भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 233, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 233
- २१९ -
ततो वृत्तं समाकर्ण्य प्रियाचौरस्य रक्षसः।
भ्रातृभ्यां विहितो दाहो मृतस्य वयसोऽस्य च ॥ २०९ ॥
चक्रे तस्यान्तिकं कर्म तातेति च रुरोद सः।
हा तात हा पितृसखमदर्थं मृतवानसि ॥ २१० ॥
अथातितायिनौ वीरौ भ्रातरौ सुहृदौ च तौ।
रावणेन रणोद्युक्तौ बभूवतुरुदायुधौः ॥ २११ ॥
कुपितो लक्ष्मणं राम उवाच विरहातुरः।
जाया मे जीवति यदा तदा जीवतु वै जगत् ॥ २१२ ॥
ने चेत्सेश्वरं लङ्केशं भस्मीकर्तुमहं क्षमः।
समुद्रं शोषयिष्यामि धक्ष्यामि धरणीमिमाम् ॥ २१३ ॥
त्रैलोक्यं नाशयिष्यामि सदेवासुरमानुषम्।
इत्थं भयानकवचा ब्रूते रामः सदां वने ॥ २१४ ॥
लक्ष्मणस्तमुवाचाथ प्रणयाद्विहिताञ्जलिः।
आर्यैवं भवतो वाक्यं श्रुत्वाहं सभयोऽस्मि च ॥ २१५ ॥
भूमिः प्रचलिता सद्यो जलधिश्च समुत्थितः।
मेरुश्च कम्पितोऽत्यर्थं देवताश्च चकम्पिरे ॥ २१६ ॥
मान्धाता सगरश्चैव तथा राजा भगीरथः।
रघुस्तथाम्बरीषाद्या यावन्तो जनकः स्वयम् ॥ २१७ ॥
तावत्सम्पालिता भूमिर्र्यथा पित्रा स्वपुत्रकाः।
तेषां कुले भवान् जातः कीर्तिवर्द्धनकारकः ॥ २१८ ॥
सूर्यवंशोद्भवः श्रीमान् धर्मात्मा सर्वपालकः।
एकस्याविनयाद् राम हन्तुं नार्हसि वै जगत् ॥ २१९ ॥
श्रीशिव उवाच
भक्तस्य लक्ष्मणस्येत्थं वचनैः प्रससाद सः।
स्नेहेन परिरभ्यामुं भ्रातरं प्राणसम्मितम् ॥ २२० ॥
स्मित्वाऽऽघ्राय शिरस्तस्य जगाम किल सत्वरम्।
तेनैव सहितो भ्राता लक्ष्मणेन मनीषिणा ॥ २२१ ॥
उच्चावचेषु शैलेषु शिखरेषु च भूरिषु।
गह्वरेषु गुहास्वेवं गुल्मेषु च वनेषु च ॥ २२२ ॥
निकुञ्जेषु च कुञ्जेषु पर्यन्तेषु धनेषु च।
आरोहेष्ववरोहेषु भ्रातरौ खिन्नविग्रहौ ॥ २२३ ॥