सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 302, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 302

२६२ बृहत्संहिता
नैर्ऋत्यां दक्षिणपश्चिमायां दिशि देशाः। तद्यथा—पह्नवाः। काम्बोजाः। सिन्धुसौवीराः।
वडवामुखाः। अरवाः। अम्बष्ठाः। कपिलाः। नारीमुखाः। आनर्ताः।
फेणगिरिः। यवनाः। मार्गराः। कर्णप्रावेयाः। पारशवाः। शूद्राः। बर्बराः। किराताः।
खण्डाः। क्रव्यादाः। आभीराः। चञ्चूकाः।
हेमगिरिः। सिन्धुर्नदः। कालकाः। रैवतकाः। सुराष्ट्राः। बादराः। द्रविडाः। अत्रैव
नैर्ऋत्यां दिशि महार्णवो ज्ञेयो ज्ञातव्यः। एते स्वात्याद्ये भत्रितये स्वातिपूर्वके नक्षत्रत्रितये
ज्ञेयाः। तथा च पराशरः—
'अथ प्रत्यग्दक्षिणस्यां सुराष्ट्रमहाराष्ट्रसिन्धुसौवीरशूद्राभीरद्रविडकनकखण्डसिन्धु-
कालकफेणगिरिरैवतकनर्तकबाह्लीकयवनपह्नवमार्गरारवरथकाराम्बष्ठकालाजकर्णप्रवरगिरिवा-
सिनोऽतः परं महार्णवोऽर्वकोपजोऽग्निर्वडवामुख' इति।।१७-१९।।
अथ पश्चिमायां दिशि देशान् जनपदांश्चाह—
अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः ।
अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ।।२०।।
पञ्चनदरमठपारततारक्षितिजृङ्गवैश्यकनकशकाः ।
निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च ।।२१।।
मणिमान्, मेघवान्, वनौघ, क्षुरार्पण, अस्तगिरि, अपरान्तक, शान्तिक, हैहय, प्रशस्ताद्रि,
वोक्काण, पञ्चनद, रमठ, पारत, तारक्षिति, जृङ्ग, वैश्य, कनक, शक, अन्य मर्यादाहीन
पश्चिम दिशा में निवास करने वाले म्लेच्छ जाति—ये सब ज्येष्ठा आदि तीन नक्षत्रों के वर्ग
( पश्चिम ) में स्थित हैं।।२०-२१।।
अपरस्यां पश्चिमायां दिशि देशाः। तद्यथा—मणिमान् पर्वतः। मेघवान्। वनौघः।
क्षुरार्पणः। अस्तगिरिः। अपरान्तकाः। शान्तिकाः। हैहयाः। प्रशस्ताद्रिः। वोक्काणाः।
पञ्चनदः। रमठः। पारतः। तारक्षितिः। जृङ्गाः। वैश्याः। कनकाः। शकाः। अन्ये च
ये म्लेच्छा निर्मर्यादा मर्यादारहिताः। पश्चिमदिक्स्थिताः पश्चिमायां दिशि निवासिनस्ते
सर्वेऽत्रैव ज्येष्ठाद्ये नक्षत्रत्रितये ज्ञेयाः। तथा च पराशरः—
'अथ पश्चिमायां दिशि मणिमान् क्षुरार्पणो मेघवान् वनौघः। चक्रवदस्तगिरिप्रशस्त-
मण्डितारः। पञ्चनदकाशिब्रह्मवसतितारक्षितिपारतशान्तिकशिबिरमठजृङ्गिवायव्यगुडवासि-
जहैहयसत्कङ्गताजिकहूणपार्श्वैर्वंतककवोक्काणाः। अन्ये च गिरिवनवासिनस्त्यक्तधर्म-
दण्डमर्यादा म्लेच्छजातयः'।।२०-२१।।
अथ वायव्यां दिशि देशान् जनपदानाह—
दिशि पश्चिमोत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
अश्मककुलूतहलडाः स्त्रीराज्यनृसिंहवनखस्थाः ।।२२।।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA