानम्। व्यालग्रीवा जनाः। महाग्रीवाः।
किष्किन्धो देशः। कण्टकस्थलम्। निषादराष्ट्रम्। पुरिकाः। दाशार्णाः। नग्नशबराः।
पर्णशबराः। एते प्रागुक्ताः सह नग्नपर्णशबरैः। एते देशा आश्लेषाद्ये नक्षत्रत्रिके ज्ञेयाः।
तथा च पराशरः—
'अथ प्राग्दक्षिणस्यां विन्ध्यान्तवासिनश्चैदिवत्सदाशार्णाङ्गवङ्गोपवङ्गकलिङ्ग जठरपुण्ड्र-
शूलिकविदर्भनग्नपर्णशबरविन्ध्यक्षेत्रपुरपुरिककण्टकस्थलवृषद्वीपकौशलोर्ध्वककाम्बोज-
वर्मलूतककाककाचहेमकूड्यव्यालग्रीवश्मश्रुधरनालिकेरद्वीपकिष्किन्ध्याधिवासिनः'।।८-१०।।
अथ दक्षिणस्यां दिशि देशजनपदप्रविभागमाह—
अथ दक्षिणेन लङ्काकालाजिनसौरिकीर्णतालिकटाः ।
गिरिनगरमलयदर्दुरमहेन्द्रमालिन्यभरुकच्छाः ।।११।।
कङ्कटकङ्कणवनवासिशिबिकफणिकारकोङ्कणाभीराः ।
आकरवेणावर्तकदशपुरगोनर्दकेरलकाः ।।१२।।
कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः ।
क्रौञ्चद्वीपजटाधरकावेर्यो रिष्यमूकश्च ।।१३।।
वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।
गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ।।१४।।
तुम्बवनकार्मणयकयास्योदधितापसाश्रमा ऋषिकाः।
काञ्चीमरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः।।१५।।
बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः।
कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः ।।१६।।
लंका, कालाजिन, सौरिकीर्ण, तालिकट, गिरिनगर, मलय पर्वत, दर्दुर, महेन्द्र, मालिन्य,
भरुकच्छ, कंकट, कंकण, वनवासी, शिबिक, फणिकार, कोङ्कण, आभीर, आकर, वेण,
आवर्तक, दशपुर, गोनर्द, केरल, कर्णाट, महाटवी, चित्रकूट पर्वत, नासिक्य देश, कोल्लगिरि,
चोल, क्रौञ्चद्वीप, जटाधर, कावेरी नदी, ऋष्यमूक पर्वत, वैदूर्य, शंखमुक्ताकर देश, अत्र्याश्रम,
वारिचर, धर्मपुर द्वीप, गणराज्य, कृष्णवेल्लूर, पिशिक, शूर्पाद्रि, कुसुम नग, तुम्बवन,
कार्मणेयक, दक्षिण समुद्र, तापसाश्रम, ऋषिक, काञ्ची, मरुचीपट्टन, चेर्य, आर्यक, सिंहल,
ऋषभ, बलदेव, पट्टन, दण्डकावन, तिमिङ्गिलाशन, भद्र, कच्छ, कुञ्जरदरी, ताम्रपर्णी—
ये उत्तरफाल्गुनी आदि तीन नक्षत्रों के वर्ग (दक्षिण) में स्थित हैं।।११-१६।।
अथानन्तरं दक्षिणेन दक्षिणस्यां दिशि देशाः। तद्यथा—लङ्का। कालाजिनम्।
सौरिकीर्णाः। तालिकटाः। गिरिनगरम्। मलयः पर्वतः। दर्दुरः। महेन्द्रः। मालिन्यः।
एते पर्वताः। भरुकच्छा जनाः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
'?
Let's look REALLY closely at line 21:
'साराश्रमाः'
Next is single quote? No, closing quote is on 'साराश्रमाः':
Look: after माः there is an apostrophe / single quote: ’
Then two dandas: ।।
Then two 1s? Wait, there are THREE 1-like glyphs:
Look: ।। ११-१६ ।। or ।। १ १ १ - १ ६ ।।?
Let's count:
Glyph 1: ।
Glyph 2: ।
Glyph 3: १
Glyph 4: १
Wait, between Glyph 2 and '-' there are TWO digits!
Wait, look at:
।। १ १ - १ ६ ।।
Wait, why did I think three?
Ah, because in my first quick glance I wondered. But looking closely:
। (danda 1)
। (danda 2)
१ (one)
१ (one)
- (hyphen)
१ (one)
६ (six)
। (danda 1)
। (danda 2)
Yes, it is: ।। ११-१६ ।।
Wait, look at the space between ।। and ११:
They are slightly spaced: "।। ११-१६ ।।"
Wait, look:
'साराश्रमाः' ।।११-१६।। or 'साराश्रमाः' ।। ११ - १६ ।।
It's clearly verses 11 to 16
२६२ बृहत्संहिता
नैर्ऋत्यां दक्षिणपश्चिमायां दिशि देशाः। तद्यथा—पह्नवाः। काम्बोजाः। सिन्धुसौवीराः।
वडवामुखाः। अरवाः। अम्बष्ठाः। कपिलाः। नारीमुखाः। आनर्ताः।
फेणगिरिः। यवनाः। मार्गराः। कर्णप्रावेयाः। पारशवाः। शूद्राः। बर्बराः। किराताः।
खण्डाः। क्रव्यादाः। आभीराः। चञ्चूकाः।
हेमगिरिः। सिन्धुर्नदः। कालकाः। रैवतकाः। सुराष्ट्राः। बादराः। द्रविडाः। अत्रैव
नैर्ऋत्यां दिशि महार्णवो ज्ञेयो ज्ञातव्यः। एते स्वात्याद्ये भत्रितये स्वातिपूर्वके नक्षत्रत्रितये
ज्ञेयाः। तथा च पराशरः—
'अथ प्रत्यग्दक्षिणस्यां सुराष्ट्रमहाराष्ट्रसिन्धुसौवीरशूद्राभीरद्रविडकनकखण्डसिन्धु-
कालकफेणगिरिरैवतकनर्तकबाह्लीकयवनपह्नवमार्गरारवरथकाराम्बष्ठकालाजकर्णप्रवरगिरिवा-
सिनोऽतः परं महार्णवोऽर्वकोपजोऽग्निर्वडवामुख' इति।।१७-१९।।
अथ पश्चिमायां दिशि देशान् जनपदांश्चाह—
अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः ।
अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ।।२०।।
पञ्चनदरमठपारततारक्षितिजृङ्गवैश्यकनकशकाः ।
निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च ।।२१।।
मणिमान्, मेघवान्, वनौघ, क्षुरार्पण, अस्तगिरि, अपरान्तक, शान्तिक, हैहय, प्रशस्ताद्रि,
वोक्काण, पञ्चनद, रमठ, पारत, तारक्षिति, जृङ्ग, वैश्य, कनक, शक, अन्य मर्यादाहीन
पश्चिम दिशा में निवास करने वाले म्लेच्छ जाति—ये सब ज्येष्ठा आदि तीन नक्षत्रों के वर्ग
( पश्चिम ) में स्थित हैं।।२०-२१।।
अपरस्यां पश्चिमायां दिशि देशाः। तद्यथा—मणिमान् पर्वतः। मेघवान्। वनौघः।
क्षुरार्पणः। अस्तगिरिः। अपरान्तकाः। शान्तिकाः। हैहयाः। प्रशस्ताद्रिः। वोक्काणाः।
पञ्चनदः। रमठः। पारतः। तारक्षितिः। जृङ्गाः। वैश्याः। कनकाः। शकाः। अन्ये च
ये म्लेच्छा निर्मर्यादा मर्यादारहिताः। पश्चिमदिक्स्थिताः पश्चिमायां दिशि निवासिनस्ते
सर्वेऽत्रैव ज्येष्ठाद्ये नक्षत्रत्रितये ज्ञेयाः। तथा च पराशरः—
'अथ पश्चिमायां दिशि मणिमान् क्षुरार्पणो मेघवान् वनौघः। चक्रवदस्तगिरिप्रशस्त-
मण्डितारः। पञ्चनदकाशिब्रह्मवसतितारक्षितिपारतशान्तिकशिबिरमठजृङ्गिवायव्यगुडवासि-
जहैहयसत्कङ्गताजिकहूणपार्श्वैर्वंतककवोक्काणाः। अन्ये च गिरिवनवासिनस्त्यक्तधर्म-
दण्डमर्यादा म्लेच्छजातयः'।।२०-२१।।
अथ वायव्यां दिशि देशान् जनपदानाह—
दिशि पश्चिमोत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
अश्मककुलूतहलडाः स्त्रीराज्यनृसिंहवनखस्थाः ।।२२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रकूर्मविभागाध्यायः २६३
वेणुमती फल्गुलुका गुलुहा मरुकुच्चचर्मरङ्गाख्याः ।
एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥२३॥
माण्डव्य, तुषार, ताल, हल, मद्र, अश्मक, कुलूत, हलड, स्त्रीराज्य, नृसिंहवन,
खस्थ, वेणुमती नदी, फल्गुलुका, गुलुहा, मरुकुच्छ, चर्मरङ्ग, एकविलोचन, शूलिक,
दीर्घग्रीव, आस्यकेश—ये सभी देश उत्तराषाढा आदि तीन नक्षत्रों के वर्ग ( वायव्य कोण )
में स्थित हैं॥२२-२३॥
पश्चिमोत्तरस्यां वायव्यां दिशि देशाः। तद्यथा—माण्डव्याः। तुषाराः। तालाः।
हलाः। मद्राः। अश्मकाः। कुलूतदेशाः। हलडाः। स्त्रीराज्यम्। नृसिंहवनम्। खस्थाः।
वेणुमती नदी। फल्गुलुकाः। गुलुहाः। मरुकुच्छाः। चर्मरङ्गाख्याः। एकविलोचनाः।
शूलिकाः। दीर्घग्रीवाः। दीर्घास्याः। दीर्घकेशाः। एते उत्तराषाढाद्ये त्रिके ज्ञेया देशाः।
तथा च पराशरः—
'अथ पश्चिमोत्तरस्यां दिशि गिरिमतिवेणुमतिरलमतिफल्गुलुकमाण्डव्यैकनेत्रमरु-
कुच्चतुषारतालमल्लहलडहलातवर्दिलीनविलीनदीर्घकेशग्रीवान्याङ्गरगविषवेषशूलि
गुलुहाः। परमतः स्त्रीराज्यमि'ति॥२२-२३॥
अथोत्तरस्यां दिशि देशप्रविभागमाह—
उत्तरतः कैलासो हिमवान् वसुमान् गिरिर्धनुष्मांश्च ।
क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च ॥२४॥
कैकयवसातियामुनभोगप्रस्थार्जुन्यायनाग्नीध्राः ।
आदर्शान्तर्द्धीपित्रिगर्ततुरगाननाः श्वमुखाः ॥२५॥
केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च ॥२६॥
अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः ।
माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥२७॥
गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च ।
यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च ॥२८॥
कैलाश, हिमवान्, वसुमान्, धनुष्मान्, क्रौञ्च, मेरुगिरि, उत्तरकुरु, क्षुद्रमीन, कैकय,
वसाति, यामुन, भोगप्रस्थ, अर्जुऩायन, आग्नीध्र, आदर्श, अन्तर्द्धीपी, त्रिगर्त, तुरगानन,
श्वमुख, केशधर, चिपिटनासिक, दासेरक, वाटधान, शरधान, तक्षशील, पुष्कलावत्, कैलावत,
कण्ठधान, अम्बर, मद्रक, मालव, पौरव, कच्छार, दण्डपिङ्गलक, माणहल, हूण, कोहल,
शीत्तक, माण्डव्य, भूतपुर, गान्धार, यशोवती नगरी, हेमताल, राजन्य, खचर, गव्य, यौधेय,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२६४ बृहत्संहिता
दासमेय, श्यामक, क्षेमधूर्त्त—ये सभी देश शतभिषा आदि तीन नक्षत्रों के वर्ग ( उत्तर
दिशा ) में स्थित हैं॥२४-२८॥
उत्तरतः उत्तरस्यां दिशि देशाः। तद्यथा—कैलासः पर्वतः। हिमवान्। वसुमान्
गिरिः। धनुष्मांश्च गिरिरेव। क्रौञ्चः। मेरुः। कुरवस्तथोत्तरा उत्तरकुरवः। क्षुद्रमीनाः।
कैकयाः। वसातयः। यामुनाः। भोगप्रस्थाः। अर्जुनायनाः। आग्नीध्राः। आदर्शाः।
अन्तर्द्धीपिनः। त्रिगर्ताः। तुरगाननाः। श्वमुखाः।
केशधराः। चिपिटनासिकाः। दासेरकाः। वाटधानाः। शरधानाः। तक्षशिलाः शिलाः।
पुष्कलावताः। कैलावताः। कण्ठधानाः।
अम्बरावताः। मद्रकाः। मालवाः। पौरवाः। कच्छाराः। दण्डपिङ्गलकाः। माणहलाः।
हूणाः। कोहलाः। शीतकाः। माण्डव्याः। भूतपुराः।
गान्धाराः। यशोवति नगरी। हेमतालाः। राजन्याः। खचराः। गव्याः। यौधेयाः।
दासमेयाः। श्यामाकाः। क्षेमधूर्ताः। एते शतभिषगाद्ये नक्षत्रत्रये देशाः। तथा च पराशरः—
‘अथोत्तरस्यां हिमवान् क्रौञ्चो मधुमान् कैलासो वसुमानुत्तरोत्तरस्यां मद्रपौरवयौधेय-
मालवशूरसेनराजन्यार्जुनायनत्रैगर्तकैकयक्षुद्रमाचेलूकमत्स्यवसातिदर्भफलाफलप्रस्तलक्षे-
मधूर्त्तशाकलदाशधानहव्यमुरदण्डगव्यशरधानदासेरकवाटधानान्तर्द्धीपिगान्धारववन्धिषु-
वास्तुतक्षशिलालवणवतिपुष्कलावतीयशोवतिमणिवतिश्यामाकखचरकोहलकनगरशरभूत-
पुरकैरातकादर्शकान्तारदण्डपिङ्गलमाण्डव्यायामुनेयमाणहलहूणहेमतालाश्रमुखा हिमव-
द्ध्रुसुमकैलासक्रौञ्चात् परमभिजना’ इति॥२४-२८॥
अथैशान्यां प्रविभागमाह—
ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
अभिसारदरदतङ्गणकुलूतसैरिन्र्धवनराष्ट्राः ॥२९॥
ब्रह्मपुरदार्बडामरवनराज्यकिरातचीनकौणिन्दाः ।
भल्लाः पटोलजटासुरकुनटखसघोषकुचिकाख्याः ॥३०॥
एकचरणाणुविद्धाः सुवर्णभूर्वसुधनं दिविष्ठाश्च ।
पौरवचीरनिवासित्रिनेत्रमुञ्जाद्रिगान्धर्वाः ॥३१॥
मेरुक, नष्टराज्य, पशुपाल, कीर, काश्मीर, अभिसार, दरद, तङ्गण, कुलूत, सैरिन्ध्र,
वनराष्ट्र, ब्रह्मपुर, दार्वडामर, वनराज्य, किरात, चीन, कौणिन्द, भल्ल, पटोल, जटासुर,
कुनट, खस, घोष, कुचिक, एकचरण, अणुविद्ध, सुवर्णभू, वसुधन, दिविष्ट, पौरव, चीरनिवासी,
त्रिनेत्र, मुञ्जाद्रि, गन्धर्व—ये सभी देश रेवती आदि तीन नक्षत्रों के वर्ग (ईशान कोण) में
स्थित हैं॥२९-३१॥
ऐशान्यां दिशि देशाः। तद्यथा—मेरुकः। नष्टराज्यम्। पशुपालाः। कीराः। काश्मीराः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
?
Let's count:
मा (1)
र्ग (2)
रा? Wait! Is that 'रा'?
Let's look closely:
It's NOT two letters, it is:
मा - र्ग - [wait, what is that letter?]
Wait! Is it 'रा'?
Letter 'र' has a curved top and a diagonal leg: र.
Does it look like 'र'?
Wait, look at 'रा' in 'कापिलवनितास्य':
No, in 'वनितास्य', there is no 'र'.
Look at 'रा' in 'गान्धारादर्श' (line 33): 'रा' has the body of 'र' plus the vertical stroke for 'aa'.
Now look at line 27:
After 'मा', there is 'र्ग' (rga).
Then there is 'रा' (raa)!
Wait, does 'र्ग' have an aa matra?
No, 'र्ग' has no aa matra, it's just 'र्ग'.
Then 'रा' (raa)!
Wait, is it "मार्गरानर्ताः"?
Wait, why would it be मार्गरानर्ताः?
Wait, what are the names of peoples in the South-West/West?
In Brihat Samhita: "मार्गराद्याश्च"!!
YES! Look:
"वणिङ्मुखा मार्गराद्याश्च" in Brihat Samhita 14.21!
The people are
२६६ बृहत्संहिता
पौष्णाद्ये काश्मीरत्रिगर्तदरदाभिसारचीनखसाः।
तङ्गणकिरातकीरा ब्रह्मपुरजटासुराश्चेति।। इति।।२९-३१।।
कृत्तिकाद्यैः प्रयोजनमाह—
वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
पाञ्चालो मागधिकः कालिङ्गश्च क्षयं यान्ति ॥३२॥
आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः ।
राजा च हारहौरो मद्रेशोऽन्यश्च कौणिन्दः ॥३३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्र-
कूर्मविभागाध्यायश्चतुर्दशः ॥१४॥
आग्नेय आदि नव वर्ग पापग्रह से पीड़ित हों तो क्रम से पाञ्चाल, मगध, कलिङ्ग,
अवन्ती, आनर्त्त, सिन्धु, सौवीर, हारहौर, मद्र और कौलिन्द देश के राजाओं का नाश होता
है।।३२-३३।।
इति 'विमला' हिन्दीटीकायां नक्षत्रकूर्मविभागाध्यायश्चतुर्दशः ॥१४॥
आग्नेयाद्यैः कृत्तिकाद्यैर्वर्गैः। क्रूरग्रहपीडितैः। क्रूरैरादित्याङ्गारकशनैश्चरैः पीडितैः।
क्रमेण परिपाट्या। एते नृपा राजानः क्षयं नाशं यान्ति। तद्यथा—कृत्तिकाद्ये पाञ्चालः। आर्द्राद्ये
मागधिकः। आश्लेषाद्ये कालिङ्गश्च। आर्यम्णाद्ये आवन्तः। स्वात्याद्ये आनर्तः। अथशब्द
आनन्तर्ये। ज्येष्ठाद्ये सिन्धुसौवीरो मृत्युं मरणं चायाति प्राप्नोति। उत्तराषाढाद्ये राजा हार-
हौरः। शतभिषगाद्ये मद्रेशो मद्राधिपः। रेवत्याद्ये अन्यश्चापरः कौणिन्द इति।।३३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नक्षत्र-
कूर्मो नाम चतुर्दशोऽध्यायः ॥१४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ नक्षत्रव्यूहाध्यायः
अथ नक्षत्रव्यूहो व्याख्यायते। कस्मिन्नक्षत्रे के पदार्था आश्रिता इत्येतद्यत्र निरूप्यते
स नक्षत्रव्यूहः। तत्रादावेव कृत्तिकायामाह—
आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः ॥१॥
श्वेत पुष्प, अग्निहोत्री, मन्त्र जानने वाले, यज्ञशास्त्र को जानने वाले, वैयाकरण, खान,
आकरिक, हजाम, ब्राह्मण, कुम्भार, पुरोहित, ज्यौतिष—ये सब कृत्तिका नक्षत्रगत पदार्थ
हैं॥१॥
सितकुसुमानि श्वेतपुष्पाणि। आहिताग्निराहित आरोपितोऽग्निर्य्येन अग्नित्रयोपचारकाः।
मन्त्रज्ञा मन्त्रविदः। एवं सूत्रज्ञा यज्ञशास्त्रविदः। भाष्यज्ञा वैयाकरणाः। आकरः अर्थोत्पत्ति-
स्थानम्, तत्र नियुक्त आकरिकः। नापितः श्मश्रुकर्मकरः। द्विजो ब्राह्मणः। घटकारः कुम्भकारः।
पुरोहितः पुरोधाः। अब्दज्ञो ज्यौतिषिकः। एते आग्नेये कृत्तिकायां समाश्रिताः॥१॥
अथ रोहिण्यामाह—
रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसम्पन्नाः ॥२॥
सुव्रत, पण्यवृत्ती, राजा, योगी, गाड़ी से आजीविका चलाने वाले, गौ, बैल, जल में
रहने वाले जन्तु, किसान, पर्वत, ऐश्वर्ययुत—ये सब पदार्थ रोहिणी नक्षत्रगत हैं॥२॥
सुव्रताः शोभनव्रताः। पण्याः पण्यवृत्तयः। भूपा राजानः। धनिनः। योगयुक्ता योग-
रताः। शाकटिकाः शकटजीविनः। गावः। वृषा दान्ताः। जलचराः प्राणिनः। कर्षकाः
कृषिकराः। शिलोच्चयाः पर्वताः। ऐश्वर्यसम्पन्ना ऐश्वर्ययुक्ताः। एते रोहिण्यामाश्रिताः॥२॥
अथ मृगशिरस्याह—
मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः ।
मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥३॥
सुगन्धियुक्त द्रव्य, वस्त्र, जलोत्पन्न द्रव्य, पुष्प, फल, रस, वनवासी, पक्षी, मृग,
सोमरस का पान करने वाले, विद्या जानने वाले, कामी, पत्रवाहक—ये सब पदार्थ मृगशिर
नक्षत्रगत हैं॥३॥
सुरभीणि सुगन्धद्रव्याणि। वस्त्राण्यम्बराणि। अब्जं यत्किञ्चिज्जलोद्भवम्। कुसु-
मानि पुष्पाणि। फलानि प्रसिद्धान्याम्रादीनि। रत्नानीन्द्रनीलप्रभृतीनि। वनचरा वनवासिनः।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
२६८ बृहत्संहिता
विहङ्गाः पक्षिणः। मृगा अरण्यप्राणिणः। सोमपीथयः सोमपाः। गान्धर्वा गेयज्ञाः। कामुकाः
कामिनः। लेखहारा लेखवाहाः। एते सर्व एव मृगशिरसि।।३।।
अथार्द्रायामाह—
रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥४॥
वध करने वाले, प्राणियों को बाँधने वाले, असत्य भाषण करने वाले, पर-स्त्रीगामी,
चोर, शठ ( धूर्त ), भेद कराने वाले, भूसी वाले धान्य, क्रूर, मन्त्र को जानने वाले,
अभिचारज्ञ ( वशीकरण आदि कर्मों को जानने वाले ), वेताल के उत्थापन का कर्म जानने
वाले—ये सब आर्द्रा नक्षत्रगत पदार्थ हैं॥४॥
वधरता घातकाः। बन्धरताः प्राणिनां ये बन्धं कुर्वन्ति। अनृतरता असत्यभाषिणः।
परदाररताः परस्त्रीषु सक्ताः। स्तेयरताश्चौराः। शठाः परकार्यविमुखाः। तथा चोक्तम्—
मनसा वचसा यश्च दृश्यतेऽकार्यतत्परः।
कर्मणा विपरीतश्च स शठः सद्बिरिष्यते।।
तस्य भावः शाठ्यम्। तत्र ये रताः। एकीभूतानां पदार्थानां पृथक्करणं भेदाः। तत्र
ये रताः। तुषधान्यं शालयः। तीक्ष्णाः क्रूराः। मन्त्रज्ञा मन्त्रविदः। अभिचारज्ञा वशीकरणा-
दिकर्मविदः। वेतालकर्मज्ञा वेतालोत्थापनविद्यास्वभिज्ञाः। एते सर्वे रौद्रे आर्द्रायाम्।।४।।
अथ पुनर्वसावाह—
आदित्ये सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥५॥
सत्य भाषण करने वाले, दानी, शौचयुत ( शुद्ध ), दूसरे के धनादि का लोभ नहीं
करने वाले, कुलीन, सुन्दर, बुद्धिमान, यशस्वी, धनी, उत्तम धान्य, वणिक्, सेवक,
शिल्पी—ये सब पुनर्वसु नक्षत्रगत पदार्थ हैं॥५॥
सत्ययुताः सत्यभाषिणः। औदार्ययुता दानशीलाः। शौचयुताः शुद्धा परधनादिष्व-
लुब्धाः। कुलयुताः कुलीनाः। रूपयुताः सुरूपाः। धीयुता बुद्धिमन्तः। यशोयुता यश-
स्विनः। अर्थयुता धनिनः। उत्तमधान्यं कलमशाल्यादि। वणिजः किराटाः। सेवाभिरताः
सेवकाः। ते च सशिल्पिजनाः शिल्पिजनैः कुम्भकारप्रभृतिभिः सहिताः। एते सर्व एवा-
ऽऽदित्ये पुनर्वसौ॥५॥
अथ पुष्ये आह—
पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः ।
सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥६॥
यव, गेहूँ, धान्य, ईख ( गन्ना ), वन, मन्त्री, राजा, जल से आजीविका चलाने वाले
नक्षत्रव्यूहाध्यायः २६९
( धीवर आदि ), सज्जन, याज्ञिक ( पुत्रकाम्य आदि यज्ञ कराने वाले )—ये सब
पदार्थ पुष्य नक्षत्रगत हैं।।६।।
यवाः। गोधूमाः। शालयो धान्यानि। इक्षवः। वनान्यरण्यानि। मन्त्रिणः सचिवाः।
भूपा राजानः। सलिलोपजीविनः सलिलं जलं तेनोपजीवन्ति तेनैवार्जनं ये कुर्वन्ति
धीवरप्रायाः। साधवश्च सज्जनाः। यज्ञसक्ता यागेष्वनुरक्ताः। इष्टयः पुत्रकाम्यादयः, तासु
च ये सक्ता निरताः। एते सर्व एव पुष्ये।।६।।
अथाऽऽश्लेषायामाह—
अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥७॥
कृत्रिम द्रव्य, कन्द, मूल, फल, कीट, सर्प, विष, दूसरे के धन का हरण करने वाले,
भूसी वाले धान्य, सभी प्रकार की औषधियों का प्रयोग करने वाले—ये सब आश्लेषा
नक्षत्रगत पदार्थ हैं।।७।।
कृत्रिमाणि द्रव्याणि यानि युक्त्या क्रियन्ते। यन्मूलमेव बीजं स कन्दः। केचिद-
भिनवाङ्कुरमिच्छन्ति। मूलानि प्रसिद्धानि। फलानि च प्रसिद्धान्येव। कीटाः कृमिजातयः।
पन्नगाः सर्पाः। विषं प्रसिद्धम्। परधनहरणे ये अभिरताः सक्ताः। तुषधान्यं शालयः।
सर्वभिषजो निःशेषाः शल्यहर्तृशालाकिकाः कायचिकित्सकादयः। एते सर्व एवाहिदेवे
आश्लेषायाम्।।७।।
अथ मघायामाह—
पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः ।
पितृभक्तवणिक्शूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥८॥
धनी, धान्यागार, पर्वत पर रहने वाले, पिता-माता के सेवक, व्यापारी, शूर, मांसाहारी,
स्त्रीद्वेषी—ये सब मघा नक्षत्रगत पदार्थ हैं।।८।।
धनधान्याढ्या वित्तशालिबहुलाः। कोष्ठागाराणि विपुलग्रामाः। पर्वताश्रयिणः
पर्वतनिवासिनः। पितृभक्ताः पितॄणां पूजाभिरताः। वणिजः क्रयविक्रयनिरताः। शूराः
संग्रामप्रियाः। क्रव्यादा मांसाशिनः, पक्वमपक्वं वा मांसमश्नन्ति। स्त्रीणां द्विषो ये
मनुजा मनुष्याः। एते सर्व एव पित्र्ये मघायाम्।।८।।
अथ पूर्वफल्गुन्यामाह—
प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि ।
कर्पासलवणमाक्षिकतैलानि कुमारकाश्चापि ॥९॥
नाचने वाले, स्त्रियाँ, सबों के प्रिय, गानविद्या को जानने वाले, शिल्पी, विक्रय या
क्रय-द्रव्य, कार्पास ( रूई ), नमक, शहद, तेल, बालक—ये सभी पदार्थ पूर्वफाल्गुनी
नक्षत्रगत हैं।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२७० बृहत्संहिता
नटा ये नृत्यन्ति। युवतयः स्त्रियः। सुभगाः सर्वजनवल्लभाः। गान्धर्वा गेयप्रवीणाः।
शिल्पिनश्चित्रकारप्रभृतयः। पण्यं यत्किञ्चिद्विक्रयद्रव्यं क्रेयं वा। कर्पासः प्रसिद्धः। लवणं
सैन्धवम्। माक्षिकं क्षौद्रम्। तैलं तिलतैलम्। एतानि। तथा कुमारका बालकाः। एते सर्व
एव प्राक्फल्गुनीषु पूर्वफल्गुन्याम्।।९।।
अथोत्तरफल्गुन्यामाह—
आर्यम्णे मार्दवशौचविनयपाखण्डिदानशास्त्ररताः।
शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ।।१०।।
कोमल हृदय वाले, शुद्ध (दूसरे के धनादि को नहीं चाहने वाले), नीतिज्ञ, पाखण्डी
(वेदनिन्दक), दानी, शास्त्रों में निरत, सुन्दर धान्य, अतिशय धनी, कर्म में निरत
राजा—ये सब उत्तरफल्गुनी नक्षत्रगत पदार्थ हैं।।१०।।
मार्दवरता मृदुभावसमेताः। शौचरताः शुद्धाः परधनादिष्वलुब्धाः। विनयरता नीतिज्ञाः।
पाखण्डिनो वेदबाह्यास्तेषु ये रताः सक्ताः। दानरता दानसक्ताः। शास्त्ररताः पठनशीलाः।
शोभनं धान्यं कलमशाल्यादि। महाधना अतिधनिनः। कर्मानुरताः कर्मस्वतिसक्ताः। ते
च समनुजेन्द्रा मनुजेन्द्रैनृपैः सहिताः। एते सर्व एवाऽऽर्यम्णे उत्तरफल्गुन्याम्।।१०।।
अथ हस्त आह—
हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि।
तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ।।११।।
चोर, हाथी, रथ पर चलने वाले, हस्तिसाधनपति, शिल्पी, क्रय-विक्रय द्रव्य, भूसी
वाले धान्य, सुनने वाले, वणिक्, तेजस्वी—ये सब हस्त नक्षत्रगत पदार्थ हैं।।११।।
तस्कराश्चौराः। कुञ्जरा हस्तिनः। रथिका रथेन गन्त्यादिना ये गच्छन्ति। महामात्रा
हस्तिसाधनपतयः। शिल्पिनश्चित्रकारप्रभृतयः। पण्यं यत्किञ्चिद्विक्रयद्रव्यम्। तुषधान्यं
शालयः। श्रुतयुक्ताः श्रुताभिनिरताः। वणिजः क्रयविक्रयनिरताः। तेजोयुतास्तेजस्विनः।
अत्रास्मिन् हस्ते सर्व एवैते।।११।।
अथ चित्रायामाह—
त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः।
गणितपटुतन्तुवायाः शालाक्या राजधानीनि ।।१२।।
अलंकार को जानने वाले, मणि के लक्षण को जानने वाले, रागज्ञ (रंगरेज),
लेखक, गान विद्या को जानने वाले, सुगन्धियुत द्रव्य बनाने वाले, गणितज्ञ, जुलाहा, नेत्र-
रोगचिकित्सक, राजा के उपयोगी धान्य—ये सब चित्रा नक्षत्रगत पदार्थ हैं।।१२।।
भूषणज्ञा अलङ्कारादिषु कुशलाः। मणिज्ञा मणिलक्षणज्ञाः। रागज्ञा यैर्वस्त्रादिषु
रागः क्रियते। लेख्यज्ञा लिपिवेत्तारः। गान्धर्वज्ञा गीतविदः। गन्धयुक्तिज्ञा बहुभिर्द्रव्यै-
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७१
र्मिश्रितैर्विशिष्टतरं सुगन्धद्रव्यं ये उत्पादयन्ति। गणितपटवो गणितदक्षाः। तन्तुवायाः
कौलिकाः। शालाकया अक्षिरोगचिकित्सकाः। राजधान्यं राजोपयोगि यद्धान्यं षष्टिकादि।
एतत्सर्वं त्वाष्ट्रे चित्रायाम्।।१२।।
अथ स्वातावाह—
स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ।।१३।।
पक्षी, मृग, अश्व, खरीदने-बेचने वाले, धान्य, छोटे जन्तु, तपस्वी, क्रय-विक्रय में
कुशल—ये सब स्वाती नक्षत्रगत पदार्थ हैं।।१३।।
खगाः पक्षिणः। मृगा अरण्यप्राणिनः। तुरगा अश्वाः। वणिजः क्रयविक्रयनिरताः।
धान्यानि शालयः। वातबहुलानि चणकप्रभृतीनि। अस्थिरसौहृदः अस्थिरमित्राणि। लघु-
सत्त्वा अल्पसत्त्वाः। तापसास्तपोनिरताः। पण्यकुशलाः पण्यप्रवीणाः। केचिद्वन्यकुशला
इति पठन्ति। वने भवा वन्यास्तेषु कुशलाः। एते सर्व एव स्वातौ।।१३।।
अथ विशाखायामाह—
इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
,कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ।।१४।।
रक्त पुष्प, रक्त फल, वृक्ष, तिल, मूंग, कपास ( रूई ), चना, इन्द्र के भक्त, अग्निभक्त—
ये सब विशाखा नक्षत्रगत पदार्थ हैं।।१४।।
रक्तपुष्पा लोहितपुष्पा रक्तफलाश्च ये शाखिनो वृक्षास्ते च सतिलमुद्गाः तिलैर्मुद्गैश्च
सहिताः। कर्पासाः प्रसिद्धाः। माषाश्चणकाश्च प्रसिद्धा एव। ये पुरन्दरस्येन्द्रस्य हुता-
शस्याग्नेर्भक्ता अनुरक्ताः। एते सर्व एवेन्द्राग्निदैवते विशाखायाम्।।१४।।
अथाऽनुराधायामाह—
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ।।१५।।
बली, समूहों में प्रधान, साधुओं के भक्त, संघ में बैठने वाले, वाहन से चलने वाले,
जनपदों के साधु, शारदीय धान्य आदि—ये सब अनुराधा नक्षत्रगत पदार्थ हैं।।१५।।
शौर्यसमेता बलसंयुक्ताः। गणनायका गणप्रधानाः। साधूनां ये रताः। गोष्ठिरता
नर्मसक्ताः। यानरता वाहनसक्ता गमनसक्ता वा। ये च लोके जनपदे साधवः सज्जनाः।
शरत्समुत्पन्नं शारदं सर्वमशेषं यत्किञ्चिद्धान्यादि। एतन्मैत्रेऽनुराधायाम्।।१५।।
अथ ज्येष्ठायामाह—
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ।।१६।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
२७२ बृहत्संहिता
अति शूर, कुलीन, धनी, यशस्वी, दूसरे के धन का अपहरण करने वाले, दूसरे को
जीतने की इच्छा करने वाले राजा, सेनापति—ये सब ज्येष्ठा नक्षत्रगत पदार्थ हैं।।१६।।
अतिशूरा अतिसंग्रामधीराः। कुलेनाभिजनेन वित्तेन धनेन यशसा कीर्त्या ये अन्विताः
संयुक्ताः। परस्वहतः परधनहन्तारः। ये च नरेन्द्रा राजानो विजिगीषवः परान् जेतुमिच्छवः।
ये च सेनानां नेतारः सेनापतयः। एते सर्व एव पौरन्दरे ज्येष्ठायाम्।।१६।।
अथ मूल आह—
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः।
बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते ।।१७।।
औषध, वैद्य, समूह में प्रधान, पुष्प, मूल और फल से आजीविका चलाने वाले, नव
प्रकार के बीज, अतिधनी, फलाहारी, कन्दाहारी—ये सब मूल नक्षत्रगत पदार्थ हैं।।१७।।
भेषजमौषधम्। भिषजो वैद्याः। गणमुख्याः समूहप्रधानाः। कुसुममूलफलवार्ताः।
कुसुमानि पुष्पाणि, मूलानि फलानि च वार्ता वृत्तिर्येषाम्। बीजानि सर्वाणि यान्युप्यन्ते।
ये चातिधनयुक्ताः प्रभूतवित्तसमन्विताः। ये च फलमूलैर्वर्तन्ते जीवन्ति। ते सर्व एव
मूले।।१७।।
अथ पूर्वाषाढायामाह—
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ।।१८।।
कोमल हृदय वाले, जल-मार्ग से चलने वाले ( धीवर, जल में रहने वाले प्राणी
आदि ), सत्य भाषण करने वाले, दूसरे के धन आदि को नहीं चाहने वाले, धनी, पुल
बनाने वाले, जल से आजीविका चलाने वाले, जल से उत्पन्न फल और पुष्प—ये सब
पूर्वाषाढा नक्षत्रगत पदार्थ हैं।।१८।।
मृदवो मार्दवयुक्ताः। जलमार्गगामिनो जलमार्गेण ये गच्छन्ति ते जलमार्गगामिनो
धीवरा जलप्राणिनश्च। सत्ययुक्ताः सत्यभाषिणः। शौचयुक्ताः परधनादिष्वलुब्धाः। धन-
युक्ता ईश्वराः। सेतुकराः सेतुं ये कुर्वन्ति। वारिजीवका वारिणा जलेन ये जीवन्ति तेनै-
वार्थार्जनं कुर्वन्ति। यानि चाम्बुजातानि जलसम्भूतानि फलानि कुसुमानि च। ते सर्व एवा-
ऽऽप्ये पूर्वाषाढायाम्।।१८।।
अथोत्तराषाढायामाह—
विश्वेश्वरे महामात्रमल्लकरितुरगदेवतासक्ताः।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ।।१९।।
महामात्र ( मुख्य मन्त्री = 'महामात्राः प्रधानानि' इत्यमरः ), मल्ल, बाहुयुद्ध में
कुशल, हाथी, घोड़ा, देवताओं के भक्त, स्थावर ( वृक्ष आदि ), युद्ध में कुशल, भोगी,
तेजस्वी—ये सब उत्तराषाढा नक्षत्रगत पदार्थ हैं।।१९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७३
महामात्रा हस्तिसाधनपतयः । मल्ला बाहुयुद्धज्ञाः । करिणो हस्तिनः । तुरगा अश्वाः ।
देवतासक्ता देवताभक्ताः । स्थावरा वृक्षादयः । योधा युद्धकुशलाः । भोगान्विता भोगसमेताः ।
ये च जनास्तेजसा युक्तास्तेजस्विनः । ते सर्व एव विश्वेश्वर उत्तराषाढायाम् ।।१९।।
अथ श्रवण आह—
श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ।।२०।।
मायापटु ( मायावी, प्रपञ्ची ), सदा सब कामों को करने में उद्यत, उत्साही, धर्मी,
भगवान् के भक्त, सत्य भाषण करने वाले—ये सब श्रवणनक्षत्रगत पदार्थ हैं।।२०।।
मायापटवो मायाविनः प्रपञ्चकुशलाः नित्योद्युक्ताः सर्वकालं सोद्यमाः कर्मसु व्यापारेषु
समर्थाः सक्ताः । उत्साहिनः सोत्साहाः । सधर्मा धर्मसंयुक्ताः । भागवता भगवद्भक्ताः । सत्य-
वचनाः सत्यभाषिणः । एते सर्व एव श्रवणे ।।२०।।
अथ धनिष्ठायामाह—
वसुभे मानोन्मुक्ताः क्लीबाचलसौहृदाः स्त्रियां द्वेष्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ।।२१।।
अहङ्काररहित, नपुंसक, अस्थिर मित्रता करने वाले, स्त्रीद्वेषी, दानी, बहुत धनी,
जितेन्द्रिय—ये सब धनिष्ठा नक्षत्रगत पदार्थ हैं।।२१।।
मानोन्मुक्ता मानवर्जिता निरहङ्काराः । क्लीबाः षण्ढाः अचलसौहृदाः स्थिरमैत्राः ।
स्त्रियां द्वेष्याः स्त्रीष्वप्रियाः । दानाभिरता दानशीलाः । बहुवित्तसंयुताः प्रभूतधनान्विताः ।
ये च नरा मनुष्याः शमपरा जितेन्द्रियाः । एते सर्व एव वसुभे धनिष्ठायाम् ।। २१ ।।
अथ शतभिषज्याह—
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ।।२२।।
पाशिक ( जाल से प्राणियों को मारने वाले ), मछली मारने वाले, जल में उत्पन्न
होने वाले सभी द्रव्य, जलचर जन्तुओं से आजीविका चलाने वाले, सूअर को रखने वाले
( डोम आदि ), धोबी, मद्य बेचने वाले ( कलवार आदि ), पक्षियों को मारने वाले—
ये सब शतभिषा नक्षत्रगत पदार्थ हैं।।२२।।
पाशिकाः । पाशा बन्धनरज्जवः । पाशैः प्राणिनो बध्नन्तीति पाशिकाः । मत्स्यबन्धो
मत्स्यान् मीनान् बध्नाति यः । जलजानि जलोद्भवानि सर्वद्रव्याणि मुक्ताफलादीनि ।
जलचराजीवाः । जलचरैर्मत्स्यादिभिर्ये आजीवन्ति । सौकरिकाः । सूकरान् वराहान् ये
बध्नन्ति । रजका वस्त्ररागकर्तारः । शौण्डिकाः पानसक्ताः । शाकुनिकाः शकुनीन् घ्नन्तीति
शाकुनिकाः पक्षिघातिनः । एते सर्व एवास्मिन् वर्गे वरुणेशे शतभिषजि ।।२२।।
बृ० भ० प्र०-१८
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२७४ बृहत्संहिता
अथ पूर्वभद्रपदायामाह—
आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः ।
धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥२३॥
चोर, पशुपालक, क्रूर, कीनाश ( क्षुद्र = 'कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु'
इत्यमरः ), नीच जन, शठ ( परोपकार से विमुख ), विधर्मी, व्रतों से रहित, बाहु-युद्ध
को जानने वाले—ये सब पूर्वाभाद्रपदा नक्षत्रगत पदार्थ हैं॥२३॥
तस्कराश्चौराः। पशुपालाः छागादिषु रक्षकाः। हिंस्राः क्रूराः। कीनाशाः कदर्याः।
नीचा अधमकर्मकराः। शठचेष्टाः शठः परकार्यविमुखस्तस्येव चेष्टा येषां ते शठचेष्टाः।
धर्मव्रतैर्विरहिता धर्मविवर्जिताः। व्रतैः कृच्छ्रपराकैश्चान्द्रायणादिभिश्च वर्जिताः। ये च मनुजा
मनुष्या नियुद्धकुशला बाहुयुद्धज्ञाः। एते सर्व एवाऽऽजे पूर्वभद्रपदायाम्॥२३॥
अथोत्तरभद्रपदायामाह—
आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥२४॥
ब्राह्मण, यज्ञ करने वाले, दानी, तपस्वी, अति धनी, आश्रमी ( चतुर्थाश्रम में रहने
वाले ), पाखण्डी ( वेदनिन्दक ), राजा, उत्तम धान्य—ये सब उत्तराभाद्रपदा नक्षत्रगत
पदार्थ हैं॥२४॥
विप्रा द्विजाः। क्रतुर्यज्ञः। दानं सत्पात्रेष्वर्थप्रतिपादनम्। तपो व्रतानुसेवनम्। एतैर्ये
युताः समन्विताः। महाविभवा अत्यैश्वर्ययुक्ताः। आश्रमिणश्चतुर्थाश्रमिणः। पाखण्डा
वेदबाह्याः। नरेश्वरा राजानः। सारधान्यं श्रेष्ठाः शालयः। एतत्सर्वमेवाहिर्बुध्न्ये उत्तर-
भद्रपदायाम्॥२४॥
अथ रेवत्यामाह—
पौष्णे सलिलजफलकुसुमलवणमणिशङ्खमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥२५॥
जल से उत्पन्न होने वाले द्रव्य, फल और फूल, नमक, रत्न, शङ्ख, मोती, कमल
आदि सुगन्धयुक्त फूल, सुगन्धियुत द्रव्य, खरीदने-बेचने वाले, नाविक—ये सभी रेवती
नक्षत्रगत पदार्थ हैं॥२५॥
सलिलजानि जलोद्भवानि यानि द्रव्याणि मृणालादीनि यानि च फलानि। तथा
कुसुमानि पुष्पाणि। लवणं सैन्धवम्। मणयो रत्नानि। शङ्खः प्रसिद्धः। मौक्तिकं मुक्ताफलानि।
अब्जानि पद्मप्रभृतीनि। सुरभि सुगन्धद्रव्यम्। कुसुमानि। अथवा सुरभीणि सुगन्धानि
कुसुमानि। गन्धाः सुगन्धद्रव्याणि। वणिजः क्रयविक्रयिणः। नौकर्णधारा नाविकाः। एते
सर्व एव पौष्णे रेवत्याम्॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७५
अथाश्विन्यामाह—
अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तुरगाः ।
तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥२६॥
घोड़े को चुराने वाले, सेनापति, वैद्य, सेवक, घोड़ा, घोड़े पर चढ़ने वाले, खरीदने-
बेचने वाले, सुन्दर, अश्वरक्षक—ये सब अश्विनी नक्षत्रगत पदार्थ हैं॥२६॥
अश्वहरा अश्वग्राहकाः। सेनापतयश्चमूनाथाः। वैद्याः कायचिकित्सकाः। सेवकाः सेवा-
निरताः। तुरगा अश्वाः। तुरगारोहा अश्वगामिनः। वणिजः किराताः क्रयविक्रयनिरताः
रूपोपेताः रूपसम्पन्नाः सुरूपाः। तुरगरक्षा अश्वपतयः। एते सर्व एवाऽश्विन्याम्॥२६॥
अथ भरण्यामाह—
याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥२७॥
रक्तमिश्रित मांस खाने वाले, क्रूर, वध, बन्धन और ताडन करने वाले, भूसी वाले
धान्य, नीच कुल में उत्पन्न, उदारता आदि गुणों से रहित—ये सब भरणी नक्षत्रगत पदार्थ
हैं॥२७॥
असृग्रक्तं पिशितं मांसं तद्भुञ्जते ये तेऽसृक्पिशितभुजो रक्तमांसादाः। क्रूराः उग्राः। वधे
मारणे बन्धे बन्धने ताडने कुट्टने चासक्ता रताः। तुषधान्यं शालयः। नीचकुलोद्भवा निकृष्ट-
वंशजाताः। ये च सत्त्वेनौदार्येण विहीना रहिताः। एते सर्व एव याम्ये भरण्याम्॥२७॥
अधुना जातिनक्षत्राण्याह—
पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम् ॥२८॥
आदित्यहस्ताभिजदाश्विनानि वणिग्जनानां प्रवदन्ति तानि ।
मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥२९॥
सौम्यैन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ।
सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेरभिनिर्दिशन्ति ॥३०॥
पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा और कृत्तिका ब्राह्मणों के; उत्तरफाल्गुनी, उत्तराषाढा,
उत्तराभाद्रपदा और पुष्य क्षत्रियों के; रेवती, अनुराधा, मघा और रोहिणी वैश्यों के;
पुनर्वसु, हस्त, अभिजित् और अश्विनी क्रय-विक्रय करने वालों के; मूल, आर्द्रा, स्वाती
और शतभिषा क्रूर मनुष्यों के; मृगशिरा, ज्येष्ठा, चित्रा और धनिष्ठा सेवकों के तथा
आश्लेषा, विशाखा, श्रवणा और भरणी नक्षत्र चाण्डालों के स्वामी होते हैं॥२८-३०॥
पूर्वात्रयं पूर्वफल्गुनी पूर्वाषाढा पूर्वभद्रपदेति। एतच्च सानलमनलेन कृत्तिकया
सहितम्। एतन्नक्षत्रचतुष्टयमग्रजानां ब्राह्मणानाम्। पुष्येण सहोत्तराणि राज्ञां पुष्यमुत्तरात्र-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२७६ बृहत्संहिता
यमुत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा इति। एतद्राज्ञां क्षत्रियाणां नक्षत्रचतुष्टयम्। सपौष्णमैत्रं
पितृदैवतं चेति। मैत्रमनुराधा। सपौष्णं पौष्णेन रेवत्या सहितम्। पितृदैवतं मघा। प्रजापतेर्भं
प्राजापत्यं नक्षत्रं रोहिणी। चशब्दः समुच्चये। एतत्कृषीवलानां कर्षकाणां वैश्यानां नक्षत्र-
चतुष्टयम्।
आदित्येति। आदित्यं पुनर्वसुर्हस्तोऽभिजित्। आश्विनमश्विनी। एतानीमानि वणिग्जनानां
किराटलोकानां चत्वारि प्रवदन्ति कथयन्ति। मूलम्। त्रिनेत्रो रुद्र आर्द्रा। अनिलः स्वातिः।
वारुणं शतभिषग्। एतानि चत्वारि प्रभविष्णुतायाः प्रभावशीलाया उग्रजातेः क्रूरजनस्य।
सौम्यं मृगशिराः। ऐन्द्रं ज्येष्ठा। त्वाष्ट्रं चित्रा। वसुदैवतं धनिष्ठा। एतानि चत्वारि
नक्षत्राणि सेवाजनस्य सेवाभिरतस्य स्वाम्यं प्रभुत्वमुपगतानि प्राप्तानि। सार्पमाश्लेषा।
विशाखा। श्रवणः। भरणी। एतानि चत्वारि नक्षत्राणि चण्डालजातेश्चण्डालानामभिनिर्दिशन्ति
कथयन्ति मुनयः॥२८-३०॥
अथ क्रूरग्रहप्रयोजनमाह—
रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम्।
ग्रहणगतमथोल्कया हतं नियतमुषाकरपीडितं च यत् ॥३१॥
तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा।
निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥३२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
नक्षत्रव्यूहाध्यायः पञ्चदशः ॥१५॥
रवि और शनि से भुक्त, मङ्गल के भेदन या वक्र गमन से दूषित, ग्रहणकालिक,
उल्का से हत, चन्द्रकिरण से पीड़ित ( चन्द्रमा जिस नक्षत्र की योगतारा को आच्छादित या
उसके दक्षिण भाग में होकर गमन करे ) या स्वाभाविक उत्तम गुण से रहित नक्षत्र को मुनि
लोग पीड़ित कहते हैं। इस तरह पीड़ित नक्षत्र पूर्वोक्त अपने वर्ग का नाश और उक्त से भिन्न
लक्षणयुत हो तो उनकी वृद्धि करता है॥३१-३२॥
इति 'विमला'हिन्दीटीकायां नक्षत्रव्यूहाध्यायः पञ्चदशः ॥१५॥
रविरादित्यः। रविसुतः शनैश्चरः। अनयोरेकस्य यन्नक्षत्रं भोगमागतं भोगं प्राप्तम्।
क्षितिसुतो भौमस्तद्भेदनेन मध्यगमनेनाच्छादनेन वा तद्वक्रेण वा दूषितं दुष्टम्। ग्रहणगतं
यन्नक्षत्रं यत्र स्थितोऽर्कश्चन्द्रो वा राहुणा ग्रस्यते तद्ग्रहणगतम्। अथोल्कया हतमुल्का-
निपीडितम्। नियतं सर्वकालमुषाकरेण चन्द्रेण यत्पीडितम्। यस्य नक्षत्रस्य चन्द्रमा योग-
तारकाभेदेन आच्छादनं मध्यगमनं दक्षिणभागगमनं वा करोति तदुषाकरपीडितम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रव्यूहाध्यायः २७७
तदुपहतमिति प्रचक्षत इति। एवंविधं यन्नक्षत्रं तदुपहतमिति प्रचक्षते कथयन्ति
मुनयः। अथवा प्रकृतेः स्वभावाद्विपर्ययं विपरीतं यातं प्राप्तं तदप्युपहतम्। एवंविधं नक्षत्रं
निगदितस्य कथितस्य परिवर्गस्य प्रागुक्तस्य दूषणं दुष्टतां विनाशं करोति। कथित-
विपर्ययगं समृद्धये। रविरविसुतमागतमित्यादि यदुक्तं तद्विपरीतगं यन्नक्षत्रं तत्कथितस्योक्तस्य
परिवर्गस्य समृद्धये भवति पुष्णातीत्यर्थः। तथा च कश्यपः—
शनैश्चरस्य सूर्यस्य यदृक्षं भोगमागतम्।
धरित्रीतनयेनापि भिन्नं वक्रप्रदूषितम्।।
राहुग्रस्तमथोल्काभिर्हतमुत्पातदूषितम् ।
चन्द्रेण पीडितं यच्च प्रकृतेरन्यथास्थितम्।।
तच्चोपहतकं विन्द्यान्नक्षत्रं हन्ति सर्वदा।
स्ववर्गमन्यथा नित्यं पुष्णाति निरुपद्रवम्।। इति।।३१-३२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नक्षत्र-
व्यूहो नाम पञ्चदशोऽध्यायः॥१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA