बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
प्रारंभिक मंगलाचरण एवं देशी-उत्पत्ति, नाद-श्रुति विचार
श्रीमत्तङ्गमुनिप्रणीता
बृहद्देशी
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधिता।
सा च
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशिता।
कोल्लम्बाब्दाः ११०३, ख्रिस्ताब्दा १९२८.
श्रीपद्मनाभसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी ।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वञ्चिभूलक्ष्मीः ॥
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा ।
श्रीसद्धितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥
बृहद्देशीविषयानुक्रमः ।
विषयः. पुटम्.
देश्युत्पत्तिः १
देशीलक्षणम २
नादोत्पत्तिः २, ३
श्रुतिनिर्णयः ४-११
स्वरनिर्णयः ११-२१
मूर्छनाः २१-२६
तानानां यज्ञनामानि २६-२८
मूर्छनातानाः २८-३३
वर्णभेदाः ३३, ३४
त्रयस्त्रिंशदलङ्काराः ३४-४९
गीतयः ४९-५३
जातयः ५३-८१
रागलक्षणम् ८१-१०४
भाषालक्षणादि १०४-१४१
प्रबन्धाध्यायः १४१-१५४
P R E F A C E.
Bṛhaddeśī is a work on music by "Sage Mataṅga".
From (1) “मतङ्गस्य वच श्रुत्वा नारदो मुनिरब्रवीत्” (p 1) and (2)
“श्रीमन्मतङ्गमुनिः प्राह मुनीनुद्दिश्य तत्तथा ।” (p. 141) it would appear
that Mataṅga composed this at the instance of Nārada and
other sages. That Mataṅga was the author is shown by such
colophons as “इति मतङ्गमुनिविरचितबृहद्देश्यां प्रबन्धाध्यायः षष्ठः ।”. We
know nothing of the date of its composition or the parti-
culars of the life of the author Mataṅga. Kālidāsa however
mentions in his Raghuvaṁśa¹ a sage Mataṅga who cursed
the Gandharva named Priyamvada who might have been
arrogant of his skill in music. If this Mataṅga is identical
with the present author, then we may take him to be a
Puranic celebrity anterior to the kings of the Raghu line
dealt with by Kālidāsa. Mataṅga is also referred to in the
Rāmāyaṇa², the Mahābhārata³, and in the Mātaṅgalīlā⁴ No.
10 of the Trivandrum Sanskrit Series; but the question
whether he is the same as the author of the present work has
to be determined in the light of further research on the
subject.
1 “मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् ।
उष्णोदमप्यात्पसम्प्रयोगाच्छीतं हि यत्स्या प्रकृतिर्जलस्य ॥
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत् स तपोनिधिर्माम् ॥”
(Sarga 5 Slo 53 55)
2 “न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् ।
विविधाश्च हि नागा वने तस्मिंश्च पर्वते ।
ऋषेस्तस्य मतङ्गस्य विधानात् ह्यह काननम् ॥”
(Aranyakanda Sarga 74 Slo 28, 29)
3 “अगस्त्योऽथ मतङ्गश्च कालो भृगुस्तथैव च ।
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥”
(Sabhaparva Adhyaya 8 Slo 29)
4 “धाता यक्षमरासुरामररुषः सङ्गृह्य वाणीव या
सृष्ट्वा द्वा विशिरा कदापि विधिना दाप्ताय दुर्धर्षतः ।
तस्मात् सा वशुकन्यका गुणवती नाम्नामवद् भार्गवात्
सैषाचाधममागता बत मतङ्गस्यातिकौतूहलात् ॥”
(p 8 Slo 15)
2
The work ends abruptly saying "इदानीं कथयिष्यामि वाद्यस्य
निर्णयो यथा" (p. 151) and so we conclude that there are sub-
sequent parts of the text yet to be discovered.
The author derives the word देशी thus:
"देशे देशे प्रवृत्तोऽसौ ध्वनिर्देशीति संज्ञितः । (p. 1)
आक्रम्य वर्तते सर्वं जगत् स्थावरजङ्गमम् ॥
ध्वनिश्च द्विविधः प्रोक्तो व्यक्ताव्यक्तविभागतः ।
वर्णालङ्कारभाग् व्यक्तो देशीत्युक्तस्तथापरः ॥" (p. 2)
And from देशी meaning ध्वनि or sound, as a starting point, he
developes all that is to follow. Hence the name Bṛhaddesī.
This treatise proposes to furnish new information on such
subjects as the 'courses of Rāga' which as the author
observes,
रागमार्गस्य यद् रूपं यन्नोक्तं भरतादिभिः ।
निरूप्यते तदस्माभिर्लक्ष्यलक्षणसंयुतम् ॥" (p. 81)
have not been dwelt upon by Bharata and other sages in
their works. Matanga seeks to base his opinions on autho-
rities by freely quoting passages from Bharata, Kohala, Dattila
and others.
It is matter for genuine pleasure to announce that we
may be able to publish shortly a work on music, named
'Dattila" by Dattilācārya who happens to be one of those
quoted by the present author.
I would add, before concluding, that the present work
though incomplete has been published on account of its rare
merit and that the manuscript of this work was Travancore's
contribution to the exhibition held at the All-India Conference
of Scholars and Artists at Indore in 1921.
The edition of the work is based on two palm leaf
manuscripts in Malayalam characters obtained from the
Poonjar Raja, North Travancore. One of these manuscripts
marked क is exceedingly worn out, it is about four centuries
old and wanting in the first leaf as well as four leaves from
the 41st. The other manuscript marked ख is fragmentary
ending with a portion of the Jātiprakaraṇa.
Trivandrum, }
25 11 1103 } K. SAMBASIVA SASTRI
निवेदना ।
—————
श्रीमतङ्गमुनिविरचितोऽयं सङ्गीतविषयो ग्रन्थो बृहद्देशी नाम ।
“मतङ्गस्य वचः श्रुत्वा नारदो मुनिरब्रवीत् ।”
(पृ० १. श्लो० २)
“श्रीमत्तङ्गमुनिः प्राह मुनीनुद्दिश्य तद्यथा ।”
(पृ० १४१. श्लो० ३७७)
इति भागाभ्यां श्रीमत्तङ्गेन नारदादीनुद्दिश्य निबद्धोऽयं प्रतिभाति । 'इति
मतङ्गमुनिविरचितबृहद्देश्यां प्रबन्धाध्यायः षष्ठः' इत्यादिषु तत्र तत्र परि-
समाप्तौ दृश्यमानो भागोऽस्य मतङ्गमुनिप्रणीतत्वं प्रकटयति । अस्य मतङ्गमुने-
र्जीवितसमयादिकं प्रति विशिष्य न किमप्यवगम्यते ।
परन्तु महाकविश्रीकालिदासकृते रघुवंशे —
“मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥
[
२
महाभारते
'अगस्त्योऽथ मतङ्गश्च दाल्यो मृत्युस्तथैव च ।
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥”
(सभा० अ० ८. श्लो० २९)
इति ।
अस्मदधिकरणप्रकाशितायां मातङ्गलीलायाम् —
“धात्रा यक्षनरासुरामररुचं सृष्ट्वा वाणीव या
सृष्टा सा रुचिरा श्रुतावपि विधिना ससाध दुर्गेनैत ।
तस्मात् सा यसुकन्यका गुणवती नाम्नाभवद् भार्गवात्
सेपाथाश्रममागता वत मतङ्गस्यातिकौतूहलात् ॥”
इति च प्रस्तुतान्मतङ्गमुनेरन्यो वा नवेति विमर्शंस्तु सामग्र्यन्तरसमुपलब्धिं
प्रतीक्षते ।
“इदानीं कथयिष्यामि वाच्यस्य निर्णयो यथा ।”
इति प्रबन्धाध्यायान्तिमेनानेनास्य ग्रन्थस्यावशेष किमप्यस्तीति प्रतीयते ।
“देशे देशे प्रवृत्तोऽसौ ध्वनिर्देशी
श्रीभरत-कोहल-दत्तिलादीनां प्राचामाचार्याणां शास्त्राणि प्रमाणयन्
मतङ्गोऽयं बहुत्र स्वीयेमं ग्रन्थं समूलं निगमयति च। तत्रान्यतमं दत्तिला-
चार्यप्रणीतं दन्तिलं नाम गान्धर्वशास्त्रसंक्षेपात्मकं शास्त्रमचिरादिह प्रचिकाश-
यिषोर्म मन्ये सापि कापि धन्यता सन्निधाता।
ग्रन्थोऽयमस्मत्कुलवृद्धायां मातृकायां सावशेषेऽप्यपूर्वनामहिम्नावश्य-
प्रकाश्यतां प्राप्तः ।
इण्डोरराज्यप्रवृत्ते क्वचन महनीये समस्तभारतीयकलावत्सम्मेलनभवे
प्रदर्शनेऽत्रत्यामात्यस्य प्रधानमहत्त्वमुखेन संप्रेष्य सन्निधापितोऽयं तथापि
सुप्रसिद्धः ।
एतत्संशोधनार्थौ द्वावादर्शौ वञ्चिराज्यान्तर्गतपुञ्जारराजसम्बन्धिनौ
केरलीयलिपी तालपत्रात्मानौ। तयोरेकः क-संज्ञितः प्रायश्चतुश्शतवर्षपर्युषितो-
ऽतिजीर्णत्रुटितबहुपत्रः । तत्र च प्रथममेकम् एकचत्वारिंशाच्चतुश्चत्वारिंशं
चतुष्टयमिति पञ्च पत्राणि लुप्तानि । अन्यः ख-संज्ञितोऽल्पो जातिप्रकरणैक-
देशेन विश्रान्तः ।
अनन्तशयनम्,
२५-१०-११०३. }
के. साम्बशिवशास्त्री.
॥ श्रीः ॥
श्रीमत्तङ्गमुनिप्रणीता ,
बृहद्देशी !
――――
*...........................................................................
...........................................................................
नानाविधेपु देशेषु जन्तूनां सुखदो भवेत् ।
ततः प्रभृति लोकानां नरेन्द्राणां यदृच्छया ॥ १ ॥
देशे देशे प्रवृत्तोऽसौ ध्वनिर्देशीति संज्ञितः ।
मतङ्गस्य वचः श्रुत्वा नारदो मुनिरब्रवीत् ॥ २ ॥
ननु ध्वनेस्तु देशीत्वं कथं जातं महामुने ! ।
अमूर्तत्वाच्च तेषां हि इति मे वक्तुमर्हसि ॥ ३ ॥
मतङ्ग उवाच —
यथानुभूतदेशाच्च ध्वनेः स्थानानुगादपि ।
ततो विन्दुस्ततो नादस्ततो मात्रास्त्वनुक्रमात् ॥ ४ ॥
वर्णास्तु मात्रकोद्भूता मात्रका द्विविधा मताः ।
स्वरव्यञ्जनरूपेण जगज्ज्योतिरिहोच्यते ॥ ५ ॥
स्व(र्यु ? र्य)ते देशभाषायामादिक्षान्तं यथाविधि ।
तेन स्वराः समाख्याता अन्ये षड्जादयः स्वराः ॥ ६॥
व्यञ्जनत्वं तु सर्व्वेषां कादिवर्गेपु संस्थितम् ।
शक्त्यभिव्यक्तिमात्रेण व्यञ्जनं शिवतां गतम् ॥ ७ ॥
――――――――――――――――――――――――――――――――――――――――
- आदर्शे प्रथमं पत्रं लुप्तम् ।
G. R. T. 11. 500. 17-2-192... R.
२ बृहद्देशीयां
पदवाक्यस्वरूपेण वाक्यार्थवहनेन यत् ।
*वर्णा यत्र (?) जगत् सर्वं तेन वर्णाः प्रकीर्तिताः ॥ ८ ॥
वर्णपूर्वकमेतद्धि पदं ज्ञेयं सदा बुधैः ।
पदैस्तु निर्मितं वाक्यं क्रियाकारकसंयुतम् ॥ ९ ॥
ततो वाक्यान्महावाक्यं वेदाः साङ्गा ह्यनुक्रमात् ।
व्यक्तास्ते ध्वनितः सर्वे ततो गान्धर्वसम्भवः ॥ १० ॥
ध्वनिर्योनिः परा ज्ञेया ध्वनिः सर्वस्य कारणम् ।
आक्रान्तं ध्वनिना सर्वं जगत् स्थावरजङ्गमम् ॥ ११ ॥
ध्वनिस्तु द्विविधः प्रोक्तो व्यक्ताव्यक्तविभागतः ।
वर्णोपलम्भनाद् व्यक्तो देशीमुखमुपागतः ॥ १२ ॥
इति देश्युत्पत्तिप्रकरणम् ।
अबलाबालगोपालैः क्षितिपालैर्निजेच्छया ।
गीयते सानुरागेण स्वदेशे देशिरुच्यते ॥ १३ ॥
निबद्धश्चानिबद्धश्च मार्गोऽयं द्विविधो मतः ।
आलापादि(१)निबन्धो यः स च मार्गः प्रकीर्तितः ॥१४॥
एवम्प्रकारो देशी यः ज्ञातव्या गीतकोविदैः ।
एवमेतन्मया प्रोक्तं देश्या उत्पत्तिलक्षणम् ॥ १५ ॥
इति देशीलक्षणम् ।
इदानीं सम्प्रवक्ष्यामि नादलक्षणमुत्तमम् ।
न नादेन विना गीतं न नादेन विना स्वराः ॥ १६ ॥
१., २. 'न्म', ३. 'गु' स. पाठः.
- 'वर्णयन्ति' इति पाठः स्यात् ।
नादोत्पत्तिप्रकरणम् ।
न नादेन विना नृत्तं तस्मान्नादात्मकं जगत्
नादरूपैः स्मृतो ब्रह्मा नादरूपो जनार्दनः ॥ १७ ॥
नादरूपा परा शक्तिर्नादरूपो महेश्वरः ।
यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यः स्मृतः ॥ १८ ॥
तन्मध्ये संस्थितः प्राणः प्राणाद् वह्निसमुद्गमः ।
वह्निमारुतसंयोगान्नादः समुपजायते ॥ १९ ॥
नादादुत्पद्यते बिन्दुर्नादात् सर्वं च वाङ्मयम् ।
इति केचित् ।
कन्दस्थानसमुत्थो हि स च पञ्चविधो भवेत् ॥ २० ॥
सूक्ष्मश्चैवातिसूक्ष्मश्च समीरः सञ्चरन्नधः ।
ऊर्ध्वं च कुरुते सर्वं नादपद्धतिमुद्धताम् ॥ २१ ॥
इत्यन्ये वदन्ति ।
नकारः प्राण इत्याहुर्दकारश्चानलो मतः ।
नादस्य द्विपदार्थोऽयं समीचीनो मयोदितः ॥ २२ ॥
नादोऽयं नदतेर्धातोः स च पञ्चविधो भवेत् ।
सूक्ष्मश्चैवातिसूक्ष्मश्च व्यक्तोऽव्यक्तश्च कृत्रिमः ॥ २३ ॥
सूक्ष्मो नादो गुहावासी हृदये चातिसूक्ष्मकः ।
कण्ठमध्ये स्थितो व्यक्तः अव्यक्तस्तालुदेशके ॥ २४ ॥
कृत्रिमो मुखदेशे तु ज्ञेयः पञ्चविधो बुधैः ।
इति तावन्मया प्रोक्ता नादोत्पत्तिर्मनोहरौ ॥ २५ ॥
इति नादोत्पत्तिः ।
१. 'पस्ततो', २. 'रा ॥ इदा' स. पाठः.
४ | बृहद्देशी
इदानीं तु प्रवक्ष्यामि श्रुतीनां च विनिश्चयम् ।
श्रु श्रवणे चास्य धातोः क्तिप्रत्ययसमुद्भवः ॥ २६ ॥
श्रुतिशब्दः प्रसाध्योऽयं शब्दज्ञैर्भावसाधनः ।
श्रूयन्त इति श्रुतयः । सा चैकानेका वा । तत्रैकैव
श्रुतिरिति । तद्यथा — तत्रादौ तावदिहाग्निपवनसंयोगात्
पुरुषप्रयत्नप्रेरितोर्ध्वं नाभेरूर्ध्वाकारदेशमाक्रामद् धूमवत् सो-
पानपदक्रमेण पवनेच्छया आहाहरोहन्नतर्भूतपूरणप्रातिनिपा-
र्यापायतया(?) श्रुत्यादिभेदभिन्नः प्रतिभास इति मामकीयं
मतम् । अन्ये पुनर्द्विप्रकाराः श्रुतीर्मन्यन्ते । कथम् । स्वरा-
न्त(र)विभागात् । तथाच विश्वावसुः—
"श्रवणेन्द्रियग्राह्यत्वाद् ध्वनिरेव श्रुतिर्भवेत् ।
सा चैकापि द्विधा ज्ञेया स्वरान्तरविभागतः ॥
नियतश्रुतिसंस्थानाद् गीयन्ते सप्त गीतिषु ।
१तस्मात् स्वरगता ज्ञेयाः श्रुतयः श्रुतिवेदिभिः ॥
अन्तःश्रुतिविवर्तिन्यो ह्यन्तरश्रुतयो मताः ।
एतासामपि चैश्वर्यं क्रियाग्रामविभागतः ॥"
केचित् स्थानत्र(यं ?य)योगात् त्रिविधां श्रुतिं प्रति-
पद्यन्ते । अपरे त्विन्द्रियवैगुण्यात् त्रिविधां श्रुतिं मन्यन्ते ।
इन्द्रियवैगुण्यं च त्रिविधं — सहजं दोषजम् अभिघातजं
चेति । अपरे तु वातपित्तकफसन्निपातभेदाद्भिन्नां चतुर्विधां
श्रुतिं प्रतिपेदिरे । तथाचाह चतुरः(?) —
१. 'ह — ऽ' ख. पाठ.
[Header] श्रुतिनिर्णयः । ५
“उच्चैस्तरो ध्वनी रूक्षो विज्ञेयो वातजो बुधैः ।
गम्भीरो घन(नी ? शी)लश्च ज्ञातव्यः पित्तजो ध्वनिः ॥
स्निग्धश्च सुकुमारश्च मधुरः कफजो ध्वनिः ।
त्रयाणां गुणसंयुक्तो विज्ञेयः सन्निपातजः ॥”
अपरे तु........न्धादयो नवधा श्रुतिं प्रतिपद्यन्ते ॥ २७ ॥
तथाहि—
द्विश्रुतिस्त्रिश्रुतिश्चैव चतुःश्रुतिक एव च ।
स्वरप्रयोगः कर्तव्यो वंशे छिद्रगतो बुधैः ॥ २८ ॥
भरतेनाप्युक्तं—
“द्विक(स्त्रि ? त्रि)कचतुष्कास्तु ज्ञेया वंशगताः स्वराः ।
इति तावन्मया प्रोक्ताः सर्ववंशश्रुतयो नव ॥”
तत्र केचिन्मीमांसामांसलितधियो धीरा द्वाविंशति-
श्रुती(यो ?)र्मन्यन्ते । केचन पुनः (षट्)षष्टिभेदभिन्नाः श्रु-
तय इति मन्यन्ते । अन्ये पुनरानन्त्यं वर्णयन्ति श्रुतीनाम् ।
यथाचाह कोहलः—
“द्वाविंशतिं केचिदुदाहरन्ति (श्रुतीः) श्रुतिज्ञानविचारदक्षाः ।
षट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ॥”
ननु श्रुतेः किं मानम् । उच्यते । पञ्चमस्य श्रुत्यु-
त्कर्षापकर्षाभ्यां मार्दवादायतत्वाद्वा यदन्तरं (तु ? तत्) प्रमा-
(णां ? णं) श्रु(ति ? ते)रिति । इदानीं द्वाविंशतिप्रकारतोया निद-
र्शनं यथा—द्वे वेणी तुल्यप्रमाणे तन्त्र्युपपादनं दण्डमूर्च्छना
समे कृत्वा षड्जग्रामाश्रिते कार्ये । तयोरन्यतरस्यां मध्यम-
१. 'त', २. 'स्या' ख. पाठः.
ग्रामिकीं श्रुतिं कृत्वा पञ्चमस्यापकर्षात् तामेव श्रुतिं पञ्चम-
वशात् षड्जग्रामिकीं कुर्यात् । एवं श्रुत्यपकृष्टा भवति, परं
विशेषलाभो नास्ति, उच्चनीचमात्रप्रतीतेः । पुनरपि तद्देवा-
पकर्षयेत् । यथा गान्धारनिषादौ कर्तरी पुनरन्यतरस्यां स्थि-
(त १ र)त्रीणायां धैवतर्षभौ कर्मतामापन्नौ (प्र)वेक्ष्य (तद्विश्रु-
त्येङ्क्योः सिकलात् ?) पुनरपि तद्देवापकृष्टायां चलवीणायां
धैवतर्षभौ इतरस्यां पञ्चमषड्जौ प्रवेक्ष्य तत् त्रिश्रुत्य(भि ? ग्य)-
धिकत्वात् पुनरपि तद्देवापकृष्टायां पञ्चममध्यमषड्जा इति ।
अस्यां मध्यमगान्धारनिषादा(न् ? :)प्रविशन्ति चतुःश्रुत्य(भि?
भ्य)धिकत्वात् । एवमनेन दर्शनेन द्वाविंशतिश्रुतयो भवन्ति ।
एवं मध्यमग्रामे द्रष्टव्यम् । प्रस्तारो यथा —
च ध्रु
ल वी
वी णा
णा
| स | रि | ग | ग | , म | म | प | प | ध | ध | नि | ||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| स | रि | ग | ग | म | म | प | प | ध | ध | नि | ||||||||
| स | रि | ग | ग | म | म | प | प | ध | ध | नि | ||||||||
| स | रि | ग | ग | म | म | प | प | ध | ध | नि |
चलवीणायाः प्रथमापकर्षे श्रुतिलाभो नास्ति । द्वि-
तीये च(दण्डम ? तुः)श्रुतिलाभः । (चतुर्थे द्वादशश्रुतिलाभः ।
एवं द्वाविंशतिभेदभिन्नाः श्रुतयस्त्रिषु स्थानेषु प्रत्येका वा
द्वाविंशतिप्रकारतया श्रुतिलाभः । ?) तृतीये षट्श्रुतिलाभः ।
चतुर्थे द्वादशश्रुतिलाभः । एवं द्वाविंशतिभेदभिन्नाः श्रुतयो
१. 'भ्य. ख. पाठः.
दर्शिताः । इदानीं षट्षष्टिभेदभिन्नाः श्रुतयः कथ्यन्ते । मन्द-
मध्यमतारेषु उरःकण्ठशिरस्सु त्रिषु स्थानेषु प्रत्ये(का ? कं) द्वा-
विंशतिप्रकारतया भिद्यमानेषु श्रुतयो हि षट्षष्टिभेदभिन्ना
भवन्तीति केचिन्मन्यन्ते । अधुना श्रुतीनामानन्त्यं दर्श-
यामः ।
आनन्त्यं तु श्रुतीनां तु दर्शयन्ति विपश्चितः ।
यथा ध्वनिविशेषाणामानन्त्यं गगनोदरे ॥ २९ ॥
उ(त्तारुग ? चण्ड)पवनोद्वेगजलराशिसमुद्भवाः ।
(कि)यन्तः प्रतिपद्यन्ते न तरङ्गपरम्पराः ॥ ३० ॥
इति श्रुतीनामानन्त्यं दर्शितम् ।
इदानीं श्रुतीनां तादात्म्यादिविकल्पः कथ्यते —
तादात्म्यं च विवर्तत्वं कार्यत्वं परिणामिता ।
अभिव्यञ्जकता चापि श्रुतीनां परिकथ्यते ॥ ३१ ॥
इदानीमेतदेव विवृणोति —
विशेषस्पर्शशून्यत्वाच्छ्रोत्रेन्द्रियग्राह्यता ।
स्वरश्रुत्योस्तु तादात्म्यं जातिव्यक्त्योरिवानयोः॥ ३२ ॥
न
८ बृहद्देश्यां
षड्जादयः स्वराः सप्त व्यज्यन्ते श्रुतिभिः सदा ।
अन्धकारस्थिता यद्वत् प्रदीपेन घटादयः ॥ ३६ ॥
इति तावन्मया प्रोक्तं श्रुतीनां च विकल्पनम् ।
इदानीं संप्रवक्ष्यामि विकल्पस्य च दूषणम् ॥ ३७ ॥
भेदः स्वरलक्षणानां (?) सामान्येनान्यवस्तुवत् सिद्धः ।
तद्धि विशेषैः शून्यं भवति नभःपुष्पसङ्काशम् ॥ ३८ ॥
नानाबुद्धिप्रसाध्यत्वात् स्वरश्रुत्योस्तु भिन्नता ।
आश्रयाश्रयिभेदाच्च तादात्म्यं नैव सिध्यति ॥ ३९ ॥
यदभाणि विवर्तत्वं श्रुतीनां तदसङ्गतम् ।
विवर्तत्वे स्वराणां हि भ्रान्तिज्ञानं प्रसज्यते ॥ ४० ॥
कार्यकारणभावस्तु स्वरश्रुत्योर्न सम्भवेत्
श्रुतीनामिह सद्भावे प्रमाणं नैव विद्यते ॥ ४१ ॥
अर्थापत्त्या (य ?) यदिवा व्याप्तिग्रहणपूर्वकप्रमाणबलात् (?) ।
सिद्धस्वरजनकानां गगनगुणानां स्वरो भेदः ॥ ४२ ॥
सत्यम् ।
कार्यकारणभेदोऽस्ति यद्यपि स्फुटमेव हि ।
तथापि कारणत्वं च श्रुतीनां नैव सम्भवेत् ॥ ४३ ॥
कार्येषु विद्य³मानेषु कारणस्योपलम्भनात् ।
घटादौ विद्यमाने (पु ? तु) मृत्पिण्डो नोपलभ्यते ॥ ४४ ॥
परिणामोऽभिव्यक्तिस्तु (ना ? न्या)य्यः पक्षः सतां मतः ।
इति तावन्मया प्रोक्तं तादात्म्यादिविकल्पनम् ॥ ४५ ॥
१. 'व' ख पाठ.. २. 'णे' क. पाठ . ३. 'भि' ख. पाठः.
श्रुतिनिर्णयः । ९
न(तु ? नु) श्रुतीनां द्वाविंशतिप्रकारता यत् त(दाप ?
दप्य)सङ्गतं, श्रुतीनां श्रुत्यवयवानां चानुलम्भात्। तदुक्तं—
कथं प्रतीतिश्च भवेदमुष्या
नादौ नभोव्याकुलितश्रुतित्वात्।
भवेदलक्ष्यावयवा श्रुतिस्तु
-
-
- नैवावयवी प्रतीता(?) ॥ ४६ ॥
तासां भवतीताः स्युः (क्य ? किय)त्यो मात्रकाः प्रती¹(?) ।
यदि द्वाविंशतिस्तासां व्यापारः कः क्रमोत्क्रमात् ॥ ४७ ॥
श्रुतीनां यदनन्त्यं च + निवार्यं प्रसज्यते(?) ।
एकत्वं वा भवेत् तस्यां मात्रकाणामसंशयम् ॥ ४८ ॥
मात्रका एव नो सन्ति कथं तासां विकल्पनम्।
सति धर्मिणि धर्माणां (चाते ? सत्ते)त्याहुर्मनीषिणः॥४९॥
- नैवावयवी प्रतीता(?) ॥ ४६ ॥
-
-
-
-
-
- धर्माणः सन्तोऽप्याहुर्मनीषिणः ।
सत्त्वासत्त्वे सदा गुणदोषाणां गुणी तु यदा(?) ॥ ५० ॥
विनैव कारणं ता(ता ? स्ताः) स्वराणां कारणं यदि।
भवेयुः श्रुतयस्तासामादिर्नैष्येत कारणम् ॥ ५१ ॥
किञ्च प्रमाणगम्यत्वे समेऽपि यदि मात्रकाः।
निह्नोतव्या(त ? स्त)दा रक्षा श्रुतीनामपि दुर्ल(भाः ? भा) ॥
अत्रोच्यते—
अर्थापत्त्यानुमानेन प्रत्यक्षज्ञानतोऽपि वा।
गृह्यन्ते श्रुतयस्तावत् स्वराभिव्यक्तिहेतवः ॥ ५३ ॥
- धर्माणः सन्तोऽप्याहुर्मनीषिणः ।
-
-
-
१. 'ति' ख. पाठः.
८
१० बृहद्देश्यां
एतदेव स्पष्टीकरणार्थं प्रस्तारेण दर्शयामि । तत्र
केचिद् दण्डप्रस्तारेण दर्शयन्ति द्वाविंशतयः(?) श्रुतयो रेखा-
णामिति । अन्ये तु वीणाप्रस्तार्यमाहुः । वयं पुनर्मण्डलप्रस्तारं
ब्रूमः । तथाहि—तिर्यगूर्ध्वं च पञ्च षड् रेखा इत्येकादश ।
उभयतो द्वाविंशतिः । एवं ग्रामद्वयेऽप्युपयोगिन्यः श्रुतय
इति दर्शिताः । तयथा —
त्रिश्रुतिरिति क्रम्यादौ(?) देयः षड्जश्चतुःश्रुतिः ।
तदूर्ध्वं द्वे श्रु(तित्वा?ती त्यक्त्वा) तृतीय ऋषभो मत(म्?:)॥
ततश्चैकां श्रुतिं त्यक्त्वा गान्धारो द्विश्रुतिः स्मृतः ।
तदनु त्रिश्रुतीस्त्यक्त्वा कर्तव्यो मध्यमस्वरः ॥ ५५ ॥
तदूर्ध्वं पञ्चमः कार्यः परित्यज्य श्रुतित्रयम् ।
श्रुतिद्वयं परित्यज्य कर्तव्यो धैवतस्ततः ॥ ५६ ॥
एकां श्रुतिं परित्यज्य निषादस्तदनन्तरम् ।
षड्जग्रामसमुद्भूत उक्तोऽसौ श्रुतिमण्डलः ॥ ५७ ॥
तद्यथा षड्जग्रामे श्रुतिमण्डलम् —
[श्रुतिमण्डल-चित्रम् / Diagram of Shruti-mandala]
- ग (शीर्षे / top)
- रि, म (ऊर्ध्वभागे / upper cells)
- प, ध (दक्षिणभागे / right-hand cells)
- ग (अधोभागे वामतः / bottom-left)
- नि (अधोभागे दक्षिणतः / bottom-right)
१. 'त्र' ख. पाठः.
स्वरनिर्णयः । ११
इदानीं सम्प्रवक्ष्यामि मध्यमश्रुतिमण्डलम् ।
(क्रे ? ज्ञे)यस्तिस्रो ह्यतिक्रम्य मध्य(मा ? मो)ऽयं चतुःश्रुतिः ॥
श्रुतिद्वयमतिक्रम्य तृतीयः पञ्चमो भवेत् ।
ततस्तिस्रो ह्यतिक्रम्य चतुर्थो धैवतो भवेत् ॥ ५९ ॥
ज्ञेय(:स्य ? स्त्वे )कामतिक्रम्य निषादस्तु द्वितीयकः ।
श्रुतित्रयमतिक्रम्य ततः षड्जश्चतुर्थकः ॥ ६० ॥
ऋषभस्तु द्वयं त्यक्त्वा तृतीयः परतो भवेत् ।
श्रुतिमेकामतिक्रम्य गान्धारः स्याद् द्वितीयकः ॥ ६१ ॥
मध्यमग्रामे श्रुतिमण्डलम् —
ध नि
म
ग
म ग रि
भरतस्तु पुनर्ऋषभादिश्रुतिमण्डलं दर्शयति । किमत्र
कारणम् । उच्यते । ग्रामद्वयेऽप्यन्तर्मूर्च्छनाप्रतिपादनार्थम् ।
यद्वा ग्रामद्वयेऽपि षड्जमध्यमौ ग्रामण्यौ भवतः । अन्यस्त्र-
ग(स्ते ? स्त)दग्रेसरा इति ।
इति तावन्मया प्रोक्ताः श्रुतयो ग्रामसंश्रिताः ।
इति श्रुतिकरणम् ।
इदानीं सम्प्रवक्ष्यामि स्वराणां च विनिश्चयम् ॥ ६२ ॥
१२ बृहद्देशी
तत्रादौ स्वरशब्दस्य व्युत्पत्तिरिह कथ्यते ।
‘राजृ दीप्तावि’ति धातोः स्वशब्दपूर्वकस्य च ॥ ६३ ॥
स्वयं यो राजते यस्मात् तस्मादेष स्वरः स्मृतः ।
(तद् ? न)नु स्वर इति किम् । उच्यते । रागजन-
(रो ? को) ध्वनिः स्वर इति । तथाचाह कोहलः —
“आत्मેચ્છया महितलाद् वायुरुद्यन्निधार्यते ।
नाडीभित्तौ तथाकाशे ध्वनिरक्तः स्वरः स्मृतः ॥”
ननु स्वर एव स्या(न्ने ? दे)कोऽनेको वा व्यापको-
ऽव्यापको वा नित्योऽनित्यो वा (स्यात् ?) । अत्रोच्यते —
एकोऽनेको व्यापको नित्यश्चेति । तत्र निष्कलरूपेणैकः स्वरः
षड्जादिरूपेणानेकः स्वरः । तथाचाह कोहलः —
“जातिभाषादिसंयोगादनन्तः कीर्तितः स्वरः ।
नादैर्युक्तस्तालमिति (क्र ? कृ)तौ योज्यो रसेष्वपि ॥”
इति । नित्योऽविनाशी । व्यापकः सर्वगतः । तथाचाह
कोहलः —
“ऊर्ध्वनाडीप्रयत्नेन सर्वभित्तिनिघट्टनात् ।
मूर्च्छितो ध्वनिरा मूर्ध्नः स्वरोऽसौ व्यापकः परः ॥”
ननु षड्जादीनां कथं स्वरत्वं व्यञ्जनत्वात् । यदि व्यञ्ज-
नानां स्वरत्वमभिधीयते, तदानीं कादीनामेवास्तु स्वरत्वम् ।
अत्रोच्यते । असाधारणत्वात् षड्जादीनामेव स्वरत्वं न कादी-
नामिति । ननु षड्जादीनामसाधारणत्वं कथम् । आप्तोप-
देशात् षड्जादीनामसाधारणत्वम् । तथाचाह कोहलः,
महेश्वरः —