भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- २०७ -
नासत्यवाङ् नालसश्च नावर्णाश्रमपालकः ।
नाशूरो नापि दुष्टात्मा न शठो नाजितेन्द्रियः ॥ २८ ॥
स ऊढवान् महावंशां राज्ञी सुनयनाह्वयाम् ।
तया सह धरित्र्या च मुमुदे राजपुङ्गवः ॥ २९ ॥
राज्ञी सुनयना देवी महालक्ष्मीप्रपूजने ।
अविच्छिन्नमतीर्जाता भर्त्रा सह नृपेण च ॥ ३० ॥
प्रसन्ना श्रीः स्वयं साक्षाच्चतुर्धा तद्गृहेऽभवत् ।
स्वयं श्रीस्सहजादेवी ह्येषा जाता स्वरूपतः ॥ ३१ ॥
सा सीतेति समाख्याता द्वितीया चोर्मिलाभवत् ।
तृतीया माण्डवीत्याख्या श्रुतकीर्तिश्चतुर्थिका ॥ ३२ ॥
एवं दशरथगेहे जातो रामचन्द्रः स्वयम् ।
त्रिभिर्वैर्लक्ष्मणाद्यैरंशैश्च कार्यविधित्सया ॥ ३३ ॥
अथो जनकराजस्य कन्यास्ता वयसान्विताः ।
जाताः स्वयंवरोद्युक्ता अप्राकृतगुणान्विताः ॥
अथ श्रीनारदोऽभ्येत्य प्रोवाच जनकं प्रति ॥ ३४ ॥
श्रीनारद उवाच
एतास्ते कन्यका राजन् साक्षाल्लक्ष्मीस्वरूपिणीः १ ।
अप्राकृतैरेव परैः पुरुषैः पुरुषर्षभैः ॥ ३५ ॥
ऊह्याः पाणिग्रहेणेति पणं कुरु महीपते ।
इत्युक्त्वा प्रगते स्वर्गं देवर्षौ नारदाभिधे ॥ ३६ ॥
पणं चक्रे स्वयं राजा कठिनं सुविचक्षणः ।
न्यस्तं मम गृहे साक्षाद्धनुः शम्भोर्दुरासदम् ॥ ३७ ॥
य एतद्रोपयेद्वीरः स एता उद्वहिष्यति ।
इति ढक्कारवं लोके वादयामास मैथिलः ॥ ३८ ॥
ततो देशाधिपाः सर्वे राजानः समुपागताः ।
पूर्वदक्षिणपाश्चात्या उत्तरत्रनिवासिनः ॥ ३९ ॥
स्वयंवरे तु सीताया जातः कोलाहलो महान् ।
आगच्छद्भिर्महीपालैर्नानादेशनिवासिभिः ॥ ४० ॥
महान्तं रवमाकर्ण्य मिथिलायां स्वयंवरे ।
महोत्सवं च भूपानां राजा दशरथोऽब्रवीत् ॥
रामं त्रिभुवनारामं गुणरत्नमहाकरम् ॥ ४१ ॥
१. आर्षप्रयोगः ।
– २०८ –
राजोवाच
उपस्थितोऽयं सुमहानुत्सवो मिथिलापुरे ।
वीरस्वयंवरोत्साहे सीतायाः सुमनोहरे ॥ ४२ ॥
यूयं रविकुलोद्भूता रघुवंश्याः कुमारकाः ।
कथं न गच्छत परं तत्र सीतास्वयंवरे ॥ ४३ ॥
वीरकृत्यमिदं तावज्जगत्यां पर्युपस्थितम् ।
शिवचापारोपणाय जनकेन कृतः पणः ॥ ४४ ॥
मैथिली तत्र लाभो वै जनकेन्द्रसुता परा ।
श्रूयते सहजा देवी चतुर्धाजनि तद्गृहे ॥ ४५ ॥
ब्रह्मादीनां सुरेन्द्राणां मुखेभ्यो यन्मया श्रुतम् ।
चतुर्धा श्रीःस्वयं जाता जनकेन्द्रस्य वेश्मनि ॥ ४६ ॥
चतुर्धा मद्गृहेऽप्यद्धा जातो रामचन्द्रः स्वयम् ।
भवानेकः स्वयं रामस्त्रयोऽमी लक्ष्मणादयः ॥ ४७ ॥
एतद्युक्ततमं मन्ये विधिनैवोपपादितम् ।
मन्ये जातमिदं कार्यं रघुवंशसुमङ्गलम् ॥ ४८ ॥
अत्र प्रयत्ननीयं वै भवद्भिः कृतनिश्चयैः ।
एवंविधे वै विषये शूराणां सुमहोत्सवः ॥ ४९ ॥
तत्र गत्वा समारोप्यहरकार्मुकमुत्तमम् ।
कण्ठे निक्षेपय श्रीमन् सीतास्वयंवरस्रजम् ॥ ५० ॥
इत्थं नृपतिना रामस्तत्क्षणे प्रतिबोधितः ।
अङ्गीचकार सहसा मुखदाक्षिण्यमात्रतः ॥ ५१ ॥
किन्तु संस्मार तां नित्यां स्वात्मशक्तिमनन्यधीः ।
प्रमोदवनलीलानामीश्वरी सहजेश्वरीम् ॥ ५२ ॥
इयं वृत्तं समाकर्ण्य सा मे किं नु वदिष्यति ।
तस्याः कटाक्षवशगो वेपामि स्वात्मना ह्यहम् ॥ ५३ ॥
हृदये मम सा नित्यं वसत्येव न संशयः ।
अद्य प्रमोदविपिने सा मे किं नु करिष्यति ॥ ५४ ॥
इति चिन्तासमाविष्टो न सुष्वाप दिवानिशम् ।
अन्येद्युः सरयूपारे स्वरहस्यस्थली प्रति ॥ ५५ ॥
जगाम यत्र सहजां नित्यं रमयति स्वयम् ।
एतद्धि वृत्तं रामस्य नायोध्यावासिभिर्जनैः ॥ ५६ ॥
ज्ञायते सखिभिश्चापि ऋते श्रीलक्ष्मणं प्रभुम् ।
तत्रासौ रममाणोऽपि दृष्टः सहजया स्फुटम् ॥ ५७ ॥
- २०९ -
उद्विग्न इव चित्तेन पितुराज्ञां स्मरन् मुहुः।
तदा सहजया प्रोक्तः सविलासमुदारया ॥ ५८ ॥
उद्विग्न इवहे कान्त लक्ष्यसेऽद्य कुतो मया।
आविष्ट इव शोकेन केनापिधर्षितो यथा ॥ ५९ ॥
एतद्ध्यनुचितं भर्तुः स्वतन्त्रेच्छस्य ते प्रभोः।
एतन्मूलमहं नाथ पृच्छामि त्वां विशेषतः ॥ ६० ॥
श्रीराम उवाच
अहं त्वद्वशगो नित्यं सहजानन्दिनीश्वरि।
सीतास्वयंवरं गन्तुमुक्तः पित्रा न संशयः ॥ ६१ ॥
आवयोश्च रहःप्रेमज्ञायते नेतरैर्जनैः।
प्राकृतैर्लोकधर्मज्ञैप्राकृतमनुत्तमम् ॥ ६२ ॥
अतोऽहमुन्मना वृत्तः पितुराज्ञानपायिनी।
अनपायि च ते प्रेम कथमन्यां समुद्वहे ॥ ६३ ॥
स्वप्नेऽपि नेतरां जाने त्वां विना सहजेश्वरी।
पाशारज्जु रुभयतः पतिता मे न संशयः ॥ ६४ ॥
इति श्रुत्वा प्रियवचः सहजा प्रत्युवाच तम्।
ईषत्स्मितरुचिज्योत्स्नादीपिताक्रीडमण्डपा ॥ ६५ ॥
श्रीसहजोवाच
जनकस्य गृहे साक्षादहमेवाजनि प्रभो।
कर्तुं बहुतरा लीलास्त्वया साकं रघूद्वह ॥ ६६ ॥
त्वं चेत्प्रमोदविपिनादवतीर्णो रघोः कुले।
अवतीर्णाहमपि वै निमिचन्द्रकुले तदा ॥ ६७ ॥
उपासकः स मे राजा महिष्या सह योगवित्।
पुत्रीभावमतः प्राप्ता चतुर्धा तद्गृहेस्म्यहम् ॥ ६८ ॥
प्रथमां तु भवान् वोढा द्वितीयां लक्ष्मणः स्वयम्।
तृतीयां भरतः श्रीमांश्चतुर्थीं शत्रुसूदनः ॥ ६९ ॥
इत्येवमात्मनोंऽशैस्त्वं चतुर्भिर्भूरिविक्रमैः।
कर्ता पाणिग्रहं नाथ तन्ममैव सुमङ्गलम् ॥ ७० ॥
न जातु कश्चिदन्यस्तां वोढा सीतां स्वयं श्रियम्।
अवतीर्णा विलासार्थं मदभिन्नस्वरूपिणीम् ॥ ७१ ॥
- २१० -
स वै राजा निमेर्वंश्यो ज्ञान निष्ठो दृढव्रतः ।
योगी ब्रह्मविदां श्रेष्ठो भक्तिकामो बभूव ह ॥ ७२ ॥
तस्य भक्तिकलां पूर्णां कर्तुं प्रमुदकाननात् ।
अवतीर्णा स्वयंमहं स्वांशेनैव स्वरूपतः ॥ ७३ ॥
इति विज्ञायभगवन् सीतामुद्वह निश्चितम् ।
रमयिष्याम्यहं तेन स्वरूपेण सदा प्रिय ॥ ७४ ॥
प्रमोदकानने चाहं स्वरूपेण व्यवस्थिता ।
स्वयं श्रीसहजानाम्ना रासलीलारतास्मि च ॥ ७५ ॥
रामचन्द्ररसिकेन नित्यं साकेतगास्मि च ।
इति निश्चित्य मां कान्त सर्वत्र त्वत्स्वरूपगाम् ॥ ७६ ॥
लीलां विस्तारय स्वैरं न वै शङ्कितुमर्हसि ।
इत्थं प्रबोधितो रामो लीलामध्ये स्वयं श्रिया ॥ ७७ ॥
सीतासमुद्वाहविधौशङ्का तत्याज राघवः ।
ततः साकेतनगरे स मागत्य स्वयं प्रभुः ॥ ७८ ॥
सोत्कण्ठोऽतितरां जातो जानक्यास्तत्स्वयंवरे ।
अथाजगाम राजर्षिर्विश्वामित्रो महातपाः ॥ ७९ ॥
श्रीरामं यज्ञरक्षायै नेतुं स्वाश्रमकाननम् ।
स विज्ञाप्य महाराजं स्तुत्या दशरथं मुनिः ॥ ८० ॥
निन्ये सलक्ष्मणं राम स्वाश्रमयज्ञवाटिकाम् ।
रामं स शिक्षयामास विद्यां शस्त्रास्त्रगोचराम् ॥ ८१ ॥
धनुर्वेदं सहोपाङ्ग सरहस्यं समन्त्रकम् ।
सप्रयोगं ससंहारं सक्रमं समशिक्षयत् ॥ ८२ ॥
वायव्यं वारुणं दिव्यमाग्नेयं रौद्रमेव च ।
ब्राह्म्यं नारायणं चास्त्रं सर्वमेवोपपादयत् ॥ ८३ ॥
तमाचार्यमनुप्राप्य स्वयं रामः सलक्ष्मणः ।
वीरः शस्त्रास्त्रविद्यानां पारगामी बभूव सः ॥ ८४ ॥
एवं शिक्षितसर्वास्त्रं राममक्षुण्णविक्रमम् ।
नियोज्य यज्ञरक्षायै यज्ञौघान् समपूरयत् ॥ ८५ ॥
स जघान मखे विघ्नान् दैत्यरूपान् दुरासदान् ।
महोद्धतान् सुविक्रान्तान् दैत्यमायाविशारदान् ॥ ८६ ॥
तान् घातयित्वा गाधेयोरामेण धन्वपाणिना ।
इष्ट्वा बहुविधैर्यज्ञैः कृतकार्यो बभूव ह ॥ ८७ ॥
सा निन्ये मिथिलां रामं सीतावीरस्वयंवरे।
जनकस्यालयो यत्र विभाति श्रीमरोन्नतः॥ ८८॥
विलोक्य मिथिलालक्ष्मीं मुमुदेह सहलक्ष्मणः।
रामः स्वयं तदा जज्ञौ रमाया नित्यसंनिधिम्॥ ८९॥
पद्मोत्पलसुगन्धीनि सरांसि विपिनानि च।
गुञ्जद्भ्रमरजुष्टानि पुष्पितद्रुमभाञ्जि च॥ ९०॥
राजमार्गा विपणयः प्रासादा धनिनां गृहाः।
स्वर्णमाणिक्यरत्नौघनिर्मिता गृहदीर्घिकाः॥ ९१॥
मदोद्धताश्च मातंगारणद्धण्टानिनादिनः।
शिक्षकैः सुविनीताश्च हया नाट्यविनोदिनः॥ ९२॥
इत्यादि श्रीभरैर्नद्धा मनोमोदविधायिनी।
नैम्यस्य शुशुभेऽत्यर्थं राजधानी दिवानिशम्॥ ९३॥
मुमुदाते च तां वीक्ष्य भ्रातरौ रामलक्ष्मणौ।
गाधिसूनुमनुश्रुत्य जनकः पुरमागतम्॥ ९४॥
अग्रहीदभिसंगम्य पदानि खलु भूरिशः।
वने चोपवने पुर्यां राजमार्गेषु वेश्मषु॥ ९५॥
सीतास्वयंवरोत्साहो मूर्तिमान् समदृश्यत।
नवापि निधपस्तत्रे मूर्तिमन्तः सुसंगताः॥ ९६॥
त्रैलोक्ये वितता लक्ष्मोरेकत्रैव व्यदृश्यत।
तत्तत्कुतूहलं राजा गाधेयाय प्रदर्शयन्॥ ९७॥
प्रवेशयामास गृहं कुमारौ च सुलक्षणौ।
तौ विनीततमौ नत्या किशोरौ लोकमञ्जुलौ॥ ९८॥
चिर जीव तमित्यूचे मन्मनोरथपूर्तये।
इमौ रघुकुलोत्तंसौ राज्ञो दशरथस्य हि॥ ९९॥
कुमारौ नयनानन्दौ चतुर्णां द्वौ शिरोमणी।
इतोऽनुजौ यौ श्रीमन्तौ भरतारिनिषूदनौ॥ १००॥
१तावंलंकुरुते देशं यत्र राजा रघूद्वहः।
इमौ मन्मखरक्षायां प्रवीणौ सुधनुर्धरौ॥ १०१॥
आगतौ तव भाग्येन अस्मिन् वीरस्वयंवरे।
इत्युक्त्वा गाधितनयो याज्ञवल्क्यादिकान् मुनीन्॥ १०२॥
१. आर्षप्रयोगः।
- २१२ -
सभास्तारान् पृथङ्नत्वा विश्रान्तो जनकालये ।
जनको राममालोक्यनवेन्दीवरकोमलम् ॥ १०३ ॥
रुद्रचापसमारोपे संदिहान इवाभवत् ।
रामः प्रदर्शयामास माधुर्यं स्वस्वरूपगम् ॥ १०४ ॥
जनकाय नरेन्द्राय लोकोत्तरगुणाकरः ।
स तस्य रूपमाधुर्यं सौन्दर्यगुणशीलताम् ॥ १०५ ॥
वीक्ष्य मेने स्वकन्याया योग्यं वरमनुत्तमम् ।
तावद्रामो गुरोराज्ञां गाधेयस्य महामुनेः ॥ १०६ ॥
अनुप्राप्य धनुःशम्भोरारोपयितुमुद्यतः ।
यावदारोपयेद् धन्वा तावद्बाहुबलोर्जितः ॥ १०७ ॥
बभञ्ज रघुशार्दूलश्चण्डीपतिशरासनम् ।
तस्य सम्भज्यमानस्य धनुषो विकटारवः ॥ १०८ ॥
दिक्कुंजराणां कर्णेषु विश्रान्तोऽतिभयानकः ।
शब्दव्याकुलिते लोके उत्पात इव चाभवत् ॥ १०९ ॥
सीतारामवरप्राप्त्या मङ्गलं चाभवत्पुनः ।
ततः सीता सखी वृन्दमध्यगा हर्षनिर्भरा ॥ ११० ॥
अवृणोद् रामभर्तारं कण्ठे जाम्बूनदस्रजा ।
यावन्तो वसुधापाला महाराजन्यपुङ्गवाः ॥ १११ ॥
समंताज्जनकागारं बाणरावणपूर्वगाः ।
तावन्तोविफलायासा बभूवुः शिवधन्विनि ॥ ११२ ॥
अलम्भि चैव रामेण कन्याकीर्तिर्जयस्तथा ।
उवाह विधिवद् रामः सीतां सहपरिच्छदाम् ॥ ११३ ॥
दत्तां जनकराजेन पाणिग्रहणकर्मणा ।
तत्राभ्युपेतो राजेन्द्रो राजा दशरथः स्वयम् ॥ ११४ ॥
तनयौ सुसमादाय भरतारिनिषूदनौ ।
ततः प्रसन्नो जनकः कन्यास्तिस्रः सुलोचनाः ॥ ११५ ॥
प्रददौ लक्ष्मणादिभ्यो मनोवाञ्छानिराकुलः ।
एवं सम्प्राप्तसर्वार्थो बभूव जनको नृपः ॥ ११६ ॥
विवाहोत्सवयोग्यानि वसूनि बहु दत्तवान् ।
यथा कीर्ति जगुर्देवा औदार्यान्निभिभूपते ॥ ११७ ॥
भूतानि चैव भावीनि यावन्ति भुवनत्रये ।
विवाहोत्सवयोग्यानि वर्तमानानि चैव हि ॥ ११८ ॥
- २१३ -
सीताविवाहसौख्यस्य कलां नार्हन्ति षोडशीम् ।
देवा गन्धर्वपतयो नागाश्चैव नगास्तथा ॥ ११९ ॥
नरा नार्यश्च सौख्येन बभूवुः पूर्णमानसाः ।
राजा दशरथः पुत्रान् दौरैः संयोज्य सभ्रमी ॥ १२० ॥
बहुलक्ष्मीसमायुक्तः साकेतपुरमागमत् ।
धनुर्भङ्गरुषाक्रान्तं भार्गवं रामचन्द्रमाः ॥ १२१ ॥
हृत्वा स्वांशं शुद्धसत्त्वं नाभयामास जीववत् ।
तदद्भुततमं नास्ति पूर्णे श्रीपुरुषोत्तमे ॥ १२२ ॥
ज्योतींषि न प्रकाशन्ते यथाह्नि महसा पतौ ।
तथैवांशाः कलाश्चैव पूर्णे सर्वकलाश्रये ॥ १२३ ॥
सहजानन्दिनीनाथे स्वानुभावं न बिभ्रति ।
भूमितलं भूषयति रामे सर्वकलाश्रये ॥ १२४ ॥
श्रीमान् वैकुण्ठनाथोऽपि निष्प्रयोजनतां गतः ।
सर्वं प्रयोजनं चक्रे राम एव स्वयं प्रभुः ॥ १२५ ॥
स एवेन्द्रो यमश्चापि वरुणश्च कुबेरकः ।
ईशो ब्रह्मा रविश्चापि सर्वदेवमयोऽभवत् ॥ १२६ ॥
सर्वेषां कार्यमातेने स्वयमेव रघूद्वहः ।
सर्वसत्तामयी सत्ता राम एव प्रतिष्ठिता ॥ १२७ ॥
एवं नित्यश्रिया साक्षात् सीतयासहितः प्रभुः ।
आजगाम स्वबन्धूनामानन्दं जनयन् पुरीम् ॥ १२८ ॥
राजा महामनाश्चक्रे महान्तं भृशमुत्सवम् ।
गृहप्रवेशसमये वरबध्वोः मुभावहम् ॥ १२९ ॥
सिद्धगन्धर्ववर्यैभ्यश्चारणेभ्यः समंततः ।
नर्तकेभ्यो गायकेभ्यो धनं बहुतरं ददौ ॥ १३० ॥
महाशया महाराज्ञी कौसल्या विहितोत्सवा ।
केकयो च सुमित्रा च पुत्रोद्वाहमहोत्सवे ॥ १३१ ॥
पुरन्ध्रीभ्योऽथ बन्धुभ्यः संगताभ्यः समंततः ।
परमानन्दमातेने वासोभूषणभोजनैः ॥ १३२ ॥
आशिषस्ताः स्त्रियः साध्व्यः प्रायुञ्जन् गुणवत्तरा ।
प्रसन्नचित्ताः प्रययुः स्वानि स्वानि गृहाणि च ॥ १३३ ॥
चतुर्लक्ष्मीस्वरूपा सा रेजे जनकनन्दिनी ।
नवोद्वाहमहोत्साहमहामाङ्गल्यभूषिता ॥ १३४ ॥
- २१४ -
चत्वारो भ्रातरस्ताभिः श्रीभिः शोभान्विता बभुः ।
यथा कल्पद्रुमवराः कल्पवल्लीभिरन्विताः ॥ १३५ ॥
जगदानन्दनिधयः कल्याणगुणभूषिताः ।
अलंचक्रुः पितुर्गेहान् श्रीरामाद्याः स्वरूपतः ॥ १३६ ॥
तास्वागतासु लक्ष्मीषु साकेतनगरी भृशम् ।
रराजारण्यराजीव१ वसन्तसमयश्रिया ॥ १३७ ॥
द्यौरिवेन्दुरुचा रेजे राज्यलक्ष्मीर्महीपतेः ।
सर्वसम्पन्मयं सद्म राज्यलक्ष्म्या न तादृशम् ॥ १३८ ॥
यादृशं शुशुभे ताभिः साक्षालक्ष्मीभिरन्वितम् ।
ततो दिनेषु गच्छत्सु सर्वसाम्राज्यसम्पदि ॥ १३९ ॥
यौवराज्यपदे रामं स्थापयामास भूपतिः ।
समेतो भ्रातृभिः सर्वैर्युवराजपदे स्थितः ॥ १४० ॥
पितुः सर्वं राज्यधुरमवहज्जानकीपतिः ।
सर्वाः प्रजामुमुदिरे सर्वर्द्धिफलसंयुताः ॥ १४१ ॥
यौवराज्यस्थितेरामे नवीना श्रीरवर्तत ।
त्रैलोक्यमवहद्दोर्मि विभूतिं परमां श्रियम् ॥ १४२ ॥
सीतादृष्टिप्रसादेन बभौ सर्वत्र मङ्गलम् ।
यावती श्रीस्त्रिजगति सर्ववस्तुसमाश्रया ॥ १४३ ॥
एकत्र संस्थिता दृष्टा साकेतनगरे तु सा ।
वर्षपूगे ततो जाते रामे रञ्जयति प्रजाः ॥ १४४ ॥
वाञ्छा दशरथस्याभून्निजराज्याभिषेचने ।
ईदृशी महिषी भाग्यैर्लब्धा सीतास्तियादृशी ॥ १४५ ॥
त्रैलोक्यस्यैव भाग्येन रामो राजा भवेदिति ।
अथैकान्ते समासाद्य रामं राजीवलोचनम् ॥
उवाच वचनं प्रीतो राजा दशरथः स्वयम् ॥ १४६ ॥
राजोवाच
राम राम महाबाहो पितृपैतामहीं धुरम् ।
राज्यं श्रियं च परमां त्वं पालयितुमर्हसि ॥ १४७ ॥
प्रजानामेव भाग्येन दत्तस्त्वं वेधसा मम ।
न हीदृशोरघोर्वंशे भूतो वाथ भविष्यति ॥ १४८ ॥
१. ᵒरण्यानीव-बड़ौ० ।
- २१५ -
सर्वे गुणास्त्वयि प्राप्ताः स्वत एव समुन्नतिम् ।
श्रियं च परमां प्राप्तुमसाधारण्यमेव च ॥ १४९ ॥
नेत्रानन्दसमूहाय प्रजानां भुवनत्रये ।
महामाङ्गल्यसंधाय त्वं हि राजा भविष्यति ॥ १५० ॥
अतस्त्वामभिषेक्ष्यामि राज्येपैतामहेऽतुले ।
यौवराज्य एव भवान् सर्वां भूमिरञ्जयत् ॥ १५१ ॥
भाग्येन चैव सौभाग्यैः प्रजेशस्त्वं भविष्यसि ।
युक्ताङ्गैर्भ्रातृभिः सार्द्धं कृत्स्नं पाहि महीतलम् ॥ १५२ ॥
अहं स्वात्मरतिं राम त्वदार्थं परिसाधये ।
भवादृशे वंशधुर्येसुमग्नो रूपसागरे ॥ १५३ ॥
अहो भाग्यं सदास्माकं रघोर्वशमुपेयुषां ।
यद्ब्राह्मेऽर्केऽपि सुखैर्वे गृहे स्वात्मजदर्शनम् ॥ १५४ ॥
इत्युक्तः प्रीतियुक्तेन राज्ञा दशरथेन सः ।
उवाच वदतां वर्यो रामः सुमधुरं वचः ॥ १५५ ॥
श्रीराम उवाच
वयं सनाथा भवता राजराजेन भूभृता ।
जननीमेव पश्येम महीमेतां महीपते ॥ १५६ ॥
तव प्रसादान्नृपते यौवराज्ये स्थितोऽस्म्यहम् ।
रञ्जयाम्येष जगतीं किं मे राज्यं ततोऽधिकम् ॥ १५७ ॥
वयं राजकुमाराः स्म भवान् पालयतु क्षितिम् ।
इतोऽधिकं सुखं नास्ति राज्यं भारः परं मम ॥ १५८ ॥
इन्द्रं यमं तथैवापि वरुणं च धनाधिपम् ।
ईशानं चैव ब्रह्माणं तथान्यांल्लोकपालकान् ॥ १५९ ॥
यः स्यात् त्वदाज्ञारहितस्तमहं नामये क्षणात् ।
विक्रान्त्या त्वत्प्रसादाच्च शक्तोऽहं सर्वसाधने ॥ १६० ॥
भूयोऽश्वमेधं वितनु यज्ञान् कुरु सनातनान् ।
वर्षे वर्षे महाराजन् सुनु सोममुदारधीः ॥ १६१ ॥
पाहि प्रजा महीपाल विपद्भ्यः पुरुषाधिप ।
एवं नो वर्द्धय सुखं किं राज्येन ततोऽधिकम् ॥ १६२ ॥
इत्युक्तः स महीपालो रामेणाक्षुण्णबुद्धिना ।
शशास कानिचिद्वर्षाण्यवनी धर्मवित्तमः ॥ १६३ ॥
- २१६ -
ततो मुनीनामाज्ञातो देवेन्द्रस्य च धीमतः।
रामराज्याभिषेकाय मति चक्रे महिपतिः ॥ १६४॥
शुभे मुहूर्ते त्रिदशैः सकलै सुमोदितः।
श्वोभाविनोऽभिषेकस्य पूर्वं चक्रेऽधिवासनम् ॥
यदा सा केकयसुता सख्या मन्त्रं चकार ह ॥ १६५॥
केकय्युवाच
सखि जानामि रामोऽयं सर्वलोकैकरञ्जनः।
प्रियो ममात्यन्तमेव मत्पुत्राद्भरतादपि ॥ १६६ ॥
प्रजाश्चानुरताः सर्वाअस्मिन्नेव गुणालये।
माधुर्यं चापि सौन्दर्यं गाम्भीर्यं वीर्यमेव च ॥ १६७॥
औदार्यं सौकुमार्यं च सौशील्यं कान्तिरेव च।
रामे लोकोत्तरं सर्व पश्यामि जनरञ्जनम् ॥ १६८॥
मत्सुतो भरतोऽप्यस्य नित्याज्ञापरिपालकः।
अस्य भक्तिरसेनासौ किङ्करीकृतविग्रहः ॥ १६९॥
तृणवन्मन्यते सर्वं राज्यं स्वात्मानमेव वा।
तथापि चानुतप्येऽहं रामराज्याभिषेचने ॥ १७०॥
विना मत्तनयं कुर्यात् कौसल्यातनयः कथम्।
राज्यं सर्वस्य लोकस्य सपत्नीवृद्धिदुःखतः ॥ १७१॥
तत्प्रतीकारमसकृच्चिन्त्य चित्ते विचारये।
रामस्वभावमाधुर्यात्कि नु नोपलभे सखि ॥ १७२॥
इत्युक्ता केकयाधीशकन्यया सा प्रिया सखी।
स्मारयामास वै चित्ते वरं कालान्तरे वृतम् ॥ १७३॥
सख्युवाच
किं न स्मरसि वै राज्ञि यद्राज्ञाऽङ्गुलिपर्वणि।
वेदना महती जाता सद्यस्त्वं तामुपाचरः ॥ १७४॥
तदा राज्ञा वरो दत्तस्तुभ्यं केकयि दुर्लभः।
इदानीं सखि याचस्व समयोऽयमुपस्थितः ॥ १७५॥
राज्याभिषेकं भरते वने निर्वासनं तथा।
रामस्येति वचोबद्धं याचस्व नृपतिं हठात् ॥ १७६॥
इति संस्मारिता सख्या केकयी भरतप्रसूः।
तथैवायाचत नृपं वरं कालान्तरे वृतम् ॥ १७७॥
तृतीय खण्ड: विश्वामित्र आगमन, ताड़का-वध एवं धनुष-यज्ञ लीला
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
- २१७ -
नृपः सत्यवचोबद्धः श्रुत्वा तत्केकयीवचः ।
भृशमुद्वेजितोऽप्यासीत्तूष्णीं शून्य इवान्तरे ॥ १७८ ॥
दृष्ट्वा चिन्तातुरं भूपं रामः संतुष्टमानसः ।
तदभिप्रायमाज्ञाय राजानं सुसमादधौ ॥ १७९ ॥
श्रीराम उवाच
राजन् सत्यवचा भूपाः किं मे राज्येन भूयसा ।
गृहे वापि वने वापि तुल्यं प्रीतिसुखं मम ॥ १८० ॥
इत्येवं भूरिवाक्यौघैः संतोष्य नृपतिं हठात् ।
रामः प्रस्थातुमारेभे वनं भ्रात्रा स्त्रिया सह ॥ १८१ ॥
राज्ञो मातुश्चाप्रियं तत्सत्यवाक्स्थितिहेतवे ।
चकार भगवान् रामः सर्वत्र समदर्शनः ॥ १८२ ॥
राज्यं त्यक्त्वा पुराद्यातो वनं रामः सलक्ष्मणः ।
सीतया धर्मचारिण्या सहितो धर्मपालकः ॥ १८३ ॥
यावत्त्रिरात्रं ते चक्रुर्जलमात्राशनं वृतम् ।
चतुर्थे दिवसे प्राप्ते त्रयश्चक्रुः फलाशनम् ॥ १८४ ॥
पञ्चमे दिवसे गङ्गा समुत्तीर्य रघूद्वहः ।
चित्रकूटाचले वासं चक्रे परमधार्मिकः ॥ १८५ ॥
भ्रातुः समागमभयात् कुर्वन् सत्यां गिरं पितुः ।
ततः प्रतस्थौ भगवान् सीतालक्ष्मणसंयुतः ॥ १८६ ॥
पृष्ठबद्धमहातूणो धनुष्पाणिः कृपाणभृत् ।
महासौन्दर्यकलितो वनचारिभिरीक्षितः ॥ १८७ ॥
प्रविश्य घोरं विपिनं विराधाद्यान् प्रमर्दयन् ।
महापराक्रमो रामः प्राप्तः पंचवटीवनम् ॥ १८८ ॥
ततो गोदावरीतीरे रक्षन्नाश्रममण्डलान् ।
रक्षन् मुनींश्च दैत्येभ्यो रक्षोभ्यस्तत्र चावसत् ॥ १८९ ॥
सार्द्धद्वादशवर्षेषु व्यतीतेषु वनस्थितौ ।
रक्षोनाथस्य भगिनीं चक्रे विग्नां च विश्रुतिम् ॥ १९० ॥
तत्पृष्ठगान् राक्षसांश्च खरादीन् हतवान् सुधीः ।
क्षेमं च दण्डकारण्यं कृतवान् भुजवीर्यतः ॥ १९१ ॥
चिक्रीडे दण्डकारण्ये सीतया सहितः प्रभुः ।
लक्ष्मणं वनरक्षायां नियुज्य परमोत्सवी ॥ १९२ ॥
२८
- २१८ -
चक्रे रासविलासादीन् रामोगुप्ततया निशि ।
प्रमोदवनसामग्रीमाविर्भाव्य विशेषतः ॥ १९३ ॥
ततो दसमुखः क्रुद्धः श्रुत्वा शूर्पणखादशाम् ।
मानुषेणैव रामेण किमिदं समनुष्ठितम् ॥ १९४ ॥
इति संचिन्त्य सातङ्को बभूव रक्षसां प्रभुः ।
ततस्तस्य प्रतिकृतिं कर्तुं हर्तुं च तत्प्रियाम् ॥ १९५ ॥
मारीचेन समं यातो मायादीर्घरथस्थितः ।
माघशुक्लचतुर्दश्यां वीक्ष्य शून्यं तमाश्रमम् ॥ १९६ ॥
रावणस्तापसवपुर्भूत्वा भिक्षार्थमागतः ।
तं मायाविनमाज्ञाय सीता देवी मनस्विनी ॥ १९७ ॥
विवेश गार्हपत्याग्नौ रावणस्तमधर्षयत् ।
अग्निः सीतानुभावेन् भूत्वा संवर्तकाग्निवत् ॥ १९८ ॥
अतिमात्रं महागोरस्वरूपो भक्षितुं स्थितः ।
दग्धुमुद्यन्तममलं वीक्ष्य दुद्राव रावणः ॥ १९९ ॥
सीताच्छायां समादाय जगाम गगनाध्वना ।
सा राक्षसकुलं दग्धुं कृत्यारूपव्यवस्थिता ॥ २०० ॥
छायारूपा समुद्भूय गता लङ्कां निजेच्छया ।
अथ रामस्तु मारीचं हत्वा भायिनमासुरम् ॥ २०१ ॥
समुपेत्य ततो वीरौ वीक्ष्य शून्यं तमाश्रमम् ।
वायसैश्चैव कङ्कैश्च तीक्ष्णतुण्डैः समावृतम् ॥ २०२ ॥
विहीनं सीतया साध्वा शोकाविष्टौ बभूवतुः ।
मूर्च्छितः प्रापतद्रामो धरण्यां गतचेतनः ॥ २०३ ॥
पथ आनीय च ततो लक्ष्मणेन प्रबोधितः ।
भगवान् हेतुमनुजो रामः श्रीपुरुषोत्तमः ॥ २०४ ॥
अज्ञातचेष्टोमनुजैः प्राज्ञैरपि सुदुर्गमः ।
क्वचिज्ज्ञानी क्वचिन्मूढः क्वचिच्छोकसमावृतः ॥ २०५ ॥
तूणी सम्बध्य वाणौ च सज्जीकृत्य दृढं धनुः ।
सीतालोकाय बहुशो बभ्राम भ्रातृणा सह ॥ २०७ ॥
तरुंलताश्च गुल्मांश्च घनराजीन् वनस्पतीन् ।
पृच्छन् मूर्छन् मुहुर्वीरो बभ्रामबहुशोऽटवीम् ॥ २०७ ॥
दृष्टो जटायुरग्रे च कृतयुद्धोऽति रक्षसा ।
सीतार्थं रहितप्राणः कण्ठजीवः पितुः सुहृत् ॥ २०८ ॥
- २१९ -
ततो वृत्तं समाकर्ण्य प्रियाचौरस्य रक्षसः।
भ्रातृभ्यां विहितो दाहो मृतस्य वयसोऽस्य च ॥ २०९ ॥
चक्रे तस्यान्तिकं कर्म तातेति च रुरोद सः।
हा तात हा पितृसखमदर्थं मृतवानसि ॥ २१० ॥
अथातितायिनौ वीरौ भ्रातरौ सुहृदौ च तौ।
रावणेन रणोद्युक्तौ बभूवतुरुदायुधौः ॥ २११ ॥
कुपितो लक्ष्मणं राम उवाच विरहातुरः।
जाया मे जीवति यदा तदा जीवतु वै जगत् ॥ २१२ ॥
ने चेत्सेश्वरं लङ्केशं भस्मीकर्तुमहं क्षमः।
समुद्रं शोषयिष्यामि धक्ष्यामि धरणीमिमाम् ॥ २१३ ॥
त्रैलोक्यं नाशयिष्यामि सदेवासुरमानुषम्।
इत्थं भयानकवचा ब्रूते रामः सदां वने ॥ २१४ ॥
लक्ष्मणस्तमुवाचाथ प्रणयाद्विहिताञ्जलिः।
आर्यैवं भवतो वाक्यं श्रुत्वाहं सभयोऽस्मि च ॥ २१५ ॥
भूमिः प्रचलिता सद्यो जलधिश्च समुत्थितः।
मेरुश्च कम्पितोऽत्यर्थं देवताश्च चकम्पिरे ॥ २१६ ॥
मान्धाता सगरश्चैव तथा राजा भगीरथः।
रघुस्तथाम्बरीषाद्या यावन्तो जनकः स्वयम् ॥ २१७ ॥
तावत्सम्पालिता भूमिर्र्यथा पित्रा स्वपुत्रकाः।
तेषां कुले भवान् जातः कीर्तिवर्द्धनकारकः ॥ २१८ ॥
सूर्यवंशोद्भवः श्रीमान् धर्मात्मा सर्वपालकः।
एकस्याविनयाद् राम हन्तुं नार्हसि वै जगत् ॥ २१९ ॥
श्रीशिव उवाच
भक्तस्य लक्ष्मणस्येत्थं वचनैः प्रससाद सः।
स्नेहेन परिरभ्यामुं भ्रातरं प्राणसम्मितम् ॥ २२० ॥
स्मित्वाऽऽघ्राय शिरस्तस्य जगाम किल सत्वरम्।
तेनैव सहितो भ्राता लक्ष्मणेन मनीषिणा ॥ २२१ ॥
उच्चावचेषु शैलेषु शिखरेषु च भूरिषु।
गह्वरेषु गुहास्वेवं गुल्मेषु च वनेषु च ॥ २२२ ॥
निकुञ्जेषु च कुञ्जेषु पर्यन्तेषु धनेषु च।
आरोहेष्ववरोहेषु भ्रातरौ खिन्नविग्रहौ ॥ २२३ ॥
- २२० -
परिश्रान्तौ संचरन्तौ समेषु विषमेषु च।
पश्यन्तौ जानकौस्तेयं कबन्धालयमागतौ ॥ २२४ ॥
तद्बाहुवीर्यवशिनौ रण्डस्य तुण्डसंनिधिम्।
दृष्ट्वा वनचरान् नीत्वा ग्रसन्तं वदनेन तम् ॥ २२५ ॥
अत्यर्थदीर्घदोर्दण्डं खड्गाभ्यां विनिकृत्य तौ।
पातयामासतुर्भूमौ स त्यक्त्वा वपुरात्मनः ॥ २२६ ॥
बभूव दिव्यो गन्धर्वः प्रणम्य भ्रातरावुभौ।
सीतां दिशन् गतः स्वर्गं वपुसौन्दर्यभासुरः ॥ २२७ ॥
तेनोद्दिष्टेन मार्गेण क्रामन्तौ दुर्गपर्वतान्।
सज्जीकृत्य धनुर्बाणौ मन्दं मन्दमुपेयतुः ॥ २२८ ॥
ततः पम्पासरः प्राप्तौ स्नात्वा विश्रम्य तत्तटे।
प्रणम्य मुनिसंदोहं दण्डकारण्यवासिनम् ॥ २२९ ॥
ततः प्रचलितौ पश्चात् कुर्वन्तौ विविधाः कथाः।
मार्गे घोरतरे भूरि घोषयन्तौ धनुर्गुणम् ॥ २३० ॥
दूरस्थौ व ततो दृष्ट्वावृष्यमूकनिवासिभिः।
शाखामृगैः पञ्चभिस्तौ वीरेन्द्रौ चललोचनौ ॥ २३१ ॥
सुग्रीवस्यनिदेशाच्च प्राप्तः पवनजोऽन्तिकम्।
तत्तौ मधुरया वाण्या संवादः समभूत्तयोः ॥ २३२ ॥
तदुक्तं तत्स्वरूपं च सम्यग्विज्ञाय राघवः।
चक्रे सखित्वं तेनासौ कपीन्द्रेण समं दृढम् ॥ २३३ ॥
ऋष्यमूकस्य शिखरे जानक्या भूषणानि तैः।
आनीय कपिभिर्दत्तान्यादेशात् कपिभूपतेः ॥ २३४ ॥
रामहस्तेऽर्पितान्यद्धा सख्या सौहार्ददर्शिना।
भूषादर्शनमात्रेण मुमोह रघुपुङ्गवः ॥ २३५ ॥
सुग्रीवः कपिभिः साकं दुःखाभिभवमासवान्।
कृतोपकरणैः पश्चाद्विनोदः कपिभिः कृतः ॥ २३६ ॥
सर्वे बालिवधोत्साहप्रतीतिजनिकां ततः।
तालावलीं समाजग्मुः सप्तदर्वीकराकृतिम् ॥ २३७ ॥
रामो दृष्ट्वा स्थितिं तेषां सप्तानां मर्मवित्स्वयम्।
सज्जीकृत्य धनुर्वीरः संधाय विशिखं बली ॥ २३८ ॥
वेगेन ताडयामास सरलां तालराजिकाम्।
बाणस्तन्मूलसंसुप्तं शापदग्धं भुजङ्गमम् ॥ २३९ ॥
- २२१ -
हत्वा हंसवपुः कृत्वा तूर्णं रघुपतेर्ययौ ।
चक्रुः स्वर्गस्थिता देवाः पुष्पवृष्टिं मुदान्विताः ॥ २४० ॥
श्रीराममूर्द्धनि प्रायः पुष्पवृष्टिः सुशोभना ।
कपिभिर्दर्शित रामः कबन्धं दुन्दुभेर्भृशम् ॥ २४१ ॥
वामेनैव करेणासौधनुष्कोट्या व्युदासितम् ।
उड्डीयाम्बरतो भूमौ दीर्घान्तरतयापतत् ॥ २४२ ॥
सोऽतिहृष्टैः कविभटैरर्चितः सादरं रघुः ।
अथ सुग्रीव आश्रित्य बलं रघुपतेर्महत् ॥ २४३ ॥
बालिनो राजधानीं तां किष्किन्धापुरमागतः ।
गत्वा परिसरे गाढमास्फोट्य सुदृढं करौ ॥ २४४ ॥
कृत्वा सिंहनिनादं च मुखेनापूरयन्नभः ।
आततायिनमाहूय स्वाग्रजं तावयुध्यताम् ॥ २४५ ॥
तयोः स्वरूपसादृश्यात्तर्को रघुपतेरभूत् ।
उभयोरनयोर्मध्ये को मित्रो मम चिह्नितः ॥ २४६ ॥
इत्येवमुग्धहृदये रामे सूर्याङ्कजो रणे ।
इन्द्राङ्कजेन बलिनाऽऽताड्य विद्रावितोद्रुतम् ॥ २४७ ॥
स भ्रष्टविक्रमः प्राप्तो रामस्यान्तिकमानतः ।
तर्जन्योपालभदरामं श्वासोच्छ्वासाकुलो भृशम् ॥ २४८ ॥
पश्यन् विचकितो भूयः शत्रोरागमशङ्कया ।
विवृत्याननमुद्वीतो भ्रात्रा युद्धे पराजितः ॥ २४९ ॥
आश्वासितः स रामेण हस्तस्पर्शनलालनैः ।
अभीतिदैश्च वचनैः स्वामिना भयहारिणा ॥ २५० ॥
उक्तं च भवतः साम्यान्न मया मारितो रिपुः ।
सत्यं मे व्याहृतं याहि पुनरेव निजं रिपुम् ॥ २५१ ॥
हनिष्याम्यधुना शीघ्रमित्युक्तः स्वामिना ततः ।
जगाम कलहायासौ किष्किन्धां बालिनः पुरीम् ॥ २५२ ॥
सुग्रीवमागतं ज्ञात्वा गर्जन्तं पुरसन्निधौ ।
रोषाद्वधं विनिश्चित्य सुग्रीवस्य स विक्रमी ॥ २५३ ॥
शुद्धान्तात्सम्प्रचलितो निषिद्धोऽपि च भार्यया ।
विनिर्धूयापशकुनान् बाली हठसमावृतः ॥ २५४ ॥
ततो ज्येष्ठानुजौ युद्धे दृष्ट्वान्योन्यमुपागतौ ।
रामोहृष्टतनुर्भूत्वा करे कृत्वा धनुर्वरम् ॥ २५५ ॥
- २२२ -
स्थित्वा गुल्मान्तरे वीरः कृत्याकृत्यमचिन्तयत् ।
साक्षात्स भगवान् देवो रामः कारणकारणः ॥ २५६ ॥
बाणं प्राणहरं क्षिप्त्वा बालितं हृदयेऽवधीत् ।
यत्रासौ पतितो बाणविद्धो वानरभूपतिः ॥ २५७ ॥
रामस्तत्रागतो वीक्ष्य सदयं कर्म चात्मनः ।
संतप्तोऽनुचितं कृत्वा सान्त्वितः सामभिस्ततः ॥ २५८ ॥
सुग्रीवेणानुजेनापि बलिना च प्लवंगमैः ।
श्रीरामदृष्टिनिर्धूतसमस्तशमलः कपिः ॥ २५९ ॥
बाली रामे विलीनात्मा जगाम परमं पदम् ।
ततो राज्याभिषेकेन सुग्रीवश्चाभिषेचितः ॥ २६० ॥
ततो वार्षिकमासेषु शृङ्गे माल्यवतो गिरेः ।
उवास भ्रातृसहितः सीताविरहकर्षितः ॥ २६१ ॥
भूयः शोकं चकारासौ तत्र संतप्तमानसः ।
अहो राज्याभिषेके मे तादृग्विघ्नो बभूव ह ॥ २६२ ॥
आजन्म सुखिनो जातं ततो मे वनसेवनम् ।
[
- २२३ -
आजग्मतुस्त्वरायुक्तौ यत्रास्ते रघुपुङ्गवः ।
कुशसंस्तरमध्यासबद्धपद्मासनः प्रभु ॥ २७० ॥
नीलोत्पलदलश्यामः स्वस्थो वल्कलचीरभृत् ।
सुलोचनः सुवदम आजानुदीर्घबाहुकः ॥ २७१ ॥
अलङ्कृतो वपुर्लक्ष्म्या बिभ्रद्भ्रुरुचोजटाः ।
तुङ्गोत्तमाङ्गशिखरः कैलासाधिपतिर्यथा ॥ २७२ ॥
तं दृष्ट्वा रघुशार्दूलं सुग्रीवादयाः प्लवंगमाः ।
लक्ष्मणेन समं सर्वे प्रणेमुर्दण्डवद्भुवि ॥ २७३ ॥
कृताञ्जलिपुटा ऊर्ध्वमुत्थिता देशकारिणः ।
परिरेभेऽथ सुग्रीवं रामो राजीवलोचनः ॥ २७४ ॥
समुपवेशिताः सर्वे रामेण कपिपुङ्गवाः ।
अन्योन्यविक्रमं दृष्ट्वा तावेकासनसंस्थितौ ॥ २७५ ॥
अङ्गदश्चात्मनिकटे रामेण स्थापितो
– २२४ –
धीमन्तो बलिनश्चैव बुद्धिविक्रमशालिनः ।
श्रेष्ठाः स्वामिहिताश्चैव सुग्रीवस्य निदेशतः ॥ २८६ ॥
कृत्वा प्रणामं रामस्य सर्वे तत्र समाययुः ।
अथ केचित्कपिश्रेष्ठाः सीतालोकसमुत्सुकाः ॥ २८७ ॥
मासैकमवधिं कृत्वा ययुस्ते सर्वतो दिशम् ।
मासाधिकं व्यतिक्रान्ता दण्ड्याः स्युर्नात्र संशयः ॥ २८८ ॥
नलिनीलमरुत्पुत्रप्रमुखा ऋक्षपुङ्गवाः ।
वृत्वेशमङ्गदं ते वै कपयो दशकौटयः ॥ २८९ ॥
याम्यां दिशिगताः सर्वे सीतालोकनतत्पराः ।
मासावधिर्लङ्घितस्तैः प्राप्तास्ते कपयस्ततः ॥ २९० ॥
महेन्द्रमचलं नाम तीरे नीरनिधेर्भृशम् ।
प्रायोपवेशमास्थाय संस्थिताः कुशसंस्तरे ॥ २९१ ॥
सम्पतिर्नाम विहगस्तत्र तैः सङ्गतोऽभवत् ।
कपिभ्यस्तेन कथितं सीतावृत्तं यथातथम् ॥ २९२ ॥
लङ्केशोपवने सीता शोकाविष्टा वियोगिनी ।
अशोकस्य तरोर्मूले वसतीति निबोधत ॥ २९३ ॥
तन्निवेदितमाकर्ण्य दशमे मासि मार्गके ।
दशम्यां विहितोत्साहो हनूमान् हरिवासरे ॥ २९४ ॥
संध्यायामन्तरायाणि हत्वा पथि पयोनिधेः ।
शतयोजनविस्तीर्णं पय उल्लङ्घ्य विक्रमी ॥ २९५ ॥
लङ्कां ययौ सूक्ष्मवपुरदृश्यतात्मा महासुरैः ।
रात्रेः पाश्चात्यप्रहरे ददर्श नगरीं ततः ॥ २९६ ॥
तस्मिन्नुपवने सीता १मशोकतरुसमाश्रिताम् ।
प्रलपन्तीं रामनाम महाविरहदुःखिताम् ॥ २९७ ॥
२ददर्शावतीर्य विटपात्तदन्तिकमुपागतः ।
मूर्ध्ना कृतप्रणामोऽस्यै निबद्धाञ्जलिरब्रवीत् ॥ २९८ ॥
हनुमानुवाच
अम्बाम्ब मातर्जननि भक्तो रघुपतेरहम् ।
अङ्गुलीयकमेतद्धि प्रभोस्तुभ्यं समर्पये ॥ २९९ ॥
१-२ पादेऽस्मिन्नक्षराधिक्यमार्षम् ।
- २२५ -
इति प्रत्यर्प्य हनुमान् श्रीरामस्याङ्गुलीयकम् ।
तस्याः शिरोभूषणं तच्चूडारत्नं प्रगृह्य सः ॥ ३०० ॥
पुनराश्वास्य तां देवीं ततो वीरः सुनिर्गतः ।
भग्नं तेन त्रयोदश्यां रावणस्योत्तमं वनम् ॥ ३०१ ॥
क्रव्यादाः शतशस्तेन घातिता भुजविक्रमाः ।
स आबद्धश्चेन्द्रजिता ब्रह्मास्त्रेण भृशं रणे ॥ ३०२ ॥
चतुर्दश्यां ततः पुच्छे नियुक्तातुच्छपावकैः ।
प्रज्वालिता तेन लङ्का परिभूतः पुलस्त्यजः ॥ ३०३ ॥
महेन्द्रमचलं प्राप्तो राकायां पवनात्मजः ।
कपीनां पुरतस्तेन सर्वं चरितमीरितम् ॥ ३०४ ॥
सिद्धार्था हरयः सर्वे महेन्द्रगिरितः पुनः ।
व्यावर्त्तिताः पञ्चदिनैरागताः पथि सत्वराः ॥ ३०५ ॥
षष्ठेऽह्नि तैर्मधुवनं सर्वमालोडितं मुहुः ।
सप्तम्यां च मरुत्सूनुः सीतामस्तकभूषणम् ॥ ३०६ ॥
ददौ रघुपतेस्तच्च हृदये निदधे प्रभुः ।
मुमोह विरहेणर्तस्ततोऽष्टम्यां शिरःस्थिते ॥ ३०७ ॥
सूर्ये प्रयाणमातेने उत्तराफाल्गुनीयुते ।
जयाय जयिनां श्रेष्ठो रामः कपिबलैर्वृतः ॥ ३०८ ॥
अधाज्जलनधेस्तीरे स्कन्धावारनिवेशनम् ।
सिन्धोस्तीरे स्थितिरभूत्पौषस्याद्यं दिनत्रयम् ॥ ३०९ ॥
चतुर्थीदिवसे प्राप्तः शरणं च विभीषणः ।
तदैव रघुनाथेन कृतोलङ्काधिपश्च सः ॥ ३१० ॥
अभिषिच्य स्वयं तावत् पयसा तस्य मूर्द्धनि ।
सिन्धोरुल्लङ्घने मन्त्रः सप्तम्यां तैः कृतस्तः ॥ ३११ ॥
रामश्चलक्ष्मणश्चैव सुग्रीवश्च विभीषणः ।
हनुमान् कपयश्चान्ये निबद्धाञ्जलयोऽखिलाः ॥ ३१२ ॥
सिन्धुं ययाचिरेमार्गं यावद्दिनचतुष्टयम् ।
भूत्वा निरशताः सर्वे याचन्तः सरितां पतिम् ॥ ३१३ ॥
अथ क्रुद्धोऽब्रवीद् रामः सौमित्रे धनुरानय ।
अहमेकेन बाणेन जलधिं खलु शोषये ॥ ३१४ ॥
रामं कुपितमालोक्य वेपमानः सरित्पतिः ।
सद्यएवाविरभवत् प्रियोपायनसंयुतः ॥ ३१५ ॥
२९
Here is the line-by-line transcription of the page in Unicode Devanagari:
- २२६ -
शान्ति निनाय शनकैः सामभी रघुपूङ्गवम् ।
सप्रश्रयैश्च वचनैः सेतूपायमदर्शयत् ॥ ३१६ ॥
साश्चर्यैः कपिशार्दूलैर्वीक्ष्यमाणो जगाम सः ।
सहर्षो निलयं प्राप्तो मुदिताः कपयोऽभवन् ॥ ३१७ ॥
ते सर्वे कपयः स्वीयशिरसा सर्वपर्वतान् ।
उच्चैः शृङ्गान् गण्डशैलसहितान् गगनोन्नतान् ॥ ३१८ ॥
नीत्वाक्षिपंस्तोयनिधौ रामनामाङ्कमण्डितान् ।
ते युक्तिपूर्वं निहिता नलहस्तेन वारिधौ ॥ ३१९ ॥
दशम्यां सेतुरारब्धस्त्रयोदश्यां प्रपूरितः ।
दशयोजनविस्तीर्णः शतयोजन लम्बितः ॥ ३२० ॥
तेनोत्तीर्णाः कपिभटाः सर्वे भूतादिने क्रमात् ।
न्यवेशयद् रघुपतिः सुवेलपर्वते बलम्