भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 229, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 229
- २१५ -
सर्वे गुणास्त्वयि प्राप्ताः स्वत एव समुन्नतिम् ।
श्रियं च परमां प्राप्तुमसाधारण्यमेव च ॥ १४९ ॥
नेत्रानन्दसमूहाय प्रजानां भुवनत्रये ।
महामाङ्गल्यसंधाय त्वं हि राजा भविष्यति ॥ १५० ॥
अतस्त्वामभिषेक्ष्यामि राज्येपैतामहेऽतुले ।
यौवराज्य एव भवान् सर्वां भूमिरञ्जयत् ॥ १५१ ॥
भाग्येन चैव सौभाग्यैः प्रजेशस्त्वं भविष्यसि ।
युक्ताङ्गैर्भ्रातृभिः सार्द्धं कृत्स्नं पाहि महीतलम् ॥ १५२ ॥
अहं स्वात्मरतिं राम त्वदार्थं परिसाधये ।
भवादृशे वंशधुर्येसुमग्नो रूपसागरे ॥ १५३ ॥
अहो भाग्यं सदास्माकं रघोर्वशमुपेयुषां ।
यद्ब्राह्मेऽर्केऽपि सुखैर्वे गृहे स्वात्मजदर्शनम् ॥ १५४ ॥
इत्युक्तः प्रीतियुक्तेन राज्ञा दशरथेन सः ।
उवाच वदतां वर्यो रामः सुमधुरं वचः ॥ १५५ ॥
श्रीराम उवाच
वयं सनाथा भवता राजराजेन भूभृता ।
जननीमेव पश्येम महीमेतां महीपते ॥ १५६ ॥
तव प्रसादान्नृपते यौवराज्ये स्थितोऽस्म्यहम् ।
रञ्जयाम्येष जगतीं किं मे राज्यं ततोऽधिकम् ॥ १५७ ॥
वयं राजकुमाराः स्म भवान् पालयतु क्षितिम् ।
इतोऽधिकं सुखं नास्ति राज्यं भारः परं मम ॥ १५८ ॥
इन्द्रं यमं तथैवापि वरुणं च धनाधिपम् ।
ईशानं चैव ब्रह्माणं तथान्यांल्लोकपालकान् ॥ १५९ ॥
यः स्यात् त्वदाज्ञारहितस्तमहं नामये क्षणात् ।
विक्रान्त्या त्वत्प्रसादाच्च शक्तोऽहं सर्वसाधने ॥ १६० ॥
भूयोऽश्वमेधं वितनु यज्ञान् कुरु सनातनान् ।
वर्षे वर्षे महाराजन् सुनु सोममुदारधीः ॥ १६१ ॥
पाहि प्रजा महीपाल विपद्भ्यः पुरुषाधिप ।
एवं नो वर्द्धय सुखं किं राज्येन ततोऽधिकम् ॥ १६२ ॥
इत्युक्तः स महीपालो रामेणाक्षुण्णबुद्धिना ।
शशास कानिचिद्वर्षाण्यवनी धर्मवित्तमः ॥ १६३ ॥