भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 338, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 338
- ३२५ -
साधयेत्स्वर्गलोकं वा विमानस्त्रीसुखात्मकम् ।
पुण्ये क्षीणे पुण्यशेषं समादाय धरातले ॥ १५ ॥
समीचीनेषु लोकेषु जायते स्वेन कर्मणा ।
राजसं कर्मकुर्वाणो मेर्वादिषु सुखं लभेत् ॥ १६ ॥
तामसं कर्म कुर्वाणः पातालेषु सुखी भवेत् ।
राजसं सात्त्विकं कुर्वन् दैत्यस्वर्गानवाप्नुयात् ॥ १७ ॥
राजसं कर्म कुर्वाणश्चन्द्रलोके महीयते ।
पुण्यशेषे ततो वृष्टिद्वारा भूत्वात्र रूपभाक् ॥ १८ ॥
रेतोरूपं समास्थाय रेतोजन्मसु जायते ।
तामसं कर्म कुर्वाणो गन्धर्वेषु प्रजायते ॥ १९ ॥
तामसं सात्त्विकं कुर्वन् गन्धर्वप्रवरोभवेत् ।
क्षीणे पुण्ये पुनर्भूत्वा वृष्टिद्वारा स जन्मभाक् ॥ २० ॥
तामसं कर्म कुर्वाणः सर्पादिषु सुखी भवेत् ।
एवं त्रयी धर्मपराः पुनरावृत्तिमाप्नुयुः ॥ २१ ॥
देवताश्चेदुपासीत आजन्म नियतव्रतः ।
तत्तत्सायुज्यमात्रं तु तस्य स्यात्परमं फलम् ॥ २२ ॥
एव कर्मगतिर्ब्रह्मन् ब्रह्मणोऽपि दुरत्यया ।
दुर्बोधा चैव सर्वेषां फले चाल्पत्वकारिणी ॥ २३ ॥
मदर्पितं पुनः तत् स्यान्मद्भक्त्यङ्गं न संशयः ।
ज्ञानस्य कर्मणश्चापि तथोपास्तेरवद्यताम् ॥ २४ ॥
भक्तिर्हरतिमन्निष्ठा सद्य एव न संशयः ।
तत्तत्सर्वं प्रकुर्वाणोऽप्याश्रयेन्मामनन्यधीः ॥ २५ ॥
केवलं कर्मनिष्ठानां प्रवाहपतनं भवेत् ।
तस्मादुद्धर्तुमात्मानं मत्प्रेमपरमो भवेत् ॥ २६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे-
आत्रेयबोधितश्रीरामगीतायां द्वाविंशोऽध्यायः ॥ २२ ॥