सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

प्रथमपरिच्छेदः ।
श्रीपर्णीकुसुमं शीतं तिक्तं सङ्ग्राहि वातलम् ।
कषायं मधुरं पाके पित्तास्रासृग्दरापहम् ॥
श्रीपर्णीपुष्पम् ।
पाटलाकुसुमं हृद्यं कषायमधुरं हिमम् ।
हिध्माकफातिसारघ्नं शोषघ्नं वारिवासनम् ॥
पाटलीपुष्पे ।
निर्गुण्डिपुष्पं तिक्तोष्णं क्रिमिवातकफापहम् ।
गुल्मप्लीहारुचिं कुष्ठं कण्डूं शोफं जयेत्कटु ॥
निर्गुण्डीपुष्पे ।
पुष्पमाखुविषं हन्यात् कपित्थस्य विशेषतः ।
कावठफूल ।
माधूकं मधुरं शीतमहृद्यं बृंहणं गुरु ॥
माधूकपुष्प ।
शाल्मलीपुष्पशाकं तु घृतसैन्धवसाधितम् ।
प्रदरं नाशयत्याशु दुस्साध्यं च न संशयः ॥
रसे पाके च मधुरं कषायं शीतलं गुरु ।
कफपित्तास्रजिद् ग्राहि वातलं च प्रकीर्तितम् ॥
शाल्मलीपुष्प ।
इति पुष्पाणि ।
अथ कवकम् ।
भूस्फोटं कवकं छत्रं भूमिच्छत्रं शिलान्ध्रकम् ।
क्षितिगोमयकाष्ठेषु वृक्षादिषु च तद्भवेत् ॥
श्रेष्ठाश्शुचिस्थलीकाष्ठवंशगोव्रजसम्भवाः ।
नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः ॥
भूकन्दस्त्वतिदोषल इति वाग्भटः । भूकन्दः भूस्फोटः कवकं इति
यावत् ।
इति कवकानि ॥
१. P1. P2. सृग्ज्वरापहम् ।

भोजनकुतूहले
अथ हारीतप्रकरणम् ।
तत्र —
रुच्यं चूतफलोद्भूतं हारीतं वातजित् गुरु ।
पित्तश्लेष्मकरं वह्निमान्द्यकारि विकारि च ॥
आम्रहरीतकम् ।
स्थौल्यकान्तिकरं बैम्बं हरितं वातपित्तजित् ।
तोण्डल्याचें ।
हरितं मूलकोद्भूतं लघूष्णं स्वादु पाकतः ॥
गुल्मशूलक्षयहरं रुच्यं दोषहरं परम् ।
मूलकहरित ।
रुच्यमग्निकृत् क्रिमिश्लेष्मकुष्ठजित्कारवेल्लकम् ॥
कारल्यांचे ।
रम्भाकाण्डकृतं दाहपित्तास्रघ्नं कफप्रदम् ।
कषायकटुतिक्तोष्णं रूक्षं गुर्वग्निसदनम् ॥
वातघ्नं च .... ... ... ... ।
रम्भाकाण्डजम् ।
रुच्यं सुगन्धं कैडर्यपत्रजं सर्वदोषनुत् ।
कृष्णनिम्बस्य ।
शृङ्गवेरं सलवणं स्तम्भशोफानिलापहम् ।
जिह्वाजाड्यहरं वृष्यं रोचनं दीपनं लघु ॥
जम्बीराक्तं सलवणं हरितं शृङ्गवेरजम् ।
रुच्यं श्लेष्मानिलप्लीहकण्ठरोगहरं परम् ॥
आर्द्रकं सगुडं बल्यं वातश्लेष्मशमप्रिदम् ।
आर्द्रचिञ्चाफलैर्युक्तं दीपनं कफकोपनम् ॥
बालार्द्रकस्य ।
शृङ्गवेरं त्रिदोषघ्नं शोफगुल्मक्षयापहम् ।
शूलानाहार्शसां पथ्यं वृष्यं बल्यं रुचिप्रदम् ॥
प्रौढार्द्रकस्य ।

प्रथमपरिच्छेदः । १०९
गजकर्णीकन्दभवं तीक्ष्णोष्णं शीतिकापहम् ।
कटुकं कफवातघ्नं विषवीसर्पकुष्ठनुत् ।
प्रशस्यते पाण्डुशोफक्रिंम्यानाहव्रणार्शसाम् ।
गजकर्णीभवम् ।
[कू]ष्माण्डखण्डसम्भूतं सूक्ष्मं हरितकं जयेत् ।
[वा]तपित्तामयान् सर्वान् पीनसघ्नं रुचिप्रदम् ॥
कूष्माण्डजम् ।
[ख]राशिशिम्बेश फलकं कोमलं सूक्ष्मखण्डितम् ।
अग्निमान्द्यकरं किञ्चिद् वातघ्नं हरितं कृतम् ॥
खराशीबीकृतम् ।
वृन्ताकं खण्डितं सूक्ष्मं शृङ्गबेराम्लमिश्रितम् ।
भावितं हिङ्गुमरिचैः पटुयुग्वातदोषनुत् ॥
वृन्ताकस्य ।
कफहदरमरुचिघ्नं बालवृन्ताकजातं
क्षयभत्रविकृतिघ्नं पित्तजिच्छर्कराढ्यम् ।
बालवृन्ताकस्य ।
माकन्दिकायाश्शकलैस्सुसूक्ष्मै-
श्लक्ष्णैस्सुसम्भारसुसंयुतैश्च ।
जयेदवश्यं कफजान् विकारान्
मान्द्यं कृशानोरतिमारुतं च ॥
माइणीमूलजम् ।
पारेवतफलैः पक्वैः कृतं हरितकं बलम् ।
करोति दीपयत्यग्निं सुसम्भारं रुचिप्रदम् ॥
उत्ततीभवम् ।
तोयमागधिकोद्भूतं हरितं नीरसं कटु ।
तृष्णाभिजननं सातिसारश्लेष्माविनाशनम् ॥
जलपिंपलीभवम् ।

११९ भोजनकुतूहले
कद्लीफलसम्भूतच्छल्लिभिः खण्डशः कृतैः ।
सूक्ष्मं हरितकं सर्वसम्भारैर्वातपित्तजित् ॥
'कादळकळीजम् ।
सार्निाहरितमूलखण्डितै-
र्निर्मितं हरितकं समीरणम् ।
हन्ति सर्वकफजान् महागदान्
पीतमत्यनिलवृद्धिकारणम् ॥
वनमाइणमूलजम् ।
त्रपुसाज्जातहरितं नानाविधकफामयान् ।
करोति कृच्छ्रदोषार्तिं सम्भारसहितं जयेत् ॥
सर्ववालुकानाम् ।
महाबदरसम्भूतं साम्लं हरितकं जयेत् ।
मन्दाग्निं वातरोगं च शिरोरोगैककारणम् ॥
महाबदरजम् ।
हरीतकं परं हृद्यं स्वादु कोशातकीभवम् ।
फलोर्ध्वदंष्ट्रसम्भूतनिःशेषव्याधिदोषजित् ॥
दोडक्याचें ।
पथ्यं पटोलहरितं क्षाराम्ललवणान्वितम् ।
कफपित्तहरं रुच्यं किञ्चिद्गुरु समीरजित् ॥
पटोलभवम् ।
इति हरितप्रकरणम् ॥
अथोपंदंशाः ।
तत्र
स्वाद्वम्लं विशदं हृद्यं तीक्ष्णोष्णं भक्तरोचनम् ।
स्निग्धं सुगन्धं नारङ्गं बल्यं श्लेष्मानि-

न् ।
(Wait, in line 20: कासश्वासहिध्मामदात्ययान् । -> look at हिध्मा: हि + ध्मा! Yes, हिध्मा = hiccup).
हन्ति शोफानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ॥
(Wait, शोफानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ॥ -> शोफानिल...).
गुल्मोदराशँशूलानि मन्दाग्नित्वं च नाशयेत् ।
(Wait, गुल्मोदरार्शःशूलानि -> in the print: गुल्मोदरार्शश्शूलानि or गुल्मोदरार्शःशूलानि? Look at it: गुल्मोदरार्शशूलानि? It has श with a repha: र्श, then another श? It has र्शन? No, र्शः or र्शश्? It has र्‍श with a loop or र्शः? It looks like गुल्मोदरार्शःशूलानि or गुल्मोदरार्शश्शूलानि -> wait, it's गुल्मोदरार्शश्शूलानि! There is र् over the first श, then a second श with ू matra: शू! So `

१२ भोजनकुतूहले
क्षुद्राम्रं बालमम्लोष्णं कटु पाके समीरजित् ।
कफपित्तहरं रुच्यं कटूष्णं रक्तशोषणम् ॥
क्षुद्राम्रम् ।
लवणाम्रफलं रुच्यं दीपनं वातनाशनम् ।
भ्रमक्लमहरं हृद्यं मदमूर्च्छाप्रलापजित् ॥
लवणाम्रफलम् ।
भाविकाऽम्ला कषायोष्णा कण्ठ्या वातबलासजित् ।
रुच्याग्निदीपनी वर्ण्या व्रणे कण्ठामये हिता ॥
आवाडें ।
हृद्यं तिक्तं ज्वरश्वासकासकण्डूतिकुष्ठजित् ।
कफपित्तारुचीन् हन्ति वातलं कटुकीफलम् ॥
सोंडेकाई ।
पिच्छलं गुरु विष्टम्भि पक्वं कटुकिकाफलम् ।
पक्वसोंडेकाई ।
अलर्कस्तिक्ततीक्ष्णोष्णः शोफानिलकफक्रिमीन् ।
प्लीहगुल्मश्वासकासकण्डूदुर्नामपीनसान् ॥
हिक्काऽरुच्यान्त्रशूलाशोमदोल्बणविषान् जयेत् ।
अलर्क; मूलसोंडेकाई । गोरखिरिंगणीति महाराष्ट्रः ।
अक्षीयस्य फलं तिक्तं कषायं कफवातजित् ।
वीसर्पव्रणगुल्मामरक्तातीसारमेहजित् ॥
व्याहडे ।
कषायतिक्तं कतकं फलं शीतं सरं लघु ।
पित्तास्रमेहतृट्शोषविषवाताक्षिरोगजित् ॥
पक्वं तु कतकं तिक्तकषायं स्वादु पिच्छलम् ।
चक्षुष्यं दीपनं श्लेष्मपित्ततृड्विषमेहजित् ॥
चिलबीज ।
१. P1, P2. अक्षीर.

बालं बैल्वं लघु ग्राहि स्निग्धं तिक्तं कषायकम् ।
वातश्लेष्मज्वरच्छर्द्दिहिध्मातीसारगुल्मजित् ॥
तीक्ष्णं पित्तकरं तत्र पक्वं तत् स्वादु पिच्छलम् ।
दुर्ज्जरं दोषलं ग्राहि स्निग्धोष्णं पूतिमारुतम् ।
बिल्वफळ ।
धात्री बध्या समगुणा कषायाम्ला रसायनम् ।
मधुरानुरसा शीता केश्या वृष्या त्रिदोषहा ॥
रक्तास्रपित्तहृद्दाहहृत्कण्ठ्या त्वक्प्रसादिनी ।
विबन्धाध्मानविष्टम्भवान्तिभ्रमहरा सरा ॥
निहन्याद् वातमम्लत्वात् पित्तं मधुरपाकतः ।
कफं रूक्षकषायत्वात् सर्वेभ्योऽप्यधिका च सा ॥
आंवळें ।
कषायतिक्तं रोचिष्णु सुगन्धि गुरु शीतलम् ।
श्लेष्मघ्नं पित्तहृद्रुच्यं कोमलं सल्लकीफलम् ॥
साळफळें ।
तिक्तं कटूष्णं पैफणं दीपनं कफवातजित् ।
हन्ति गुल्मं क्रिमीन् शूलमर्शः कोष्ठामयव्रणान् ॥
फांपटें ।
श्लेष्मातकफलं स्वादु कटुकं गुरु पिच्छलम् ।
वातघ्नं श्लेष्मलं कण्ठ्यं केश्यं वर्ण्य विषापहम् ॥
महाशेल्लुफलं तद्वद् दीपनं श्लेष्मवातजित् ।
पित्तकृच्छ्लेष्मलं रुच्यं वृष्यं कोष्ठक्रिमिप्रणुत् ॥
भोंकरें ।
.१. T2. तत्साधु पिच्छलम् .
२. P1. श्रम.
३. P1: कफणं. T2. यफणं.

१४४ भोजनकुतूहलम्
पाके रसे कटुस्तिक्तः कषायो रक्तदूषणः ।
रूक्षो रुच्यः श्लेष्मकृमीन् हन्ति वंशकरीरकः ॥
बंशांकुर ।
शीता तिक्ता कटुस्वाद्वी रुच्या ग्राहल्पवातकृत् ।
माकन्द्यग्न्याग्निकृद्वै बल्या रक्तपित्तविसर्पजित् ॥
तृट्कफारुचिपिच्छघ्नी शीता त्वेषा गुणाधिका ।
मायणीमूल ।
तिक्ता कटूष्णा भ्रमरीं रोचनी दीपनी लघुः ॥
भोंवरिसालि ।
इत्युपदंशाः ।
अथ कर्षयः ।
चिर्भटस्य फलं शुष्कं स्नेहभृष्टं कटूत्कटम् ।
अत्यम्बुपानदोषघ्नं सुगन्धि रुचिकृल्लघु ॥
चिभट ।
कासराख्यफलं शुष्कं भृष्टं वा पक्वमेव वा ।
दीपनं रोचनं तिक्तं कैटवम्लं पित्तलं विदुः ॥
कढोंची ।
कारवल्लीशुष्कफलं कासघ्नं वेधमवर्त्मजित् ।
कारवल्ली ।
बृहतीद्वयसम्भूतं फलं शुष्कं सुपाचितम् ।
भृष्टं वाग्निकरं वातपित्तकृं कफवातजित् ॥
डोरली । रिङ्गणी
शुष्कवार्ताकफलजा तैलभृष्टा रुचिप्रदा ।
वार्ताकफलजा ।
१. P1, P2. कटूष्णं.
२. T1 वर्त्मवादिजित् ।

मपरिच्छेदः । १५
शमीफलं तु संशुष्कं वातघ्नं शूलगुल्मजित् ॥
शमीच्यासेंगा !
श्वेतारिमेदसम्भूतं फलं शुष्कं प्रमेहजित् ।
हिंवराच्य, सेंगां ।
परिशुष्कं सर्वशाकं कार्श्यविष्टम्भवातकृत् ।
सर्वशुष्कशाकगुणाः ।
इति कर्चरीप्रकरणम् ।
अथ सम्भाराः ।
तत्र सर्षपगुणाः शिम्बीधान्येषूक्ताः ।
एला तिक्तोष्णकटुका लघ्वी वातकफापहा ।
श्वासाङ्गमर्दहृल्लासमूत्रकृच्छ्रविषप्रणुत् ॥
मुखवैरस्यजित् वृष्या हृद्या गर्भविरोधिनी ।
दीपनी पाचनी मेध्या व्रणार्शःकण्डुकासजित् ॥
एला ।
यवनी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् ।
हन्ति गुल्मारुची शूलं दीपयत्याशु चानलम् ॥
वोंवा ।
जीरकं कटुकं रुच्यं दीपनं पाचनं लघु ।
सुगन्धि मेध्यं श्लेष्मघ्नमुष्णं छर्द्यतिसारजित् ॥
गुल्मशूलोदराध्मानक्रिमदन्तामयापहम् ।
जीरें ।
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् ।
कटुपाकं सरं रूक्षं प्लीहानाहान्त्रवृद्धिजित् ॥
हिङ्गु ।
शताव्हा कटुका स्निग्धा तिक्ता श्लेष्मातिसारनुत् ।
ज्वरनेत्रव्रणघ्नी च वस्तिकर्माणि शस्यते ॥
थोरसेउवा

६ भोजनकुतूहले
शुण्ठिः कटूष्णा तिक्ता च कफशोफानिलापहा ।
शैलबन्धोदरानहाश्वासश्लीपदहारिणी ॥
शुण्ठी
मरीचं कटुतिक्तोष्णं लघु श्लेष्मविनाशनम् ।
समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥
मरीच ।
मरीचं क्षुपजं रुच्यं दोषलं सर्वरोगकृत् ।
विशेषतः प्रमेहार्शोविकारेषु न शस्यते ॥
बृहन्मरीचं क्षुपजं ततोऽप्यल्पान्तरं गुणैः ।
मिरसेङ्गा
श्लेष्मला स्वादुशीतार्द्रा गुर्वी स्निग्धा च पिप्पली ।
सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः ॥
स्वादुपाकानिलश्लेष्मकासश्वासापहा परा ॥
पिंपळी
सैन्धवं लवणं वृष्यं चक्षुष्यं वह्निदीपनम् ।
त्रिदोषशमनं पूतं व्रणदोषविकारनुत् ॥
सैन्धवं द्विविधं प्रोक्तं सितरक्तविभेदतः ।
रसवीर्यविपाकेषु गुणाढ्यं तु सितं शिवम् ॥
सैन्धव ।
गाढादिलवणं शुभ्रं पृथ्वीजं गढदेशजम् ॥
गढोत्थं च महारम्भं सांभरं सांभरोद्भवम् ।
गाढोत्थं लवणं तूष्णमीषदम्लं मलापहम् ।
दीपनं कफवातघ्नमर्शोघ्नं कोष्ठशोधनम् ॥
सांभरं संभरदेशे प्रसिद्धम् ।
गाढलवणं
सामुद्रं लघु हृद्यं च पलितालाशुपित्तदम् ।
विदाहि कफवातघ्नं दीपनं रुचिकृत् परम् ॥
सामुद्रलवणम् ।

प्रथमपरिच्छेदः । ११७
द्रोणेयं लवणं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं चाम्लपित्तलम् ॥
डोणींचे लवण ।
औखरं च कटु क्षारं तिक्तं वातकफापहम् ।
विदाहि पित्तकृद्ग्राहि मूत्रसंशोषकारि च ॥
आटुकळवण ।
रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् ।
दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥
वाफे सुकेल लवण ।
इति लवणानि ।
१त्वचं तु कटुकं शीतकफकासविनाशनम् ।
शूलामशमनं चैव कण्ठशुद्धिकरं लघु ॥
तज ।
पत्रकं लघु शीतोष्णं कफवातविषापहम् ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥
पत्रज ।
नागकेसरमल्पोष्णं लघु तिक्तं कफापहम् ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥
नागकेसर ।
अलक्तो रक्ततीक्ष्णोष्णः कफवातामयापहः ।
कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥
अलिता ।
कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् ।
मूर्धशूलविषदोषविमोचं रोचनं च तनुकान्तिकरं च ॥
कुङ्कुमकेसर ।
• १. P₁ चत्वं. P₂; वचं.
२. P₁; P₂; 1. तीक्ष्णोष्णं T

११८ भोजनकुतूहले
कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगनुत् ।
किलासकफदौर्गन्ध्यगन्धालक्ष्मीमलापहा ॥
'दौर्गन्ध्यगन्ध इत्येकं पदम् ।'
कस्तूरी ।
अत्रैव प्रसङ्गात् तद्भेदास्तल्लक्षणं, कृत्रिमस्वरूपं चोच्यते ॥
कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
निपालेऽपि च काश्मीरे कामरूपेऽपि जायते ॥
साप्येका खरिका ततश्च तिलका ज्ञेया कुलत्थापरा
पिण्डान्यापि च नाभिकेति च परा या पञ्चभेदामिधा ।
सा शुद्धा मृगनाभितः क्रमवशाद्देशादितीक्ष्णोत्थिता
पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका श्रूयते ॥
धूम्राकृतिस्तु खरिका तिलका तिलाभा
कौलत्थबीजसदृशी च कुलत्थकीख्या ।
स्थूला ततः कियदिदं किल पिण्डका स्यात्
तस्याश्च किञ्चिदधिका यदि नाभिका सा ॥
तिक्ता स्वादे पिञ्जरा केतकीनां
गन्धं धत्ते लाघवं तोलने च
याप्सु न्यस्ता नैव वैवर्ण्यमीयात्
कस्तूरी सा राजभोग्या प्रशस्ता ॥
किञ्च,
या गन्धं केतकीनामपहरति मदं सिन्धुराणां च वर्णे
स्वादे तिक्ता कटुर्वा लघुरथ मृदिता मर्दिता चिकणा स्यात् ।
दाहं या नैति वह्नौ झिमिशिमिति चिरं चर्मगन्धा हुतान्ते
सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥
अपि च,
बाले जरति च हरिणे क्षीणे रोहिणि हि मन्दगन्धयुता ।
कामरते वा तरुणे कस्तूरी बहुपरिमला भवति ॥
१. T₂ छने हि ।

प्रथमपरिच्छेदः । ११९
तथां,
कस्तूरी धूपगन्धा वहति विनिहिता पीततां पाथसोऽन्त-
र्निःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः ।
या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च
ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥
इति कस्तूरीप्रकरणम् ।
गोरोचनातिशिशिरा विषदोषहन्त्री
रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री ।
भूतग्रहोपशमनी कुरुते च वश्यं
सर्वत्र मङ्गलकरी जनमोहिनी च ॥
गोरोचना ।
अथ कर्पूरः ।
पोतास्यो भीमसेनस्तदनु शितकरः शर्करावाससंज्ञः
१पांशुः पिण्डाब्जसारस्तदनु हिमयुतो बालुका जूटिका च ।
पश्चादास्या तुषारस्तदुपरि सहिमश्शीतलः पच्चिकान्या
कर्पूरश्वेति भेदा गुणरसमहसां चैव ३ह्रस्वेन दृश्याः ॥
इति कर्पूरभेदाः ।
कर्पूरश्शिशिरस्तिक्तः कटुः श्लेष्मास्रपित्तनुत् ।
तृष्णाविदाहकण्ठस्थदोषघ्नोऽक्षिरुजापहः ॥
किञ्च,
कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णश्च दाहदः ।
चिरस्थो दाहशोषघ्नः सुधौतश्शुभकृत्परः ॥
शिरोमध्ये तलं चेति कर्पूरस्त्रिविधो मतः ।
शिरः स्तम्भाग्रसञ्जातं मध्यं पर्णे तले तलम् ।
शिरोमध्यतलानां च क्रमेण गुणगौरवम् ॥
१. P 1.; P 2. पांसुः ।
२. T 2. हित ।
३. T 2. P 2. दृश्येन ।

१२० भोजनकुतूहले
तथा .
स्तम्भमध्यस्थितश्श्रेष्ठः स्तम्भबाह्ये च मध्यमः ।
श्रेष्ठमीषददरिद्रामं शुभ्रं तन्मध्यमं स्मृतम् ॥
सुदृढं शुभ्ररूक्षं तु पुलकं बाह्यजं स्मृतम् ।
अपि च
स्वच्छं भृङ्गाभ्रपत्रद्युति लघु विशदं तोलने तिक्तकं चेन्
स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदि सौरभ्यदायि ।
निस्स्नेहं दीर्घपत्रं शुभतरमति चेद्राजयोग्यं प्रशस्तं
कर्पूरं चान्यथा चेद् बहुतरमशने स्फोटदोषप्रदायि ॥
चीनकः कटुतिक्तोष्ण ईषच्छ्वेतः कफापहः ।
कण्ठदोषहरो मेध्यः पाचनः कृमिनाशनः ॥
चीनकर्पूरः ; कृत्रिमः ।
जातीपत्री कटुस्तिक्ता सुरभिः कफनाशिनी ।
वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥
जायपत्री ।
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् ।
रक्तातिसारमेहघ्नं वृष्यं दीपनकं लघु ॥
जायफळ ।
कङ्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परम् ।
दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥
कापुरचिणी ।
लवङ्गं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् ।
वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥
लवङ्ग ।
सौगन्धिकं जवादि स्यात् स्निग्धं चोष्णं सुखावहम् ।
वाते हितं तु राज्ञां च मेहनाह्लादकारकम् ॥
जवादि ।

प्रथमपरिच्छेदः । १२७
तल्लक्षणं च

  • जवादि नीरसं स्निग्धमीषत्पिङ्गं सुगन्धिदम् ।
    आतपे बहुलामोदं राज्ञां योग्यं च नान्यथा ॥
    इति ॥
    इति सम्भाराः ॥
    अथ हृतयः ।
    शिग्रुमूलस्य चूर्णेन मर्दितं पानसं फलम् ।
    हृतं स्यात्कादलं पक्वं फलमौदुम्बरत्वचा ॥
    वंशत्वचा वापि भवेदपि शालितुषेण वा ।
    तालमूलस्य चूर्णेन तत्फलं भवति हृतम् ॥
    इति हृतयः ॥
    अथ घृतप्रकरणम् ।
    शोणस्य नारिकेलस्य बालस्यान्तर्गतं जलम् ।
    सकल्कं भोदितं मेघनादमूलरजोन्वितम् ॥
    समेन सर्पिषा युक्तं यदि पक्वं घृतं भवेत् ।
    चूर्णं बकुलबीजस्य क्षिप्त्वा तैले पयस्समे ।
    पके तैलावशेषे तु तद्घृतं भवति ध्रुवम् ॥
    लशुनं षोडशांशं तु पुन्नागफलसंयुतम् ।
    शर्करां च पचेद्यस्तु तैलप्रस्थं घृतं भवेत् ॥
    मुद्गाभिधस्य खण्डेन सार्थांशेन युतं घृतम् ।
    साष्टरम्भाफलं सर्पिः प्रस्थं प्रस्थद्वयं भवेत् ।
    शृते तु माहिषे क्षीरे चतुर्थांशावशेषिते ।
    तुल्याज्ये कर्णिकारस्य पुष्पैः पक्वं घृतं भवेत् ।
    तुल्यान्यतैलं बकुलबीजं पक्वं घृतं भवेत् ॥
    इति कृत्रिमघृतानि ॥
    १ T 2. शालितुषेण.
    २ P₁ तज्जलं P₂ तडलं ।
    1081

भोजनकुतूहले ७२
. अथ शर्करा ॥
क्षीरं पुनर्नवाया मूलेनावर्तितं पक्वम् ।
भवति सितेव सिता सा क्षीरगुणैवेति पाकज्ञाः ॥
चक्रिकामूलेनापि भवति । कोमलानि शिवजटाग्राणि रविकरस्पृष्टानि
चूर्णयेत् । तच्चूर्णे क्षीरे सितं तथा भवति ।
इति शर्करा ॥
अथ पानकानि ।
जलेन शीतलेनैव घोलिता श्वेतशर्करा ।
एलालवङ्गकर्पूरमरीचैश्च समन्विता ॥
शर्करोदकमाख्यातं शुक्लं शिशिरं सरम् ।
बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाशनम् ॥
मूर्च्छाच्छर्दितृषादाहज्वरशान्तिकरं परम् ।
शर्करोदकम् ।
आम्राम्रं जलस्विन्नं मर्दितं दृढपाणिना ।
सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् ॥
प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम् ।
सद्यो रुचिकरं बल्यं शीघ्रमनिन्द्रियतर्पणम् ॥
प्रपानकम्
अम्लिकाया फलं पक्वं मर्दितं वारिणा दृढम् ।
शर्करामरिचोन्मिश्रं लवङ्गेन्दुसुवासितम् ॥
अम्लिकाफलसम्भूतपानकं वातनाशनम् ।
पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधकम् ।
अम्लिकाफलपानकम् ।
भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् ।
लवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम् ॥
निम्बूफलभवं पानमत्यल्पं वातनाशनम् ।
१. P₁. वह्निवर्धनम्

प्रथमपरिच्छेदः ।
वह्निदीप्तिकरं रुच्यं समस्ताहारपाचनम् ॥
: निंबूफलपानकम् ।
शिलायां साधु संपिष्टं धान्यकं वस्त्रगालितम् ।
शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् ॥
नवीने मृन्मये पात्रे स्थितं पित्तहरं परम् ॥
धान्यपानकम् ।
तुर्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि
प्रायो माहिषमंशुकेन विमले मृद्भाजने चालयेत् ।
भृष्टं हिङ्गु च जीरकं च लवणं राजीं च किञ्चिन्मितां
पिष्ट्वा तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम् ? ॥
तक्रं रुचिकरं वह्निदीपनं पाचनं परम् ।
उदरे ये गदास्तेषां नाशनं तृप्तिकारकम् ॥
तक्रपानकम् ।
विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः ।
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिवेत् ॥
पयःपानम् ।
अथ काञ्जिकम् ।
संहितं धान्यमण्डादि काञ्जिकं कथ्यते जनैः ।
काञ्जिकं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम् ॥
भ्रमक्लमहरं रुच्यं दीपनं वस्तिशोधनम् ।
तथा —
काञ्जिकं भेदि तीक्ष्णोष्णं रोचनं पाचनं लघु ॥
दाहज्वरहरं स्पर्शात् पानाद्वातकफापहम् ।
माषादिवटकैर्यत्तु क्रियते तद् गुणाधिकम् ॥
P1. श्रम.

लघु वातहरं तत्तु रोचनं पाचनं परम् ।
शूलाजीर्णविबन्धाध्मेन्नाशनं वस्तिशोधनम् ॥
काञ्जी ।
न भवेत्काञ्जिकं यत्र तत्र ज्ञालिः प्रदीयते ।
सा च -
आममाम्रफलं पिष्टं राजिकालवणान्वितम् ।
भृष्टं हिङ्गुयुतं पूतं घोलितं ज्ञालिरुच्यते ॥
ज्ञालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी ।
मन्दं मन्दं निपीता सा रोचिनी वह्निबोधिनी ॥
झाली ।
तुषोदकं यवैरामैः सतुषैश्शकलीकृतैः ।
उदकैस्संहितैरम्लैस्सम्पन्नं स्यात्तुषोदकम् ॥
तुषाम्बु दीपनं हृद्यं पाण्डुकृमिगदापहम् ।
तीक्ष्णोष्णं पाचनं पित्तरक्तकृद्धस्तिशूलनुत् ॥
तुषोदकम् ।
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम् ।
गोधूमैरपि सौवीरमाचार्याः केचिदूचिरे ॥
सौवीरं तु ग्रहण्यार्शःकफघ्नं भेदि दीपनम् ।
उदावर्ताङ्गमर्दास्थिशूलानाहेषु शस्यते ॥
सौवीरम् ।
आरनालं तु गोधूमैरामैस्स्यान्निस्तुषीकृतैः ।
पक्वैर्वा संहितैस्तत्तु सौवीरसदृशं गुणैः ॥
आरनाळम् ।
. P1. P2. च्छर्दि.
. T1. gives a varient reading also :- बन्धानां नाशनम् ।
. P1. P2. सालि.

प्रथमपरिच्छेदः ।
धान्याम्लं शालिचूर्णाच्च कोद्रवादिकृतं भवेत् ।
धान्याम्लं धान्ययोनित्वात्प्रीणनं लघु दीपनम् ।
अरुचौ वातरोगेषु सर्वेष्वास्थापने हितम् ॥
धान्याम्लम् ।
शण्डाकी राजिकायुक्तैस्स्यान्मूलकदलद्रवैः ।
सर्षपस्वरसैर्वापि शालिपिष्टकसंयुतैः ॥
संहितैरिति शेषः ।
शुण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी स्मृता ॥
शण्डाकी ।
कन्दमूलफलादीनि सस्नेहलवणानि च ।
यत्र द्रवेऽभिषूयन्ते तत्सूक्तमभिधीयते ॥
सूक्तं कफघ्नं तीक्ष्णोष्णं रोचनं पाचनं लघु ।
पाण्डुकृमिहरं रूक्षं भेदनं रक्तपित्तकृत् ॥
आसुतम् ।
इति काञ्जिप्रकरणम् ।
अथ क्षीरप्रकरणम् ।
तत्र क्षीरसामान्यगुणाः -
सद्यःशुक्रकरं शीतं सात्म्यं सर्वशरीरिणाम् ।
जीवनं बृंहणं बल्यं मेध्यं वाजीकरं परम् ॥
वयःस्थापकमायुष्यं सन्धिकारि रसायनम् ।
विरेकवान्तिवस्तीनां तुल्यमोजोविवर्धनम् ॥
जीर्णज्वरे मनोरोगे शोफमूर्च्छाभ्रमेषु च ।
ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये ॥
शूलोदावर्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे ।
रक्तपित्तेऽतिसारे च योनिरोगे श्रमे क्लमे ॥
१. P2. भ्रमेषु.

१२६ भोजनकुतूहल
गर्भस्रावे च सततं हितं मुनिवरैस्स्मृतम् ।
बालवृद्धक्षतक्षीणाः क्षुब्धवायुकृशाश्च ये ॥
तेभ्यस्तदातिशयितं हितमेतदुदाहृतम् ॥
इति पयस्सामान्यगुणाः ॥
अथ पयोविशेषगुणाः ।
तत्र गोक्षीरस्य यथा —
गव्यं क्षीरं पथ्यमत्यन्तरुच्यं स्वादु स्निग्धं पित्तवातामयघ्नम्
कान्तिं प्रज्ञां बुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥
तथा —
स्वादु पाकरसं स्निग्धमोजस्यं धातुवर्धनम् ।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् ॥
स्वादु पाकरसमित्यादि पयस्सामान्यानुवादः ।
प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम् ।
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सदा ॥
श्रमभ्रममदालक्ष्मीकासश्वासादितृट्क्षुधः ।
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत् ॥
इति वर्णसामान्येन गव्यगुणाः ॥
अथ वर्णविशेषेण
गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् ।
कफघ्नं रक्तवर्णानां कपिलानां त्रिदोषनुत्¹ ॥
गवां विविधवर्णानां वातपित्तहरं गुरु ।
पयः कर्पूरवर्णानां³ प्रायः पीनसकारणम् ॥
इति वर्णविशेषेण गुणाः ।
१. P₁. P₂. हृत् .
२. T₂. omits 'वात......कर्पूरवर्णानाम्'.
३. T₁. P₁. P₂. कर्बुरवर्णानाम् ।