सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 85, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 85

७४ आपस्तम्बधर्मसूत्रे [(प.४.)क.१३.
निरयं प्रतिपद्यते । तस्माद्धर्मातिक्रममूलभूतो हर्षो न कर्तव्यः । यद्यपि
भूतदाहीयेषु (१)दोषेषु वर्जनीयेषु हर्षोऽपि, (२)वक्ष्यते । तथापीह विशे-
षेण हर्षस्य वर्जनार्थोऽयमारम्भः । योगाङ्गत्वाद्वक्ष्यमाणस्य ॥ ४ ॥
न समावृत्ते समादेशो विद्यते ॥ ५ ॥
समावृत्तं शिष्यं प्रति आचार्येण समादेशो न देयः-इदं त्वया कर्तव्य-
मिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैव
मिदानीम् । स्वेच्छया करणे न प्रतिषेध्यम् ॥ ५ ॥
ओङ्कारस्स्वर्गद्वारं तस्माद्ब्रह्माऽध्येष्यमाण
एतदादि प्रतिपद्येत ॥ ६ ॥
ओङ्कारः प्रणवः स्वर्गस्य द्वारमिव । यथा द्वारेण गृहाभ्यन्तरं प्राप्य-
ते तथाऽनेन स्वर्गः । तस्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अना-
म्नातमप्योङ्कारमादौ कृत्वा प्रतिपद्येत उपक्रमेताऽध्येतुम् ॥ ६ ॥
विकथां चान्यां कृत्वैवं लौकिक्या वाचा
व्यावर्तते ब्रह्म ॥ ७ ॥
अध्ययने ऽनुपयुक्ता कथा विकथा । तां चान्यां कृत्वा एतदादि प्रति-
पद्येत । एवं सति ब्रह्म वेदः लौकिक्या वाचा व्यावर्तते तया मिश्रितं न
भवति ॥ ७ ॥
पुनरप्योङ्कारमेव स्तौति-
यज्ञेषु चैतदादयः प्रसवाः ॥ ८ ॥
यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुज्ञा-
वाक्यानि भवन्ति ब्रह्मादीनाम्—ॐ प्रणय, ॐ निर्वप, ॐ (३)स्तु-
ध्वमिति ॥ ८ ॥
लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा
पुण्याहं स्वस्त्यृद्धिमिति ॥ ९ ॥
यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु
१. दोषेषु वर्जनीयेषु इति नास्ति ख. पु. २. आप ध. १. २३. ६.
३ सोमयागे उद्गातृप्रस्तोतृप्रतिहर्त्राह्वयान् छन्दोगान् प्रति गुणिनिष्ठगुणाभिधानरूप-
स्तोत्रारम्भार्थमध्वर्युणाऽनुज्ञादानमिदम् ।