भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 228, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 228
- २१४ -
चत्वारो भ्रातरस्ताभिः श्रीभिः शोभान्विता बभुः ।
यथा कल्पद्रुमवराः कल्पवल्लीभिरन्विताः ॥ १३५ ॥
जगदानन्दनिधयः कल्याणगुणभूषिताः ।
अलंचक्रुः पितुर्गेहान् श्रीरामाद्याः स्वरूपतः ॥ १३६ ॥
तास्वागतासु लक्ष्मीषु साकेतनगरी भृशम् ।
रराजारण्यराजीव१ वसन्तसमयश्रिया ॥ १३७ ॥
द्यौरिवेन्दुरुचा रेजे राज्यलक्ष्मीर्महीपतेः ।
सर्वसम्पन्मयं सद्म राज्यलक्ष्म्या न तादृशम् ॥ १३८ ॥
यादृशं शुशुभे ताभिः साक्षालक्ष्मीभिरन्वितम् ।
ततो दिनेषु गच्छत्सु सर्वसाम्राज्यसम्पदि ॥ १३९ ॥
यौवराज्यपदे रामं स्थापयामास भूपतिः ।
समेतो भ्रातृभिः सर्वैर्युवराजपदे स्थितः ॥ १४० ॥
पितुः सर्वं राज्यधुरमवहज्जानकीपतिः ।
सर्वाः प्रजामुमुदिरे सर्वर्द्धिफलसंयुताः ॥ १४१ ॥
यौवराज्यस्थितेरामे नवीना श्रीरवर्तत ।
त्रैलोक्यमवहद्दोर्मि विभूतिं परमां श्रियम् ॥ १४२ ॥
सीतादृष्टिप्रसादेन बभौ सर्वत्र मङ्गलम् ।
यावती श्रीस्त्रिजगति सर्ववस्तुसमाश्रया ॥ १४३ ॥
एकत्र संस्थिता दृष्टा साकेतनगरे तु सा ।
वर्षपूगे ततो जाते रामे रञ्जयति प्रजाः ॥ १४४ ॥
वाञ्छा दशरथस्याभून्निजराज्याभिषेचने ।
ईदृशी महिषी भाग्यैर्लब्धा सीतास्तियादृशी ॥ १४५ ॥
त्रैलोक्यस्यैव भाग्येन रामो राजा भवेदिति ।
अथैकान्ते समासाद्य रामं राजीवलोचनम् ॥
उवाच वचनं प्रीतो राजा दशरथः स्वयम् ॥ १४६ ॥
राजोवाच
राम राम महाबाहो पितृपैतामहीं धुरम् ।
राज्यं श्रियं च परमां त्वं पालयितुमर्हसि ॥ १४७ ॥
प्रजानामेव भाग्येन दत्तस्त्वं वेधसा मम ।
न हीदृशोरघोर्वंशे भूतो वाथ भविष्यति ॥ १४८ ॥
१. ᵒरण्यानीव-बड़ौ० ।