सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 293, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 293
  • २८० -
    साक्षाच्छ्रीसहजाकान्तं पादपङ्कजकोमलम् ।
    दूरादेव प्रभुं दृष्ट्वा साष्टाङ्गं प्रणनाम ह ॥ ४३ ॥
    तुष्टाव चाञ्जलिं बद्ध्वा भक्त्या नमितमस्तकः ॥ ४४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
    द्वितीयोऽध्यायः ॥ २ ॥
    ✤
    तृतीयोऽध्यायः
    काल उवाच
    त्वमादिकालः पुरुषः पुराणो ममापि कालः स्वजनैकबन्धो ।
    अहं ग्रसामि त्रिजगत्समस्तं त्वां यः प्रपन्नस्तमृते विचक्षणम् ॥ १ ॥
    नतोऽस्मि ते नाथ पदारविन्दं न यत्प्रपद्याश्वशुभं लभन्ते ।
    भयं मदीयं विषहं दुरन्तं पादावधिस्तम्बमुपात्तविक्रयम् ॥ २ ॥
    तवाज्ञया नाथ शशिनं कुवेरं ब्रह्माणमुच्चैरधरेऽप्यनन्तम् ।
    हरामि वेगेन निजेन दुर्धरो महानदीपूरजवातिगामी ॥ ३ ॥
    कृत्यं ममैतद्विहितं त्वयैव यद्भूतमात्रग्रसनं जवेन ।
    न मां निरोद्धुं प्रभवन्ति केचिन्महामुनीन्द्रा अपि योगसिद्धाः ॥ ४ ॥
    दुर्वारवेगोऽस्मि तवाज्ञया प्रभो त्वदीहितं संघटयामि नित्यम् ।
    भिन्दामि शैलान् प्रहरामि वज्रं हरामि लोहालयमध्यगानपि ॥ ५ ॥
    भवत्कृपा यत्र च राम तं जनं विहाय दूरे विचरामि भीतवत् ।
    न यत्र माया प्रभवेद् दुरत्यया कथं नु तत्र प्रभवामि वर्तितुम् ॥ ६ ॥
    त्वमेक ईशोऽसि ममाप्यधीश्वर ब्रह्मादयो मद्बशगाः समंततः ।
    तमीशितारं मम विष्टपानां गच्छामि त्वां नाथ शरणं शरण्यम् ॥ ७ ॥
    किं तु प्रभो ब्रह्मशक्रादिभिः कृतां विज्ञप्तिमेकां विनिवेदयामि ।
    स्वेच्छा समग्रैकवशो भवांस्तथाप्यवितुमहौसि विभो रघूद्वह ॥ ८ ॥
    त्वं भूमिभारसंहृत्यै सम्प्राप्तोऽसि रघोः कुले ।
    रचितानि चरित्राणि लौकिकालौकिकानि च ॥ ९ ॥
    उद्धृताश्च निजा भक्ताः पादच्छायावलम्बिनः ।
    विपदो नाशितास्तेषां दृष्टराक्षसनाशनात् ॥ १० ॥
    देवानां च हितं यच्च यच्च वै मानुषं हितम् ।
    त्रैलोक्यस्य हितं यच्च तत्त्वया रचितं प्रभो ॥ ११ ॥