आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 87, कुल 399 में से
संदर्भ में पढ़ें७६ आपस्तम्बधर्मसूत्रे [ (प.४.)क.१३.
य आचार्येण समादिष्टोऽध्यापयति तं यावदध्ययनं यावदसावध्यापयते
तावदुपसंगृह्णीयात् । तथा(१)‘समादिष्टेऽध्यापयती’त्यत्राऽऽचार्यदारवद्वृ-
त्तिरुक्ता । तत्र (२)चा‘न्यत्रोपसङ्ग्रहणादि’ति वर्तते । (३)अत उपसङ्ग्रह-
णार्थोऽयमारम्भः ॥ १३ ॥
नित्यमर्हन्तमित्येके ॥ १४ ॥
स चेत्समादिष्टोऽर्हन् भवति(४) विद्यासदाचारादिना । ततो नित्य
मुपसंगृह्णीयात् , इत्येके मन्यन्ते । स्वमतं तु यावदध्ययनमिति ॥ १४ ॥
न गतिर्विद्यते ॥ १५ ॥
यद्यप्यसावर्हन् भवति तथाप्याचार्ये या गतिःशुश्रूषा सा तस्मिन्न
कर्तव्या ॥ १५ ॥
वृद्धानां तु ॥ १६ ॥
तुशब्दार्थे । वृद्धाना चान्तेवासिनां न गतिर्विद्यते । पूर्ववयसाऽन्ते
वासिना अवरवया आचार्यो न शुश्रूषितव्यः । अध्ययनादूर्ध्वमित्येके ।
अध्ययनकालेऽपीत्यन्ये । केचिदवरवयसाऽप्यन्तेवासिना न वार्धके गतिः
कर्तव्येत्याहुः ॥ १६ ॥
ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते ॥ १७ ॥
ब्रह्मणि वेदविषये यदा मिथो विनियोगः क्रियते बह्वृचो यजुर्वेदिनः
सकाशाद्यजुर्वेदमधीते सोऽपि तस्मादृग्वेदम् । तदाऽपि परस्परं शुश्रूषा
न कर्तव्या ॥ १७ ॥
अत्र हेतुं स्वयमेवाह—
ब्रह्म वर्धत इत्युपदिशन्ति ॥ १८ ॥
द्वयोरपि ब्रह्म वर्धते । सैव ब्रह्मवृद्धिः शुश्रूषेत्युपदिशन्त्याचार्याः ॥१८॥
निवेशे वृत्ते संवत्सरेसंवत्सरे द्वौद्वौ मासौ समाहित
आचार्यकुले वसेद्भूयःश्रुतिमिच्छन्निति
श्वेतकेतुः ॥ १९ ॥
भूयःश्रवणमिच्छन् पुरुषो निवेशे दारकर्मणि वृत्तेऽपि प्रतिसंवत्सरं द्वौद्वौ
१. आप. ध १. ७ २८. २. आप ध १ ७ २७
३. तत• इति क. पु ४. विद्यासदाचारादिना इति नास्ति ख. पु