आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
नित्यस्वाध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६९
तदेव (१)शाखान्तरं पठति—
अथ यदि वा वातो वाद्यात्स्तनयेद्वा विद्योतित वाऽवस्फू-
र्जेदेकां वर्चमेकं वा यजुरेकं वा सामाऽभिव्याहरेद्भूभूर्भु-
वस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो-
हैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ५ ॥
अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकासृचमधीयीत ।
प्राप्ते प्रदेशे । यजु(२)र्वेदाध्ययन एकं यजुः । साम(३)वेदाध्ययन एक साम ।
सर्वेषु वा वेदेषु 'भूर्भुवः सुव' रित्यादिकं यजुरभिव्याहरेत्, न पुनर्य-
थापूर्वं प्रश्नमात्रम् । तेनैव तावतैवास्याऽध्येतुः तदहः तस्मिन्नहनि स्वाध्याय
उपात्तो भवति(४) अधीतो भवतीति यावत् । केचित्तु 'भूर्भुवः सुव' रित्या-
दिक ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥ ५ ॥
कस्मात् पुनर्वाजसनेयिब्राह्मणस्योदाहृते शाखान्तरे वाक्यसमा-
प्तिराश्रीयते न पुनर्यथाश्रुतमात्रं गृह्यते ? तत्राह—
एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥
एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा
मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्ध भवति । इतरथा
विप्रतिषिद्धं स्यात् ॥ ६ ॥
कथम् ?
अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाज-
सनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥
आर्या हि अध्यागमनध्यायं चोपद्दिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि
वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥ ७ ॥
ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह—
आर्यसमयो ह्यगृह्यमाणकारणः ॥ ८ ॥
योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किञ्चित्कारणं
गृह्यते । यथा(५) 'वैसर्जनहीमीयं वासोऽध्वर्यवे ददाती' त्यत्रागृह्यमाण
१ किमिदं शाखान्तरमिति न ज्ञायते । २, ३. वेदाध्यायी इति क. पु.
४. स्वीकृतो भवति अधीतो भवतीत्यर्थ , इति. ख. पु
५. सोमयागे अग्नीषोमीयपश्वनुष्ठानकाले तदर्थ शालामुखीयादग्ने काचिदशमुद्धृत्य
७० आपस्तम्बधर्मसूत्रे [ (प.४)क. १२.
कारणश्चार्यसमयः श्रुत्यनुमानद्वारेण प्रमाणम् । अतो वाक्यपरिसमा-
प्तिरेव युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्या
योपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्त्वमिति । सूत्रे 'अगृह्यमान
कारण' इति णत्वाभावश्छान्दसः ॥ ८ ॥
का पुनरसौ स्मृतिः ? या ब्रह्मयज्ञेऽप्यनध्यायमुपदिशति । मानवे
तावद्विपर्ययः श्रूयते-
(१)'नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।' इति ।
सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः । तस्मात्ता-
दृशी स्मृतिर्मृग्या । एवं तर्ह्यग्निहोत्रादिष्वपि मन्त्राणामनध्याय
प्राप्नोति । नेत्याह-
विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥
विद्या वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनर्मन्त्राणा कर्मयोगे ।
हेतुः परिभाषायामुक्तो(२)र्थान्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो
मन्त्राणाम् (३)न पुनर्ग्रहणाध्ययनम् । पारायण।ध्ययनमध्येऽनध्यायागमो
भवति वा न वेति चिन्त्यम् । एव श्रीरुद्रादिजपेऽपि ॥ ९ ॥
कथं पुनरार्यसमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञानं
सम्भवति । तत्राह-
ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः
प्रयोगादनुमीयन्ते ॥ १० ॥
विधीयन्त इति विधयः कर्माणि । ते सर्वे स्मार्ता अपि ब्राह्मणेष्वे-
तस्य उत्तरवेदिस्थाहवनीयकुण्डे स्थापनार्थं अध्वर्यौ गच्छति तं यजमानस्तत्पत्नीपुत्राद-
योऽनुगच्छेयुः । गच्छतस्तानहतेन दीर्घतमेन वस्त्रेणोपर्याच्छाद्य सर्वेष्वाहवनीयदेश प्राप्तेषु
तत्र तमग्निं प्रतिष्ठाप्य, आच्छादनवस्त्रान्तं स्रुग्दण्डे बध्वाऽऽज्येन जुहोति । ते वैसर्जनहोम।
उच्यन्ते । तच्च वासः अध्वर्यवे दद्यात् इति प्रकृतवाक्यार्थं । स्मृतेरस्याः लोभादिमूलकत्व-
मापाद्यातएवाप्रामाण्यमुक्त शबरस्वामिना । कुमारस्वामिना तु एव सति सर्वत्राऽनाश्वासप्र-
सङ्गमापाद्य मन्वादिस्मृतिवत् प्रामाण्यमेवाङ्गीकृतम् ।
१. म. स्मृ. २. १०६. ब्रह्मसत्रं सततप्रवृत्तं सत्रम्, यथा सहस्रसंवत्सरादिकं
सत्रं न कदाचिच्छिद्यते तद्वदिद नित्याध्ययनमित्यर्थः ।
२. आप. प १. ४०. ३. अनुष्ठेयार्थप्रकाशकतया इत्याधिक ख. ग, पु.
पञ्चमहायज्ञाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७१
वोक्ताः । नन्विदानीं ब्राह्मणानि नोपलभ्यन्ते । सत्यम्; तेषामुत्सन्नाः पाठाः,
अध्येतृदौर्बल्यात् । कथं तर्हि तेषामस्तित्वम् ? प्रयोगादनुमीयन्ते । प्रयोगः
स्मृतिनिबन्धनमनुष्ठानं च । तस्माद्ब्राह्मणान्यनुमीयन्ते मन्वादिभिरु-
पलब्धानीति । (१) कथमन्यथा स्मरेयुरनुतिष्ठेयुर्वा । सम्भवति च
तेषां वेदसंयोगः ॥ १० ॥
अथ प्रसङ्गादपस्मृतिरुच्यते-
यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ॥११॥
यत्र(२)पितृष्वसृसुतामातुलसुतापरिणयनादौ । प्रीत्युपलब्धितः प्रवृत्तिर्न
तत्रोत्सन्नपाठं शास्त्रमनुमीयते, प्रीतेरेव प्रवृत्तिहेतोः सम्भवात् ॥ ११ ॥
ततश्च-
तदनुवर्तमानो नरकाय राध्यति ॥ १२ ॥
तद्विधानमनुतिष्ठन्नरकायैव राध्यति कल्पते ॥ १२ ॥
अथ ब्राह्मणोक्ता विधयः ॥ १३ ॥
एवं स्मृत्याचारप्राप्तानां श्रुतिमूलत्वमुक्तम् । (३) अथ प्रत्यक्षब्राह्मणोक्ता
एव केचिद्विधयो व्याख्यायन्ते तेषामपि स्मार्तेष्वनुप्रवेशार्थम् । तेन तद्-
तिक्रमे स्मार्तातिक्रमनिमित्तमेव प्रायश्चित्तं भवति ॥ १३ ॥
तेषां (४)महायज्ञा महासत्राणीति च संस्तुतिः ॥१४॥
तेषां वक्ष्यमाणानां महायज्ञा इति संस्तुतिः स्वाध्यायब्राह्मणे । महासत्रा-
णीति च संस्तुतिर्भवति बृहदारण्यकादौ । संस्तुतिग्रहणेन संस्तुतिमात्र-
मिदं न नामधेयं(५) धर्मातिदेशार्थमिति दर्शयति । तेन महायज्ञेषु सोम
१. कथमपरथा इति ख. पु. २. 'पितृष्वसृसुता' इति नास्ति ख. ग. पु.
३ अथेदानीं इति ख. पु.
४ पञ्चैव महायज्ञाः तान्येव महासत्राणि (श. ब्रा. ११. ५.६.१ ) इति शतपथे ।
५. कुण्डपायिनामयनाख्ये संवत्सरसाध्ये सत्रविशेषे "मासमग्निहोत्रं जुहोतीति"
श्रुतोऽग्निहोत्रशब्दस्तत्रत्यस्य कर्मविशेषस्य गौण्या वृत्त्या नामधेय सन् प्रसिद्धाग्नि-
होत्रात् धर्मातिदेशक इत्युक्तं पूर्वमीमांसायां सप्तमतृतीये । एव च क्वचित्
नामत्वेनाभिधावृत्त्या प्रयुज्यमानस्य शब्दस्य प्रकरणान्तरेऽन्यत्र कर्मनामतया यदि
श्रवणं, तदा न तत्र कर्मान्तरेऽपि तस्य शक्तिरङ्गीक्रियतेऽनेकार्थतादोषभिया । किन्तु
प्रसिद्धतादृशकर्मनिष्ठगुणसमानगुणवत्वरूपां गौणी वृत्तिमाश्रित्य तद्वत्तात् तदीयधर्मातिदेशक-
इति स्थितम् । प्रकृते तु न तथा । किन्तु स्तुतिमात्रमिति ।
७२ आपस्तम्बधर्मसूत्रे [ (प्र. ४) क. १३.
यागेषु ये धर्माः 'न ज्येष्ठं भ्रातरमतीत्य सोमेन यष्टव्य' मित्यादयः, ये
च महासत्रस्य गवामयनस्य धर्मा(१) इष्टप्रथमयज्ञानामधिकार' इत्या-
दयः उभयेऽपि ते वक्ष्यमाणेषु पञ्चमहायज्ञेषु न भवन्ति ॥ १४ ॥
के पुनस्ते ? तानाह-
(२)अहरहर्भूतबलिर्मनुष्येभ्यो यथाशक्ति दानम् ॥ १५ ॥
वैश्वदेवे वक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहर्भूतबलिर्देयः, एष
भूतयज्ञः । मनुष्येभ्यश्च यथाशक्ति दान कर्तव्यम् । एष मनुष्ययज्ञः ॥ १५ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वादशी कण्डिका ॥
देवेभ्यः स्वाहाकार आ काष्ठात् पितृभ्यः स्वधाकार
ओदपात्रात् स्वाध्याय इति ॥ १ ॥
देवेभ्यः स्वाहाकारेण प्रदानम् आकाष्ठात् अशनीयाभावे काष्ठमपि
तावद्देयम् । वैश्वदेवोक्तप्रकारेणैवैष देवयज्ञः । केचिद्वैश्वदेवाहुतीभ्यः
पृथग्भूतामिमामाहुतिं मन्यन्ते । 'देवेभ्यः स्वाहे' ति च मन्त्रमिच्छन्ति ।
'देवयज्ञेन यक्ष्य' इति सङ्कल्पमिच्छन्ति । वयं तु न तथेति(३) गृह्य ए
वाऽवोचाम । केचिदाहुः- 'आकाष्ठा' दिति वचनादशनीयाभावेन भोजन-
लोपेऽपि यथाकथञ्चित् वैश्वदेवं कर्तव्यम्, पुरुषसंस्कारत्वादिति ।
१. इष्टप्रथमयज्ञैर्यष्टव्यम् इति. ख. पु. "आहिताग्नय इष्टप्रथमयज्ञाः गृहपतिसप्त-
दशास्सत्रमासीरन्" इति सत्रेऽधिकारिनियमः । प्रथमयज्ञशब्देन सोमयाग उच्यतेऽग्नि-
ष्टोमसंस्थाकः । पूर्वं कृताधानाः अनुष्ठिताग्निष्टोमसंस्थाकसोमयागाः द्वादशाहादिषु सत्रा-
ख्येषु ज्योतिष्टोमविकृतिभूतेषु सोमयागेष्वधिकारिणः इति वाक्यार्थः ॥ तादृशानां निय-
मानां तत्रोपेक्षा । अधीतवेदस्य सर्वस्याऽप्यत्राधिकार इति भावः ॥
२. "सूत्राणीमानि-शतपथब्राह्मणस्य काञ्चन प्रतिरूपतामनुभवन्ति” इयं हि शतपथी
पंक्तिः-भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञः इति । अहरहर्भूतेभ्यो बलिं हरेत् ।
तथैतं भूतयज्ञं समाप्नोति, अहरहर्दद्यादोदपात्रात् तथैतं मनुष्ययज्ञं समाप्नोति, अहरहः
स्वधा कुर्यादोदपात्रात् तथैतं पितृयज्ञं समाप्नोति, अहरहस्स्वाहा कुर्यादाकाष्ठात्तथैनं देवयज्ञं
समाप्नोति । अथ ब्रह्मयज्ञः । स्वाध्यायो वै ब्रह्मयज्ञ. इति ।
३. आपस्तम्बगृह्यसूत्रस्यानाकुलातात्पर्यदर्शनसहितस्य चौखम्बामुद्रणालयमुद्रितस्य
पुस्तकस्य १०४ पृष्ठे द्रष्टव्यम् ।
पञ्चयज्ञादि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७३
अपरे तु-अशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं न
कर्तव्यमिति स्थिताः ।
पितृभ्यः स्वधाकारेण प्रदानम् आउदपात्रात् अन्नाद्यभावे उदपात्रमपि
स्वधाकारेण तावद्देयम् । पात्रग्रहणात् सह पात्रेण देयम् । एष पितृयज्ञः ।
स्वाध्याय·(१) ‘तस्य विधि’ रित्यारभ्योक्तो नित्यस्वाध्यायः । स तु ब्रह्मयज्ञः।
इतिः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदेशक्रमोऽनुष्ठान
उपयुज्यते । अनुष्ठानं तु—(२)ब्रह्मयज्ञो, देवयज्ञः, पितृयज्ञो, भूतयज्ञो,
मनुष्ययज्ञ इति ॥ १ ॥
पूजां प्रसङ्गादाह—
पूजा वर्णज्यायसां कार्या ॥ २ ॥
वर्णतो(३) ये ज्यायांसः प्रशस्ततरा भवन्ति तेषामवरेण वर्णेन
कार्या पूजा अध्वन्यनुगमनादिका उत्सवादिषु च गन्धलेपादिका ॥ २ ॥
वृद्धतराणां च ॥ ३ ॥
सजातीनामपि पूजा कार्या । तरपो निर्देशात्(४) विद्यावयःकर्म-
भिर्वृद्धानां ग्रहणम् । हीनानामपीत्येके । तथा च मनुः—
(५)‘शूद्रोऽपि दशमीं गत’ इति ॥ ३ ॥
पूजा कार्येत्युक्तम् । तद्विरोधी हर्षो वर्ज्य इत्याह—
हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे
खलु पुनर्नरर्कः ॥ ४ ॥
अभिमतलाभादिनिमित्तश्चित्तविकारो हर्षः । तद्युक्तो हृष्टः । स द-
र्पति तृप्यति । दर्पो गर्वोऽभिमानः । दृप्तो धर्ममतिक्रामति, पूज्यपूजनादिकं प्रति
स्तब्धत्वात् । खलुपुनश्शब्दौ वाक्यालङ्कारे । धर्मातिक्रमे खलु पुनर्नरको भवति
१. आ. ध. ११ २२.
२ शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः. पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु
ब्राह्मणोक्तेनैव क्रमेणानुष्ठानम् । च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः ।
३. अत्र प्रथमान्तस्सर्वोऽप्येकवचनान्ततया पठ्यते क. पु.
४. वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदु
त्तरम् ॥ इति मनूक्तैर्विद्यादिभिर्वृद्धानामित्यर्थः ॥
५. म. स्मृ. २. १३७. दशमीं गतः नवत्यधिकां अवस्था गत इत्यर्थः । वर्षाणा
शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति ।
आप० ध० १०
७४ आपस्तम्बधर्मसूत्रे [(प.४.)क.१३.
निरयं प्रतिपद्यते । तस्माद्धर्मातिक्रममूलभूतो हर्षो न कर्तव्यः । यद्यपि
भूतदाहीयेषु (१)दोषेषु वर्जनीयेषु हर्षोऽपि, (२)वक्ष्यते । तथापीह विशे-
षेण हर्षस्य वर्जनार्थोऽयमारम्भः । योगाङ्गत्वाद्वक्ष्यमाणस्य ॥ ४ ॥
न समावृत्ते समादेशो विद्यते ॥ ५ ॥
समावृत्तं शिष्यं प्रति आचार्येण समादेशो न देयः-इदं त्वया कर्तव्य-
मिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैव
मिदानीम् । स्वेच्छया करणे न प्रतिषेध्यम् ॥ ५ ॥
ओङ्कारस्स्वर्गद्वारं तस्माद्ब्रह्माऽध्येष्यमाण
एतदादि प्रतिपद्येत ॥ ६ ॥
ओङ्कारः प्रणवः स्वर्गस्य द्वारमिव । यथा द्वारेण गृहाभ्यन्तरं प्राप्य-
ते तथाऽनेन स्वर्गः । तस्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अना-
म्नातमप्योङ्कारमादौ कृत्वा प्रतिपद्येत उपक्रमेताऽध्येतुम् ॥ ६ ॥
विकथां चान्यां कृत्वैवं लौकिक्या वाचा
व्यावर्तते ब्रह्म ॥ ७ ॥
अध्ययने ऽनुपयुक्ता कथा विकथा । तां चान्यां कृत्वा एतदादि प्रति-
पद्येत । एवं सति ब्रह्म वेदः लौकिक्या वाचा व्यावर्तते तया मिश्रितं न
भवति ॥ ७ ॥
पुनरप्योङ्कारमेव स्तौति-
यज्ञेषु चैतदादयः प्रसवाः ॥ ८ ॥
यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुज्ञा-
वाक्यानि भवन्ति ब्रह्मादीनाम्—ॐ प्रणय, ॐ निर्वप, ॐ (३)स्तु-
ध्वमिति ॥ ८ ॥
लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा
पुण्याहं स्वस्त्यृद्धिमिति ॥ ९ ॥
यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु
१. दोषेषु वर्जनीयेषु इति नास्ति ख. पु. २. आप ध. १. २३. ६.
३ सोमयागे उद्गातृप्रस्तोतृप्रतिहर्त्राह्वयान् छन्दोगान् प्रति गुणिनिष्ठगुणाभिधानरूप-
स्तोत्रारम्भार्थमध्वर्युणाऽनुज्ञादानमिदम् ।
ॐकारप्रशंसा ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७५
एतदादीन्येव वाक्यानि स्युः । तान्युदाहरति—यथेति । पुण्याहवाचने ॐ
कर्मणः पुण्याहं भवन्तो ब्रुवन्त्वि'ति वाचयिता वदति । (१)'ॐ पुण्या-
हं कर्मणोऽस्तु' इति प्रतिवक्तारः । (२)'ॐ कर्मणे स्वस्ति भवन्तो ब्रुव
न्तु' इति वाचयिता । 'ॐ कर्मणे स्वस्ति' इतीतरे । (३)'ॐ कर्मण ऋद्धिं
भवन्तो ब्रुवन्तु' इति वाचयिता । 'ॐ कर्मर्ध्यता'मितीतरे । तस्मादेवं
प्रशस्त ॐकार इति ॥ ९॥
नाऽसमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिसह-
वचनमिति परिहाप्य ॥ १० ॥
समयः शुश्रूषा, तेन विना कृच्छ्रं दुःखं दुरवधारणं अपूर्वं ग्रन्थं न
कुर्वीत । क्रियासामान्यवचनः करोतिरध्ययनेऽध्यापने च वर्तते । सम-
येन विना शिष्योऽपि कृच्छ्रं ग्रन्थं नाऽधीयीत । आचार्योऽपि नाध्याप-
येत् । तथा च मनुः—
(४)'धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे' ॥ इति ।
किमविशेषेण ? नेत्याह—त्रिःश्रावण त्रिसहवचनमिति परिहाप्य वर्ज
यित्वा । त्रिःश्रावणमात्रे त्रिसहवचनमात्रे चान्यतरापेक्षया क्रियमाणे
शुश्रूषा नाऽपेक्ष्या । ततोऽधिके सर्वत्रापेक्ष्येति ॥ १० ॥
अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ॥११॥
विचिकित्सा संशयः । तदभावोऽविचिकित्सा सा यावदुत्पद्यते ताव-
द्ब्रह्म निगन्तव्यं नियमपूर्वमधिगन्तव्यमिति हारीतः आचार्यो मन्यते ।
अत्र पक्षे त्रिःश्रावणत्रिसहवचनयोरपि शुश्रूषितव्यम् । ब्रह्मग्रहणाद-
ङ्गेषु नायं विधिः ॥ ११ ॥
न बहिर्वेदे गतिर्विद्यते ॥ १२ ॥
वेदाद्बहिर्भूते काव्यनाटकादिश्रवणे । गतिः शुश्रूषा न विद्यते यद्यपि
तदुपयुक्तं वेदार्थज्ञाने ॥ १२ ॥
समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् ॥१३॥
१. ॐ पुण्याहं इति क.पु. २. ॐ कर्मणे स्वस्ति इति वाचयिता इति क. पु.
३. ॐ कर्मण ऋद्धिं इति क. पु ४. म स्मृ. २ ११२
७६ आपस्तम्बधर्मसूत्रे [ (प.४.)क.१३.
य आचार्येण समादिष्टोऽध्यापयति तं यावदध्ययनं यावदसावध्यापयते
तावदुपसंगृह्णीयात् । तथा(१)‘समादिष्टेऽध्यापयती’त्यत्राऽऽचार्यदारवद्वृ-
त्तिरुक्ता । तत्र (२)चा‘न्यत्रोपसङ्ग्रहणादि’ति वर्तते । (३)अत उपसङ्ग्रह-
णार्थोऽयमारम्भः ॥ १३ ॥
नित्यमर्हन्तमित्येके ॥ १४ ॥
स चेत्समादिष्टोऽर्हन् भवति(४) विद्यासदाचारादिना । ततो नित्य
मुपसंगृह्णीयात् , इत्येके मन्यन्ते । स्वमतं तु यावदध्ययनमिति ॥ १४ ॥
न गतिर्विद्यते ॥ १५ ॥
यद्यप्यसावर्हन् भवति तथाप्याचार्ये या गतिःशुश्रूषा सा तस्मिन्न
कर्तव्या ॥ १५ ॥
वृद्धानां तु ॥ १६ ॥
तुशब्दार्थे । वृद्धाना चान्तेवासिनां न गतिर्विद्यते । पूर्ववयसाऽन्ते
वासिना अवरवया आचार्यो न शुश्रूषितव्यः । अध्ययनादूर्ध्वमित्येके ।
अध्ययनकालेऽपीत्यन्ये । केचिदवरवयसाऽप्यन्तेवासिना न वार्धके गतिः
कर्तव्येत्याहुः ॥ १६ ॥
ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते ॥ १७ ॥
ब्रह्मणि वेदविषये यदा मिथो विनियोगः क्रियते बह्वृचो यजुर्वेदिनः
सकाशाद्यजुर्वेदमधीते सोऽपि तस्मादृग्वेदम् । तदाऽपि परस्परं शुश्रूषा
न कर्तव्या ॥ १७ ॥
अत्र हेतुं स्वयमेवाह—
ब्रह्म वर्धत इत्युपदिशन्ति ॥ १८ ॥
द्वयोरपि ब्रह्म वर्धते । सैव ब्रह्मवृद्धिः शुश्रूषेत्युपदिशन्त्याचार्याः ॥१८॥
निवेशे वृत्ते संवत्सरेसंवत्सरे द्वौद्वौ मासौ समाहित
आचार्यकुले वसेद्भूयःश्रुतिमिच्छन्निति
श्वेतकेतुः ॥ १९ ॥
भूयःश्रवणमिच्छन् पुरुषो निवेशे दारकर्मणि वृत्तेऽपि प्रतिसंवत्सरं द्वौद्वौ
१. आप. ध १. ७ २८. २. आप ध १ ७ २७
३. तत• इति क. पु ४. विद्यासदाचारादिना इति नास्ति ख. पु
मासौ समाहितो भूत्वाऽचार्यकुले वसेदिति श्वेतकेतुराचार्यों मन्यते ॥ १९ ॥
अत्र हेतुत्वेन श्वेतकेतोरेव शिष्यान्प्रति वचनम्—
एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतम-
कुर्वीति ॥ २० ॥
एतेनानन्तरोक्तेन योगेनोपायेन अहं पूर्वस्मात् ब्रह्मचर्यकालात् भूयः
(१)बहुतरं श्रुतमकुर्वीति कृतवानस्मि । अतो यूयमपि तथा कुरुध्वमिति ॥
तच्छास्त्रैर्विप्रतिषिद्धम् ॥ २१ ॥
तदिदं श्वेतकेतोर्वचनं श्रुत्यादिभिः शास्त्रैर्विंरुद्धम् ॥ २१ ॥
कथमित्यत आह—
निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते ॥ २२ ॥
हिशब्दो हेतौ । यस्मात् निवेशे वृत्ते नैयमिकानि नियमेन कर्तव्यानि
नित्यानि कर्माणि श्रूयन्ते ॥ २२ ॥
॥ इति त्रयोदशी कण्डिका ॥
कानि पुस्तकानि ?
(२)अग्निहोत्रमतिथयो यच्चान्यदेवं युक्तम् ॥ १ ॥
अग्निहोत्रम्, अतिथयः अतिथिपूजा ।
(३)‘यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः ॥’ इति ।
यच्चान्यदेव युक्तं एवंविधं श्राद्धसन्ध्योपासनादि । एवमेतैः कर्मभि-
रहरहराक्रान्तस्य न (४)शरीरकण्डूयनेष्वप्यवसरो भवति । स कथं
१ अधिकतर इति ख पु
२. अग्निहोत्रमतिथयः । यच्चान्यदेवं युक्तम् । इति सूत्रद्वयत्वेन परिगणितं ख. च.
पुस्तकयोः ।
३. वसि० स्मृ० ८. १६. वचनमिदं स्मृतिमुक्ताफले ‘दक्षः’--इत्यारभ्य पठितेषु
वचनेषु मध्ये पठितम् । इदानीमुपलभ्यमानमुद्रितदक्षस्मृतिपुस्तके तु नोपलभ्यते । वसिष्ठ
स्मृत्तावेवोपलभ्यते । ४. शिरःकण्डूयने इति ख पु.
द्वाङ्खौ मासौ गुरुकुले वसेदिति ॥ १ ॥
अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ॥ २ ॥
यमाचार्यं माणवकोऽध्ययनं प्रयोजनमुद्दिश्य चोदयेत्-'शिष्यस्तेऽह
शाधि मां त्वां प्रपन्न'मिति, स एनं माणवकं नैव प्रत्याचक्षीत। चशब्दो-
ऽवधारणे ॥ २ ॥
किमविशेषेण ? नेत्याह-
न चास्मिन् दोषं पश्येत् ॥ ३ ॥
चणिति निपातोऽस्ति-(१)'निपातैर्यद्यदिहन्तकुविन्नेच्चच्चेच्चणकच्चि-
द्यत्रयुक्त'मिति। स चेदर्थे वर्तते। (२)'इन्द्रश्च मृडयाति न' इत्यादौ
दर्शनात्। तस्यायं प्रयोगः-न चेदस्मिन् माणवके दोषमनध्याप्यताहेतुं
पश्येत् ॥ ३ ॥
यदृच्छायामंसंवृत्तौ गतिरेव तस्मिन् ॥ ४ ॥
समानमधीयानेषु माणवकेषु यदि कस्यचिद्यदृच्छया दृष्टहेतुम-
न्तरेण बुद्धिमान्द्यादिनाऽध्ययनस्या (३)संवृत्तिस्स्यात् अधीतो भागो
माणवकान्तरवन्नागच्छेत् तदा तस्यां यदृच्छायामंसंवृत्तौ तस्मिन्नाचार्ये
गतिरेव शुश्रूषैव माणवकस्य शरणम् । तथा च मनुः--
(४)'यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥' इति ।
अधिकं शुश्रूषितो हि गुरुस्सर्वात्मना त शिक्षयेदिति ॥ ४ ॥
मातरि पित्र्याचार्यवच्छुश्रूषा ॥ ५ ॥
मातृग्रहणेन पितामहीप्रपितामह्योरपि ग्रहणम् । पितृग्रहणेन पि-
तामहप्रपितामहयोः । सर्वे एते आचार्यवच्छुश्रूषितव्याः ॥ ५ ॥
समावृत्तेन सर्वे गुरव उपसङ्ग्राह्याः ॥ ६ ॥
उक्ताश्चानुक्ताश्च ज्येष्ठभ्रातृमातुलादयः सर्वे गुरव समावृत्तेनाहरहरुपसंग्राह्याः ॥
प्रोष्य च समागमे ॥ ७ ॥
१. पा० सू० ८. ३. १०. २. ऋ. सं २. ४१ ११.
३. समावृत्तिः इति क. पु. ४ म स्मृ २ २१८
अभिवाद्याः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७९
यदि स्वयं प्रोष्य समागतो भवति । गुरवो वा प्रोष्य समागताः ।
तदापि ते उपसङ्ग्राह्याः ॥ ७ ॥
भ्रातृषु भगिनीषु च यथापूर्वमुपसङ्ग्रहणम् ॥ ८ ॥
पूर्वेणैव सिद्धे क्रमार्थं वचनम्-यथापूर्वं ज्येष्ठक्रमेणेति ॥ ८ ॥
नित्या च पूजा यथोपदेशम् ॥ ९ ॥
(१)‘पूजा वर्णज्यायसां कार्या, वृद्धतराणां चे’त्युपदेशानुरोधेन या
नित्या पूजा सा यथापूर्वं वृद्धक्रमेण ॥ ९ ॥
ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः
प्रत्युत्थायाऽभिवदेत् ॥ १० ॥
(२)‘त्रिवर्षपूर्व. श्रोत्रियोऽभिवादनमर्हती’ति वक्ष्यति । तेनावरवयस
ऋत्विगादयोऽप्यभिवाद्यन्ते । तानभिवाद्यमानान् प्रत्युत्थायाऽभिव
देत् । नान्येष्विव सुखमासीनोऽभिवदति । वयस्त उत्कृष्ठानां तेषामिय
मेव पूजा ॥ १० ॥
तूष्णीं वोपसंगृह्णीयात् ॥ ११ ॥
अथवा प्रत्युत्थाय स्वयमपि तांस्तूष्णीमुपसङ्गृह्णीयात् । विद्याचारित्राद्य
पेक्षो विकल्पः ॥ ११ ॥
अथाभिवाद्या उच्यन्ते—
दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् ।
त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमर्हति ॥ १२ ॥
पुरेभवं पौरम् । पौरं च तत्सख्यं च पौरसख्यं सेवादिनिबन्धनं बा-
न्धवं तदभिवादनस्य निमित्तम् । कीदृशम् ? दशवर्षान्तरालं, दशवर्षा-
धिकः पौरस्सखा अश्रोत्रियोऽप्याभिवाद्य इति विवक्षितम् । पञ्चवर्षं तु
चारणम् । सख्यमित्युपसमस्तमप्यपेक्षते । चारणशब्दः शाखाध्यायिषु
रूढः । तेषां सख्यं पञ्चवर्षमभिवादनस्य निमित्तम् । (३)श्रोत्रियं वक्ष्यति ।
त्रिवर्षपूर्वः श्रोतियोऽभिवादनमर्हति । स त्रिवर्षपूर्वतामात्रेणाभिवादनमर्हति,
न पूर्वसंस्तवमपेक्षते ॥ १२ ॥
१. आप. ध. १, १३ २, ३ २. आप. ध. १ १४. १३
३ आप ध. २. ६. ४.
८० आपस्तम्बधर्मसूत्रे [ (प.४)क. १४.
ज्ञायमाने वयोविशेषे वृद्धतरायाऽभिवाद्यम् ॥ १३ ॥
क्रमार्थमिदम्(१) वयोविशेषे ज्ञायमाने पूर्वं वृद्धतरायाऽभिवाद्यम् अभिवादनं
कर्तव्यम् । पश्चाद्वृद्धायेति ॥ १३ ॥
विषमगतायाऽगुरवे नाभिवाद्यम् ॥ १४ ॥
उच्चैःस्थाने नीचैःस्थाने वाऽवस्थितो विषमगतः । तस्मै गुरुव्यति-
रिक्ताय नाभिवाद्यम् । गुरवे त्वभिवाद्यमेव, दर्शने सति तूष्णीमवस्थान-
स्याऽयुक्तत्वात् ॥ १४ ॥
अन्वारुह्य चाभिवादयीत ॥ १५ ॥
इदमगुरुविषयम् । यत्रासावभिवादनीयः स्थितः तत्रान्वारुह्याभिवाद-
यीताऽभिवदेत् । अन्ववरुह्येत्यापे द्रष्टव्यम , न्यायस्य तुल्यत्वात् । गुरौ
तु दृष्टमात्र एवाभिवादनमित्युक्तम् ॥ १५ ॥
सर्वत्र तु प्रत्युत्थायाभिवादनम् ॥ १६ ॥
सर्वत्र गुरावगुरौ च प्रत्युत्थायैवाभिवादनं कर्तव्यम् ॥ १६ ॥
उत्तरे द्वे सूत्रे निगदसिद्धे ॥
(२)अप्रयतेन नाभिवाद्यं, तथाऽप्रयताया,ऽप्र
यतश्च न प्रत्यभिवदेत् ॥ १७ ॥
यद्यज्ञानादप्रयताय कश्चिदभिवादयेत् तथापि सोऽप्रयतो न प्रत्य-
भिवदेत् ॥ १७ ॥
पतिवयसः स्त्रियः ॥ १८ ॥
पत्युर्यद्वयस्तदेव स्त्रीणां वयः । तेन तदनुरोधेन ज्येष्ठभार्यादिष्व-
भिवादनम् ॥ १८ ॥
न सोपानद्वेष्टितशिरा अवहितपाणिर्वा-
भिवादयीत ॥ १९ ॥
अवहितपाणिः समिध्रुशादिहस्तः, दात्रादिहस्तो वा । अन्यत्प्रसिद्धम्॥
सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च(३) न नाम्ना ॥ २० ॥
१. 'वचन'मित्यधिक ख. पु. २. इद सूत्रं त्रिधा विभक्त ख. च. पु.
३. 'न नाम्ना' इति पृथक् सूत्रं कृतं क. पु
कुशलप्रश्न. ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८१
स्त्रिय सर्वनाम्नैवाभिवादयीत अभिवादयेऽहमिति न नाम्ना(१) ऽसाधा-
रणेन देवदत्तोऽहमभिवादय इति । एवं राजन्यवैश्यौ च ॥ २० ॥
मातरमाचार्यदारं चेत्येके ॥ २१ ॥
मातरमाचार्यदारं चेते अपि द्वे सर्वनाम्नैवाऽभिवादयीत । न नाम्ना
भिवादयीतेत्येके मन्यन्ते । स्वमतं तु नाम्नैवेति ॥ २१ ॥
वयोविशेषेणाभिवादनं हीनवर्णै नास्तीत्याह—
दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः ।
पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता ॥
शिष्यं प्रत्याचार्यस्याऽयमुपदेशः । स्मशब्दः श्लोकपूरणो निपातः ।
ब्राह्मणः क्षत्रिय इत्युपलक्षणमुत्तमाधमवर्णानाम् । विद्धि जानीहि ।
(२)शिष्टं स्पष्टम् ॥२२ ॥
कुशलमवरवयसं वयस्यं वा पृच्छेत् ॥ २३ ॥
ब्राह्मणविषयमिदम् । (३)क्षत्रियादिषु विशेषस्य वक्ष्यमाणत्वात् ।
वयसा तुल्यो वयस्यः । अवरवयस वयस्य वा ब्राह्मणं पथ्यादिषु सङ्गतं
कुशलं पृच्छेत्—'अपि कुशल'मिति ॥ २३ ॥
अनामयं क्षत्रियम् ॥ २४ ॥
पृच्छेत् 'अप्यनामयं भवत' इति । आमयो रोगः तदभावोऽनामयम् ॥
अनष्टं वैश्यम् ॥ २५ ॥
'अप्यनष्टपशुधनोऽसी'ति ॥ २५ ॥
आरोग्यं शूद्रम् ॥ २६ ॥
शूद्रमारोग्यं पृच्छेत्—'अप्यरोगो भवा'निति ॥ २६ ॥
नाऽसम्भाष्य श्रोत्रियं व्यतिव्रजेत् ॥ २७ ॥
श्रोत्रियं पथि सङ्गतमसम्भाष्य न व्यतिव्रजेत न व्यतिक्रामेत् ॥ २७ ॥
१. असाधारणेन 'देवदत्तोऽहमभिवादये' इति क पुस्तके नास्ति ।
२. 'स्पष्टमन्य'दिति क. ख. च. पु. ३ इतरेषु इति क. पु.
आप० ध० ११
८२ आपस्तम्बधर्मसूत्रे [(प्र.४.)क.१४.
अरण्ये च स्त्रियम् ॥ २८ ॥
अरण्यग्रहणं (१)सभयस्य देशस्योपलक्षणम् । तत्र स्त्रियमेकाकि-
नीं दृष्ट्वा असम्भाष्य न व्यतिव्रजेत् । सम्भाषणं च मातृवद्भगिनी-
वच्च-‘भगिनि किं ते करवाणि न भेतव्यम्’ इति ॥ २८ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ चतुर्दशी काण्डका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु-
ज्ज्वलायां प्रथमप्रश्ने चतुर्थः पटलः ॥ ४ ॥
१ सहायरहितस्य' इति पाठान्तरम् । इति ख पुस्तकटिप्पण्याम् ।
अथ पञ्चमः पटलः ॥
——————
सर्वेषामेव कर्मणां शेषभूतमाचमनं विधास्यंस्तदुपयोगिनो वि-
धीनाह—
उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यक-
र्मणि भोजन आचमने स्वाध्याये च
यज्ञोपवीती स्यात् ॥ १ ॥
गुरूणामाचार्यादीनाम् , अन्येषां च वृद्धाना पूज्यानामतिथीना च उपा-
सने यदा तानुपास्ते तदा, होमे साङ्गे पिण्ड्यादन्यत्र, जप्यकर्मणि जपक्रि-
यायां भोजनाचमनयोश्च, स्वाध्यायाध्ययने च, यज्ञोपवीती स्यात् यज्ञोप-
वीती भवेत् । वासोविन्यासविशेषो यज्ञोपवीतम्(१) 'दक्षिणं बाहुमु-
द्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम्, इति ब्राह्मणम् । वाससोऽसम्भ-
वेऽनुकल्पं वक्ष्यति 'अपि वा सूत्रमेवोपवीतार्थं' (२-४-२२ ) इति ।
मनुरप्याह—
(२)'कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । इति ॥
(३)'उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ॥' इति च ।
एषु कर्मसु यज्ञोपवीतविधानात्कालान्तरे नावश्यम्भावः ॥ १ ॥
भूमिगतास्वप्स्वाचम्य प्रयतो भवति ॥ २ ॥
(४)आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः(५) ॥ इति मनुः ।
'शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम्' इति । याज्ञवल्क्य.
(६) अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिक। ।
दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥' (७)इति ।
१. तै. आ. २. १. २. म स्मृ. २. ४४.
३. म. स्मृ २ ६३. 'द्विजः' इति ख. च. पुस्तकयोः मुद्रितमनुस्मृतिपुस्तके च ।
४. यज्ञोपवीतविधानात् इति. ख. पु. ५. म. स्मृ ५. १२७. या. स्मृ. १.१९२
६ अयं श्लोको मुद्रितमनुस्मृतिपुस्तकेषु नोपलभ्यते । ७. 'मनुः' इति क. पु.
८४ आपस्तम्बधर्मसूत्रे [ (प.५.) क.१५
श्रावणे मासि सम्प्राप्ते सर्वा नद्यो रजस्वलाः(१) ।'
इति स्मृत्यन्तरम् । एवंभूतदोषरहितास्वप्स्वाचम्य प्रयतो भवति ।
प्रायत्यार्थमाचमनं भूमिगतास्वप्सु कर्तव्यमिति ॥ २ ॥
यं वा प्रयत आचमयेत् ॥ ३ ॥
यं वा प्रयतोऽन्य आचमयेत् सोऽपि प्रयतो भवति । सर्वथा स्वयं वाम-
हस्तावर्जिताभिरद्भिराचमनं न भवति । एतेन शास्त्रान्तरोक्तं कमण्ड-
लुधारणमप्याचार्यस्याऽनभिमतं लक्ष्यते। अलाबुपात्रेण नालिकेरपात्रेण
वा स्वयमाचमनमाचरन्ति शिष्टाः ॥ ३ ॥
न वर्षधारास्वाचामेत् ॥ ४ ॥
पूर्वोक्तेन प्रकारेण प्रायत्यार्थस्याचमनस्य वर्षधारासु प्रसङ्गाभा-
वात् पिपासितस्य पानप्रतिषेधार्थमिति केचित् । अपर आह-अस्मा-
देव प्रतिषेधाच्छिक्यादिस्थकरकादेर्या धारा तत्र प्रायत्यार्थमाचम-
न(२) भवतीति ॥ ४ ॥
तथा(३) प्रदरोदके ॥ ५ ॥
भूमेः स्वयं दीर्णः प्रदेशः प्रदर तत्र यदुदकं तस्मिन् भूमिगतेऽपि
नाऽऽचामेत् ॥ ५ ॥
तप्ताभिश्चाऽकारणात् ॥ ६ ॥
तप्ताभिरद्भिर्नाचामेत् अकारणात् ज्वरादौ कारणे सति न दोषः ।
'तप्ताभि' रिति वचनात् शृतशीताभिरदोषः । तथा चोष्णानामेव प्र-
तिषेधः स्मृतिषु (४)प्रायो भवति ॥ ६ ॥
रिक्तपाणिर्वयस उद्यम्याऽप उपस्पृशेत् ॥ ७ ॥
वय इति पक्षिनाम । यो रिक्तपाणिस्सन् वयसे पक्षिण इद्यम्य तस्य
प्रोत्सारणाय पाणिमुद्यच्छते स तत्कृत्वाऽप उपस्पृशेत् तेनैव पाणिना ।
'रिक्तपाणि' रिति वचनात् काष्ठलोष्ठादिसहितस्य पाणेरुद्यमने न
दोषः । केचिदुपस्पर्शनमाचमनमाहुः ॥ ७ ॥
१. एतदनन्तर 'त्रिदिनं च चतुर्थेऽन्हि शुद्धास्स्युर्नाह्नवी यथा' इत्यर्धमधिक दृश्यते
ग. पु. स्मृत्यन्तरं' इति च नास्ति २. न मवत्येव इति ख. ग. पु
३. तस्मात् प्रदरादुदकं नाचामेत्' इति तैत्तिरीयब्राह्मणम् ।
४ प्रायशः इति. ख. पु. स्मृतिषु । इत्यन्तमेव च पुस्तके ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८५
शक्तिविषये न मुहूर्तप्यप्रयतः स्यात् ॥ ८ ॥
शक्तौ सत्यां मुहूर्त्तमप्यप्रयतो न स्यात् । आचमनयोग्यजलं दृष्ट्वैव मूत्र-
पुरीषादिकं कुर्यात् यदि तावन्तं कालं(१) वेगं धारयितुं शक्नुयात्
इति ॥ ८ ॥
नग्नो वा ॥ ९ ॥
न मुहूर्तमपि स्यादिति सम्बध्यते, शक्तिविषय इति च । व्रणा-
दिना कौपीनाच्छादनाशक्तौ न दोषः ॥ ९ ॥
नाप्सु सतः प्रयमणं विद्यते ॥ १० ॥
येन प्रयतो भवति तत्प्रयमणमाचमनम् । करणे ल्युट् । तदप्सु सतो वर्त-
मानस्य न भवति । जलमध्ये आसीनोऽपि नाचामेत् ॥ १० ॥
उत्तीर्य त्वाचामेत् ॥ ११ ॥
तीर उत्तीर्याचामेत् न जल इति । अयमर्थो न विधेयः । पूर्वेण गतत्वात् ।
तस्मादयमर्थः-यदा नदीमुत्तरति नावा प्रकारान्तरेण वा तदा तामु-
त्तीर्य तीरान्तरं गतः प्रयतोऽप्याचामेत् । नद्यादेरुत्तरणमाचमनस्य नि-
मित्तमिति । (२)तुरप्यर्थः ॥ ११ ॥
नाऽप्रोक्षितमिन्धनमग्नावादध्यात् ॥ १२ ॥
श्रौते स्मार्ते लौकिके वाऽग्नौ अप्रोक्षितमिन्धनं नाऽऽदध्यात् न प्रक्षिपेत् ।
केचिल्लौकिके नेच्छन्ति ॥ १ ॥
मूढस्वस्तरे चासंस्पृशन्नन्यानप्रयतानप्रयतो मन्येत।१३।
(३)पतितचण्डालसूतिकादेकपाशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेल’
मिति गौतम । (४)तस्मिन्विषय इदमुच्यते आसनतया शयनतया वा
सुष्ठ्वास्तीर्णः पलालादिसङ्घातः स्वस्तर । पृषोदरादिषु दर्शनाद्रूपसि-
द्धिः । यत्रातिश्लक्ष्णतया पलालादेर्मूलाग्रविभागो न ज्ञायते स मूढः ।
मूढश्चासौ स्वस्तरश्च मूढस्वस्तर तस्मिन् पतितादिष्वप्रयते-
ष्वासीनेषु यः कश्चित्प्रयत उपविशेत् न च तान् संस्पृशेत् । तदा स
१ तावन्तं कालं इति नास्ति क पु २ तुशब्दोऽप्यर्थे इति. क. पु
३ गौ ध. १४ ३०. उदक्या रजस्वला
४ तत्रेदमुच्यते इति ग. पु. पाठस्समीचीनः ।
८६ आपस्तम्बधर्मसूत्र [(१.५.)क. १५.
प्रयतो मन्येत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैव मन्येत ।
नैवंविधे विषये तत्स्पृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥
तथा तृणकाष्ठेषु निखातेषु ॥ १४ ॥
तृणकाष्ठेष्वपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥
प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥
शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि
वाससः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥
शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥
शुना उपहतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्टं तथापि सचेलोऽवगाहेत
भूमिगतास्वप्सु स्नायात् नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्राय-
श्चित्तम् । तत्र वसिष्ठः(१)
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति॥'
अङ्गिराः-
(२)'ब्रह्मचारी शुना दष्टस्त्रिरात्रेणैव शुद्ध्यति ।
गृहस्थस्तु द्विरात्रेण ह्येकाहेनाऽग्निहोत्रवान् ॥
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ।
तदेव त्रिगुणं वक्त्रे मूर्ध्नि चेत्स्याच्चतुर्गुणम् ॥
क्षत्रविट्शूद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् ।
द्विगुणं तु वनस्थस्य तथा प्रव्रजितस्य च ॥
ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् ।
यदा न दृश्यते सोमः प्रायश्चित्तं तदा कथम् ।
यां दिशं तु गतस्सोमस्तां दिशं त्ववलोकयेत् ॥
सोममार्गेण सा पूता पञ्चगव्येन शुद्ध्यति ॥' इति ॥ १६ ॥
प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य
पादौ चाऽऽचम्य प्रयतो भवति ॥ १८ ॥
१. वचनमिदं न वसिष्ठस्मृतावुपलभ्यते ।
२. वचनानीमानि स्मृतिमुक्ताफलकाररपि प्रायश्चित्तकाण्डे अङ्गिरोवचनत्वेनैवोपन्य-
स्तानि । परन्तु इदानीमुपलभ्यमानमुद्रिताङ्गिरःस्मृतिपुस्तके नोपलभ्यन्ते ॥ वासिष्ठत्वेन
तु लिखितं ख. च. पुस्तकयोष्टिप्पण्याम् ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८७
शुना स्पृष्टं प्रदेशं प्रक्षाल्याग्निना च संस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षा-
ल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥
(१)ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमभ्युपहन्यते ।
तत्र स्नानविधिः प्रोक्तो ह्यधः प्रक्षालनं स्मृतम् ॥'
इति मानवे दर्शनात् ॥ १७ ॥
अग्निं नाप्रयत आसीदेत् ॥ १८ ॥
अप्रयतस्सन्नग्निं नासीदेत् अग्नेरासन्नो न भवेत्, यावति
देशे ऊष्मोपलम्भः । तत्राप्यशक्तौ न दोषः ॥ १८ ॥
इषुमात्रादित्येके ॥ १९ ॥
इषुमात्रादर्वाङ्नासीदेत् । ऊष्मोपलम्भो भवतु वा मा भूदित्येके
मन्यन्ते ॥ १९ ॥
न चैनमुपधमेत् ॥ २० ॥
अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोषः ।
'मुखेनोपधमेदग्निं मुखाद्धयग्निरजायत ।'
इति स्मृत्यन्तरे दर्शनात् ।
(२) नाग्निं मुखेनोपधमे' दिति मानवे दर्शनादुभयोर्विकल्पः । अपर
आह—वाजसनेये श्रौतप्रकरणे 'मुखाद्धयग्निरजायत । तस्मान्मुखेनो-
पसमिन्ध्या' दिति दर्शनात् श्रौतेषु मुखेनोपसमिन्धनम्, अन्यत्र स्मार्ते
प्रतिषेध इति ।
अन्ये तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं
हि मुखव्यापारस्यानपायाच्छ्रुतिरप्यनुगृहीता भवति, आस्यबिन्दूनां पत-
नशङ्काभयात् प्रतिषेधस्मृतिरपीति ॥ २० ॥
खट्वायां च नोपदध्यात् ॥ २१ ॥
खट्वायां खट्वाया अधोऽग्निं नोपदध्यात् । अत्राप्यशक्तौ न दोषः ॥२१॥
प्रभूतैधोदके ग्रामे यत्राऽऽत्माधीनं प्रथमणं
तत्र वासो धार्यो ब्राह्मणस्य ॥ २१ ॥
१ म. स्मृ मुद्रितमनुस्मृतिपुस्तकेषु नाय श्लोक उपलभ्यते ।
२. म. स्मृ ४ ५३.
८८ आपस्तम्बधर्मसूत्रे [ (प.५) क. १५.
प्रभूत एधः उदकं च यस्मिन् ग्रामे तत्र वासो धर्म्यं धर्म्म्यः । अत्रापि
न सर्वत्र । किं तर्हि ? यत्रात्माधीन प्रथमण प्रायत्यं मूत्रपुरीषप्रक्षालना-
दीनि यत्रात्माधीनानि तत्र । यत्र तु कूपेष्वेवोदकं तत्र बहुकूपेऽपि न
वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । ग्रामग्रहणादेवंभूतेषु
घोषादिष्वपि न वस्तव्यम् ॥ २२ ॥
मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपान्·
च्छिष्टलेपान् रेतसश्च ये लेपास्तान्प्रक्षाल्य
पादौ चाऽऽचम्य प्रयतो भवति ॥ २३ ॥
मूत्रं पुरीषं वा कृत्वा उत्सृज्य तयोर्मूत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे
स्थिताः प्रदेशान्तरे वा पतिताः तान् सर्वान् । (१)अन्नलेपांश्चानुच्छिष्टा
नपि उच्छिष्टलेपांश्चानन्नलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ
मैथुने वा तान् सर्वानद्भिर्मृदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य
पश्चादाचम्य प्रयतो भवति । अत्र मृत्प्रमाणस्य सङ्ख्यायाश्चानुक्तत्वात्
यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च
याज्ञवल्क्यः—
(२)गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।' इति ।
देवलस्तु व्यक्तमाह—
(३)'यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् ।
प्रमाणं शौचसङ्ख्याया न शिष्टैरुपदिश्यते ॥' इति ।
पैठीनसि —
'मूत्रोच्चारे कृते शौचं न स्यादन्तर्जलाशये ।
अन्यत्रोद्धृत्य कुर्यात्तु सर्वदैव समाहितः ।' इति ॥ २३ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥
१. अन्नले पानुच्छिष्टानप्युच्छिष्टलेपानन्नलेपानपि. इति ख. पुस्तकेऽपपाठः ।
२. या. स्मृ. १. १७. ३ मुद्रितदेवलस्मृताविदं वचन नोपलभ्यते ।