बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
जातयः । ७७
पाड्जीवत् पञ्चपाण्यादि गान्धारादिस्तु मूर्छना ।
पञ्चम(प्रो?प्रे)क्षणगतं ध्रुवायां विनियोजनम् ॥ २६५ ॥
अस्या (गान्धा)रपञ्चमनिषादा न्यासाः रित्रिर्जाः षड्
सत्त वा स्वरा अपन्यासाः । प्रस्तारः — पाधनिपा़धनि
गागागागा (१) । पापामाधनि निधपापापा (२) । धानी-
सासा रींरींरींरीं (३) । सांसांसांरीं गामामामा (४) । माधा-
नीधा (मा)धा़मापा (५) । निगरीसाधनि रीरीरीरी (६) ।
गांरींसांसां पाधामामा (७) । गागागामा मानीधनीनी (८) ।
गागानीनी गागागागा (९) । गागानीनी धप्पापापा (१०) ।
मापामापा पापांमामा (११) । धामागानिधानीनीगां (१२) ।
कैशिकी । म ॥
पञ्च (माः ? मां)शा (सादना ? सदा)पूर्णा मध्यमोदीच्यवा
[मता ।
लक्ष्म शेषं विजानीयाद् गान्धारोदीच्यवागत(म्) ॥२६६॥
मध्यमादि(र्मरीन ? मूर्छना) स्यात् तालश्चच्चत्पुटो मतः ।
चतुर्थस्य प्रेक्षणके ध्रुवायां विनियोजनम् ॥ २६७ ॥
अस्या मध्यमो न्यासः । षड्जधैयतावपन्यासौ ।
प्रस्तारः — पाधनिनीनी मामांनीपा (१) । रीरीरीगा सारि-
गगागा (२) । नीनीनीनी (नीनीनीनी) (३) । नीनि-
धपमा निधनिधपापा (४) । पापारीरी रीरीरीरी (५) ।
मारिगसासध नीनीनीनी (६) । सापानीमा पापागांगां (७) ।
गापामानि धानीनीसासा (८) । पापामाधनि पापापा
(९) । मापामारिग गागागागा (१०) । गापामापा । नी-
नीनीनी (११) । मापामापरि गागागागा (१२) । गागागामा
मांनिधनीनी (१३) । नीनीधपमा निधानिधपापा (१४) ।
रींगांसांगां मांनिधनीनी (१५)। नीनीधापा धापामामा(१६) ।
मध्यमोदीच्यवा । म ॥
कार्मारव्यां भवन्त्यंशा निषादरिपधैवताः ।
ग्रहचोऽन्तरमार्गत्वाद॒नंशाः परिकीर्तिताः ॥ २६८ ॥
गान्धारोऽत्यन्तबहुलः सर्वाशस्त्रं (?) स्वसङ्गतैः ।
चञ्चत्पुटः षोडशात्र कलाः षड्(जा)दि मूर्छनाः॥ २६९ ॥
पञ्चमस्य प्रेक्षणस्य ध्रुवायां विनियोजनम् ।
अस्यां पञ्चमो न्यासः, अंशा ए(व ? वा) पन्यासः ।
प्रस्तारः — रीरीरीरीरीरीरीरी (१)। मां गां सां गां सा नीनी-
नीनी (२) । नीमानीमा पा(पागागा) (३) । गापामापा
नीनीनीनी (४) । रींगांसानी रींगारींगां (५) । रीगारीसा
निधनीपापा (६) । मापामापरि गागागागा (७) । रींरींगांसम
मामापापा (८) । मापामापरि गागागागा (९) । धानीपामा
धानीसामा (१०)। नीनीनीनी नीनीनीनी (११) । मामाधानी
नीधापापा (१२) । मापामापरि गागागागा (१३) । नीनी-
पाधनि गागागागा (१४) । सारीमासा नीनीनीनी (१५) ।
नीनीधापा पापापापा (१६) । कार्मारवी । म ॥
अंशो गान्धारपञ्चम्यां पञ्चमः स(ङ्ग)तिः पुनः ॥२७०॥
कर्त्तव्यात्रापि गान्धारीपञ्चम्योरिव सूरिभिः ।
चञ्चत्पुटः षोडशात्र कला गादिश्च मूर्छना ॥ २७१ ॥
तुर्यप्रेक्षणसंबन्धि ध्रुवागाने नियोजनम् ।
जातयः । ७९
अस्यां गान्धारो न्यासः । ऋषभपञ्चमावपन्यासौ ।
प्रस्तारः — पामपमधन धपगाधानी (१) । सनिधापापा
पापापापा (२) । धानीसासा मामापापा (३) । नीनीनीनी
नीनीनीनी (४) । नीनीधपमा निधनिधपापा (५) । पापा-
रीरी रीरीपापा (६) । मारिगासाध नीनीनीनी (७) ।
नीरीसारिस रीरीरीरी (८) । नीगासानिग सानीनीनी (९) ।
नीमां नीमां पापागांगां (१०) । गांपांमांपा नीनीनीनी (११) ।
मापामापरि गागागागा (१२) । नीनीपाधा नीगांगांगां (१३) ।
नीनीनीनी नीनीनीनी (१४) । मांमांधानी सनिधपापा (१५) !
मांपांमांपरि । गांगांगांगां (१६) । गान्धारपञ्चमी ॥
अन्ध्रा (मङ्गा ? मंशा) निरगपा रिगयोर्
८० बृहद्देशी।
(११) । रीरीमानी सासानीनी (१२) । पपामागरि गागा-
गागा (१३) । रीरीगासम मामापापा (१४) । मामानीनी
सारीगापा (१५) । रिगगागागा गागागागा (१६) । अन्ध्री ।
म ॥
नन्दयन्त्यां पञ्चमोंऽशो गान्धारस्तु ग्रहः स्मृतः ॥ २७४॥
कैश्चित्तु पञ्चमः प्रोक्तो ग्रहोऽस्यां गीतवेदिभिः ।
(मन्द्र)र्षभस्य बाहुल्यं षाडवं षड्जलोपतः ॥ २७५ ॥
हृष्यका मूर्छना तालः पूर्ववद् द्विगुणाः कलाः ।
विनियोगो ध्रुवागाने प्रथमप्रेक्षणे भवेत् ॥ २७६ ॥
अस्यां गान्धारो न्यासः । मध्यमपञ्चमावपन्यासौ ।
प्रस्तारः — गागागागा पापाधपम (१) । धाधाधाधा धनी-
सनिधा (२) । पापापापा पापापा (३) । धानीमापा गांगां-
गांगां (४) । मारीगागा गागागागा (५) । मापामापा धाध-
निपापा (६) । धानीमापा गागागागा (७) । मपापापा
मामागागा (८) । धानीमापा गागागागा (९) । मामामामा
मामामामा (१०) रीगामापा पमपापानी (११) । रीरीरीरी
पापामामा (१२) । धानीसनिधा पापापापा (१३) । धानी-
मापा गागागागा (१४) । गापापापा धामागामा (१५) ।
धाधानिधा पापापापा (१६) । रीगामापा पमपापाम (१७) ।
रीरीरीरी पापापापा (१८) । पापापापा धामामामा (१९) ।
निपागागम गांगांगांगां (२०) । रींरींगागा मामामामा
(२१) । नीपानीमा नीधापापा (२२) । सासाधानिधा
पापापापा (२३) । मापा(मा)पा (रिग) गागासांसां (२४) ।
रागलक्षणम् । ८१
रीरीगागा मामापामा (२५) । रींरींरींगा मारिगमा (मा)
(२६) । मानीपानी गागागागा (२७) । मामापापा धाधनि-
निधमा (२८) । धाधासानी धानीपापा (२९) । रींरींरींरीं
मापाधामा (३०) । नीनीनीनी धापामामा (३१) । माप-
रिगागागागागागा (३२) । नन्दयन्ती । म ॥
मं ज्योतिस्तद्गतो हंसस्तस्मात् तं भरतं विदुः ।
तङ्ग(वं) भरतज्ञानं तङ्गवा भारती शुभा ॥ २७७ ॥
किमुच्यते रागशब्देन किं वा रागस्य लक्षणम् ।
व्युत्पत्तिलक्षणं तस्य यथावद् वक्तुमर्हसि ॥ २७८ ॥
मतङ्ग उवाच —
रागमार्गस्य यद् रूपं यन्नोक्तं भरतादिभिः ।
निरूप्यते तदस्माभिर्लक्ष्य(ते ? ल)क्षणसंयुतम् ॥ २७९ ॥
तत्रादौ
स्वरवर्णविशेषेण ध्वनिभेदेन वा पुनः ।
रज्यते येन यः कश्चित् स रागः संमतः सताम् ॥ २८० ॥
अथवा
योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
रञ्जको जनचित्तानां स च राग उदाहृतः ॥ २८१ ॥
सामान्यं च विशेषञ्च लक्षणं द्विविधं मतम् ।
चतुर्विधं तु सामान्यं विशेषश्चांशकादिकम् ॥ २८२ ॥
इत्येवं रागशब्दस्य व्युत्पत्तिरभिधीयते ।
रञ्जनाज्जायते रागो व्युत्पत्तिः समुदाहृता ॥ २८३ ॥
अ
८२ बृहद्देश्यां
अश्वकर्णादिवद् रूढो यौगिको वापि वाचकः ।
योगरूढोऽथवा रागो ज्ञेयः पङ्कजशब्दवत् ॥ २८४ ॥
इदानीं सम्प्रवक्ष्यामि सप्त गी(ति ? ती)र्मनोहराः ।
प्रथमा शुद्धगी(त ? तिः) स्याद् द्वितीया भिन्नका भवेत् ॥
तृतीया गौडिका चैव रागगीतिश्चतुर्थिका ।
साधारणी तु विज्ञेया गी(त ? ति)ज्ञैः पञ्चमी तथा ॥
भाषागीतिस्तु षष्ठी स्याद् विभाषा चैव सप्तमी ।
सप्तगीत्यो मया प्रोक्ता इदानीं भेद उच्यते ॥ २८७ ॥
गीतयः पञ्च विज्ञेयाः शुद्धा भिन्नाथ वेसरा ।
गौडा साधारिता प्रोक्ता याष्टिकेन महात्मना ॥ २८८ ॥
इति तेषां लक्षणमुच्यते दुर्गशक्तिमतम् ।
“प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी ।
सम्भाविता तृतीया च चतुर्थी पृथुला स्मृता ॥”
इति भरतमते ।
भाषा चैव विभाषा च तथा चान्तरभाषिका ।
तिस्रस्तु गीतयः प्रोक्ता याष्टिकेन महात्मना ॥ २८९ ॥
भाषागीतिर्विभाषा च मतङ्गेनाप्युदाहृता ।
भाषागीतिस्तथैकैव शार्दूलमतसम्मता ॥ २९० ॥
इदानीं संप्रवक्ष्यामि रागलक्षणमुत्तमम् ।
मन्द्रा मन्द्रैश्च तारैश्च ऋजुभिर्ललितैः समैः ॥ २९१ ॥
स्वरैश्च श्रुतिभिः पूर्णा चोक्षा गीतिरुदाहृता ।
: सूक्ष्मैश्च प्रचलैर्वर्णैरुह्लासीत (?) प्रसारितैः ॥ २९२ ॥
रागलक्षणम् । ८३
ललितैस्तारमन्द्रैश्च भिन्ना गीतिरुदाहृता ।
ओहालललितैश्चापि त्रयो गौडाश्च (भो ? शो)भनाः ॥
हकारोकारयो(र्या ? याँ)गादोहाली परिकीर्तिता ।
चिबुकं हृदये न्यस्य ओहाडी मन्द्रजा भवेत् ॥ २९४ ॥
द्रुता द्रुततरा कार्या सह कम्पेन पीडिता ।
ओहाडी ललिता चापि दृढाहृष्टेन पाणिना ॥ २९५ ॥
त्रिस्थानकरणैर्युक्ता स्वस्थानचलनाकुला ।
चतुर्विधा तथोहाडी कर्तव्या गेयवेदिभिः ॥ २९६ ॥
समाक्षरा समा चैव कार्यारो(गा ? हा)वरोहिणी ।
अविश्रामेण त्रिस्थाने गौडी गीतिरुदाहृता ॥ २९७ ॥
प्रयोगैश्च द्रुतैः कार्या मिश्रामिश्रैश्च मालवैः ।
ईषत्प्रकम्पितैः किञ्चिल्ललितैस्तारदीपितैः ॥ २९८ ॥
सोच्छ्वासैः खण्डखण्डैश्च भिन्ना गीतिरुदाहृता ।
-
-
-
-
-
-
-
- ओहाडी परिगीयते ॥ २९९ ॥
ललितैर्गमकैश्चित्रैः प्रसन्नैरौरसैः समैः ।
रञ्जकैः सुरसन्दर्भै रागगीतिरुदाहृता ॥ ३०० ॥
चतुर्णामपि वर्णानां यो रागः शोभनो भवेत् ।
स सर्वो दृश्यते येषु तेन रागा इति स्मृताः ॥ ३०१ ॥
ऋजुभिर्ललितैः किञ्चित् सूक्ष्मगूढैश्च सुश्रवैः ।
ईषद्द्रुतैश्च कर्तव्या मृदुभिर्ललितैस्तथा ॥ ३०२ ॥
प्रयोगैर्मसृणैः सूक्ष्मैः काकुमिश्रैः सुयोजितैः ।
(सु ? स्व)रैः साधारणा गीतिर्गीतिज्ञैः समुदाहृता ॥ ३०३ ॥
- ओहाडी परिगीयते ॥ २९९ ॥
-
-
-
-
-
-
८४ बृहद्देशी
एवं साधारणा ज्ञेया सर्वगीतिसमाश्रया ।
प्रयोगैर्गात्रजैः श्लक्ष्णैः काकुरक्तैः सुयोजितैः ॥ ३०४ ॥
कम्पितैः कोमलैर्दीप्तैर्मालवी काकुनान्वितैः ।
ललितैः सुकुमारैश्च प्रयोगैश्च सु(र्सी ? सं)यतैः ॥ ३०५ ॥
भाषागीतिः समाख्याता एषा गीतिविचक्षणैः ।
यथा वै रज्यते लोकस्तथा वै संप्रयुज्यते ॥ ३०६ ॥
ललितैर्बहुभिर्दीप्तैः कम्पितै(र ? रौ)रसैः समैः ।
तारातितारैर्मसृणैर्मध्ये मध्यमदीपितैः ॥ ३०७ ॥
गमकैः श्रोत्रसुखदैर्ललितैस्तु यदृच्छया ।
विभाषागीतिस्तु संयोज्या यथा लोकोऽनुरज्यते ॥ ३०८ ॥
गीतानां लक्षणं प्रोक्तं रागसंख्योच्यतेऽधुना ।
पञ्च चोक्षाः समाख्यातास्तत्प्रमाणाश्च भिन्नकाः ॥ ३०९ ॥
गौडास्त्रयस्तु कथिता रागाश्चाष्टौ प्रकीर्तिताः ।
सप्त साधारणाः प्रोक्ता भाषाश्चैवात्र षोडश ॥ ३१० ॥
द्वादशैव विभाषाः स्युर्नामानि च निबोध मे ।
षाडबः पञ्चमश्चैव तथा कैशिकमध्यमः ॥ ३११ ॥
चोक्षसाधारितश्चैव चोक्षकैशिक इत्यपि ।
एते चोक्षास्तु विज्ञेया भिन्नकान् साम्प्रतं शृणु ॥ ३१२॥
भिन्नषड्जश्च तानश्च भिन्नकैशिकमध्यमः ।
भिन्नपञ्चम इत्युक्तस्त्रयो गौडाः प्रकीर्तिताः ॥ ३१३ ॥
टक्करागश्च सौवीरस्तथा मालवपञ्चमः
षाड्बो बोट्टरागश्च तथा हिन्दोलकः परः ॥ ३१४ ॥
रागलक्षणम् । ८५
टक्ककैशिक इत्युक्तस्तथा मालवकैशिकः ।
एते रागाः समाख्याता नामतो मुनिपुङ्गवैः ॥ ३१५ ॥
(गर्तः) शकाख्यः ककुभस्तथा हर्माणपञ्चमः ।
रूपसाधारितश्चैव तथा गान्धारपञ्चमः ॥ ३१६ ॥
षड्जकैशिकसंज्ञश्च सप्त साधारणाः स्मृताः ।
इदानीं शुद्धानां लक्षणमाह —
निरपेक्षान्यजातीये स्वजा (?) स्वजातिमनुवर्तकाः ॥ ३१७॥
स्वजात्यन्यतमाश्चैव ते शुद्धाः परिकीर्तिताः ।
तत्र षाडव इति कस्मात् । किं षड्भिः स्वरैर्गीयत
इति षाडवः, यद्वा षट्सु रागेषु मुख्य इति षाडवः । तत्र
नायमाद्यः पक्षः । कुतः । सम्पूर्णत्वादमुख्य रागस्य । तस्मादु-
त्तरपक्ष एव ज्यायान् । ननु (कथनु कथन ? कथं) न षट्सु रागेषु
मुख्योऽयमुच्यते । पूर्वं शुद्धषाडवः प्रयोक्तव्य इति वचनात् ।
पूर्वरङ्गे प्रचुरप्रयोगत्वादस्य शुद्धषाडवस्यादौ निर्देशः ।
त्रिकारमध्यमाजातेः संभूतः शुद्धषाडवः ॥ ३१८ ॥
(गर्तः शकाख्यः ककुभस्तथा हर्म्मा(लव ?)णपञ्चमः ॥
रूपसाधारितश्चैव तथा गान्धारपञ्चमः ।
षड्जकैशिकसंज्ञाश्च +++++++ ?) ॥
न्यासोऽस्य मध्यमांशश्च गान्धारेण च (तु ? दु)र्बलः ।
अस्यार्थः—शुद्धषाडवो मध्यमग्रामसंबन्धः । तारमध्यमो
ग्रहः । मध्यमोऽंशो न्यासश्च । गान्धारस्य चाल्पत्वम् । निषादगा-
न्धारौ चात्र का(कल्य)न्तरौ । पूर्णस्वरश्चायम् । पूर्वर(ङ्ग?ङ्गेऽ)स्य
८६ बृहद्देशी
प्रयोगः। मध्यमो वादी। षड्जः संवादी। ऋषभपञ्चमावनुवा-
दिनौ। विवादी नास्ति। शृङ्गारहास्यौ रसौ। मध्यमादिमूर्च्छना।
अवरोही वर्णः। प्रसन्नान्तोऽलङ्कारः। त्रिषु मार्गेषु गीयते।
दक्षिणे कला वृत्तौ कला चित्रे कला। स्वरपदेषु चच्चत्पुटा-
दितालः। आक्षिप्तिका। शुद्धपञ्च(मा? म)ः षड्जोदीच्यवती-
जातिः स्मृतः।
षड्जांशो मध्यमन्यासः स्वल्प(वि? द्वि)श्रुतिकस्वरः॥
स्यात् षड्जमध्यमाजातेः शुद्धः साधारितस्तथा।
अस्यार्थः—शुद्धसाधारितो रागः षड्जग्रामसंबन्धः।
षड्जमध्यमजातेरुत्पन्नत्वात्। तारषड्जो ग्रहोंऽशश्च। मध्यमो
न्यासश्च। निषादगान्धारयोरल्पत्वम्। पूर्णश्चायम्। गर्भ-
सन्धौ विनियोगः। वीररौद्रादिको रसः। षड्जा(ति? दि)-
मूर्च्छना। अवरोही वर्णः। प्रसन्नान्तोऽलङ्कारः। दक्षिणे कला
वृत्तौ कला चित्रे कला। स्वरपदगीते चच्चत्पुटादितालः।
कैशिकीषड्जमध्यभ्यां शुद्धकैशिकमध्यमः॥ ३२०॥
षड्जांशो मध्यमन्यासस्त्यक्त(स्त्रि? त्रि)श्रुतिपञ्चमः।
अस्यार्थः—शुद्धकैशिकमध्यमो रागः षड्जग्रामस-
म्बन्धः। कैशिकीषड्जमध्यमाजात्योः समुत्पन्नत्वात्। (ननु?)
कैशिकी मध्यमग्रामसम्बद्धा, षड्जमध्यमा षड्जग्रामसम्बन्धा,
अत उभयग्रामतास्तीति भावः। तारषड्जोऽस्य ग्रहोंऽशश्च।
मध्यमो न्यासः। निषाद्गान्धारयोरल्पत्वम्। पञ्चमर्षभयो-
र्लोपः। निषादोऽत्र काकलिषाडवश्च। निर्वहणे चास्य प्रयोगः।
षड्जादिमूर्च्छना। रौद्रवीरादिको रसः। प्रसन्नान्तोऽलङ्कारः।
[रागलक्षणम् ।] [८७]
षड्जांशैः पञ्चमो न्यासः कैशिकीजातिसम्भवः ॥ ३२१॥
तथा कार्मारवीजातेः स्वरैः पूर्णश्च कैशिकः ।
अस्यार्थः—शुद्धकैशिको नाम मध्यमग्रामसम्बन्धः ।
कैशिकीकार्मारवीजात्योः समुत्पन्नत्वात् । तारषड्जोऽस्य ग्रहः
अंश(स्व?श्च)। पञ्चमो न्यासः। निषादोऽत्र काकली। पूर्णस्वरश्चा-
यम्। चित्रस्याष्टादशाङ्गस्य निर्वहणे विनियोगः। वीररौद्रादिको
रसः। षड्जादिमूर्छना । आरोही वर्णः। प्रसन्नादिरलङ्कारः। द-
क्षिणे कला वृत्तौ कला चित्रे कला। स्वरपदगीते चञ्चत्पुटादि-
तालः । ननु एते ग्रामविशेषसम्बन्धाः । कु(तोऽ)यं विशेष-
लाभः । उच्यते । भरतवचनादेवासौ विशेषो लभ्यते । तथा-
चाह भरतमुनिः — “जातिसम्भूतत्वाद् ग्रामरागाणामि”ति ।
यत् किञ्चिदेतद् गीयते लोके तत् सर्वजातिषु स्थितमिति
वचनात् । तथा काश्यपेनाप्युक्तं —
“षाडवे मध्यमग्रामे पञ्चमः ककुभस्तथा ।
षड्जे साधारितश्चैव तथा कैशिकमध्यमः ॥”
ननु अ(यं? मी) विनियोगविशेषाः कस्माल्लभ्यन्ते ।
वचनादेव लभ्यन्ते । तथाचाह भरतः —
“मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे भवेत् ।
गर्भे साधारितश्चैवावमर्शो + तु पञ्चमः ॥
संहारे कैशिकः प्रोक्तः पूर्वरङ्गे तु षाडवः ।
चित्रस्याष्टादशाङ्गस्य त्वन्ते कैशिकमध्यमः ।
शुद्धानां विनियोगोऽयं ब्रह्मणा समुदाहृतः ।”
इदानीं भिन्नानां लक्षणमाह —
८८ बृहद्देशीयां
श्रुतिभिन्नो जातिभिन्नः शुद्धभिन्नः स्वरैस्तथा ॥ ३२२ ॥
चतुर्भिर्भिद्यते यस्मात् तस्माद् भिन्नक उच्यते ।
ननु भिन्नशब्देन किमभिधीयते । किं विदारितोऽर्थः,
एतस्मादयं व्यतिरिक्त इत्यर्थो वा भिन्नशब्दः । एतन्न वाच्यम् ।
भिन्नोऽत्र विकृत उच्यते । विकृतत्वं च पूर्वोक्तश्रुतिभिन्ने-
त्यादिलक्षणात् । ननु पञ्चसु रागेषु मध्ये भिन्नषड्जस्य लक्ष-
णमुच्यते ।
“यदा वादी गृहीतः स्यात् संवादी च विमोक्ष्यते ।”
इत्यादावेवाभिधानं कुतः । सत्यमुक्तं, मुख्यत्वादस्य । मुख्यत्वं
च यथा शुद्धगीतिषु शुद्धषाडबस्य एवं भिन्नगीतिषु भिन्न-
षड्जस्येति तद्भेदादस्येति । इदानीं भिन्नानां प्रागुक्तलक्षण-
प्रकटनार्थं तत्रादौ स्वरभिन्नस्य लक्षणमुच्यते —
यदा वादी गृहीतः स्यात् संवादी च विमोक्ष्यते ॥ ३२३ ॥
विवादी वानुवादी वा स्वरभिन्नः स उच्यते ।
अस्यार्थः—मध्यमग्रामाश्रितस्य शुद्धषाडबस्य योऽसा
मध्यमो ग्रहांशः तत्स्थाने धैवतोऽपि वादित्वे(न ?) नानुवादि-
त्वेन वा गृहीतो भवति । मध्यमस्वरस्य संवादी त्यज्यते न्यस्यते
वा तदासौ स्वरभिन्न उच्यते । भिन्नषड्जः अत्र वचनाद्
वादी, धैवतः पुनर्बहुप्रयोगो भवति ।
धैवतांशो मध्यमान्तः पञ्चमर्षभवर्जितः ॥ ३२४ ॥
षड्जोदीच्यवती(जमा ? जातो) भिन्नषड्जः स्मृतो बुधैः ।
भिन्नषड्जः (षड्जः ?) षड्जग्रामसंबन्धः षड्जोदीच्य-
वतीजातेर्जातत्त्वात् । धैवतो ग्रहोऽंशश्च । मध्यमो न्यासः ।
ऋषभपञ्चमहीन औडुवितः । निषाद्गान्धारौ काकल्यन्तरौ ।
सर्वोपकरणप्रवृत्तस्य विजातीयो निरर्णानिवृत्तस्य(?) मृगयायां
प्रवृत्तस्य नायकस्य प्रवेशादिकासु अस्य विनियोगः । बीभ-
त्सभयानकौ रसौ । धैवतादिमूर्छना । सञ्चारी वर्णः । प्रसन्नादि-
रलङ्कारः । दक्षिणे कला वृत्तौ कला चित्रे कला । स्वरपदगीते
चच्चत्पुटादितालः । पञ्चमस्य स्थाने स्थाने विवादित्वेन गृहीतो
भवति । पञ्चमस्य श्वसंवादित्वेन(?) वर्ज्यते कदाचिद्सौ भिन्न-
पञ्चमः स्वरभिन्नोऽभिधीयते । लक्षणं च तद्यथा --
शुद्धपञ्चमवत् प्रोक्तः स्वर(न्धै ? षै)भिन्नपञ्चमः ॥३२५॥
धैवतांशः पञ्चमान्तः सूत्रधारप्रवेशने ।
अस्यार्थः--भिन्न(सं ? ) पञ्चमो मध्यमग्रा(म)संबन्धः
षड्जोदीच्यवतीजातेः मध्यमा (पञ्चमी) जात्योर्जातत्वात् ।
ग्रहोऽंशश्च धैवतः। पञ्चमो न्यासः । निषादोऽत्र काकली । क-
चिन्निषादस्यापि प्रयोगः । सम्पूर्णश्चायम् । सूत्रधारप्रवेशोऽस्य
विनियोगः । बीभत्सभयानकौ रसौ । धैवतादिमुर्छना ।
सञ्चारी वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वृत्तौ कला
चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
इदानीं जातिभिन्नस्य लक्षणमाह --
जातीनामंशकं स्थाय( ? ) स्वल्पकरतु बहुरतथा ॥ ३२६॥
अल्पत्वं च बहुत्वं च प्रयोगाल्पबहुत्वतः ।
सूक्ष्मातिसूक्ष्मैर्व्यक्तैश्च जातिभिन्नः स उच्यते ॥ ३२७ ॥
ञ
९० बृहद्देश्या
अस्यार्थः- शुद्धकैशिकमध्यो हि कैशिकीषड्जमध्य-
माजात्योर्जात(य ?)ः । भिन्नकैशिकमध्यस्तु षड्जमध्यमजाते-
र्जातत्वात् तदंशग्राहित्वेन मस्थायिवर्णग्राहित्वेन च सूक्ष्मा-
(ति)सूक्ष्मैः प्रयोगैश्च जातिभिन्नो भवे(दि)त्यर्थः । लक्षणं
चास्य यथा -
स्यात् षड्जमध्यमाजा(तै ? ते)र्भिन्नकैशिकमध्यमः ।
षड्जांशो मध्यमन्यासो मन्द्रैस्तु गमकैर्युतः ॥ ३२८ ॥
भिन्नकैशिकमध्यमः षड्जग्रामसंबन्धः षड्जमध्यम-
जातेरुत्पन्नत्वात् । षड्(जोऽंश ? जो )स्यग्रहोऽंशश्च । मध्यमो
न्यासः । मन्द्रगमकश्च । निषादोऽत्र काकली । पूर्णश्चायम् ।
दानवीरे चास्य प्रयोगः । वीररौद्रादिको रसः । षड्जादि-
मूर्छना । वर्णः सञ्चारी । प्रसन्नादिरलङ्कारः । दक्षिणे कला
वार्त्तिके कला चित्रे कला । चच्चत्पुटादितालः ।
शुद्धभिन्नस्य लक्षणमाह -
परित्यजन्नन्यजातिं स्वजातिकुलभूषणः ।
स्वकं कुलं तु संगृह्णन् शुद्धभिन्नः प्रकीर्तितः ॥३२९।
अस्यार्थः- अन्यां जातिं परिहरन् स्वजातिकुलभूषितं
स्वमूलं तु संगृह्णन्निति । शुद्धस्य लक्षणं समग्रं भिन्नकैशिक-
स्यापि विद्यते । तर्हि को भेदः । (कटी ? गी)तिकृतो भेदः । शुद्ध-
कैशिको हि शुद्धगत्या गीयते, भिन्नकैशिकस्तु भिन्नगीत्या
गीयते । एतदुक्तं भवति - येन संस्थानेन रागीयन्ते शुद्ध-
कैशिकेन तेन (स्थं ?) संस्थानेन भिन्नकैशिके रागीयत(१)
इति । लक्षणं चास्य यथा -
रागलक्षणम् । ९१
शुद्धकैशिकवद् रूपस्वरैर्भिन्नकैशिकः ।
षड्जांशः पञ्चमन्यासः सम्पूर्णः सप्तभिः स्वरैः ॥ ३३० ॥
अस्यार्थः — भिन्नकैशिको मध्यमग्रामसम्बन्धः कै-
शिकीकार्मारवीजात्युत्पन्नत्वात् । अहाँऽशश्च षड्जः । पञ्चमो
न्यासः । निषादोऽत्र काकलिः । पूर्णश्चायम् । शुद्धकैशिक
उदयं ( ?) यद्यपि रागः तथापि भेदोऽस्ति । मन्द्रबहुलोऽयम् ।
येन संस्थाने(न) शुद्धकैशिके स्वरालापः क्रियते, तत्संस्थानं
विहा(य) तैरेव स्वरैरालापः कर्तव्यः । विभिन्नकैशिके हि ता-
रस्वरैरालापः कर्तव्य इति । रूपान्यत्वेनार्य भिद्यते । दानवीरे
चास्य विनियोगः । वीररौद्रादिको रसः । षड्जादिमूर्च्छना ।
वर्णः सञ्चारी । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला
चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
साम्प्रतं भिन्नतानस्य लक्षणमाह —
चतुःश्रुतिस्वरो यत्र भिन्नो द्विश्रुतिकेन तु ।
(आधा ? गान्धा)रो द्विश्रुतिश्चैव श्रुतिभिन्नः स उच्यते ॥
अस्यार्थः—चतुःश्रुतेः पञ्चमस्य यदा श्रुतिद्वयं गृ-
ह्णाति निषादः तदासौ श्रुतिभिन्नोऽभिधीयते । ननु मध्यम-
ग्रामे पञ्चमस्य त्रिश्रु(ति)कत्वात् कथं श्रुतिद्वयं गृह्णाति नि-
षादः । उच्यते । भूतपूर्वन्यायेन चतुःश्रुतिरुच्यते । यथा भि-
न्नकैशिकरागे त्रिश्रुतिपञ्चमस्य चश्रुतित्वमाश्रित्य लोपः
कृतः षड्जग्रामे, एवमत्रापि भविष्यतीति न दोषः । लक्षणं
चास्य तयथा —-
९२ बृहद्देश्यां
तानस्तु मध्यमन्यासः पञ्चमांशोऽल्पसप्तमः ।
मध्यमापञ्चमीजात्योर्ऋषभेण तु दुर्बलः ॥ ३३२ ॥
अस्यार्थः — भिन्ननासिका(?) मध्यमग्रामसंबन्धः,
मध्यमापञ्चमीजात्युत्पन्नत्वात् । पञ्चमो ग्रहोऽशश्च । मध्यमो
न्यासः । मध्यमनिषादयोरल्पत्वम् (?) । निषादोऽत्र काकली ।
पूर्णश्चायम् । प्रौढकरुणेऽस्य प्रयोगः । पञ्चमादिमूर्च्छना ।
सञ्चारी वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला
चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
भिन्नानां ग्रामविभागस्तु काश्यपेनोक्तः । तथाच —
“भिन्नषड्जस्तु षड्जे स्याद् भिन्नकैशिकमध्यमः ।
पञ्चमः कैशिकस्ताने मध्यमग्रामसंश्रितः ॥”
इति भिन्नाः समाख्याता गौडकान् शृणु साम्प्रतम् ।
ननु गौडाः कथम् । उच्यते गौडगीतिसंबन्धत्वात् ।
किं लक्षणम् । उच्यते । तथथा —
ओहाडी मन्त्रजा(?) + तु प्रयोगै(र्द्रु ? र्हु)तकम्पितैः ॥
अविश्रामेण त्रिस्थाने गौडगीतिरुदाहृता ।
गौडपञ्चमस्य लक्षणं —
गौडपञ्चमनिष्पत्तौ धैवतीषड्जमध्यमे ॥ ३३४ ॥
धैवतांशो मध्यमान्तो (वि ? र)हितः पञ्चमेन तु ।
अस्यार्थः—गौडपञ्चमः षड्जग्रामसम्बन्धः, धैवती-
षड्जमध्यमाजात्योः समुत्पन्नत्वात् । धैवतोंऽशो ग्र(ह)श्च ।
मध्यमो न्यासः । निषादगान्धारौ काकल्यन्तरौ । पञ्चमरहितोऽयं
रागलक्षणम् । ९३
षड्स्वरः। उद्भटनाट्ये विप्रलम्भशृङ्गारे चास्य विनियोगः ।
बीभत्सभयान(क)रसौ रसः। धैवतादिमूर्च्छना । आरोही वर्णः।
प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे
कला । स्वरपदगीते चच्चत्पुटतालः ।
उत्पन्नः कैशिकीषड्जमध्यमाजातितो मतः ॥ ३३५ ॥
षड्जांशः पञ्चमन्या(सः) सम्प्रोक्तो गौडकैशिकः ।
अस्यार्थः — गौडकैशिको रा(मो ? गो) मध्यमग्राम-
सम्बन्धः । कैशिकीषड्जमध्यमाभ्यां जातः । षड्जोऽस्य
ग्रहोऽशश्च । पञ्चमो न्यासः । निषादोऽत्र काकली । पूर्ण-
श्चायम् । तथा प्रयोगोऽस्ति । त्रिश्रुतिकत्वात् पञ्चमस्य,
चतुःश्रुतिकत्वाद् धैवतस्य मध्यमग्रामसम्बन्ध एवासौ रागः ।
यद्यपि ग्रामद्वयजातौ जातः, तथापि षड्जोऽस्य ग्रामः, न
मध्यमः । तथा दर्शनात् । करुणे चास्य विनियोगः । वीरा-
दिको रसः । षड्जादिमूर्च्छना । आरोही वर्णः । प्रसन्नादिर-
लङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरप-
दगीते चच्चत्पुटादितालः ।
षड्जांशो मध्यमन्यासः षड्जमध्यम(वा ? या)कृतः ॥
परिपूर्णस्वरः प्रोक्तो गौडकैशिकमध्यमः ।
अस्यार्थः — गौडकैशिकमध्यमः षड्जग्रामसम्बन्धः
प(ड्ज)मध्यमाजाते(त ?)र्जातत्वात् । षड्जोऽस्य ग्रहोऽशश्च ।
मध्यमो न्यासः । निषादोऽत्र काकलिः । पूर्णश्चायम्। भयानके
चास्य विनियोगः। वीरादिको रसः। षड्जादिमूर्छना। आरोही
वर्णः। प्रसन्नमध्योऽलङ्कारः। दक्षिणे कला वार्त्तिके कला चित्रे
कला। स्वरपदगीते चच्चत्पुटादितालः।
इदानीं गौडानां ग्रामविभागमाह —
गौडपञ्चम(ग ? क): षड्जे गौडकैशिकमध्यमः ॥ ३३७ ॥
गौडकैशिकरागस्तु मध्यमग्रामसंश्रयः।
त्रयो गौडाः समाख्याता रागान् वक्ष्याम्यतः परम्॥
ननु बेसराणां कथं रागशब्दः प्रवर्तते। आ(टो ? तो)
पदेशात्। तथाचाह कश्यपः —
“चतुर्णामपि वर्णानां योगा रागः + शोभना (?)।
स सर्वो दृश्यते येन तेन रागा इति स्मृताः ॥”
दुर्गशक्तिमते रागा एव बेसरा गण्यन्ते। तथाचाह
दुर्गशक्तिः —
“स्वराः सरन्ति यह्वेगात् तस्माद् बेसराकाः स्मृताः।”
दुर्गशक्तिमते बेसरषाडब एव मुख्यः, षाडबत्वेन क्रमायात-
त्वात्। कश्यपमते तु टक्कराग एव मुख्यः, लक्ष्मीप्रीतिकर-
त्वात्। तथधा —
षड्जांशन्याससंयुक्तष्टकरागोऽल्पपञ्चमः।
कार(णा ? णं चा)स्य निर्दिष्टे धैवतीषड्जमध्यमे ॥ ३३९ ॥
अस्यार्थः — टक्करागः षड्जग्रामसम्बन्धः, धैवती-
षड्जमध्यमासमुत्पन्नत्वात्। षड्जोऽस्य ग्रहोऽशश्च न्यासश्च।
निषादपञ्चमयोरत्राल्पत्वम्। निषादगान्धारावत्र काकल्य-
न्तरौ। पूर्णश्चायम्। शुद्धवीरेऽस्य प्रयोगः। वीराद्भुतौ
राग्लक्षणम् । ९५
रसौ । षड्जादिमूर्छना । वर्णः सञ्चारी । प्रसन्नान्तो-
ऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वर-
पदगीते चच्चत्पुटादितालः ।
अंशश्च षड्जो न्यासश्च कारणं षड्जमध्यमा ।
सौवीरकस्य गान्धारो निषादश्चापि दुर्बलः ॥ ३४० ॥
अस्यार्थः — सौवीरकः षड्जग्रामसम्बन्धः षड्ज-
मध्यमाजातेर्जातत्वात् । षड्जोऽस्य ग्रहोऽशो न्यासश्च । गा-
न्धारनिषादयोरल्पत्वम् । निषादः काकली । पूर्णश्चायम् । गृह-
मेधिनां संयमिनां तापसानां च प्रवेशादिके चरिते शान्तरसे
चास्य विनियोगः । वीरादिको रसः षड्जादिमूर्छना । आरोही
वर्णः। प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे
कला । स्वरपदगीते चच्चत्पुटे तालः ।
पञ्चमांशस्तदन्तश्च पञ्चमीमध्यमोद्भवः ।
स्वल्पद्विश्रुतिकश्चैव ज्ञेयो मालवपञ्चमः ॥ ३४१ ॥
अस्यार्थः—मालवपञ्चमो मध्यमग्रामसम्बन्धः, मध्य-
मापञ्चमीसमुत्पन्नत्वात् । पञ्चमोंऽशो ग्रहो न्यासश्च । निषादगा-
न्धारयोरल्पत्वम् । निषादोऽत्र काकली । पूर्णस्वरश्चायम् । विप्र-
लम्भशृङ्गारे कञ्चुकिप्रवेशे चास्य विनियोगः । पञ्चमादिमूर्छना ।
रसौ शृङ्गारहास्यौ । आरोह्यादिवर्णः । प्रसन्नादिरलङ्कारः ।
दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते
चच्चत्पुटादितालः ।
मध्यमांशस्तथा न्यासः कारणं षड्जमध्यमा ।
द्विश्रुतिभ्यां विहीनस्तु भवेद् बेसरषाडवः ॥ ३४२ ॥
९६ बृहद्देश्यां
अस्यार्थः— वेसरपाडवः षड्जग्रामसंबन्धः, षड्ज-
मध्यमाजातत्वात् । मध्यमोंऽशो ग्रहो न्यासश्च । (गान्धार-
निषादयोरल्पत्वम् ।) गान्धारनिषादौ काकल्यन्तरौ । नित्यं
पूर्णस्वरश्चायम् । शान्तरसे चास्य प्रयोगः । शृङ्गारहास्यौ रसौ ।
मध्यमादिमूर्च्छना । आरोही वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे
कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादि-
तालः ।
स्यात् षड्जमध्यमाजातेः पञ्चम्याश्च विनिर्गतः ।
घोट्टरागश्च विज्ञेयः पञ्चमोंऽशो(ऽन्त)मध्यमः ॥ ३४३ ॥
अस्यार्थः—घोट्टरागः षड्जग्रामसंबन्धः षड्जमध्य-
मापञ्चमीजात्योर्जातत्वात् । यद्यप्युभयग्रामसंभूतजातिद्वयसमु-
त्पन्नः, तथापि पञ्चमस्य चतुःश्रुति(श्रुति?)कत्वात् षड्जग्राम-
संबन्धः । पञ्चमो ग्रहोंऽशश्च । मध्यमो न्यासः । निषादगान्धार-
योरल्पत्वम् । निषादोऽत्र काकली । पूर्णस्वरश्चायम् । उत्सवे
चास्य विनियोगः । शान्तादिको रसः पञ्चमादिमूर्च्छना ।
आरोही वर्णः । प्रसन्नान्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके
कला चित्रे कला । स्वरपद्गीते चच्चत्पुटादितालः ।
षड्जांशन्याससंयुक्तो धैवत(न्त ?)र्ष(भ)वर्जितः ।
धैवत्यार्ष(भी ?भिका)सक्तो भिन्दोलः प्रेक्षके भवेत् ॥३४४॥
अस्यार्थः—भिन्दोलको मध्यमग्रामसंबन्धः धैवत्या-
र्षभीरहितः । उभयग्रामसंबन्धशेषस्वराख्यजातिसमुत्पन्नत्वादु-
भयग्रामिकत्वमेव युक्तम् । कथं मध्यमग्रामाश्रित इति । धै-
वतर्षभी(ही)नत्वान्मध्यमग्रामसंबन्ध एव । भरतकोहलादिभि-