सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 295, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 295
  • २८२ -
    एते त्वयैवाधिकृताः सुरेश्वरा व्यर्थाधिकारा अभवन् समस्ताः ।
    सर्वं जगद् राम त्वयाभिपाल्यमानं सुखाम्भोनिधिमग्नमस्ति ॥ २८ ॥
    नित्योत्सवो नित्यमहोदयश्च नित्यं शुभं नित्यसुखं गृहे गृहे ।
    राज्यं भवे कुर्वति राघवेन्द्र त्वयि गृहाः सर्वसुखाय चाभवन् ॥ २९ ॥
    एवं कृत्वा जगत्सर्वं मङ्गलायतनं प्रभो ।
    अभ्युपेहि परं दिव्यं स्वंधाम त्रिगुणातिगम् ॥ ३० ॥
    न यत्र वाङ् नैव मनःप्रसारो न कालमायादिगुणप्रवेशः ।
    तदेव ते धाम प्रमुद्धनं हि लीलालयं दिव्यदिव्यं परात्परम् ॥ ३१ ॥
    नित्यरासविलासाय सरयूपुलिनस्थितम् ।
    ब्रह्मशक्रादयो देवा ईक्षन्ते बहुभाग्यतः ॥ ३२ ॥
    इति विज्ञापितो नाथ ब्रह्मणा लोकभर्त्तृणा ।
    तन्निशम्य यथा स्वेच्छं क्रियतां कोविदेश्वर ॥ ३३ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
    तृतीयोऽध्यायः ॥ ३ ॥
    🞽
    चतुर्थोऽध्यायः
    श्रीराम उवाच
    एवमेतत्त्वया काल यथोक्तं ब्रह्मणो वचः ।
    सम्पादितं मया कार्यं देवानां च तथा नृणाम् ॥ १ ॥
    नाधुना मम कर्त्तव्यं त्रिषु लोकेषु विद्यते ।
    उज्जासिता यद्रिपवो महान्तो राक्षसाधिपाः ॥ २ ॥
    तथापि ब्रह्मणो वाच्यं त्वया मद्वचनादिदम् ।
    कालमायातिगां लीलां कथं तौ वर्जयिष्यतः ॥ ३ ॥
    किं चतुर्दश लक्ष्याणि किमायुर्ब्रह्मणोऽपि च ।
    किं कल्पाः कोटिकल्पाश्च पुरुषश्चायुरेव च ॥ ४ ॥
    किं कार्त्स्न्य च माहात्म्यं किं कालकलनापि च ।
    न मे भवेत्परिच्छेदो ब्रह्मकल्पशतैरपि ॥ ५ ॥
    कथं त्वया ज्ञातमिदं विरञ्चे चतुर्दश प्रययुर्वर्षपूगाः ।
    भवादृशाः कोटिविरञ्चयोगता विक्रीडतो मे सहजं प्रमुद्धने ॥ ६ ॥