बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 306, कुल 728 में से
संदर्भ में पढ़ें२६६ बृहत्संहिता
पौष्णाद्ये काश्मीरत्रिगर्तदरदाभिसारचीनखसाः।
तङ्गणकिरातकीरा ब्रह्मपुरजटासुराश्चेति।। इति।।२९-३१।।
कृत्तिकाद्यैः प्रयोजनमाह—
वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
पाञ्चालो मागधिकः कालिङ्गश्च क्षयं यान्ति ॥३२॥
आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः ।
राजा च हारहौरो मद्रेशोऽन्यश्च कौणिन्दः ॥३३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्र-
कूर्मविभागाध्यायश्चतुर्दशः ॥१४॥
आग्नेय आदि नव वर्ग पापग्रह से पीड़ित हों तो क्रम से पाञ्चाल, मगध, कलिङ्ग,
अवन्ती, आनर्त्त, सिन्धु, सौवीर, हारहौर, मद्र और कौलिन्द देश के राजाओं का नाश होता
है।।३२-३३।।
इति 'विमला' हिन्दीटीकायां नक्षत्रकूर्मविभागाध्यायश्चतुर्दशः ॥१४॥
आग्नेयाद्यैः कृत्तिकाद्यैर्वर्गैः। क्रूरग्रहपीडितैः। क्रूरैरादित्याङ्गारकशनैश्चरैः पीडितैः।
क्रमेण परिपाट्या। एते नृपा राजानः क्षयं नाशं यान्ति। तद्यथा—कृत्तिकाद्ये पाञ्चालः। आर्द्राद्ये
मागधिकः। आश्लेषाद्ये कालिङ्गश्च। आर्यम्णाद्ये आवन्तः। स्वात्याद्ये आनर्तः। अथशब्द
आनन्तर्ये। ज्येष्ठाद्ये सिन्धुसौवीरो मृत्युं मरणं चायाति प्राप्नोति। उत्तराषाढाद्ये राजा हार-
हौरः। शतभिषगाद्ये मद्रेशो मद्राधिपः। रेवत्याद्ये अन्यश्चापरः कौणिन्द इति।।३३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नक्षत्र-
कूर्मो नाम चतुर्दशोऽध्यायः ॥१४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA