सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 6, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 6

निवेदना ।
—————
श्रीमतङ्गमुनिविरचितोऽयं सङ्गीतविषयो ग्रन्थो बृहद्देशी नाम ।
“मतङ्गस्य वचः श्रुत्वा नारदो मुनिरब्रवीत् ।”
(पृ० १. श्लो० २)
“श्रीमत्तङ्गमुनिः प्राह मुनीनुद्दिश्य तद्यथा ।”
(पृ० १४१. श्लो० ३७७)
इति भागाभ्यां श्रीमत्तङ्गेन नारदादीनुद्दिश्य निबद्धोऽयं प्रतिभाति । 'इति
मतङ्गमुनिविरचितबृहद्देश्यां प्रबन्धाध्यायः षष्ठः' इत्यादिषु तत्र तत्र परि-
समाप्तौ दृश्यमानो भागोऽस्य मतङ्गमुनिप्रणीतत्वं प्रकटयति । अस्य मतङ्गमुने-
र्जीवितसमयादिकं प्रति विशिष्य न किमप्यवगम्यते ।
परन्तु महाकविश्रीकालिदासकृते रघुवंशे —
“मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥
[