भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 222, कुल 423 में से
संदर्भ में पढ़ें– २०८ –
राजोवाच
उपस्थितोऽयं सुमहानुत्सवो मिथिलापुरे ।
वीरस्वयंवरोत्साहे सीतायाः सुमनोहरे ॥ ४२ ॥
यूयं रविकुलोद्भूता रघुवंश्याः कुमारकाः ।
कथं न गच्छत परं तत्र सीतास्वयंवरे ॥ ४३ ॥
वीरकृत्यमिदं तावज्जगत्यां पर्युपस्थितम् ।
शिवचापारोपणाय जनकेन कृतः पणः ॥ ४४ ॥
मैथिली तत्र लाभो वै जनकेन्द्रसुता परा ।
श्रूयते सहजा देवी चतुर्धाजनि तद्गृहे ॥ ४५ ॥
ब्रह्मादीनां सुरेन्द्राणां मुखेभ्यो यन्मया श्रुतम् ।
चतुर्धा श्रीःस्वयं जाता जनकेन्द्रस्य वेश्मनि ॥ ४६ ॥
चतुर्धा मद्गृहेऽप्यद्धा जातो रामचन्द्रः स्वयम् ।
भवानेकः स्वयं रामस्त्रयोऽमी लक्ष्मणादयः ॥ ४७ ॥
एतद्युक्ततमं मन्ये विधिनैवोपपादितम् ।
मन्ये जातमिदं कार्यं रघुवंशसुमङ्गलम् ॥ ४८ ॥
अत्र प्रयत्ननीयं वै भवद्भिः कृतनिश्चयैः ।
एवंविधे वै विषये शूराणां सुमहोत्सवः ॥ ४९ ॥
तत्र गत्वा समारोप्यहरकार्मुकमुत्तमम् ।
कण्ठे निक्षेपय श्रीमन् सीतास्वयंवरस्रजम् ॥ ५० ॥
इत्थं नृपतिना रामस्तत्क्षणे प्रतिबोधितः ।
अङ्गीचकार सहसा मुखदाक्षिण्यमात्रतः ॥ ५१ ॥
किन्तु संस्मार तां नित्यां स्वात्मशक्तिमनन्यधीः ।
प्रमोदवनलीलानामीश्वरी सहजेश्वरीम् ॥ ५२ ॥
इयं वृत्तं समाकर्ण्य सा मे किं नु वदिष्यति ।
तस्याः कटाक्षवशगो वेपामि स्वात्मना ह्यहम् ॥ ५३ ॥
हृदये मम सा नित्यं वसत्येव न संशयः ।
अद्य प्रमोदविपिने सा मे किं नु करिष्यति ॥ ५४ ॥
इति चिन्तासमाविष्टो न सुष्वाप दिवानिशम् ।
अन्येद्युः सरयूपारे स्वरहस्यस्थली प्रति ॥ ५५ ॥
जगाम यत्र सहजां नित्यं रमयति स्वयम् ।
एतद्धि वृत्तं रामस्य नायोध्यावासिभिर्जनैः ॥ ५६ ॥
ज्ञायते सखिभिश्चापि ऋते श्रीलक्ष्मणं प्रभुम् ।
तत्रासौ रममाणोऽपि दृष्टः सहजया स्फुटम् ॥ ५७ ॥