भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 294, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 294
- २८१ -
ज्यास्फालनेन धनुषो वीरेन्द्रेण त्वया जिताः ।
सुबाहुमारीचमुखा राक्षसा अतिमायिनः ॥ १२ ॥
बहुबाहुप्रहरणा बहुयुद्धविशारदाः ।
बहुमायाविनो धूर्ता रात्रियुद्धेषु कोविदाः ॥ १३ ॥
उल्कामुखा अग्निमुखा विकटाङ्गा विलोचनाः ।
करालदर्शना घोरा भूतसैन्यसहायकाः ॥ १४ ॥
रुद्रदत्तवरास्तीव्रास्तीव्रप्रहरणास्तथा ।
ईदृग्विधाः सुसंरब्धास्त्वया दैत्या निवारिताः ॥ १५ ॥
ते चापि रिपवो राम त्वया स्वात्मनि वेशिताः ।
मोचिता घोरसंसारक्लेशाद्द्रुक्तपदं गताः ॥ १६ ॥
इदमद्भुतमाहात्म्यं तव राम निशामय ।
राक्षसा अपि यन्मुक्तिं गमिताः स्वपदाङ्किताम् ॥ १७ ॥
किं तु भक्ताः स्वपादाब्जसेवकाः साधुवर्त्मगाः ।
मोचिता भवदुःखेभ्यो नाथेनामिततेजसा ॥ १८ ॥
अतः परं प्रभो श्रीमन् विश्वस्याभ्युदयोऽभवत् ।
तवैव कृपया नाथ राम सुभगवर्मणः ॥ १९ ॥
न ते योनिं विदुर्देवा न मर्त्या नापि ये परे ।
त्वमेकान्तस्वधाम्न्येव रममाणोऽसि नित्यशः ॥ २० ॥
न ते गुणांस्तथा कर्माण्यन्याचरितान्यपि ।
विदन्ति ते सूक्ष्मदृशो ये मायां कालमत्यगुः ॥ २१ ॥
त्वमेव स्वात्मनः स्थानं जानासि रघुनन्दन ।
न ते व्यक्तिः कापि भवे दृश्यते भूतलेऽपि वा ॥ २२ ॥
त्वं सूर्यस्त्वं शशाङ्कश्च त्वं सर्वे ग्रहतारकाः ।
जङ्गमं स्थावरं चापि त्वमेव रघुपुङ्गव ॥ २३ ॥
स्वच्छन्दं क्रीडतो नाथ तव लीलारसात्मनः ।
बहूनि कोटिवर्षाणि व्यतीतानि रमापते ॥ २४ ॥
रुद्धो यमपुरीमार्गस्त्वयि जाग्रति भूतले ।
विधेश्च सृष्टिवैषम्यसामर्थ्यं प्रविलोपितम् ॥ २५ ॥
सर्वे मनुष्याः सुखिनः सर्वे भाग्येन पूरिताः ।
सर्वे पूर्णायुषो राम सर्वे स्वेच्छैकमृत्यवः ॥ २६ ॥
यत्र यत्र पदाम्भोजस्पर्शो जातस्तव प्रभो ।
तत्र तत्र न पश्यामि दौर्भाग्यमपि दुर्गतिम् ॥ २७ ॥
३६