सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 340, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 340
  • ३२७ -
    अहं विधिर्नामधेयान्यहं मन्त्रगणः पृथक् ।
    अर्थवादश्चाहमेव प्रयोगोऽहं क्रियात्मकः ॥ १४ ॥
    अहं विश्वमहं चैव विश्वेशो विश्वकारकः ।
    अहं विश्वस्य संहर्ता कल्पोऽहं प्रतिसर्गकः ॥ १५ ॥
    उपादानं निमित्तं वाप्यहमेव सदा मुने ।
    अक्षरात्मा ह्युपादानं निमित्तं पुरुषोत्तमः ॥ १६ ॥
    अक्षरेण ततां सृष्टिं क्रीडाम्यहमिच्छया ।
    मम देहे ततं विश्वं प्रकृतिः पुरुषस्तथा ॥ १७ ॥
    ब्रह्माद्याः पुरुषांशाश्चशब्दोऽर्थश्च विशेषतः ।
    आदित्या वसवो रुद्रा विश्वेदेवाश्च देवताः ॥ १८ ॥
    एवं मम शरीरान्तः पश्यन्तो दिव्यचक्षुषा ।
    भीषणं मां प्रपश्यन्ति कलिकालं परात्परम् ॥ १९ ॥
    भीषया चैव वर्तन्ते ममैवाज्ञा वशानुगाः ।
    सामन्ता लोकसामन्तास्तथा कल्पायुषः सुराः ॥ २० ॥
    केचित्तु कालरूपं मां पश्यन्ति पुरुषं परे ।
    अमृतं मृत्युमेवापि बिभ्रच्छक्त्या स्वविग्रहे ॥ २१ ॥
    अपरे लीलया पूर्णं रसानन्दैकविग्रहम् ।
    पश्यन्ति रसकेलीनामाश्रयं पुरुषोत्तमम् ॥ २२ ॥
    एवं यथायथं स्वेच्छावशगो लोकलोचनः ।
    मद्भक्तांश्च विशेषेण रमयामि रमामि च ॥ २३ ॥
    मय्यात्माशमतां याते प्रपञ्चस्य लयो भवेत् ।
    अन्तरङ्गस्य शक्त्यैव तदा ब्रह्मन् रमाम्यहम् ॥ २४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
    आत्रेयबोधितश्रीरामगीतायां त्रयोविंशोऽध्यायः ॥ २३ ॥
    ✤
    चतुर्विंशोऽध्यायः
    आत्रेय उवाच
    प्रयच्छमे परं चक्षुस्त्वत्स्वरूपैकदर्शकम् ।
    दिव्यं ज्ञानमयं राम कृपया पुरुषोत्तम ॥ १ ॥