सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 223, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 223
  • २०९ -
    उद्विग्न इव चित्तेन पितुराज्ञां स्मरन् मुहुः।
    तदा सहजया प्रोक्तः सविलासमुदारया ॥ ५८ ॥
    उद्विग्न इवहे कान्त लक्ष्यसेऽद्य कुतो मया।
    आविष्ट इव शोकेन केनापिधर्षितो यथा ॥ ५९ ॥
    एतद्ध्यनुचितं भर्तुः स्वतन्त्रेच्छस्य ते प्रभोः।
    एतन्मूलमहं नाथ पृच्छामि त्वां विशेषतः ॥ ६० ॥
    श्रीराम उवाच
    अहं त्वद्वशगो नित्यं सहजानन्दिनीश्वरि।
    सीतास्वयंवरं गन्तुमुक्तः पित्रा न संशयः ॥ ६१ ॥
    आवयोश्च रहःप्रेमज्ञायते नेतरैर्जनैः।
    प्राकृतैर्लोकधर्मज्ञैप्राकृतमनुत्तमम् ॥ ६२ ॥
    अतोऽहमुन्मना वृत्तः पितुराज्ञानपायिनी।
    अनपायि च ते प्रेम कथमन्यां समुद्वहे ॥ ६३ ॥
    स्वप्नेऽपि नेतरां जाने त्वां विना सहजेश्वरी।
    पाशारज्जु रुभयतः पतिता मे न संशयः ॥ ६४ ॥
    इति श्रुत्वा प्रियवचः सहजा प्रत्युवाच तम्।
    ईषत्स्मितरुचिज्योत्स्नादीपिताक्रीडमण्डपा ॥ ६५ ॥
    श्रीसहजोवाच
    जनकस्य गृहे साक्षादहमेवाजनि प्रभो।
    कर्तुं बहुतरा लीलास्त्वया साकं रघूद्वह ॥ ६६ ॥
    त्वं चेत्प्रमोदविपिनादवतीर्णो रघोः कुले।
    अवतीर्णाहमपि वै निमिचन्द्रकुले तदा ॥ ६७ ॥
    उपासकः स मे राजा महिष्या सह योगवित्।
    पुत्रीभावमतः प्राप्ता चतुर्धा तद्गृहेस्म्यहम् ॥ ६८ ॥
    प्रथमां तु भवान् वोढा द्वितीयां लक्ष्मणः स्वयम्।
    तृतीयां भरतः श्रीमांश्चतुर्थीं शत्रुसूदनः ॥ ६९ ॥
    इत्येवमात्मनोंऽशैस्त्वं चतुर्भिर्भूरिविक्रमैः।
    कर्ता पाणिग्रहं नाथ तन्ममैव सुमङ्गलम् ॥ ७० ॥
    न जातु कश्चिदन्यस्तां वोढा सीतां स्वयं श्रियम्।
    अवतीर्णा विलासार्थं मदभिन्नस्वरूपिणीम् ॥ ७१ ॥