सामग्री पर जाएँ
सर्वकोश
बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

पृष्ठ 10, कुल 175 में से

संदर्भ में पढ़ें
पृष्ठ 10

२ बृहद्देशीयां
पदवाक्यस्वरूपेण वाक्यार्थवहनेन यत् ।
*वर्णा यत्र (?) जगत् सर्वं तेन वर्णाः प्रकीर्तिताः ॥ ८ ॥
वर्णपूर्वकमेतद्धि पदं ज्ञेयं सदा बुधैः ।
पदैस्तु निर्मितं वाक्यं क्रियाकारकसंयुतम् ॥ ९ ॥
ततो वाक्यान्महावाक्यं वेदाः साङ्गा ह्यनुक्रमात् ।
व्यक्तास्ते ध्वनितः सर्वे ततो गान्धर्वसम्भवः ॥ १० ॥
ध्वनिर्योनिः परा ज्ञेया ध्वनिः सर्वस्य कारणम् ।
आक्रान्तं ध्वनिना सर्वं जगत् स्थावरजङ्गमम् ॥ ११ ॥
ध्वनिस्तु द्विविधः प्रोक्तो व्यक्ताव्यक्तविभागतः ।
वर्णोपलम्भनाद् व्यक्तो देशीमुखमुपागतः ॥ १२ ॥
इति देश्युत्पत्तिप्रकरणम् ।
अबलाबालगोपालैः क्षितिपालैर्निजेच्छया ।
गीयते सानुरागेण स्वदेशे देशिरुच्यते ॥ १३ ॥
निबद्धश्चानिबद्धश्च मार्गोऽयं द्विविधो मतः ।
आलापादि(१)निबन्धो यः स च मार्गः प्रकीर्तितः ॥१४॥
एवम्प्रकारो देशी यः ज्ञातव्या गीतकोविदैः ।
एवमेतन्मया प्रोक्तं देश्या उत्पत्तिलक्षणम् ॥ १५ ॥
इति देशीलक्षणम् ।
इदानीं सम्प्रवक्ष्यामि नादलक्षणमुत्तमम् ।
न नादेन विना गीतं न नादेन विना स्वराः ॥ १६ ॥
१., २. 'न्म', ३. 'गु' स. पाठः.

  • 'वर्णयन्ति' इति पाठः स्यात् ।