सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

१६४ बृहत्संहिता
कार्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः।
गोशाकटिकपीडां च करोत्येवमवृष्टिदः।। इति।।३।।
अथ मार्गशीर्ष आह—
सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यवधः ।
व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥४॥
मार्गशीर्ष वर्ष में अनावृष्टि होती है। जंगली जानवर, चूहा, शलभ ( टीढी ) और
पक्षियों से धान्य का नाश होता है। मनुष्यों में व्याधि का भय होता है तथा मित्रों से भी
राजाओं को द्वेष होता है।।४।।
सौम्ये मार्गशीर्षेऽब्दे अनावृष्टिर्भवति। मृगा अरण्यपशवः, आखवो मूषकाः, शलभाः
प्राणिनः कीटजातयः, अण्डजाः पक्षिणः—एतैः सस्यानां वधो नाशो भवति। तथा व्याधिभयं
रोगभीतिः। भूपानां राज्ञां मित्रैरपि सुहृद्भिरपि वैरमप्रीतिर्जायत उत्पद्यते। किं पुनः शत्रुभिः
सह न भवेदिति। तथा च गर्गः—
वर्षहन्ता व्याधिकरो मिथो भेदभयावहः।
शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः।। इति।।४।।
अथ पौष आह—
शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥५॥
पौष वर्ष में संसार का शुभ होता है, राजा लोग पारस्परिक द्वेष त्याग देते हैं, धान्य का
मौल्य द्विगुणित या त्रिगुणित हो जाता है एवं पौष्टिक कर्म की सिद्धि होती है।।५।।
पौषोऽब्दो जगतो लोकस्य शुभकृच्छुभमिष्टं करोति। क्षितिपा राजानः परस्परमन्योन्यं
निवृत्तवैरा विगतद्वेषा भवन्ति। धान्यस्यार्घो द्विगुणस्त्रिगुणो वा भवति। धान्यस्य यन्मूल्य-
मासीत्तेनैव द्विगुणं त्रिगुणं वा धान्यं लभ्यते। तथा पौष्टिककर्मणां पुष्टिदानां कार्याणां प्रसिद्धि-
र्भवति। अतिशयेन भवतीत्यर्थः। तथा च गर्गः—
प्रशान्तव्याधिदुर्भिक्षदुर्वर्षशनितस्करः ।
सर्वलक्षणसम्पन्नः पौषः संवत्सरोत्तमः।। इति।।५।।
अथ माघ आह—
पितृपूजापरिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥६॥
माघ नामक वर्ष में पितरों की पूजा की वृद्धि, सभी प्राणियों को तुष्टि, आरोग्य, सुन्दर
वृष्टि, धान्यों के मौल्य में समता और मित्रों का लाभ होता है।।६।।
माघे पितॄणां पूजापरिवृद्धिर्भवति। अत्यर्थं जनाः पितृपूजाकर्मणि रता भवन्तीत्यर्थः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतचाराध्यायः १६५
मघायाः पितृदैवतत्वात् सर्वभूतानां च हार्दिश्चित्ततुष्टिर्भवति। तथा आरोग्यं नीरोगता,
वृष्टिर्वर्षणम्, धान्यस्यार्घसम्पत्समर्घता, एते भवन्ति। तथा मित्रलाभश्च भवति। यत्किञ्चिन्मित्र-
त्वमापद्यत इत्यर्थः। तथा च गर्गः-
क्षेमारोग्यं सुभिक्षं च वर्षणं शिवमेव च।
पितृपूजाः प्रवर्तन्ते माघे राज्ञां च सन्धयः।। इति।।६।।
अथ फाल्गुन आह-
फाल्गुनवर्षे विन्द्यात् क्वचित्क्वचित्क्षेमवृष्टिसस्यानि ।
दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥७॥
फाल्गुन वर्ष में किसी-किसी स्थान में मंगलकार्य और धान्य होता है; किन्तु सर्वत्र
मंगलकार्य और धान्य की उत्पत्ति नहीं होती तथा स्त्रियों की अभाग्यता, चोरों की प्रबलता
और राजाओं की उग्रता बढ़ती है।।७।।
फाल्गुनवर्षे क्वचित्क्वचित्क्षेमवृष्टिसस्यानि विन्द्याज्जानीयात्। क्वचित्क्षेमं क्वचिद्
वृष्टिः क्वचिच्च सस्यं भवति न सर्वत्र। तथा प्रमदानां स्त्रीणां दौर्भाग्यं दुर्भाग्यत्वं तन्नृणा-
मवाल्लभ्यं भवति। प्रबलाश्चौरास्तस्करा बहवो भवन्ति। तथा नृपाश्च राजान उग्राः क्रूरा
भवन्ति। तथा च गर्गः-
नारीदौर्भाग्यकृच्चौरैः फाल्गुनः सस्यवर्षदः।
क्वचित् क्षेमं सुभिक्षं च क्वचिदक्षेमकारकः।। इति।।७।।
अथ चैत्र आह-
चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः ।
वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥८॥
चैत्र वर्ष में थोड़ी वृष्टि, दुर्लभ अन्न, लोगों में कुशलता, राजाओं में कोमलता,
एकत्रित किये हुये धान्यों की वृद्धि और सुन्दर मनुष्यों को पीड़ा होती है।।८।।
चैत्रेऽब्दे वृष्टिर्मन्दा अल्पा भवति। प्रियमन्नं सुदुर्लभमन्नं भवति। लोके क्षेमं लब्धपालनं
तथा अवनिपा राजानो मृदवोऽक्रूरा भवन्ति। कोशधान्यस्य शिम्बिधान्यस्य मुद्गादेर्वृद्धि-
र्बाहुल्यम्। तथा रूपवतां सुरूपणां पीडा भवति। चशब्दः समुच्चये। तथा च गर्गः-
मृदुप्रचारा राजानः प्रियमन्नं जनस्य च।
क्षेमारोग्यं च मृदुता चैत्रवर्षस्तथा मृदुः।। इति।।८।।
अथ वैशाख आह-
वैशाखे धर्मरता विगतभयाः प्रमुदिताः प्रजाः सनृपाः ।
यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्वसस्यानाम् ॥९॥
वैशाख वर्ष में राजाओं के साथ-साथ समस्त प्रजागण भी धर्मनिरत, भयरहित,
आनन्दयुक्त और यज्ञकर्म में प्रवृत्त होते हैं तथा सभी धान्यों की वृद्धि होती है।।९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१६६ बृहत्संहिता
वैशाखेऽब्दे सनृपाः प्रजा नृपेण राज्ञा सहिताः सर्वजनपदा धर्मरता धर्मसक्ता विगत-
भया भयरहिताः प्रमुदिताः प्रहृष्टाश्च भवन्ति। तथा यज्ञक्रियाणां यागकर्मणां प्रवृत्तिः प्रवर्तनं
भवति। सस्यानां सर्वेषां च निष्पत्तिरशेषाणां सस्यानां समृद्धिर्भवति। तथा च गर्गः—
ईतयः प्रथमं यान्ति सन्धिं कुर्वन्ति पार्थिवाः।
वैशाखे तु सस्यजन्या वृष्टयः सम्भवन्ति हि।। इति।। ९।।
अथ ज्येष्ठ आह—
ज्येष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः ।
पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥१०॥
ज्येष्ठ वर्ष में अच्छे कुल में उत्पन्न, अति धनी, बहुतों में प्रधान, राजा लोग, धर्म को
जानने वाले और कंगुनी तथा शमी के अतिरिक्त सभी धान्य पीड़ित होते हैं।।१०।।
ज्येष्ठेऽब्दे जातिकुलधनश्रेणीश्रेष्ठा जातीनां ये श्रेष्ठाः प्रधानाः, कुलश्रेष्ठाः सत्कुलजाः,
धनश्रेष्ठा अतिधनिनः, श्रेणीश्रेष्ठा बहूनां समानजातीयानां संज्ञा श्रेणी, ततः श्रेष्ठाः
प्रधानाः, नृपा राजानस्ते च सधर्मज्ञा धर्मज्ञैर्जनैः सहिताः, ते सर्व एव पीड्यन्ते। तथा
धान्यानि च पीड्यन्ते सर्वाण्येव। किन्तु हित्वा कङ्गुशमीजातिम्। कङ्गुः प्रियङ्गुः, शमीजा-
तिस्तिलादिः, एतद्द्वित्वा वर्जयित्वा। केचित् सबीजानीति पठन्ति। तथा च गर्गः—
वृक्षगुल्मलतासस्यक्षेमवर्षविनाशनः ।
क्रूराज्ञादीप्तिजननो ज्येष्ठो ज्येष्ठनृपान्तकृत्।। इति।।१०।।
अथाऽऽषाढ आह—
आषाढे जायन्ते सस्यानि क्वचिदवृष्टिरन्यत्र ।
योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥११॥
आषाढ वर्ष में कहीं-कहीं पर धान्य और कहीं-कहीं पर वर्षा का अभाव होता है,
योगक्षेम ( अलब्ध का लाभ, लब्ध का पालन ) मध्यम रूप से होता है तथा राजा लोग
काम में व्यग्र रहते हैं।।११।।
आषाढेऽब्दे क्वचित्क्वचित्सस्यानि जायन्ते उत्पद्यन्ते च सर्वत्र। अन्यत्रान्यत्र देशेषु
अवृष्टिरवर्षणं भवति। तथा लोके योगक्षेमं मध्यमं भवति। अलब्धलाभो योगः, लब्धपालनं
क्षेमम्, तच्च मध्यमं भवति। न चात्युत्कृष्टं न चातिनिकृष्टमित्यर्थः। भूपाला राजानो
व्यग्राः सोद्यमा भवन्ति। तथा च गर्गः—
दुर्भिक्षक्षेमजननश्चाषाढोऽन्योन्यभेदकृत्।
भूपालयुद्धजननो मध्यमक्षेमकारकः।। इति।।११।।
अथ श्रावण आह—
श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति।
क्षुद्रा ये पाखण्डाः पीड्यन्ते ये च तद्भक्ताः ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १६७
श्रावण नामक वर्ष में सभी धान्य अच्छी तरह पक जाते हैं तथा क्षुद्र ( क्रूर ),
पाखण्डी गण ( वेदनिन्दक ) और उनके भक्त लोग पीड़ित होते हैं।।१२।।
श्रावणवर्षे क्षेमं भवति। तथा सर्वाणि सस्यानि सम्यग् निश्चितं पाकं निष्पत्तिमुपयान्ति।
तथा ये क्षुद्राः क्रूरा ये च पाखण्डा वेदबाह्यास्ते सर्वे पीड्यन्ते। ये च तद्भक्तास्तेषां
क्षुद्राणां पाखण्डानां भक्ताः सेवकास्ते पीड्यन्ते बाध्यन्ते। तथा च गर्गः—
श्रावणः सस्यसम्पन्नः क्षेमारोग्यकरः शिवः।
धान्यं समर्घतां याति सम्यग् वर्षति वासवः।
क्षुद्रान् पाखण्डिनः सर्वान् तद्भक्तांश्चोपतापयेत्।। इति।।१२।।
अथ भाद्रपद आह—
भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च।
न भवत्यपरं सस्यं क्वचित्सुभिक्षं क्वचिच्च भयम् ।।१३।।
भाद्रपद वर्ष में वल्लीज ( मूँग आदि अन्न ) और पूर्व में बोये हुए धान्य पक जाते हैं;
परन्तु इस वर्ष के आरम्भ के बाद के बोये हुए धान्य नहीं होते हैं तथा संसार में कहीं-कहीं
पर सुभिक्ष और कहीं-कहीं पर भय होता है।।१३।।
भाद्रपदेऽब्दे वल्लीजं मुद्गादिकं निष्पत्तिं परिपाकं याति प्राप्नोति। तथा च पूर्वं
प्रथममुप्तं सस्यं निष्पत्तिं याति। अपरं पश्चादुप्तं सस्यं न भवति। क्वचित् सुभिक्षं क्वचिच्च
भयं भीतिर्भवति। तथा च गर्गः—
प्रौष्ठपात् सस्यजननो नाशयत्यपरं च यत्।
करोति च क्वचित् क्षेमं क्वचिदक्षेमकारकः।। इति।।१३।।
अथाऽऽश्वयुज आह—
आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम्।
प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ।।१४।।
आश्वयुज ( आश्विन ) वर्ष में बहुत वृष्टि, सर्वथा सानन्द प्रजा, सब प्राणियों में
प्राणचय ( अत्यधिक बल की वृद्धि ) और अन्न की अधिकता होती है।।१४।।
आश्वयुजेऽब्दे वर्षेऽजस्रं सततं जलं पतति सततं वर्षतीत्यर्थः। तथा प्रजाः सर्वाः
प्रमुदिताः प्रहृष्टाः। क्षेमं च भवति। तथा प्राणभृतां शरीरिणां सर्वेषामवशेषाणां प्राणचयो
बलोपचयो भवति। तथाऽन्नबाहुल्यमतिसुभिक्षं च। तथा च वृद्धगर्गः—
पर्याप्तसस्यान्रजलक्षेमश्चाश्वयुजः शिवः।
सम्प्रवृत्तोत्सवः श्रीमान् सर्वकामसुखावहः।। इति।
तथा च समाससंहितायाम्—
गुरुदयति नक्षत्रे यस्मिंस्तत्संज्ञितानि वर्षाणि।
द्विभयोगीन्याग्नेयात्त्रिभमन्त्यं पञ्चममुपान्त्यम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१६८ बृहत्संहिता
अनेन वाक्येनाऽऽचार्यस्य प्रथमैव व्याख्या साध्वी। उपान्त्यमेकादशमन्त्यं च द्वादशमिति।
तथा च—
फाल्गुनचैत्राषाढा मध्याः सौम्योऽधमस्तथा ज्येष्ठः।
वैशाखपौषमाघाः शुभफलदाः श्रावणाद्याश्च।। इति।।१४।।
अथ नक्षत्रेषु चरतो गुरोर्विशेषफलमाह—
उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम्।
याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ।।१५।।
नक्षत्रों के उत्तर में चलता हुआ बृहस्पति संसार में सुभिक्ष और क्षेम करता है, दक्षिण
में विपरीत फल (दुर्भिक्ष और अक्षेम) प्रदान करता है तथा नक्षत्रों के मध्य में चलता
हुआ बृहस्पति मध्यम फल प्रदान करता है।।१५।।
वाक्पतिर्बृहस्पतिर्भानां नक्षत्राणामुद्गुत्तरेण चरन् गच्छन्नारोग्यसुभिक्षक्षेमकरः आरोग्यं
सुभिक्षं क्षेमं च करोति। याम्ये दक्षिणेन चरंस्तद्विपरीतः अनारोग्यमसुभिक्षमक्षेमं च
करोति। मध्येन तु चरन् मध्यभागेन नक्षत्रस्य गच्छन् मध्यफलदायी भवति। मध्यमं फलं
ददाति न शुभं नाशुभमिति।।१५।।
अन्यदप्याह—
विचरन् भद्वयमिष्टस्तत्सार्द्धं वत्सरेण मध्यफलः।
सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ।।१६।।
यदि बृहस्पति एक वर्ष के अन्दर दो नक्षत्रों में विचरण करे तो शुभ फल, ढाई नक्षत्रों
में विचरण करे तो मध्यम फल और यदि कदाचित् ढाई से भी अधिक नक्षत्रों में विचरण
करे तो धान्यों का नाश करने वाला होता है।।१६।।
वत्सरेण वर्षेण भद्वयं नक्षत्रद्वयं विचरन् गच्छन् गुरुरिष्टः शोभनः। एतदुक्तं भवति—
बृहस्पतिर्यदा वर्षेण नक्षत्रद्वयं भुङ्क्ते तदा स प्रजानां शुभकरो भवति। तत्सार्द्धं वत्सरेण
मध्यफलं इति। तन्नक्षत्रद्वयं सार्द्धं यदि वत्सरेण विचरति तदा मध्यफलो मध्यमं फलं
करोति। न शुभं नाप्यशुभमित्यर्थः। सस्यानां विध्वंसीति। अधिकं भद्वयात् सार्द्धाद्यदि
कदाचिद्विचरेद्वर्षेण तदा सस्यानां विध्वंसी भवति। सस्यानि विनाशयतीत्यर्थः। तथा च
पराशरः—
‘मध्यदक्षिणोत्तरमार्गप्रविचारी मध्यदारुणोत्तमप्रजाभावकरः। श्वेतरक्तपीतकृष्णवर्णो ब्राह्म-
णादिवर्णजय्याय। सपादमृक्षद्वयमब्देन प्रविचरन् सस्यसम्पत् करोति। विपर्ययाद्विपरीतः।’
अथ गुरोर्वर्णलक्षणमाह—
अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे।
हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ।।१७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १६९
धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे ।
विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥१८८॥
यदि बृहस्पति अग्निवर्ण का हो तो अग्नि का भय, पीतवर्ण का हो तो व्याधि,
श्यामवर्ण का हो तो युद्ध, हरा हो तो चोरों से पीड़ा, लालवर्ण का हो तो शस्त्र का भय और
धूमवर्ण का हो तो अनावृष्टि करता है। यदि बृहस्पति दिन में दिखाई दे तो राजा का नाश
और ताराओं से सुन्दर रात्रि में बृहस्पति का विपुल निर्मल विम्ब दिखाई दे तो प्रजाओं को
सर्वथा स्वस्थ करता है॥१८८॥
त्रिदशगुरौ देवाचार्ये बृहस्पतावनलवर्णेऽग्निप्रभेऽनलभयमग्निभीतिर्भवति। पीते पीतवर्णे
व्याधिः पीडा। श्यामे श्यामवर्णे रणागमः संग्रामः। हरते हरितवर्णे शुकाभे तस्करेभ्यश्चौरेभ्यः
पीडोपतापो लोकानां भवति। रक्ते लोहितवर्णे शस्त्रभयम्।
धूमाभे धूमप्रभे अनावृष्टिरवर्षणम्। दिवा दिवसभागे दृष्टे नृपवधो राज्ञो मृत्युर्भवति।
तथा च पराशरः—
कदाचिद्यत्र दृश्येत दिवा देवपुरोहितः।
राजा वा म्रियते तत्र स देशो वा विनश्यति।।
विपुले महाबिम्बे। अमले निर्मले। सुतारे शोभनतारे। रात्रौ निशि। दृष्टे प्रजा लोकाः
स्वस्था नीरोगा भवन्ति। केचिन्नृपाः स्वस्था इति पठन्ति॥१८८॥
अथ संवत्सरपुरुषमाह—
रोहिण्योऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाद्वयं
सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् ।
देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥१९१॥
संवत्सरपुरुष के रोहिणी और कृत्तिका नक्षत्र शरीर, पूर्वाषाढा और उत्तराषाढा नाभि,
आश्लेषा हृदय और मघा पुष्प हैं। यदि संवत्सरपुरुष के ये शरीर आदि अङ्ग शुद्ध
( पापग्रह से रहित ) हों तो शुभ फल देते हैं। यदि देह ( रोहिणी और कृत्तिका ) में पाप
ग्रह हो तो अग्नि और वायु का भय, नाभि ( पूर्वाषाढा और उत्तराषाढा ) में पाप ग्रह हो तो
दुर्भिक्ष का भय, पुष्प ( मघा ) में पाप ग्रह हो तो मूल ( मूल पदार्थ ) और फल ( आम्र
आदि ) का क्षय तथा हृदय ( आश्लेषा नक्षत्र ) में पाप ग्रह हो तो धान्यों का नाश होता
है॥१९१॥
रोहिण्योऽनलभं कृत्तिकाः। एते द्वे नक्षत्रे संवत्सरतनुः संवत्सरपुरुषस्य शरीरम्।
अषाढाद्वयं पूर्वाषाढोत्तराषाढे तस्यैव नाभिः। सार्पमाश्लेषा हृत् हृदयम्। पितृदैवतं मघा
कुसुमं पुष्पमिति। प्रयोजनमप्याह—शुद्धैः शुभं तैः फलमिति । तैस्तन्वादिभिः शुद्धैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१७० बृहत्संहिता
पापग्रहविरहितैर्लोके शुभं फलं भवति। देहे क्रूरनिपीडित इति। क्रूरग्रहा रविभौमसौराः।
देहे तनौ कृत्तिकारोहिण्योरित्यर्थः। क्रूरनिपीडिते क्रूरहते तयोर्यदि पापाः स्थितास्तदा अग्न्य-
निलजं भयं भवति। अग्निर्मुहुतवहः, अनिलो वायुः, अनयोर्जातम्। तथा नाभ्यां पीडिताया-
मषाढाद्वय इत्यर्थः। क्षुत्कृतं दुर्भिक्षभयं भवति। पुष्ये मघायां पीडितायां मूलफलक्षयः, मूलानां
मूलद्रव्याणां फलानां चाम्रादीनां क्षयो विनाशो भवति। अथशब्दः स्वार्थे। हृदये आश्ले-
षायां पीडितायां ध्रुवमवश्यं सस्यस्य धान्यस्य नाशः क्षयो भवति। तथा च काश्यपः—
कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता।
आषाढाद्वितयं नाभी सार्पं हृत्कुसुमं मघा।।
क्रूरग्रहहते देहे दुर्भिक्षानलमारुताः।
क्षुद्भयं तु भवेन्नाभ्यां पुष्ये मूलफलक्षयः।।
हृदये सस्यहानिः स्यात् सौम्यैः पुष्टिः प्रकीर्तिता।। इति।।१९।।
अधुना षष्ट्यब्दानयनमाह—
गतानि वर्षाणि शकेन्द्रकाला-
द्धतानि रुद्रैर्गुणयेच्चतुर्भिः।
नवाष्टपञ्चाष्ट८५८९युतानि कृत्वा
विभाजयेच्छून्यशरागरामैः ३७५० ॥२०॥
लब्धेन युक्तं शकभूपकालं
संशोध्य षष्ट्या विषयैर्विभज्य।
युगानि नारायणपूर्वकाणि
लब्धानि शेषाः क्रमशः समाः स्युः ॥२१॥
एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेण।
हृत्वा चतुर्भिर्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम् ॥२२॥
शकादित्य (शालिवाहन) नृप के समय से जितने वर्ष बीते हों, उनको ग्यारह से
गुणा कर गुणनफल को फिर चार से गुणा करे। उस गुणनफल में ८५८९ जोड़कर ३७५०
से भाग देने पर जो लब्धि मिले, उसमें शकाब्द जोड़ कर ६० का भाग देने पर जो शेष बचे,
उसमें पाँच का भाग दे। लब्ध गत युग और शेष वर्तमान युग के वर्ष आदि होंगे एवं उक्त
वर्षों की संख्या को १२ से भाग दे और भागफल को नवगुणित अङ्क में मिलाकर ४ का
भाग करने पर जो लब्धि हो, उतनी संख्या के नक्षत्रों में बृहस्पति की मान्यता समझे; परन्तु
गणना के समय २४ वें नक्षत्र से गणना करनी चाहिए अर्थात् १ लब्धि हो तो २५वाँ
(पूर्वाभाद्रपद) और २ लब्धि हो तो २६वाँ (उत्तराभाद्रपदा) नक्षत्र समझना चाहिये।
उदाहरण—जैसे शाके १८७६ में संवत्सर का आनयन करना है तो १८७६ को ११
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

से गुणा कर गुणनफल २०६३६ को फिर ४ से गुणा किया तो ८२५४४ हुआ; इसमें ३७५०
का भाग देने से लब्ध वर्ष २४, शेष वर्ष ११३३ को १२ से गुणा कर गुणनफल १३५९६
में भाजक ३७५० का भाग देने से लब्ध मास ३, मासशेष २३४६ को ३० से गुणा कर
गुणनफल ७०३८० में भाजक ३७५० का भाग देने से लब्ध दिन १८, दिनशेष २८८० को
६० से गुणा कर गुणनफल १७२८०० में भाजक ३७५० का भाग देने से लब्ध घटी ४६,
घटीशेष ३०० को ६० से गुणा कर गुणनफल १८००० में भाजक ३७५० का भाग देने से
लब्ध पला ४, पलाशेष ३००० 'अर्धाधिके रूपं ग्राह्यम्' इस नियम से लब्ध पला ५ हुआ।
अतः वर्ष आदि लब्धि = ( २४ । ३ । १८ । ४६ । ५ ) इतनी हुई, इसमें इष्ट शकाब्द १८७६
जोड़ा तो १९०० । ३ । १८ । ४६ । ५ हुआ। इसके वर्षस्थान १९०० में ६० का भाग देने से
लब्धि ३१ और शेष षष्ट्यब्द प्रमाण—४० । ३ । १८ । ४६ । ५ रहा, अतः ४०वें संवत्सर के
अग्रिमस्थ ४१वाँ संवत्सर 'प्लवङ्ग' नाम का इष्ट शकाब्द १८७६ में सिद्ध हुआ। इस ४० ।
३ । १८ । ४६ । ५ में ५ का भाग देने से लब्धि ८ और शेष ० । ३ । १८ । ४६ । ५ रहा। अतः
नवम युग ( सोम ) में वर्ष आदि ० । ३ । १८ । ४६ । ५ बीता है॥२०-२२॥
शका नाम म्लेच्छजातयो राजानस्ते यस्मिन् काले विक्रमादित्यदेवेन व्यापादिताः
स कालो लोके शक इति प्रसिद्धः। तस्माच्छकेन्द्रकालात् शकनृपवधादारभ्याभीष्टवर्षं
यावद् यानि वर्षाणि गतान्यतीतानि तानि संस्थाप्य हतानि रुद्रैरेकादशभिर्गुणयेत्, ततः
पुनरपि चतुर्भिर्गुणयेत्। एवं चतुश्चत्वारिंशता गुणितानि भवन्तीत्यर्थः। ततो नवाष्टपञ्चाष्टयुतानि
कार्याणि। अष्टभिः सहस्रैः पञ्चभिः शतैरेकोननवत्यधिकैरित्यर्थः ८५८९। एवं कृत्वा
ततः शून्यशरागारामैर्विभाजयेत्। त्रिभिः सहस्रैः सप्तभिः शतैः सार्द्धैरित्यर्थः ३७५०।
एतैर्भागमपह shape? एतैर्भागमपह shape -> एतैर्भागमपहरेत्, लब्धं फलं वर्षाणि। तान्येव बृहस्पतिराशयः। शेषं त्रिंशता सङ्गुण्य
तेनैव छेदेन विभज्यावाप्तं भागा राशीनामधः स्थाप्याः। भागशेषं षष्ट्या सङ्गुण्य तेनैव
छेदेन भागमपहृत्यावाप्तं लिप्ता भागानामधः स्थाप्याः। भागशेषं षष्ट्या सङ्गुण्य तेनैव
छेदेन भागमपहृत्यावाप्तं विलिप्ता लिप्तानामधः स्थाप्याः।
लब्धेन युक्तमिति। ततस्तेन लब्धेन राश्यादिना फलेन शकभूपकालं शकनृपसमयं
युक्तं कार्यम्। वर्षेषु राशयः क्षेप्याः शेषमधः स्थापयेत्। यतस्तानि वर्षरूपाण्येव गुरो
राशयः सम्पन्नाः। ततः संशोध्य षष्ट्या। वर्षस्थाने योऽसौ राशिस्ततः षष्ट्या भागमपह shape? भागमपहरेत्।
लब्धमतीतषष्ट्यब्दाः। शेषं वर्तमानषष्ट्यब्दस्य गतवर्षाणि। यतो गुरो राशिभोग एव वर्षम्।
ततस्तान्यब्दान्यत्र विषयैः पञ्चभिर्विभज्य लब्धं वर्तमानषष्ट्यब्दस्यातीतयुगानि। एतानि
नारायणपूर्वकाणि विष्णुप्रभृतीनि भवन्ति। पञ्चभिर्भागे हते यच्छेषं तदेव वर्तमानयुगस्याब्दाः
सविकला गताः। शेषं पञ्चभ्यः संशोध्य यदवशिष्यते तावन्ति वर्षाणि तत्र भवन्ति।
अथ बृहस्पतिनक्षत्रज्ञानं तद्वशेन वर्षज्ञानमप्याह—एकैकमिति। वर्तमानषष्ट्यब्दस्य
ये गताः सविकला अब्दा अनष्टाः पृथक् स्थापिताः। तान् सविकलान् पृथगेकत्र नवभिर्गुणयेत्,
ततो द्वितीयस्थानस्थेभ्यो वर्तमानषष्ट्यब्दगतवर्षेभ्यो द्वादशभागं वर्षादिकं गृहीत्वा नवगुणि-

१७२ बृहत्संहिता
ष्ष्वब्देषु योजयेत्। यत उक्तम्—एकैकमब्देषु नवाहतेषु दत्त्वा पृथग् द्वादशकं क्रमेणेति।
द्वादशभिर्द्वादशभिर्वर्षैरैकैकं योजयेत्। वर्षस्थाने द्वादशभिर्भागमपहृत्य लब्धं वर्षाणि त
एव राशयः। शेषं त्रिंशता षष्ट्या षष्ट्या च सङ्गुण्य विकलासहितं कृत्वा प्राग्वद् भागा-
द्यानीय तत्र राशीनामधः स्थापयित्वा द्वादशभागं नवाहतेष्वब्देषु योजयेद्यथास्थानमेव।
ततः स्वच्छेदर्भागमपहृत्यावाप्तं यथास्थानमुपर्युपरि योजयेत्। ततस्तत्र चतुर्भिर्भागमपहृत्य
यल्लब्धं तान्युडूनि नक्षत्राणि वसुदेवताद्यानि धनिष्ठादीनि भवन्ति। शेषं स्थाप्यम्। लब्धस्य
सप्तविंशत्यावशेषाङ्कसमं धनिष्ठादिकं नक्षत्रं वक्तव्यम्। तत्र चतुर्भिर्भागे हृते यच्छेषं स्थापितं
तदंशकपूर्वमब्दं भवति। लब्धसंख्यनक्षत्रात् पर

नक्षत्राणि सविकलानि भवन्ति। तेषां च धनिष्ठादिका गणना। यतो धनिष्ठास्थे गुरौ
षष्ट्यब्दप्रवृत्तिः। यतो वक्ष्यति 'आद्यं धनिष्ठांशम्' इत्यादि। अर्थदिवाशेषं भोग्यनक्षत्रपादा
भवन्तीति॥२०-२२॥
अधुना द्वादशानां षष्ट्यब्दावस्थितानां युगानां नामान्याह—
विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च।
क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः ॥२३॥
विष्णु, सुरेज्य ( बृहस्पति ), बलभित् ( इन्द्र ), हुताश ( अग्नि ), त्वष्टा ( प्रजापति ),
उत्तरप्रोष्ठपदाधिप ( अहिर्बुध्न्य ), पिता, विश्वेदेव, सोम, शक्रानल ( इन्द्राग्नि ), अश्वि
( अश्विनीकुमार ), भग ( सूर्य )—ये बारह पूर्वकथित बारह युगों के स्वामी हैं॥२३॥
विष्णुर्नारायणः प्रथमयुगम्। सुरेज्यो बृहस्पतिर्द्वितीययुगम्। बलभिदिन्द्रस्तृतीयम्।
हुताशोऽग्निश्चतुर्थम्। त्वष्टा नाम प्रजापतिः पञ्चमम्। उत्तरप्रोष्ठपदाधिपोऽहिर्बुध्न्यः षष्ठम्।
पिता सप्तमम्। विश्वेऽष्टमम्। सोमो नवमम्। शक्रानल इन्द्राग्निर्दशमम्। अश्विसंज्ञमेकादशम्।
भगः सूर्यो द्वादशम्। एते देवविशेषा द्वादश क्रमादानुपूर्व्येण युगेशा युगस्वामिनः
प्रदिष्टा उक्ताः। तथा च समाससंहितायाम्—
विष्णुगुरुशक्रहुतभुक्त्वष्टाहिर्बुध्न्यपित्र्यविश्वानि।
सौम्यमथेन्द्राग्न्याख्यं त्वाश्विनमपि भाग्यसंज्ञं च॥ इति॥२३॥
अत्र युगे युगे पञ्च वर्षाणि भवन्ति। तेषां नाम दैवतं च प्रत्येकस्याह—
संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली।
प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥२४॥
संवत्सर, परिवत्सर, इदावत्सर, अनुवत्सर, इद्वत्सर—ये प्रत्येक युग में पाँच-पाँच
संवत्सर होते हैं। इनके स्वामी क्रम से अग्नि, सूर्य, चन्द्र, प्रजापति और शिव हैं। जैसे
संवत्सर का स्वामी अग्नि, परिवत्सर का स्वामी सूर्य, इदावत्सर का स्वामी चन्द्र, अनुवत्सर
का स्वामी प्रजापति और इद्वत्सर का स्वामी शिव है॥२४॥
संवत्सरपरिवत्सरेदाद्यनुवत्सरेद्वत्सराख्यानि पञ्च वर्षाणि भवन्ति। तत्र यः संवत्सरः
प्रथमोऽब्दः सोऽग्निदैवत्यः। परिवत्सरो द्वितीयः सोऽर्कदैवत्यः सूर्याधिपः। यश्चेदादिकः
इदाशब्द आदौ यस्य स इदावत्सरस्तृतीयस्तस्य शीतमयूखमाली चन्द्रोऽधिपतिः। योऽनु-
वत्सरश्चतुर्थस्तस्य प्रजापतिर्ब्रह्माऽधिपतिः। य इद्वत्सरः पञ्चमस्तस्य शैलसुतापतिरुमाभर्ता
रुद्र इति। अत्र दैवतकथनेन किं प्रयोजनम्? उच्यते—यथा युगानामधिपतय उक्तास्तथा
वर्षाणामपि। तस्मिन् वर्षे तस्या देवताया यागः सम्पत्त्यर्थं वेदे पठ्यते। तदर्थं दैवत-
कथनमिति॥२४॥
अथैतेषां फलान्याह—
वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये।
पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममब्दमुक्तम् ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१७४ बृहत्संहिता
संवत्सर नामक वर्ष में मध्यम रूप से ( जैसे—श्रावण, भाद्रपद, आश्विन, कार्तिक—
इन चारों मासों में समान ) वृष्टि होती है, परिवत्सर नामक वर्ष में आद्य भाग में ( श्रावण,
भाद्र में ) एवं इदावत्सर नामक वर्ष में चारों मासों में बहुत वृष्टि होती है। अनुवत्सर
नामक वर्ष में अन्त में ( आश्विन और कार्तिक में ) वृष्टि होती है और इद्वत्सर नामक वर्ष
में थोड़ी वृष्टि होती है।।२५।।
आद्ये संवत्सराख्ये वर्षे समा वृष्टिर्भवति, न चातिबह्वी न चात्यल्पा। श्रावणभाद्र-
पदाऽश्वयुजकार्तिकमासेषु चतुर्ष्वपि तुल्या भवतीत्यर्थः। द्वितीये परिवत्सरे प्रमुखे प्रथमभागे
आदावेव वृष्टिर्भवति न पश्चात्। श्रावणभाद्रपदयोर्भवति नाश्वयुजकार्तिकयोरित्यर्थः।
तृतीये इदावत्सरे प्रभूततोया बहुजला वृष्टिर्भवति चतुर्ष्वपि मासेषु। यच्चतुर्थवर्षमनुवत्सराख्यं
तत्पश्चादन्ते जलं मुञ्चति वर्षति। न प्रथममाश्वयुजकार्तिकयोर्न श्रावणभाद्रपदयोरित्यर्थः।
यत्पञ्चममब्दं वर्षमिद्वत्सराख्यं तत्स्वल्पोदकमल्पजलमुक्तं कथितं चतुर्ष्वपि मासेषु।।२५।।
अधुना युगान्युत्तममध्यमाधमान्याह—
चत्वारि मुख्यानि युगान्यथैषां
विष्ण्विन्द्रजीवानलदैवतानि ।
चत्वारि मध्यानि च मध्यमानि
चत्वारि चान्त्यान्यधमानि विन्द्यात् ।।२६।।
पूर्वकथित बारह युगों में विष्णु, इन्द्र, बृहस्पति और अग्नि जिनके देवता हैं, वे उत्तम,
मध्य के चार ( प्रजापति, उत्तरप्रौष्ठपदाधिप, पिता और विश्वेदेव ) जिनके देवता हैं, वे
मध्यम और अन्त के चार ( सोम, शक्रानल, अश्वि और सूर्य ) जिनके देवता हैं, वे अशुभ
होते हैं।।२६।।
एषां द्वादशानां युगानां मध्याच्चत्वारि युगानि मुख्यानि उत्तमफलानि प्रयच्छन्ति।
अथशब्दः पादपूरणे चार्थे वा। कानि तानि? विष्णुः। इन्द्रः। जीवो बृहस्पतिः। अनलोऽग्निः।
विष्णुदैवतं प्रथमम्। इन्द्रदैवतं तृतीयम्। बृहस्पतिदैवतं द्वितीयम्। अग्निदैवतं चतुर्थम्।
एतानि मुख्यानि। तथा चत्वारि युगानि मध्यानि मध्यमान्येव मध्यफलानि न शुभानि
नाप्यशुभानि। कानि च तानि? त्वष्टृदैवतम्। अहिर्बुध्न्यदैवतम्। पितृदैवतम्। विश्वदैवतम्।
एतानि मध्यफलानि। तथा चान्त्यानि चत्वारि। सोमदैवतम्। इन्द्राग्निदैवतम्। अश्विदैवतम्।
भगाख्यदैवतम्। एतान्यधमानि दुष्टफलानि विन्द्याज्जानीयात्। तथा च समाससंहितायाम्—
चत्वारि युगान्यादौ शुभानि मध्यानि मध्यमफलानि।
चत्वार्यन्त्यानि न शोभनानि वर्षैर्विशेषोऽत्र।। इति।।२६।।
अधुना षष्ट्यब्दपूर्वस्य प्रभवाख्यस्याब्दस्य प्रवृत्तिकालमाह—
आद्यं धनिष्ठांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः ।
षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते भूतहितस्तदाब्दः ।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १७५
जब धनिष्ठा के प्रथम अंश में स्थित होकर बृहस्पति माघ मास में उदित होता है, उस
समय से षष्ट्यब्दों में प्रथम प्रभव नामक वर्ष का प्रारम्भ होता है। यह वर्ष प्राणियों के लिये
हितकारी होता है॥२७॥
सुरेज्यो बृहस्पतिः। आद्यं प्रथमं धनिष्ठांशं धनिष्ठायाः प्रथमपादमभिप्रपन्नस्तत्र
स्थितो माघे मासे यदा यस्मिन् काले उदयं याति सूर्यमण्डलादुद्गच्छति तदा तस्मिन्
काले षष्ट्यब्दपूर्वः षष्ट्यब्दस्य प्रथमोऽब्दः। स च प्रभवो नाम्ना प्रभवसंज्ञः प्रपद्यते प्रवर्तते।
तस्य प्रारम्भो भवतीत्यर्थः। एतच्चान्द्रेण मानेन यो मासस्तत्र सम्भवति न सौरमानेन।
यतः कृतदृक्कर्मद्वयो गुरुर्यदा राशिनवकाद्भागत्रयोविंशतेर्लिप्ताविंशतेश्चार्वाग्भवति, सूर्यश्च
राशिदशकं षड् भागान् द्वादशलिप्ताश्च भुक्त्वा स्थितो भवति, तदैतत्सम्भवति नान्यत्रेति।
कीदृशोऽब्दः? भूतहितो भूतानां सत्त्वानां हितोऽनुकूल इति॥२७॥
तथा च स्वरूपमाह—
क्वचित्त्ववृष्टिः पवनाग्निकोपः
सन्तीतयः श्लेष्मकृताश्च रोगाः।
संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते
न दुःखमाप्नोति जनस्तथापि ॥२८॥
यद्यपि प्रभव संवत्सर में कहीं-कहीं पर अवृष्टि, कहीं-कहीं पर वायु का प्रकोप, कहीं
कहीं पर अग्नि का कोप, कहीं-कहीं पर अतिवृष्टि आदि छः ईतियों का भय और कहीं-
कहीं पर कफजन्य रोग होते हैं, तथापि संसारस्थित प्राणियों को विशेष कष्ट का अनुभव
नहीं होता है॥२८॥
अस्मिन् प्रभवाख्ये संवत्सरे वर्षे प्रवृत्ते प्रतिपन्ने सति क्वचित्त्ववृष्टिरवर्षणं भवति
न सर्वत्र। तथा पवनाग्निकोपः। पवनो वायुः। अग्निर्हुताशनः। वायुप्रकोपोऽग्निप्रकोपश्च
क्वचिद् भवति। तथा ईतयोऽतिवृष्ट्यादय उपद्रवाः सन्ति भवन्ति। श्लेष्मकृताः कफोत्पन्नाश्च
रोगा गदाश्च क्वचिद् भवन्ति। तथापि जनो लोको न दुःखं कृच्छ्रमाप्नोति लभते॥२८॥
अथान्येष्वब्देषु नामानि फलं चाह—
तस्माद् द्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः।
प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलान्यथैषाम् ॥२९॥
निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम्।
संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥३०॥
इसके बाद दूसरे वर्ष का नाम विभव, तीसरे का शुक्ल, चौथे का प्रमोद और पाँचवें
वर्ष का नाम प्रजापति है। ये चारो वर्ष उत्तरोत्तर शुभ फल देने वाले होते हैं। इन वर्षों में राजाओं
की शासनपद्धति ऐसी होती है, जिससे धान्य, ईख, यव आदि अन्न अच्छी तरह पककर सुन्दर
फल देने वाले होते हैं तथा सभी प्राणी निर्भय, द्वेषरहित, आनन्दयुत और कलि के दोष
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१७६ बृहत्संहिता
( अधर्म, व्याधि, दारिद्र्य, शोक, कलह, मृत्यु आदि ) से विमुक्त होते हैं।।२९-३०।।
तस्मात् प्रभवाद् द्वितीयोऽब्दो विभवनामा प्रदिष्ट उक्तः । तृतीयः शुक्लः । परतोऽनन्तरं
चतुर्थः प्रमोदः । प्रजापतिः पञ्चमश्चेति। इतिशब्दः प्रकाराय। एतानि वर्षाणि यथोत्तराणि
उत्तरोत्तराणि। शस्तानि शुभानि। अथानन्तरमेषां वर्षाणां फलानि भवन्ति।
निष्पन्नेत्यादि । तदा तस्मिन् युगे क्षत्रं राजवर्गो भूतधात्रीं वसुन्धरामेवंविधां शास्ति
पालयति। किम्भूताम्? निष्पन्ना निष्ठाः प्राप्ताः शालय इक्षवो यवादयः सस्यानि च यस्यां
ताम्। आदिग्रहणाद् गोधूममसूरचणकमुद्गमाषा गृह्यन्ते। तथा भयैर्दुःखैर्विमुक्तां वर्जि-
ताम्। उपशान्तवैरां नष्टद्वेषाम्। संहृष्टलोकां प्रहृष्टजनाम्। कलिदोषमुक्तां कलियुगे ये दोषा
अधर्मव्या

बृहस्पतिचाराध्यायः १७७
आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥३४॥
तृतीय ( ऐन्द्र ) युग में ईश्वर, बहुधान्य, प्रमाथी, विक्रम, वृष—ये पाँच वर्ष बृहस्पति
के सञ्चारवश होते हैं। इनके प्रथम ( ईश्वर ) और द्वितीय ( बहुधान्य ) वर्ष शुभ हैं तथा
इनमें प्रजागण कृतयुग की तरह ( धर्म में निरत, सुखी और दीर्घजीवी ) होते हैं। प्रमाथी
नाम का तृतीय वर्ष पापफल देने वाला होता है। वृष और विक्रम नामक वर्ष सुभिक्ष तो
करता है; किन्तु रोग और भय देने वाला भी होता है॥३३-३४॥
शाके इन्द्रे युगे पूर्वं प्रथमं वर्षमीश्वरसंज्ञम्। अथशब्दः पादपूरणे। द्वितीयं वर्षं बहु-
धान्यसंज्ञमाहुरुक्तवन्तः। प्रमाथिनं तृतीयम्। विक्रमं चतुर्थम्। अपिशब्दश्चार्थे। अथशब्द
आनन्तर्ये। अन्यत् पञ्चमं वृषं नाम गुरुचारयोगाद् बृहस्पतिचारसंयोगाद्विन्द्याज्जानीयात्।
यतो बार्हस्पत्येनैव मानेनैतानि वर्षाणि भवन्ति। यस्मिन् काले गुरुरादित्यमण्डलादुदेति
तस्मिन्नेव कालेऽब्दप्रवृत्तिः। अत उक्तं गुरुचारयोगादिति।
आद्यं द्वितीयं चेति । आद्यं वर्षं द्वितीयं च एते द्वे वर्षे शुभे प्रशस्तफले प्रजानां लोकानां
कृतानुकारं कृतयुगस्यानुकारं कुरुतः। तद्धर्मानुष्ठानात् तत्सदृशमित्यर्थः। धर्मरताः सुखिता
दीर्घजीविन्यः प्रजा भवन्तीति यावत्। प्रमाथी नाम तृतीयोऽब्दः, स पापोऽनिष्टफलः। वृष-
विक्रमौ तु द्वावब्दौ सुभिक्षदौ सुभिक्षं ददतः, किन्तु रोगभयप्रदौ रोगभयं कुरुतः॥३३-३४॥
अथ चतुर्थस्य युगस्याह—
श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् ।
मध्यं द्वितीयं तु सुभानुसञ्ज्ञं रोगप्रदं मृत्युकरं नतं च ॥३५॥
तारणं तदनु भूरिवारिदं सस्यवृद्धिमुदितातिपार्थिवम्।
पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥३६॥
चतुर्थ ( हुताश ) युग के अन्तर्गत चित्रभानु नामक प्रथम वर्ष शुभ फल देने वाला,
द्वितीय सुभानु नामक वर्ष मध्यम फल देने वाला और तृतीय नत नाम का वर्ष रोगप्रद और
मृत्यु को देने वाला होता है। चतुर्थ तारण नामक वर्ष में बहुत जल, धान्यों की वृद्धि और
राजाओं में आनन्द की वृद्धि होती है। पञ्चम व्यय नामक वर्ष शुभ है, इसमें काम की
प्रबलता और उत्सव ( विवाहादि मङ्गलकार्य ) होते हैं॥३५-३६॥
श्रेष्ठमिति । चतुर्थस्य युगस्य हुताशाख्यस्य पूर्वं प्रथमं वर्षं यच्चित्रभानुसंज्ञं तच्छ्रेष्ठं
शुभं कथयन्ति प्रवदन्ति। तस्यैव द्वितीयं सुभानुसंज्ञं तच्च मध्यं मध्यफलम्। तृतीयं
नतं नाम तच्च रोगप्रदं रोगान् ददाति। मृत्युकरं मृत्युं च करोति।
तदनु तस्य तृतीयस्य वर्षस्य पश्चाच्चतुर्थं वर्षं तारणं नाम, तच्च भूरिवारिदम्, भूरि
बहु वारि जलं ददाति। तथा सस्यवृद्धिमुदितातिपार्थिवम्, सस्यानां वृद्धिः, मुदिताति-
बृ० भ० प्र०-१२
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

१७८ बृहत्संहिता
पार्थिवं मुदितो हृष्टोऽतीवात्यर्थं पार्थिवो राजा च यत्र। तथा पञ्चमं वर्षं व्ययसंज्ञं तच्च
श्रेष्ठमुशन्ति कथयन्ति। मन्मथप्रबलम्, मन्मथः कामः प्रबल उद्धतो यस्मिन् वर्षे तत्।
तथोत्सवैर्विवाहादिभिराकुलं सोद्यमम्।।३५-३६।।
अथ पञ्चमस्य युगस्याह—
त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी ।
तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ।।३७।।
पञ्चम ( त्वाष्ट्र ) युग के अन्तर्गत सर्वजित्, सर्वधारी, विरोधी, विकृत, खर—ये
पाँच संवत्सर होते हैं। इनमें दूसरा ( सर्वधारी ) शुभ और शेष ( सर्वजित्, विरोधी,
विकृत और खर ) भय देने वाले होते हैं।।३७।।
त्वाष्ट्रे युगे आद्यः प्रथमः संवत्सरोऽब्दः सर्वजिन्नामा उक्तः कथितः। अन्यो द्वितीयः
सर्वधारी। खलुशब्दो वाक्यालङ्कारे आगमद्योतनार्थे वा। तस्माद् द्वितीयात् परतस्तृतीयो
विरोधी नाम। चतुर्थो विकृतः। पञ्चमः खरः। शस्तो द्वितीयोऽत्र भयाय शेषा इति।
अत्रास्मिन् युगे द्वितीयोऽब्दः शस्तः शुभः। शेषाः प्रथमतृतीयचतुर्थपञ्चमा भयाय भवन्ति
भयं कुर्वन्ति। अनिष्टफलदा इत्यर्थः।।३७।।
अथ षष्ठस्य युगस्याह—
नन्दनोऽथ विजयो जयस्तथा मन्मथोऽस्य परतश्च दुर्मुखः ।
कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः ।।३८।।
षष्ठ ( प्रोष्ठपद ) युग में नन्दन, विजय, जय, मन्मथ, दुर्मुख—ये पाँच संवत्सर होते
हैं। इनमें आदि के तीन ( नन्दन, विजय और जय ) शुभ, मन्मथ मध्यम और शेष
( दुर्मुख ) अशुभ है।।३८।।
अहिर्बुध्न्ये युगे प्रथमोऽब्दो नन्दनः। अथानन्तरं द्वितीयो विजयः। तथा तेनैव प्रकारेण
तृतीयो जयः। चतुर्थो मन्मथः। अस्य चतुर्थस्य परतोऽनन्तरं दुर्मुखः पञ्चमः। अत्रास्मिन्
युगे आदित आदौ प्रथमं वर्षत्रयं कान्तं शुभमित्यर्थः। केचित् 'कान्तमत्र युगमादितस्त्रये'
इति पठन्ति। अत्रास्मिन् युगमादित आदौ प्रथमवर्षत्रये कान्तम्। मन्मथः समफलः, न
शुभो नाप्यशुभ इत्यर्थः। अपरश्च दुर्मुखोऽधमः, अशुभफल इत्यर्थः।।३८।।
अथ सप्तमस्य युगस्याह—
हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च ।
शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ।।३९।।
ईतिप्राया प्रचुरपवना वृष्टिरब्दे तु पूर्वे
मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये ।
अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ।।४०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १७९
सप्तम (पितृसंज्ञक) युग में हेमलम्ब, विलम्बी, विकारी, शर्वरी, प्लव—ये पाँच
संवत्सर होते हैं। इनमें प्रथम (हेमलम्ब) संवत्सर में अधिकतर अतिवृष्टि आदि छः
ईतियों का भय और अधिक वायु के प्रकोप से युत वृष्टि होती है। दूसरे (विलम्बी) संवत्सर
में थोड़ा धान्य और अधिक वृष्टि होती है। तृतीय संवत्सर बहुत उद्वेग (दोष) करने वाला
और अधिक जल देने वाला होता है। चौथा (शर्वरी) संवत्सर दुर्भिक्ष करने वाला होता है
एवं पाँचवाँ (प्लव) संवत्सर शुभ फल और बहुत वृष्टि देने वाला होता है।।३९-४०।।
सप्तमे पैत्रे हेमलम्ब इति प्रथमो वत्सरः स्यात्। विलम्बि द्वितीयः। परतोऽनन्तरं
तृतीयो विकारि। चशब्दः समुच्चये। शर्वरीति चतुर्थः। तदनु तत्पश्चात् पञ्चमो वत्सरोऽब्दः
प्लवः इति उक्तः। गुरुवशेन बृहस्पतिचारयोगात्।
ईतिप्रायेति। पूर्वे प्रथमेऽब्दे वर्षे ईतिप्रायाऽतिवृष्ट्याद्युपद्रवबहुला। प्रचुरपवना बहुवाता
वृष्टिर्भवति। अतोऽब्दाद् द्वितीये वत्सरे मन्दमल्पं सस्यं न बहुसलिलं प्रभूतजलं भवति।
तृतीयो वत्सरोऽत्युद्वेगकरः प्रभूतदोषदस्तथा प्रचुरसलिलः प्रभूतजलः स्याद् भवेत्। चतुर्थो
दुर्भिक्षाय भवति। ततोऽनन्तरं प्लव इति पञ्चमः शोभनः श्रेष्ठ इति। स च भूरितोयो बहु-
जलश्च भवति।।३९-४०।।
अथाष्टमस्य युगस्याह—
वैश्वे युगे शोक हृदित्यथाद्यः संवत्सरोऽतः शुभकृद् द्वितीयः।
क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥४१॥
पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः।
अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगोभयं च ॥४२॥
अष्टम (वैश्व) युग में शोकहृत्, शुभकृत्, क्रोधी, विश्वावसु, पराभव—ये पाँच
संवत्सर होते हैं। इनमें प्रथम (शोकहृत्) और द्वितीय (शुभकृत्) संवत्सर प्रजाओं को
आनन्द देने वाले होते हैं। तृतीय (क्रोधी) संवत्सर बहुत अशुभकारी है। अन्त्य के
चतुर्थ (विश्वावसु) और पञ्चम (पराभव) संवत्सर मध्यम फल देने वाले होते हैं;
किन्तु पराभव संवत्सर में अग्नि का भय, शस्त्र से पीड़ा, रोग से पीड़ा एवं ब्राह्मणों और
गौओं को भय होता है।।४१-४२।।
वैश्वे युगे इति। अथानन्तरं वैश्वे अष्टमे युगे आद्यः प्रथमः संवत्सरोऽब्दः शोकहृदिति।
केचिच्छोककृदिति पठन्ति। शोकं कृन्तति छिनत्तीति शोककृत्। यतोऽस्य शोभनं फलमा-
चार्यो वक्ष्यति—'पूर्वापरौ प्रीतिकरौ प्रजानाम्' इति। तस्माच्छोकहृदिति निःसन्देहः पाठः।
अतोऽन्यो द्वितीयः शुभकृत्। तृतीयः क्रोधी। परतोऽनन्तरं क्रमेण विश्वावसुश्चेति चतुर्थः।
इतिशब्दः प्रकारे। पराभवश्च पञ्चमः।
पूर्वापराविति। प्रथमद्वितीयावब्दौ प्रजानां प्रीतिकरौ। एषां सर्वेषां पञ्चानां क्रोधी
योऽब्दस्तृतीयः स बहुदोषदः, बहुदोषानशुभान् ददाति। अन्त्यौ पश्चिमौ चतुर्थपञ्चमौ समौ
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१८० बृहत्संहिता
समफलौ न शुभौ नाप्यशुभौ भवतः। किन्त्वत्र वर्षद्वये पराभवेऽग्निरग्निभयं भवति। तथा
शस्त्राग्न्यार्तिः शस्त्रेण आमयैश्च रोगैरार्तिः पीडा भवति। तथा द्विजगोभयं च द्विजानां
ब्राह्मणानां गवां च भयं भवति।।४१-४२।।
अथ नवमस्य युगस्याह—
आद्यः प्लवङ्गो नवमे युगेऽब्दः
स्यात् कीलकोऽन्यः परतश्च सौम्यः ।
साधारणो रोधकृदित्यथैवं
शुभप्रदौ कीलकसौम्यसंज्ञौ ।।४३।।
कष्टः प्लवङ्गो बहुशः प्रजानां साधारणोऽल्पं जलमीतयश्च ।
यः पञ्चमो रोधकृदित्यथाब्दश्चित्रं जलं तत्र च सस्यसम्पत् ।।४४।।
नवम ( सौम्य ) युग में प्लवङ्ग, कीलक, सौम्य, साधारण, रोधकृत्—ये पाँच
संवत्सर होते हैं। इनमें कीलक और सौम्य संवत्सर शुभप्रद हैं। प्लवङ्ग संवत्सर में प्रजाओं
को कष्ट होता है। साधारण संवत्सर में थोड़ा जल और अनावृष्टि आदि ईति का भय होता
है। रोधकृत् संवत्सर में चित्रजल ( कहीं-कहीं पर वृष्टि और कहीं पर अवृष्टि ) एवं
धान्य की उत्पत्ति होती है।।४३-४४।।
आद्यः प्लवङ्ग इति। नवमे युगे सौम्ये आद्यः प्रथमोऽब्दः प्लवङ्गसंज्ञः स्याद्भवेत्।
अन्यो द्वितीयः कीलकः। परतस्तृतीयः सौम्यः। साधारणश्चतुर्थः। रोधकृत् पञ्चमः। इत्येवं
प्रकारे। अथशब्द आनन्तर्ये। तत्र कीलकसौम्यसंज्ञौ द्वावब्दौ शुभप्रदौ श्रेष्ठौ।
कष्ट इति। प्लवङ्गसंज्ञः प्रजानां बहुशो बहुप्रकारं कष्टोऽशुभः। अब्दे साधारणे
अल्पं जलं स्वल्पमुदकम्। ईतय अतिवृष्ट्यादय उपद्रवाः। अथानन्तरं यः पञ्चमोऽब्दो
रोधकृदिति तत्र तस्मिन्नब्दे चित्रं नानाप्रकारं जलं क्वचित्क्वचिद्वर्षति। तथा सस्यानां सम्पच्च
भवति।।४३-४४।।
अथ दशमस्य युगस्याह—
इन्द्राग्निदैवं दशमं युगं यत्तत्राद्यवर्षं परिधाविसंज्ञम् ।
प्रमादिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ।।४५।।
परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः ।
अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ।।४६।।
विक्रमः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा ।
ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः ।।४७।।
दशम ( शक्राग्नि ) युग में परिधावी, प्रमादी, विक्रम, राक्षस, अनल—ये पाँच
संवत्सर होते हैं। परिधावी संवत्सर में मध्यदेश का नाश, राजा का मरण, थोड़ी वर्षा और
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

[Header] बृहस्पतिचाराध्यायः १८१

अग्निभय होता है। प्रमादी संवत्सर में आलसी मनुष्य, डमर (सशस्त्र कलह), रक्त
पुष्प और रक्त बीज वाले वृक्षों का नाश होता है। विक्रम संवत्सर में सभी मनुष्यों को
आनन्द प्राप्त होता है। राक्षस और अनल संवत्सर में सब लोगों का नाश होता है; पर
राक्षस संवत्सर में ग्रीष्म धान्य (यव, गेहूँ, चना आदि) की उत्पत्ति और अनल संवत्सर
में अग्निकोप एवं मरक (मरी) होता है॥४५-४७॥
इन्द्राग्निदैवमिति। दशमं युगमिन्द्राग्निदैवतं यत्तत्र तस्मिन्नाद्यवर्षं प्रथमवर्षं परिधा-
विसंज्ञम्। प्रमादिनं द्वितीयम्। अतोऽस्मादन्यत्तृतीयं विक्रमं स्याद् भवेत्। राक्षसं चतुर्थम्।
अनलसंज्ञितं पञ्चमम्। चशब्दोऽत्रोभयत्र समुच्चये।
परिधाविनीति। परिधाविनि वर्षे मध्यदेशनाशो भवति। तत्रैव नृपहानी राज्ञो मरणम्।
जलमुदकमल्पं स्तोकम्। अग्निकोपो वह्निभयम्। प्रमादिसंज्ञे जनो लोकः। अलसः सालसो
भवति। तथा डमरं कलहः सशस्त्रः। रक्तकपुष्पाणां येषां वृक्षाणां लोके रक्तपुष्पं भवति,
तथा रक्तकबीजानां च नाशो भवति।
विक्रम इति। विक्रमः सकललोकानां नन्दनोऽब्दः समस्तजनसमृद्धिकरः। राक्षसः
समस्तलोकानां क्षयकरो विनाशकरो भवति। अनलस्तेनैव प्रकारेण क्षयकर एव। अत्रास्मिन्
युगे राक्षसोऽब्दो ग्रीष्मधान्यानां यवगोधूमादीनां जननः सम्पत्करः। अनलो वह्निकोपमरकप्रदः।
अग्निकोपं मरकं च ददाति॥४५-४७॥
अथैकादशस्य युगस्याह—
एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च।
आद्ये तु वृष्टिर्महती सचौरा श्वासो हनूकम्पयुतश्च कासः ॥४८॥
यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च।
रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः ॥४९॥
एकादश (आश्विन) युग में पिङ्गल, कालयुक्त, सिद्धार्थ, रौद्र, दुर्मति—ये पाँच
संवत्सर होते हैं। इनमें प्रथम (पिङ्गल) संवत्सर में अतिवृष्टि, चोरों का भय, श्वास और ठोढ़ी
को कम्पित करने वाली खाँसी होती है। कालयुक्त संवत्सर में अनेक फल होते हैं। सिद्धार्थ-
संज्ञक संवत्सर में बहुत गुण (सम्पत्ति आदि) होते हैं। रौद्र संवत्सर में अतिशय अशुभ
फल और प्रजाओं का नाश होता है। दुर्मति संवत्सर में मध्यम वृष्टि होती है॥४८-४९॥
एकादशेति। एकादशो आश्विने युगे प्रथमोऽब्दः पिङ्गलः। द्वितीयः कालयुक्तः।
तृतीयः सिद्धार्थः। चतुर्थो रौद्रः। पञ्चमो दुर्मतिः। खलुशब्द आगमद्योतनार्थः। आद्ये प्रथमे
वर्षे महती चण्डा अतिवृष्टिर्भवति सा तु सचौरा चौरयुक्ता। तस्करा भवन्तीत्यर्थः। तथा श्वासो
भवति जनानां हनूकम्पयुतश्च कासः। कासपीडा च भूतानां भवति यया हनू कम्प्येते।
यत्कालयुक्तमिति। यदब्दं कालयुक्तं तदनेकदोषं बहुदोषप्रदम्। सिद्धार्थसंज्ञे बहवः
प्रभूता गुणाः सम्पदादयो भवन्ति। यो रौद्रः सोऽतिरौद्रः। अतिदुष्टफलः। तथा क्षयकृ-

[Footer] CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१८२ बृहत्संहिता
प्रजानां क्षयकरः प्रदिष्ट उक्तः। यो दुर्मतिः स मध्यमवृष्टिकृत् मध्यमां वृष्टिं करोतीति।।
अथ द्वादशस्य युगस्याह—
भाग्ये युगे दुन्दुभिसंज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति।
अङ्गारसंज्ञं तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥५०॥
रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिकृतं गदाश्च।
क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ॥५१॥
द्वादश ( भाग्य ) युग में प्रथम दुन्दुभि नामक संवत्सर में धान्य की अधिक वृद्धि
होती है। द्वितीय अङ्गार संवत्सर में राजाओं का नाश और अत्यन्त भयङ्कर वृष्टि होती है।
तृतीय रक्ताक्ष नामक संवत्सर में दंष्ट्री ( सूकर आदि ) का भय और रोग होता है। चतुर्थ
क्रोध नामक संवत्सर में लोगों को बहुत क्रोध होता है ॥५०-५१॥
भाग्ये युगे इति। भाग्यसंज्ञे द्वादशे युगे आद्यं प्रथमं वर्षं दुन्दुभिसंज्ञं तच्च महतीम-
तिबह्वीं सस्यवृद्धिं करोति। तदनु तत्पश्चात् द्वितीयमङ्गारसञ्ज्ञं तच्च नरेश्वराणां राज्ञां क्षयाय
नाशाय भवति। वृष्टिश्च विषमा अतुला अतिचण्डा वा भवति।
तथा तृतीयमब्दं वर्षं रक्ताक्षसंज्ञं कथितमुक्तम्। तस्मिन्नब्दे दंष्ट्रिकृतं भयं भवति।
दंष्ट्रिणः सूकरादयस्तत्कृतं भयं भवति। तथा गदा रोगाश्च भवन्ति। चतुर्थं क्रोधसंज्ञं तच्च
बहुक्रोधकरं बहुप्रकारं लोकानां क्रोधं करोति। तथा राष्ट्राणि विरोधैः कलहैः शून्यीकुरुते।
अशून्यानि शून्यानि करोतीति शून्यीकुरुते। उद्वासयतीत्यर्थः ॥५०-५१॥
अथ पञ्चमस्य वर्षस्य फलं षष्ट्यब्दलक्षणं मया संक्षेपतः कृतमित्येतच्चाह—
क्षयमिति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं
जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम्।
उपचयकरं विट्शूद्राणां परस्वहृतां तथा
कथितमखिलं षष्ट्यब्दे यत्तदत्र समासतः ॥५२॥
बारहवें युग का अन्तिम क्षय नामक संवत्सर बहुत प्रकार से लोगों का नाश करने
वाला, ब्राह्मणों को भय देने वाला, किसानों, वैश्यों, शूद्रों तथा दूसरे के धन का अपहरण
करने वालों को बढ़ाने वाला होता है। शास्त्रान्तर में षष्ट्यब्दों का जो फल वर्णित है, उसको
संक्षेप से मैंने ( वाराहमिहिर ने ) यहाँ पर बृहस्पतिचाराध्याय में कहा है॥५२॥
अन्त्यस्य युगस्य द्वादशस्य अन्त्यं पञ्चमं वर्षं क्षयमिति क्षयसंज्ञम्। तच्च बहुक्षयकरं
बहुविधं जनानां क्षयं करोति। विप्राणां ब्राह्मणानां भयं भीतिं जनयत्युत्पादयति। कृषीबलानां
कर्षकाणां वृद्धिदम्। विट्शूद्राणां वैश्यानां शूद्राणां चोपचयकरं वृद्धिकरम्। तथा परस्वहृतां
परधनहर्तृणामप्युपचयकरम्। अखिलं निःशेषं षष्ट्यब्दे षष्ट्यब्दाख्ये।
माघशुक्लप्रवृत्तस्य पौषकृष्णसमापिनः।
युगस्य पञ्चकस्येह कालज्ञानं निबोध्यते।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

बृहस्पतिचाराध्यायः १८३
इति तस्मिन् शास्त्रे यत्कथितमुक्तं तदत्रास्मिन् बृहस्पतिचारे सर्व समासतः संक्षेपतः
कथितमुक्तम्। तथा च समाससंहितायाम्—
ऐन्द्रे तृतीयमशुभं द्वितीयवर्जानि पञ्चमे तु युगे ।
पित्र्ये युगे तृतीयं चतुर्थमपि पापदं वर्षम् ।।
वैश्वे तृतीयमशुभं शुभदान्युक्तानि चावशेषाणि ।
सौम्ये द्वितीयवर्षं शुभावहं यत्तृतीयं तु ।।
प्रथितं शुभमैन्द्राग्नौ तृतीयवर्षं तथाश्विदैवत्ये।
भाग्ये प्रथमं वर्षं षष्ट्यब्दस्यैष संक्षेपः।। इति ।। ५२ ।।
अथ बिम्बलक्षणमाह—
अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः ।
ग्रहहतो न यदि सत्पथवर्ती हितकरोऽमरगुरुर्मनुजानाम् ।। ५३ ।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
बृहस्पतिचाराध्यायोऽष्टमः ।। ८ ।।
निर्मल किरण वाला, जटिल ( सघन किरण वाला ), विशाल बिम्ब वाला, कुमुदपुष्प,
कुन्दपुष्प या स्फटिक मणि के समान कान्ति वाला, ग्रहयुद्ध में अविजित होकर सत्पथ
( ग्रहनक्षत्रों के उत्तरमार्ग ) में गत बृहस्पति मनुष्यों का हितकारी होता है ।। ५३ ।।
इति 'विमला' हिन्दीटीकायां बृहस्पतिचाराध्यायोऽष्टमः ।। ८ ।।
एवंविधोऽमरगुरुर्बृहस्पतिर्मनुजानां मनुष्याणां हितकरः शिवप्रदः। कीदृशः ? अक-
लुषांशुर्निर्मलरश्मिः । जटिलः समन्ततो रश्मिभिर्व्याप्तः। पृथुमूर्तिर्विस्तीर्णदेहः। तथा कुमु-
दस्य कुमुदपुष्पस्य कुन्दकुसुमस्य स्फटिकस्य च मणेः सदृशी आभा कान्तिर्यस्य। अति-
स्निग्धः श्वेतवर्ण इत्यर्थः। यदि च ग्रहहतो न भवति ग्रहयुद्धे अन्येन ग्रहेण विजितो न
भवति। तथा सत्पथवर्ती ग्रहनक्षत्राणामुत्तरमार्गगोचराणामधिकृतश्चेति ।। ५३ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
बृहस्पतिचारो नामाष्टमोऽध्यायः ।। ८ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA