बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)
The Brihaddeshi of Sri Matanga Muni
मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा
पृष्ठ 9, कुल 175 में से
संदर्भ में पढ़ें॥ श्रीः ॥
श्रीमत्तङ्गमुनिप्रणीता ,
बृहद्देशी !
――――
*...........................................................................
...........................................................................
नानाविधेपु देशेषु जन्तूनां सुखदो भवेत् ।
ततः प्रभृति लोकानां नरेन्द्राणां यदृच्छया ॥ १ ॥
देशे देशे प्रवृत्तोऽसौ ध्वनिर्देशीति संज्ञितः ।
मतङ्गस्य वचः श्रुत्वा नारदो मुनिरब्रवीत् ॥ २ ॥
ननु ध्वनेस्तु देशीत्वं कथं जातं महामुने ! ।
अमूर्तत्वाच्च तेषां हि इति मे वक्तुमर्हसि ॥ ३ ॥
मतङ्ग उवाच —
यथानुभूतदेशाच्च ध्वनेः स्थानानुगादपि ।
ततो विन्दुस्ततो नादस्ततो मात्रास्त्वनुक्रमात् ॥ ४ ॥
वर्णास्तु मात्रकोद्भूता मात्रका द्विविधा मताः ।
स्वरव्यञ्जनरूपेण जगज्ज्योतिरिहोच्यते ॥ ५ ॥
स्व(र्यु ? र्य)ते देशभाषायामादिक्षान्तं यथाविधि ।
तेन स्वराः समाख्याता अन्ये षड्जादयः स्वराः ॥ ६॥
व्यञ्जनत्वं तु सर्व्वेषां कादिवर्गेपु संस्थितम् ।
शक्त्यभिव्यक्तिमात्रेण व्यञ्जनं शिवतां गतम् ॥ ७ ॥
――――――――――――――――――――――――――――――――――――――――
- आदर्शे प्रथमं पत्रं लुप्तम् ।
G. R. T. 11. 500. 17-2-192... R.