सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 308, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 308

२६८ बृहत्संहिता
विहङ्गाः पक्षिणः। मृगा अरण्यप्राणिणः। सोमपीथयः सोमपाः। गान्धर्वा गेयज्ञाः। कामुकाः
कामिनः। लेखहारा लेखवाहाः। एते सर्व एव मृगशिरसि।।३।।
अथार्द्रायामाह—
रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥४॥
वध करने वाले, प्राणियों को बाँधने वाले, असत्य भाषण करने वाले, पर-स्त्रीगामी,
चोर, शठ ( धूर्त ), भेद कराने वाले, भूसी वाले धान्य, क्रूर, मन्त्र को जानने वाले,
अभिचारज्ञ ( वशीकरण आदि कर्मों को जानने वाले ), वेताल के उत्थापन का कर्म जानने
वाले—ये सब आर्द्रा नक्षत्रगत पदार्थ हैं॥४॥
वधरता घातकाः। बन्धरताः प्राणिनां ये बन्धं कुर्वन्ति। अनृतरता असत्यभाषिणः।
परदाररताः परस्त्रीषु सक्ताः। स्तेयरताश्चौराः। शठाः परकार्यविमुखाः। तथा चोक्तम्—
मनसा वचसा यश्च दृश्यतेऽकार्यतत्परः।
कर्मणा विपरीतश्च स शठः सद्बिरिष्यते।।
तस्य भावः शाठ्यम्। तत्र ये रताः। एकीभूतानां पदार्थानां पृथक्करणं भेदाः। तत्र
ये रताः। तुषधान्यं शालयः। तीक्ष्णाः क्रूराः। मन्त्रज्ञा मन्त्रविदः। अभिचारज्ञा वशीकरणा-
दिकर्मविदः। वेतालकर्मज्ञा वेतालोत्थापनविद्यास्वभिज्ञाः। एते सर्वे रौद्रे आर्द्रायाम्।।४।।
अथ पुनर्वसावाह—
आदित्ये सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥५॥
सत्य भाषण करने वाले, दानी, शौचयुत ( शुद्ध ), दूसरे के धनादि का लोभ नहीं
करने वाले, कुलीन, सुन्दर, बुद्धिमान, यशस्वी, धनी, उत्तम धान्य, वणिक्, सेवक,
शिल्पी—ये सब पुनर्वसु नक्षत्रगत पदार्थ हैं॥५॥
सत्ययुताः सत्यभाषिणः। औदार्ययुता दानशीलाः। शौचयुताः शुद्धा परधनादिष्व-
लुब्धाः। कुलयुताः कुलीनाः। रूपयुताः सुरूपाः। धीयुता बुद्धिमन्तः। यशोयुता यश-
स्विनः। अर्थयुता धनिनः। उत्तमधान्यं कलमशाल्यादि। वणिजः किराटाः। सेवाभिरताः
सेवकाः। ते च सशिल्पिजनाः शिल्पिजनैः कुम्भकारप्रभृतिभिः सहिताः। एते सर्व एवा-
ऽऽदित्ये पुनर्वसौ॥५॥
अथ पुष्ये आह—
पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः ।
सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥६॥
यव, गेहूँ, धान्य, ईख ( गन्ना ), वन, मन्त्री, राजा, जल से आजीविका चलाने वाले