सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 285, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 285
  • २७१-
    कैशोरमारभ्य रघूत्तमस्य संशृण्वती साथ गुणान् मनोज्ञान् ।
    रोमाञ्चसंदोहचिताङ्गयष्टिः प्रकम्पमाना ददृशे सखीभिः ॥ २४ ॥
    नवं प्रमोदप्रचुरं वयः सा कैशोरमासाद्य विराजमाना ।
    अत्यर्थमादौ सुरभेर्बभूव सपल्लवा काञ्चनवल्लरीव ॥ २५ ॥
    अथास्याश्चरितं वक्ष्ये मुक्तिदानक्रियात्मकम् ।
    ये जीवा वेदशास्त्राणां निन्दका गुरुनिन्दकाः ॥ २६ ॥
    अभ्यागतार्चारहिताः शुद्धकायाश्च पुण्यतः ।
    ते जीवा जानकीजन्मत्युत्पन्नाः कर्मयोगतः ॥ २७ ॥
    वृक्षगुल्मलताुरूपाः पशुपक्ष्यादिरूपिणः ।
    तद्वीक्षणक्षणेनैव धूतपापकदम्बकाः ॥ २८ ॥
    जीवन्मुक्ता बभूवुर्वै येषां मुक्तिश्च नान्यतः ।
    ये जीवाः कामिकाश्चैव यज्ञकर्मपरायणाः ॥ २९ ॥
    शुद्धान्वयोद्भूवा दैवाद्योध्यारामनिन्दकाः ।
    सीमान्तः कर्मनिष्ठानां भक्तिनिष्ठाविदूषकाः ॥ ३० ॥
    सीतोपासननिन्दायां प्रसक्ता भवदूषकाः ।
    तेषामासुरनिष्ठानां जीवानां मूढचेतसाम् ॥ ३१ ॥
    सीताजन्मोद्भूवानां वै वृक्षगुल्मादिरूपिणाम् ।
    पशुपक्ष्यादिदेहानां विमुक्तिर्दर्शनात्तदा ॥ ३२ ॥
    रामेण मोचिता ये न ये न ज्ञानेन मोचिताः ।
    दृढपाशैः कर्मभिर्ये बद्धाः सांसारिकाः जनाः ॥ ३३ ॥
    सीता जन्मप्रसंगेन तांस्तारयति निश्चितम् ।
    इममर्थं पुरस्कृत्य प्रादुर्भूतेयमद्भुता ॥ ३४ ॥
    नान्यथा मोचनं तेषां जानक्या दर्शनं विना ।
    अयमेवानुभावोऽस्या आनन्दिन्याश्चिदाकृतेः ॥ ३५ ॥
    स्वरूपेणैव सामर्थ्यान्मोचयति चेतनान् ।
    दर्शनात् स्पर्शनाल्लापात्पादनिक्षेपणातथा ॥ ३६ ॥
    अङ्गसंगिनो वातात्तारिता बहवस्तया ।
    एतद्धि शैशवं कर्म तस्याः सामर्थ्यसंयुक्तम् ॥ ३७ ॥
    मूढभावानुकरणे मर्यादात्रयलङ्घिता ।
    मूढभावं समुत्तीर्य कैशोरे सा व्यवस्थिता ॥ ३८ ॥
    मुनीनां ज्ञानिनां चित्ते योगिनां च विशेषतः ।
    निजदर्शनमात्रेण प्रेमाणं साव्यवर्घयत् ॥ ३९ ॥
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या) · पृष्ठ 285, कुल 423 में से · SarvaKosh