भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 234, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 234
- २२० -
परिश्रान्तौ संचरन्तौ समेषु विषमेषु च।
पश्यन्तौ जानकौस्तेयं कबन्धालयमागतौ ॥ २२४ ॥
तद्बाहुवीर्यवशिनौ रण्डस्य तुण्डसंनिधिम्।
दृष्ट्वा वनचरान् नीत्वा ग्रसन्तं वदनेन तम् ॥ २२५ ॥
अत्यर्थदीर्घदोर्दण्डं खड्गाभ्यां विनिकृत्य तौ।
पातयामासतुर्भूमौ स त्यक्त्वा वपुरात्मनः ॥ २२६ ॥
बभूव दिव्यो गन्धर्वः प्रणम्य भ्रातरावुभौ।
सीतां दिशन् गतः स्वर्गं वपुसौन्दर्यभासुरः ॥ २२७ ॥
तेनोद्दिष्टेन मार्गेण क्रामन्तौ दुर्गपर्वतान्।
सज्जीकृत्य धनुर्बाणौ मन्दं मन्दमुपेयतुः ॥ २२८ ॥
ततः पम्पासरः प्राप्तौ स्नात्वा विश्रम्य तत्तटे।
प्रणम्य मुनिसंदोहं दण्डकारण्यवासिनम् ॥ २२९ ॥
ततः प्रचलितौ पश्चात् कुर्वन्तौ विविधाः कथाः।
मार्गे घोरतरे भूरि घोषयन्तौ धनुर्गुणम् ॥ २३० ॥
दूरस्थौ व ततो दृष्ट्वावृष्यमूकनिवासिभिः।
शाखामृगैः पञ्चभिस्तौ वीरेन्द्रौ चललोचनौ ॥ २३१ ॥
सुग्रीवस्यनिदेशाच्च प्राप्तः पवनजोऽन्तिकम्।
तत्तौ मधुरया वाण्या संवादः समभूत्तयोः ॥ २३२ ॥
तदुक्तं तत्स्वरूपं च सम्यग्विज्ञाय राघवः।
चक्रे सखित्वं तेनासौ कपीन्द्रेण समं दृढम् ॥ २३३ ॥
ऋष्यमूकस्य शिखरे जानक्या भूषणानि तैः।
आनीय कपिभिर्दत्तान्यादेशात् कपिभूपतेः ॥ २३४ ॥
रामहस्तेऽर्पितान्यद्धा सख्या सौहार्ददर्शिना।
भूषादर्शनमात्रेण मुमोह रघुपुङ्गवः ॥ २३५ ॥
सुग्रीवः कपिभिः साकं दुःखाभिभवमासवान्।
कृतोपकरणैः पश्चाद्विनोदः कपिभिः कृतः ॥ २३६ ॥
सर्वे बालिवधोत्साहप्रतीतिजनिकां ततः।
तालावलीं समाजग्मुः सप्तदर्वीकराकृतिम् ॥ २३७ ॥
रामो दृष्ट्वा स्थितिं तेषां सप्तानां मर्मवित्स्वयम्।
सज्जीकृत्य धनुर्वीरः संधाय विशिखं बली ॥ २३८ ॥
वेगेन ताडयामास सरलां तालराजिकाम्।
बाणस्तन्मूलसंसुप्तं शापदग्धं भुजङ्गमम् ॥ २३९ ॥