आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 80, कुल 399 में से
संदर्भ में पढ़ेंनित्यस्वाध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ६९
तदेव (१)शाखान्तरं पठति—
अथ यदि वा वातो वाद्यात्स्तनयेद्वा विद्योतित वाऽवस्फू-
र्जेदेकां वर्चमेकं वा यजुरेकं वा सामाऽभिव्याहरेद्भूभूर्भु-
वस्सुवस्सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो-
हैवाऽस्यैतदहस्स्वाध्याय उपात्तो भवति ॥ ५ ॥
अन्ते इतिशब्दोऽध्याहार्यः । वातादिषु सत्सु एकासृचमधीयीत ।
प्राप्ते प्रदेशे । यजु(२)र्वेदाध्ययन एकं यजुः । साम(३)वेदाध्ययन एक साम ।
सर्वेषु वा वेदेषु 'भूर्भुवः सुव' रित्यादिकं यजुरभिव्याहरेत्, न पुनर्य-
थापूर्वं प्रश्नमात्रम् । तेनैव तावतैवास्याऽध्येतुः तदहः तस्मिन्नहनि स्वाध्याय
उपात्तो भवति(४) अधीतो भवतीति यावत् । केचित्तु 'भूर्भुवः सुव' रित्या-
दिक ब्राह्मणभागाध्ययनविषयं मन्यन्ते, न सार्वत्रिकम् ॥ ५ ॥
कस्मात् पुनर्वाजसनेयिब्राह्मणस्योदाहृते शाखान्तरे वाक्यसमा-
प्तिराश्रीयते न पुनर्यथाश्रुतमात्रं गृह्यते ? तत्राह—
एवं सत्यार्यसमयेनाऽविप्रतिषिद्धम् ॥ ६ ॥
एवं सति वाक्यपरिसमाप्तावाश्रीयमाणायामार्यसमयेन आर्याः शिष्टा
मन्वादयः तेषां समयो व्यवस्था, तेन अविप्रतिषिद्ध भवति । इतरथा
विप्रतिषिद्धं स्यात् ॥ ६ ॥
कथम् ?
अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाज-
सनेयिब्राह्मणं चेदवेक्षेत ॥ ७ ॥
आर्या हि अध्यागमनध्यायं चोपद्दिशन्ति । तदुपदेशनमनर्थकं स्यात् यदि
वाजसनेयिब्राह्मणं यथाश्रुतमवेक्षताऽध्येता ॥ ७ ॥
ननु-अनर्थकमेवेदमस्तु, श्रुतिविरोधात् । तत्राह—
आर्यसमयो ह्यगृह्यमाणकारणः ॥ ८ ॥
योऽयमध्यायानध्यायविषय आर्यसमयः न तत्र किञ्चित्कारणं
गृह्यते । यथा(५) 'वैसर्जनहीमीयं वासोऽध्वर्यवे ददाती' त्यत्रागृह्यमाण
१ किमिदं शाखान्तरमिति न ज्ञायते । २, ३. वेदाध्यायी इति क. पु.
४. स्वीकृतो भवति अधीतो भवतीत्यर्थ , इति. ख. पु
५. सोमयागे अग्नीषोमीयपश्वनुष्ठानकाले तदर्थ शालामुखीयादग्ने काचिदशमुद्धृत्य