सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

[स्वरनिर्णयः।] [२३]

ग्रामे। गरिसनिधपमा ऊर्ध्वा मध्यमग्रामे १। एवं तावदुभयग्रा-
मिक्यश्चतुर्दश मूर्च्छनाः सम्पूर्णाः—सरिगमपधनि। निसरि-
गमपध। धनिसरिगमप। पधनिसरिगम। मपधनिसरिग।
गमपधनिसरि। रिगमपधनिस इति षड्जग्रामे। मपधनि-
सरिग। गमपधनिसरि। रिगमपधनिस। सरिगमपधनि। निस-
रिगमपध। धनिसरिगमप। पधनिसरिगम। इति मध्यम-
ग्रामे। मूर्च्छनामण्डलम् —

| नि | ध | प | म | ग | रि | स |
| ध | प | म | ग | रि | स | नि |
| प | म | ग | रि | स | नि | ध | इति षड्जग्रामे
| म | ग | रि | स | नि | ध | प | मूर्च्छनामण्डलम्।
| ग | रि | स | नि | ध | प | म |
| रि | स | नि | ध | प | म | ग |
| स | नि | ध | प | म | ग | रि |

| ग | रि | स | नि | ध | प | म |
| रि | स | नि | ध | प | म | ग |
| स | नि | ध | प | म | ग | रि | इति मध्यमग्रामे
| नि | ध | प | म | ग | रि | स | मूर्च्छनामण्डलम्।
| ध | प | म | ग | रि | स | नि |
| प | म | ग | रि | स | नि | ध |
| म | ग | रि | स | नि | ध | प |

एवं तावदुभयग्रामिक्यश्चतुर्दशमूर्च्छनाः सम्पूर्णाः
कथिताः। इदानीं तासां नामानि कथ्यन्ते—
१. 'मे। नियगूर्ध्वा अपि स्युः। एवं' क. पाठः.

२४ बृहद्देशी
षड्जे चोत्तरमन्दा स्यान्निषादे रजनी स्मृता ॥ ९६ ॥
धैवते चोत्तरा ज्ञेया शुद्धषड्जा च पञ्चमे ।
मध्यमे मत्सरी ज्ञेया गान्धारे चाश्वक्रान्तिका ॥ ९७ ॥
ऋषभेण च विज्ञेयाः सप्तमी च भिरुद्गता च (?) ।
षड्जग्रामाश्रिता तोयं (?) विज्ञेयाः सप्त मूर्छनाः ॥ ९८ ॥
अतःपरं प्रवक्ष्यामि मध्यमग्राममूर्छनाः ।
मध्यमेन च सौवीरी गान्धारे हरिणाह्वया ॥ ९९ ॥
मूर्छना शुद्धमध्य * (?) षड्जे स्यान्निषादे चैव मार्जिका ।
पौरवी धैव(तो ? ते) ज्ञे(यो ? या) हृष्यका पञ्चमे तथा ॥
इति तावन्मया प्रोक्ता मध्यमग्राममूर्छनाः ।
स्यात् कलोपनता चैव ऋषभेणैव + + + ॥ १०१ ॥
षट्स्वरैः षाडवा ज्ञेया औडुवा पञ्चभिः स्वरैः ।
षाडवौष्टी च ता(नां ? सां) च (?) व्युत्पत्तिश्च निगद्यते ॥
षट्स्वरा अवन्ति रक्षन्ति ये ते (?) ।
इदानीं सम्प्रवक्ष्यामि षाडवौडवमूर्छनाः ।
उडवो नक्षत्राणि गच्छन्ति यस्मिन्नाकाशे तदाकाश-
मौडवम् । तेन पञ्चसंख्या लक्ष्यते ।
पञ्चमं हि महाभूतं तत्स्था संख्या च विद्यते ॥ १०३ ॥
यस्य तदौडुवितं षाडवस्वराः तेषां प्रयोगः षाडवः । तार-
कादितच् प्रत्ययः ।
षाडवं षट्स्वरं ज्ञेयं लक्षणं सप्तधा मतम् ।
(इत्ये?ए)कोनपञ्चाशत्सं(ख्या?ख्यं) तज्ज्ञेयं गीतवेदिभिः॥

  • इह पूर्वप्रदर्शितमध्यमग्राममूर्छनामण्डलानुसारेण गान्धारनामनिर्दे-
    ज्ञानन्तरम् ऋषभानामादर्शनाद् आदर्शे तद्वाचकस्य ग्रन्थस्य लोप. सम्भाव्यते ।

• मूर्छना । २५
पञ्चस्वरमौडुवितं पञ्चधा लक्षणं स्मृतम् ।
पञ्चत्रिंशच्च संख्यं हि आचार्यैर्यदुदाहृतम् ॥ १०५ ॥
षड्जऋषभौ पञ्चमनिषादैः षड्जग्रामिकाः षाडवाः ।
षड्जऋषभगान्धारैर्हीना मध्यमग्रामे षाडवाः 'संवादिलोपा-
दौडुवितत्वमिं'ति वचनात् संवादिस्वराभ्यामौडुवितत्वं प्राप्त-
मिति प्रायिकं । कदाचिदनुवादिस्वराभ्यामौडुवितत्वं प्राप्तमिति
प्रायिकं । (कदाचिदनुवादिस्वराभ्यामौडुवितत्वं प्राप्तमिति प्रा-
यिकं ?) कदाचिदनुवादिस्वराभ्यामौडुवितत्वं भवत्येव । यथा
पञ्चमऋषभयोः षड्जग्रामे मध्यमग्रामे धैवतऋषभयोरिति
पञ्चमषड्जविहीनो द्विश्रुतिकाम्यां तथा त्रिहीनाश्च¹ पञ्चम-
ऋषभंविहीनं चौडुवितौ भवति । षड्जग्रामे धैवतऋषभत्रिहीनो
द्विश्रुतिकाम्यां त्रिहीने ता ज्ञेया पञ्चमस्वरकर्ता स्याना (?)
भवन्ति खलु मध्यमग्रामे । इदानीमे(व ? त)त्रैव प्रस्तारेण
दर्शयति । तद्यथा — षड्जहीनाः षाडवाः निधैपमगरि ।
धैपमगरिनि । पमगरिनिध । मगरिनिधप । गरिनिधपम ।
रिनिधपमग । निधैपमगरि । ऋषभहीनाः — निधपमगस ।
धपमगसनि । पमगसंनिध । मगसंनिधप । गसंनिधपम ।
संनिधपमग । निधपमगस । सगमपधनि । निरिगमध ।
धनेरिगम । मधनिरिग । गमधनिरि । रिगमधनि । (स्वर ? सप)-
हीनाः । सरिमपध । धसरिमप । पधसरिम । मपधसरि । रि-
मपधस । निगहीनाः । सगमधनि । निसगमध । धनिसगम ।
मधनिसग । गमधनिस । परिहीना योगाः । मध्यमग्रामे
१. 'पि' क. पाठः. २. 'नयोः षड्जग्रामे', ३., ४., ५.
'धा' ख. पाठः.
४,

वत्वात् (?) । मपधनिरिग । गमपधनिरि । रिगमपधनि । निरिग-
मपध । धनिरिगमप । (पधनिरिगम) षड्जहीनाः । मपधनिसग ।
गमपधनिस । सगमपधनि । निसगमपध । धनिसगमप । पध-
निसगम । रिहीनाः । मपधनिसरि¹ । रिमपधनिस² । सरिमपधनि ।
निसरिमपध । ³धनिसरिमप । पधनिसरिम । गहीनाः । मप-
नि(ध ? स)ग । गमपनिस । सगमपनि । निसगमप । पनिसगम ।
धरिहीनाः । मपधसरि । रिमपधस । सरिमपध । धसरिमप ।
पधसरिम । निगहीनाः । इत्यौडुविताः ।
ननु मूर्च्छनातानयोः को भेदः । उच्यते । मूर्च्छनातान-
योनुनत्वान्तरत्वमिति विश्राङ्खिले (?) एतच्चासङ्गतम् । संग्-
हश्लोके तु मूर्च्छनात(न)योर्भेद(स्य) प्रतिपादितत्वात् । तत्
कथम् । मूर्च्छनारोहक्रमेण तानोऽवरोहक्रमेण भवतीति भेदः ।
अधुना तानानां यज्ञनामानि कथ्यन्ते —
अग्निष्टोमोऽत्यग्निष्टोमो वाजपेयोऽथ षोडशी ।
पुण्डरीकोऽश्वमेधश्च राजसूयश्च सप्तमः ॥ १०६ ॥
इति षड्जहीनषाडवताननामानि । स्वरसृष्टिः (?) ।
तद्बहुः + सुवर्णश्च गोसवश्च महाव्रतः ।

तानानां यज्ञनामानि । २७
चातुर्मासिकसंज्ञश्च शखश्चैकोत्थकस्तथा ।
सौत्रामणिश्च पित्रा च उद्भिद्यागश्च सप्तमः ॥ १०९ ॥
इति निषादहीनषाडवताननामानि । इति षड्जग्रामे षाडव-
ताननामानि अष्टाविंशतिः ।
सावित्री चाथसावित्री सर्वतोभद्र एव च ।
सर्पो यजनसंज्ञश्च तथा वैकुण्ठयायनः ॥ ११० ॥
इति मध्यमग्रामे षड्जहीनताननामानि ।
अग्निचिद् द्वादशाहश्च उपांशुः सोम एव च ।
अश्वप्रतिग्राहोऽहीस्तथाभ्युदय इत्यपि(?) ॥ १११ ॥
इति ऋषभहीन(तान)नामानि ।
सर्वस्वदक्षिणो दीक्षा सोमः समिधसंज्ञकः ।
स्वाहाकारश्च नूनश्च तथा गोदोहनस्तथा ॥ ११२ ॥
इति गान्धारहीनताननामानि । इति मध्यमग्रामे एकविंशतिः
षाडव(तान)नामानि । इत्येवमुभयग्रामाश्रिता(ह्ये ? न्ये)कोन-
पञ्चाशत्ताननामानि ।
इडख्यः पुरुपमेधश्च श्येनो यज्ञ इपुस्तथा ।
अङ्गिराः कंससंज्ञश्च षड्जग्रामेऽपि चौडवाः ॥ ११३ ॥
(इति) षड्जपञ्चमहीनतान(ना)मानि ।
अग्निष्टोमोऽथ दर्शश्च नादी चै पूर्णमासिकः ।
अश्वप्रतिग्रहो रात्रिस्तथा कौभरतो मतः ॥ ११४ ॥
इति गान्धारनिषादहीनताननामानि ।
सौभाग्यकश्च शारीरी शारिकृत् पुष्टिकृत् तथा ।
वैनतेयो भवेदेव उच्चाटनवशीकृतौ ॥ ११५ ॥

२८ बृहद्देश्यां
इति पञ्च(म)ऋषभहीनताननामानि । इति षड्जग्रामे औडु-
वित्तताननामानि एकविंशतिः ।
त्रैलोक्यमोहनो धीरः कन्दर्पबलशासनः ।
शङ्खपूगो गजच्छायो रौद्रोऽसौ विष्णुविक्रमः ॥ ११६ ॥
(इति) मध्यमग्रामे धैवतऋषभहीनौडुवितताननामानि ।
भैरवः कामदश्चैव आकृष्टोऽब्जश्च पालकः ।
सृष्टिकृद् व्यर्थकान्तारः सप्तमो रक्षितः स्मृतः ॥ ११७ ॥
इति मध्यमग्रामे औडुवितताननामानि चतुर्दश । उभयग्रामि-
क्यौडुविताः पञ्चत्रिंशद् भवन्ति । षाडवा औडुविताश्च मि-
लित्वा चोभयग्रामिकास्तानचतुरशीतिर्भवन्ति ।
इदानीं साधारणकृता मूर्च्छनास्तु ख्यातुमाह — सा-
धारणस्वरौ निषादगान्धारवन्तौ । तदादिकृता तत्रैवान्तर्भूता
साधारणमूर्च्छना भवति । कुतः । स्वरात्मकत्वान्मूर्च्छनानां
तानासाधारणतापि साधारणेनैव गतार्था ।
इत्येवं च मया प्रोक्ता मूर्च्छनास्तु चतुर्विधाः ।
कथमेषां तानानां प्रयोगः कार्य इति । उच्यते । द्वि-
विधस्तानप्रयोगः प्रवेशेन निग्रहेण च । प्रवेशो ऋषभमा-
पेक्ष्या षड्जस्याधरीभूतस्य विप्रकर्षपीडनम् ।
ऋषभापायदानम् इति यावत् । इति विप्रकर्षेण प्रवेशेन । मा-
र्दवेन यथा — तस्यैव षड्जस्य निषादापेक्षया उत्तरीभूतस्य
मार्दवं शिथिलीकरणं निषादपादानं (१)प्रवेश इति द्विविधं
प्रवेशनम् । निग्रहस्त्वन्तरः स्वरूपत्यागात्पदं दर्शनम् ।
प्रयोगस्तु यथा — सामागग्गिापापागांगि। तथाचाह भरतः—
१. 'ज्ञ' क. पाठ. २. 'म' ग. पाठ.

मूर्च्छनातानाः । २९
“द्विविधा तानक्रिया तन्त्र्याः प्रवेशनं निग्रहस्तथा ।”
तत्र प्रवेशनम् अधरस्वरप्रकर्षादुत्तरस्वरमार्दवाद्वा । निग्रह-
श्चाह् संस्पर्शः । कुतः, मध्यमस्सप्तकस्याविनाशित्वादित्यर्थः ।
ननु त्रिषु स्थानेषु स्वरप्रयोग इत्युक्तम् । कारीपि-
धाने तत्र कतमं स्वरसप्तकमवलम्ब्य मूर्च्छना कार्येति ये संशे-
रते तान् प्रत्याह—मध्यमसप्तकेन मूर्च्छनानिर्देशो ताव(?)म-
न्द्रतारसंसिद्ध्यर्थम् । दत्तिलेनाप्युक्तं —
“तानक्रिया द्विधा तन्त्र्यां प्रवेशान्निग्रहात् तथा ।
प्रवेशो ध्वनिसादृश्यमसंस्पर्शस्तु निग्रहः ॥”
भरतेनाप्युक्तम् — मध्यमस्वरेण मूर्च्छनानिर्देशो भवत्यवि-
नाशित्वान्मध्यमस्य निग्रहे परिग्रहे वा । ननु पाडवौडुविते
क्रियमाणे मूर्च्छनाप्रत्यभिज्ञानमस्ति वा नवा । अस्त्येव मूर्च्छना-
प्रत्यभिज्ञानमिति । तथाचाह दत्तिलः —
“एवं कृतेऽपि तानत्वे गणयित्वा विनाशनम् ।
विद्यते तावतिष्येषा मूर्च्छनेत्यवधारयेत् ॥”
इदं तु प्रयोक्तृश्रोतृसुखार्थमेव मूर्च्छनातानान्यत्वमु-
क्तम् । मानाप्रयोजनमपि त्रिस्थानप्राप्त्यर्थमित्युक्तम् । ननु
मध्यमसप्तकेन मूर्च्छनानिर्देशः क्रियते यदि तदा किमुक्तं म-
ध्यमेन स्वरेणेति । सत्यमुक्तम् । स्वरजात्यपेक्षया एकवच-
नम् । कण्ठ्ये स्वरे मूर्च्छना कार्येति भावः । वैणग्रहणं च श-
रीरे अप्रकीर्तितः तस्यापि स्थानस्य लाभार्थम् । ननु प्रथ-
मायां सप्तम्यां च मूर्च्छनायां पड्जलुप्ते ²रिगमपधनीति एक-
१. 'न प्राप्त्यर्थमित्युक्तम् । ननु मध्यमसप्तकेन मू', २. 'क',
म. पाठः.

३० बृहद्देश्यां
मेव रूपं भवति । तत्र न ज्ञायते विशेषः । सत्यं, भेदो नास्ति ।
वस्तुगगने पुनरस्त्येव भेदः । मन्द्रतारकृतो भेदः । ननु मूर्च्छ-
नास्तावत् जातिरागेषूपयोगिन्य इति युक्तं तासां कथनम् ।
तानास्तु कुत्रोपयुज्यन्ते । उच्यते । द्वयोर्ग्रामयोर्जातिरागा-
न्यत्वप्रतिपादनार्थं प्रयोगस्तानानाम् । यद्वा नष्टोन्द्रष्टसं-
ख्यासिद्ध्यर्थं (?) प्रयोगस्तानानाम् । कूटतानानां सहस्राणि
पञ्चमत्रिंशदधिकानि (?) निष्पद्यन्ते । दत्तिलेनाप्युक्तं—
“पूर्णः पञ्चसहस्राणि त्रयस्त्रिंशच्च संख्यया ।
कथयन्ति प्रतिग्राममुपयोगेण नैपुणाः ॥”
गणमात्रपरेण तानप्रयोगेण पूर्वतानप्रयोगो हन्यते ।
तथाचाह दत्तिलः —
“हन्यादनन्तरायेण पूर्वा यस्य क्रमोत्क्रमात् ।
गुणकारसमास्तत्र क्रमाच्छेपाः स्युरुत्तमाः ॥”
इदानीं गुणनोपायं कथयति— द्वाभ्यां पराभ्यामेकः
पूर्वो ह(रे ? न्ये)त । द्वावेव भवतः । तौ च द्वौ त्रिभिर्हत्वा षड्
भवन्ति । ते चतुर्हताश्चतुर्विंशतिर्भवन्ति । सा चतुर्विंशतिः
पञ्चभिर्हता शतं विंशत्यधिकं भवति । विंशत्यधिकं शतं
षड्भिर्हतं शतानि सप्त विंशत्यधिकानि भवन्ति । तानि सप्त-
भिर्हतानि पञ्चसहस्राणि चत्वारिंशदधिकानि भवन्ति । तत्र
क्रमकृतांस्तान् संस्फोटयित्वा व्युत्क्रमकृतानि कूटतानानां
सप्तसप्तस्वरप्रयोगात् पञ्चसहस्राणि त्रयस्त्रिंशदधिकानि भ-
वन्ति । प्रस्तारो यथा— तत्र षड्जस्वरस्य स इत्येकः क्रमः ।
सा ऋषभस्य सरित्येक एव क्रमः । सरिसर इति च व्यु-
त्क्रमे द्वितीयः रीसः गान्धारस्य सरिगेत्यतः क्रमः । सरिग

  • 'भिन्न न' ग पाठ

[Header] मूर्छनातानाः । ३१
गरि(के?से)त्यादयो व्युत्क्रमाः पञ्च । गरिस रिगस गसरि सगरि
इति व्युत्क्रमेण कूटतानाः पञ्चम (?) । तदेवं गान्धारस्य षट्
तानाः । एवं मध्यमस्य सरिगमेत्येकं रक्रमः (?) । मगरिसेत्येव-
माद्यो विंशतिरुत्क्रमाः । तद्यथा—सरिगम मंसरिग गमसरि
गसरिम सगरिम सरिभग रिसमग रिगसम रिमसग सम-
गरि मरिसग समगरि सरिगम इति मध्यमपूर्वाः षट् ताना
व्युत्क्रमकृताः । एवं गान्धारऋषभषड्जानां प्रत्येकं षट्
ताना भवन्ति । मिलित्वा चतुर्विंशतिर्भवन्ति । एवं पञ्चमस्य
सरिगमपेत्येक एव कमः। पमगरिसेत्यादिव्युत्क्रमकृतानां शत-
मेकोनविंशतिर्भवन्ति । तद्यथा—सरिगमप पमगरिस । पम-
गरिसानां प्रत्येकं चतुर्विंशतिर्भवन्ति । मिलित्वा विंशत्यधिकं
शतं भवति । एवं धैवतस्य सरिगमपधेत्येकः क्रमः । धपम

३२ बृहद्देशी
तानि षट्षष्टिं विद्यान्मन्द्रादिसिद्धये। तस्मात् यत्किञ्चिद् गीयते
तन्मध्यमध्वनिविशेषैः कण्ठध्वनिभिर्मन्द्रतारव्यवस्थासिद्धय-
र्थमेव। चतुर्विधा मया प्रोक्ता मूर्छनाः सप्तस्वरात्मिकाः।
इदानीं तु प्रवक्ष्यामि द्वादशस्वरमूर्छनाम्॥ ११८॥
तत्र मूर्छनानिर्देशः स्थानत्रितयप्राप्त्यर्थमिति वचनात्
मन्द्रतारसिद्ध्यर्थमिति वचनाच्च द्वादशस्वरसम्पन्ना मूर्छना
द्रष्टव्याः प्रयोगकाले। तथाचाह कोहलः—
“योजनीयो बुधैर्नित्यं क्रमो लक्ष्यानुसारतः।
संस्थाप्य मूर्छना जातिरागभाषादिसिद्धये॥”
नन्दिकेश्वरेणाप्युक्तं—
“द्वादशस्वरसम्पन्ना ज्ञातव्या मूर्छना बुधैः।
जातिभाषादिसिद्ध्यर्थं तारमन्द्रादिसिद्धये॥”
यद्यप्याचार्यैः सप्तस्वरमूर्छनाः प्रतिपादिताः स्थान-
त्रितयप्राप्त्यर्थं द्वादशस्वरैरेव मूर्छनाः प्रयुक्ता इति। अ-
न्यथा चोक्षषाडवेरिता इति प्रयोगो न स्यात्। एवञ्च सति
सरागासिद्ध्यान्त(?) स्यात्। षड्जजातौ रिगमधनिप्रयोगस्ता-
रर्मन्द्रको न स्यात्। अन्येषामपि रागाणां नाशङ्करः प्रयोगः
स्यात्। तेन सरिगमधनि अन्या मूर्छना धनिगमपाद्याश्रित्य
मूर्छना द्रष्टव्या(?)। तद्यथा —धनिसरिगमपधनि सरिग।
उत्तरमन्द्रा। निसरिगमपधनिसरिगम। रजनी। सरिगमप-
धनि सरिगमप। उच्चारयद् रिगमपधनि सरिगमपध। शुद्ध-
षड्जा गमपधनि सरिगमपधनि। मत्सरीकृताः मपधनि स-
रिगमपधनिसा। अश्वक्रान्ता पधनि सरिगमपधनिसरि।

स्वराध्याय: सप्त स्वर, तीन ग्राम एवं मूर्च्छना-तान लक्षण

[Header] वर्णाः । ३३

अभीरुद्गताः इति षड्जग्रामे । मध्यमग्रामेऽप्येवमेव पधनिस-
रिगाया मूर्च्छना निसरिगमपधनिर्धु³गाया (?) रागकाले द्वादश-
स्वरमूर्च्छना अवगन्तव्याः । ताश्च षड्जग्रामे मूर्च्छनासु अन्त-
र्गता ज्ञेयाः । तद्यथा — निसरिगमपधनिसरिगम । सौमरी ।
सरिगमपधनि सरिगमप । हरिणाश्वा । रिगमपधनि सरिगम-
पध । काले वनता । गमपधनि सरिगमपधनि । त्रैसमध्या ।
मपधनि सरिगमपधनिसा । मार्गी । पधनिसरिगम पधनिसरि ।
पौरवी । धनि सरिगमपधनिसरिग । हृष्यका ।
अतःपरं प्रदर्श्यन्ते वर्णाश्चत्वार एव हि ॥ ११९ ॥
स्थायिसञ्चारिणौ चैव तथारोह्यवरोहिणौ ।
ननु वर्णशब्देन किमुच्यते । वर्णशब्देन गानमभि-
धीयते । यत्र समाः स्वरा अनुपहतरूपास्तिष्ठन्ति तेभ्यो यद्
गीतं वर्णाभिव्यक्तिकृत् यत्र पदे स वर्णः स्थायीत्युच्यते । यथा
षौञ्जा⁴ सारीसा सारीसौ । मध्यमायां तु मामामामा इति । यत्र
गीते सञ्चरन्ति स्वराः परस्परमन्तस्सहिता एकैकशो वा स
सञ्चारी वर्ण उच्यते । यथा मालवकैशिके सासासनि पनि-
पनिपनि⁵ साधरी पापनिनिनीत्येवमादिप्रकारेपु परस्परसञ्चाराद्
आरोहन्तीत्यादि (?) यत्र गेयाः स्वरा आरोहन्ति एकैकशः
सान्तरा वा स(र्व?)वर्ण आरोहीत्युच्यते । यथा मालवपञ्चमे
पापसधरी समगरि पमपम पधमामा पसारिसा सममा पारिगा
साधनि पारिम्मधनीनीनी पारिम्मधनी पाधनि रिरिपा इति
परस्परैकान्तरद्व्यन्तरस्वरागेहणादारोही ।
१. 'र्व', २. 'श्या', ३. 'धु', ४. 'षड्जाम्', ५. 'न',
६. 'नी' ख. पाठ.

अवरोहन्ति स्वरा यत्रैकेनैव क्रमेण तु ॥ १२० ॥
स चावरोही शब्दे तु समनन्तर+स्वरः ।
पामामध्यमम गागगगमम रिरिरिप्रमा ममप्रपा पप-
प्रमामम्भेिनिनि धधृ पपप म्रगगारिरिनिनाङ्गुपापा इति पर-
स्परैकान्तरद्यन्तरस्वरावरोहादवरोहीति । अतएवोक्तं —
“शरीरस्वरसम्भूतास्त्रिस्थानगणशोभिताः ।
अमी वर्णास्तु विज्ञेया(द?अ)लङ्कारादिसिद्धये ॥”
ननु कथं वर्णनिष्पत्तिः । उच्यते । यदा हि स्वरा वर्णकार्य-
माकर्षयन्ति गीतवशात् स्थायित्वेन सञ्चारित्वेन आरोहित्वेन
अवरोहित्वेन (त)दा वर्णस्य निष्पत्तिः । यथा पौञ्जा स्थायी-
वर्णी (?)—सासासा । सञ्चारी यथा । धैवता । धधनीनीपधा ।
आरोही नन्द्यन्त्यां गागागागा पापाधपमर्निरिरिरिरि पनिस-

त्रयस्त्रिंशदलङ्कारः । ३५
रलं(कृत?)शब्दपूर्वः अलङ्कृतमलङ्कारः घञन्तोऽयमलिङ्कार-
शब्द इति । तत्रालङ्काराणां नामानि कथ्यन्ते — प्रसन्नादिः
प्रसन्नान्तः प्रसन्नाद्यन्तः प्रसन्नमध्यमः समः बिन्दुः निवृत्तः
प्रवृत्तः व्युत्पत्तिश्च तथा वर्णा (?) कम्पितः कुहरितः रेचितः
प्रेङ्खोलितः तारमन्द्रप्रमन्द्रतारः प्रसन्ननिसनः ह्रस्वारप्रसा-
दः(?) उद्वाहितः उपलोलकः क्रमः निष्कूजितः (प्रा ? ह्ला)द-
मानः रञ्जितः आवर्तकः परिवर्तकः उद्धटितः आक्षिप्तकः
सम्प्रदानः हसितः हुङ्कारः सन्धिप्रच्छादनः वि(धिन ? धुत)ः
उद्गीतः गात्रवर्णश्चेति ।
इदानीमेतेषामलङ्काराणां लक्षणमुच्यते । तथथा—
मन्द्रादारभ्य चेत्सारोहणं तारगतिं यावदसौ प्रसन्नादिः । मन्द्र-
शब्देन

३६ बृहद्देश्यां
स्थानत्रयेऽपि सदृशध्वनिः सप्तस्वरोच्चारणः समः ।
एतदुक्तं भवति — यस्य याव(न्तः ? त्यः) श्रुतयः स्वस्थान-
त्रितयेषु तावत् श्रुतिकमेव (?) कार्याः । यथा — सरिगम-
पधनिनी द्वयोर्द्वयोः स्वरयोः संवादिनोरुच्चारणात् समः ।
तद्यथा — सम सप रिधगनी । ग्रामभेदे तु रिपजयिति(?)
विशेषः । इति .समः । नि ।
चिरमेकस्मिन् स्वरे षड्जादिरूपे स्थित्वा तदीयतार-
मग्निवत् (पृ ? स्पृ)ष्ट्वा कलामे(न्यः ? )कां च स्थित्वा यत्र
पुनरपि समा सा मन्द्रया गम्यते स बिन्दुः । सा सा इति
बिन्दुः ।
एककलान्तरं स्पृष्ट्वा बिन्दोरेव विपर्ययोच्चारणात्प्रवृत्तौ
विनिवृत्तत्वाद् निवृत्ताख्यः । यथा — सां सासा निवृत्तः
प्रवृत्तः(?) ।
.आक्रीडितवदारोहादवरोहक्रमेण प(प्क ? ट्क)लो वेणुः ।
यथा — सरिगमपधनि निधपमगरिसा । वेणुः ।
मन्द्रसप्तकमध्ये पवनी(?)रोधेन द्विश्रुतेः कम्पनात् क-
म्पितस्त्रिकलः । यथा — सरिगमपधनिस कम्पितः ।
मध्यमसप्तके त्रिश्रुतेः कम्पनात् त्रिकलः कुहरितः ।
यथा — सरिगमपधनिसा कुहरितः ।
तारसप्तके त्रिश्रुतेः कम्पनात् त्रिकलो रेचितः। सरि-
गमपधनिस (र ? रे)चितः ।

त्रयस्त्रिंशदलङ्कारः । ३७
(तद् ?) द्वयोः स्वरयोर्बहूनां च स्ववर्णा ममकलग-
भागमाश्चतुर्दशकलः प्रेङ्खोलितः । यथा—मरिरि सरिग
गरिगम मपपमपधसप₁निनिनिध नीनसनि । प्रेङ्खोलितः ।
अंशाच्चतुर्थं पञ्चमं वा स्वरं गत्वा यत्र मन्द्रे पुनरा-
गम्यते तारमन्द्रप्रसन्नः । यथा — सरिगमप । सरिगमप ।
रिरिगमपधनिगमपधग । गमपधनिग ! मपधनिम । मपध-
निसम । अथवा मन्द्रस्वरात् तारं गत्वा पुनः सहसा मन्द्र-
(व) शाद्वा गम्यते स तारः मन्द्रप्रसन्नः । सरिगमपधनि
सासा तारः । मन्द्रप्रसन्ना मन्द्रात् सहसा तारः प्राप्य
मन्द्रत्वेन क्रमेणावरोहा मन्द्रतारः प्रसन्नः(?)। सपः मगै²रिसः
रिध पमगरि गनि धपमग समनिधप । अथवा मन्द्रस्वरा-
द्धा चर्तारः स्वरानुच्चार्य क्रमेणावरुह्य च मन्द्रेण वा गम्यते
मन्द्रतारप्रसन्नः । यथा—सासा । निधपमगारिसाँ । मन्द्रतार-
प्रसन्नाः त्रिरूपश्च प्रस्तारस्थायीत्यागेहणी च तत्र स्थायिन्येक-
स्वरः स्वस्य (?) क्रमशतस्तारमन्द्रावरोहणेन मन्द्रतारागेहनेन
स्वरेण प्रस्तारः । सरिरिस । सरिग । गरिस । सरिगमप । पम्-
गरिंस । सरिगमपध । धँ⁴पम³मंग्गिस । सरिगमपधनि । निधप-
मगरिस । सरिगमपधनिस । सनिधपमगरिम । अथवा षेल्-
षड्जग्रामे षड्जाद्याः सप्त मूर्छनाः मध्यमग्रामे मध्यमाश्च
सप्त । एताश्चतुर्दश मूर्छनाः प्रत्येकं चतुर्धा भवन्ति । शुद्धा
करकलिकलिता सान्तरा तद्व्योपेता चेति । एकैकस्या मूर्छना-
१. 'नींनीनीध', २. 'म॑रि', ३. 'म', ४. 'ध' ग. पाठः,

३८ • बृहद्देश्यां
याश्चतुर्विधत्वात् षड्ज पञ्चचत्वारिंशद्युतानि पञ्चसहस्राणि
कूटकूटानाम् (?) ।
षट्पञ्चाशन्मूर्च्छनास्ताः पूर्णकूटास्तु योजिताः ॥ १२१॥
लक्षद्वयं (स्या?) सहस्राणि द्व्यशीतिर्द्वे शते तथा ।
चत्वारिंशच्च संख्याता अथापूर्णा(त ? न्) प्रचक्ष्महे ॥
एकैकाद्यभिविरहाद् गभजा षड्जादयः स्वराः ।
एकस्वरोऽत्र निर्भेदोऽप्युक्तो नष्टोदिसिद्धये (?) ॥ १२३ ॥
क्रमादकूटतानत्वे युक्तास्तेषूपयोगिनः ।
सप्तस्थानानि — आधारस्वाधिष्ठानानाहतमणिपूरके-
(अनाहत?)विशुद्धाज्ञासहस्ररन्ध्रेषु
गमपधनिस । रि । सरिगरिगामगे । गमपमधपप-
धनिधनिधनिस । प्रस्तारः ।
प्रस्वरतारः पत्रिपरितः(?) प्रसादः । यथा — सनि ।
निस । सनिध । धनिसा । संनिप । पधनिसा । संनिधपम ।
मपधनिसा । सनिधपमग । गमपधनिसा । सनिधपमगरि ।
रिगमपधनिसा । संनिधपमगर्रिसा । सरिगमपधनिसा । अ-
थवा — सनिनिसानिधाधनिपधा । धपा । पमा । मपा ।
गागरिरिसः । प्रसादः ।
द्वौ द्वौ स्वगौ विकलौ सञ्चरन्तावारोहक्रमेणा(रोह-
क्रमेणा?)वरोहादुद्ग्राहितः । सरि । रिगरि । ग । गमप । पध ।
धनि । नींम । सनिधा धपपमामगागरि । रीमा(?) उद्ग्राहिनः ।
१. 'गा', २. 'वि', ३. 'मा', ४. . ५. 'मार्नीपान' ग,

त्रयस्त्रिंशदलङ्काराः । ३९
अयमेव द्विरभ्यस्तैरुपलोलकः । सरिसरि । रिगरिग ।
गमगम । मपमप । पधपध । धनिधनि । निसनिस । सनि-
सनि । निधनिध । धपधप । पमपम । मगमग । गरिगरि ।
रिसरिस । उपलोलकः ।
एकादिक्रमेणान्तरस्वरेष्वारुह्य पुनर(व)रोहणक्रमेण
स्थायिनं स्वरं गत्वा परिवारक्रमेणैव एकैकाभिवृद्ध्या यत्र स्वरा
उच्चार्यन्ते स क्रमः । अयमेकरूपत्वात् प्रस्ता(र ? रे) भिद्यते ।
सरिरिस । सरिगा । गरिस । सरिगमा । मगरिसां । सरिगमपा ।
पमगरिसा । सरिगमपधा । धपमगरिसा । सरिगमपधनी ।
नीधपमगरिस । सरिगमपधनिस सनिधपमगरिस । क्रमः ।
अ(था ? थवा)न्तरस्वरमारुह्य का³कलीं गत्वा तेनैव क्रमेणाव-
रुह्य स्थायिन्यागम्यते स क्रमः । सगनि निगस । क्रमः ।
आद्यं तृतीयं ततो द्वितीयं त(तो?)तश्च चतुर्थमनेनैव
क्रमेणान्यानप्यारोह्य मन्द्रादिष्फूजितः । कोहलमते च एका-
न्तरस्वरारोहान्निष्फूजितः । सगारिगमपा । मधापनी । धसा ।
तारादेकान्तरस्वरावरोहा(त्) त्रिरावृत्त्या कलात्रयक-
रणात् सर्वेषां क(ल ? ला)त्रयकरणात् (प्रा ? ह्रा)दमानः । साधा-
साधासाधा । नीपानीपानीपा । धौमाधौमाधामा । पागापागा-
पागा । मारीमारीमारी । गासागासागामा । ह्रादमानः । (सा-
धासाधासाधा । नींपॉनींपॉनींपॉ । धौमार्धोमाधामा । पागापा-
गापागा । मारीमारीमारी । गामागासागासा ह्रादमानः । ?)
१. 'किं'. २., ३ 'ध' क. पाठ . ४., ५., ६. 'प' ग. पाठ.
७., ८. 'प' क. पाठ..

समनन्तरस्वरमारुह्य द्वैकले स्थित्वा पुनः स्वरोऽन्तरे
अर्ककलामारोह(व ?)ति । पुनश्चानन्तरमेवाद्यकलामवरोहति
स रञ्जितः । सरि । रिग । रिगमग । गमपम । मपधप । धप-
निध । पनिधनी ।
आरोहावरोहाभ्यामादौ स्वर(य ?)मुच्चार्य प्राक्स्वरो-
च्चारणान्ते क्रमशोऽष्टकल आवर्तकः । सरिगम । पधनिस ।
सनिधप । मगरिस । आवर्तकः । अथवा सग । गप्पनि ।
सधासधा । नीपोपगा । गसा । आवर्तकः ।
पुनरेकस्वरं चतुर्थं लङ्घयित्वा पञ्चमं स्वरं प्राप्य पुन-
रप्यन्तरान् त्रिस्रवरानवरोहन् चतु(र्थं) लङ्घयन्नाद्यं स्वरं षड्जं
गच्छेत् । आरोहावरोहाभ्यां क(लोऽ?ला)ष्टकेन तथैवं तारा-
दारभ्य सर्वस्वराणामारोहानवरोहं(?) षोडशकलः परिवर्तकः ।
स च लो(को ? के) ओहाडीत्युच्यते । सरिगपा । पमगसा ।
रिगमध । धपमरि । गमपनि । निधपगा । मपसधा । सनि-
धमा । मपधसा । निधपगौ । गमनिध । पमरिरि । गमधा ।
मपगसा । सरिगपा । इति परिवर्तकः ।
स्वरद्वये हि द्विकल्यः आरोहक्रमेण तृतीयस्वरं परि-
हरन्नारोहक्रमेणैवोपरितनह्रस्वद्वयमाक्रामननेनैव क्रमेणाव-
रोहः(?) शेषानपि स्वराननेनैव क्रमेणारोहन्नवरोहन्नष्टादशकल
उद्धटितः। सारिमिपा। पमरिसा। रिगपधा। धैपगरी। गमधनी।
नीधमगा । मपनिमा । संनिपमा । मपनिसा । निधमगा ।
१. 'पपागा', २. 'तुर्तन्तु', ३. 'म', ४. 'धा', ५. 'रानीप',
रा. पाठः.

त्रयस्त्रिंशदलङ्काराः । ४१

गमधनी । धपगरी । रिगपधौ । पमरिसा । सरिमपा । मग-
^२रिसा । उ(द्वाहि?इटि)तः ।
त्रिभिः स्वरैराोहक्रमेण वा एककलादारभ्य यावत्ष
ट्कलमित्येवं कलामानादाक्षिप्तकः । सरिगा । नु । रिगमा ।
नु । मप । नु । पधनी । नु । सनीसा । नु । धपमा । नु ।
मगरी । नु । गरिसा । नु । इत्याक्षिप्तकः ।
प्रथमात् स्वरानन्तरं परित्यज्य स्वरद्वये च गत्वा ते-
नैव क्रमेणारोहणादेककलादवरोहणेऽपि चैककल इति द्विकल-
संप्रदानश्च द्वात्रिंशत्कलः (सम्प्रदानः) । सिगमम । मरिस ।
रिमप । पगरिग । पगध । धमग । मधनीनिपम । पनिसा । ध-
धपा । धनिसा । पनिसा निपमपा । मधनी^३समगा । गपधा । प-
गरी । रिपमा । मरिसा । सगमा । गरिसा । सम्प्रदानः ।
अथवा—सगम । मगसा । रिमपा । पमरी । गपधा । धपगा ।
मधनी । निघमा । पनिर्सों । सनिपा । सम्प्रदानः ।
सम्प्रदानस्यैव द्विकलयोगेन हसनाद्धसितः । स-
गमा । मरिसा । रिमप । पगरि । गपध । धमग । मधनि ।
निपम । पनिस । सधप । सनिध । निपम । मधनि । सधप ।
पनिसनिपम । मधनि । धमगा । गमपधा । प^५गरि । रिमपा ।
मरिसा । सगमा । गरिसा । हसितः ।
हसितवत् स्वरत्रयारोहणेन चतुष्टयारोहणेन वा
उभयथाप्येककलो हुङ्कारः । सरिग । गरिसा । रिगमा ।
१. 'धा । मपरीसा' ख. पाठः. २. 'री' क. पाठः. ३. 'नि',
४. 'सा । ससनि', ५. 'री' ख. पाठः.
८

मगरी । गमपा । पमगा । मपधा । घपमा । पधनी । निधपा ।
धनिसा$^१$ । सनिधा । पधनी । निधपा$^२$ । पधनी । घपमा ।
निपधा$^३$ । पमगा । मगरी । रिगमा । गरिसा । सरिगा ।
अथवा—सरीगम । मगरिस । गमप । पमगरि । गमपध ।
धपमग । मपधनि । निधपम । पधनिस । सनिधप । निधपम$^४$ ।
मपधनि । निधपमागा । गमपधा । पमगरि । रिगमपा ।
मगरिसा । सरिगम । अष्टादशकलो हुङ्कारः ।
तारात् सप्तमं स्वरं गत्वा पुनस्तत्रैवमागत्यावरोह-
क्रमेण स्वरद्वयोच्चारणेन कलाचतुष्टयकारणात् (?) सन्धिप्र-
च्छादनः । सनिसनिसनि (सनि) । निधनिधनिध(निध) । धप-
धपधपधप । पमपमपमपम । मगमगमगमग । गरिगरिगरि-
गरि । रिसरिसरिसरिस । सरिसरिसरिसरि । रिगरिगरिगरिग ।
गमगमगमगम । मपमपमपमप । धपधपधपधप । धनिधनि-
धनिधनि । निसनिसनिसनिस । सन्धिप्रच्छादनः ।
अंशस्वरं चतुरुच्चार्य तदनन्तरस्वरद्वयस्य द्रुतोच्चार-
णांदनेनैव क्रमेणारोहणादेककलो विधुतः । सासासासा ।
रिग । रीरीरीरी । गम । गागागागा । मप । मामामामा ।
पध । पापापापा । धनि । धाधाधाधा । रिस । विधुतः ।
तारादेकान्तरस्वरावरोहात् क्रमेणोल्लीतिः । सध । नि-
पध । मपग । मरिग । स । उल्लीतः ।
ओङ्कारवत् समन्तरं संयुक्तद्विस्वराक्षरमारोहेतः (?) ।
ततो द्वौ द्वौ स्वकम्पनयुक्तौ कलान्तरयो(गे ? गा)देव प्रसन्नौ
१, २-, ३, ४. 'नी', ५ 'मा' क. पाठ.