सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

Aparokshanubhuti with Dipika & Hindi Commentary

आदि शङ्कराचार्य द्वारा

स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)

DevanagariSanskritpublished109 पृष्ठ

( ३४ ) अपरोक्षाऽनुभूतिः ।
सर्वपुरुषएवेति सूक्ते पुरुषसंज्ञिते॥ अ-
प्युच्यते यतः श्रुत्या कथं० ॥ ३५ ॥
सं. टी. नकेवलमनयैकया श्रुत्या विनिर्णीतं किंतु-
न्ययापीत्याह सर्वमिति । यतो हेतोः श्रुत्या वेदाख्यपरदे-
वतया ‘पुरुषएवेदंसर्वम्’ इति पुरुषसंज्ञिते सूक्तेऽप्युच्यते
पुरुषलक्षणमिति पूर्वश्लोकादध्याहारः अतः कथं स्या-
दितिपूर्ववत् ॥ ३५ ॥
भा. टी. “पुरुष - एवेदं सर्वं यद्भूतं यच्च भाव्यम्” इति
श्रुतिः।जो कुछ दृष्टिगोचर होयहै सो सब आत्मस्वरूपहै और
जो कुछ हुआ और जो कुछ होयगा सर्व आत्मस्वरूप है। इस
श्रुतिसे कहा हुआ परमात्मा देहमय किस प्रकार होसकै है ३५
असंगः पुरुषः प्रोक्तो बृहदारण्यके
ऽपिच॥अनंतमलसंश्लिष्टः कथं०॥३६॥
सं.टी.अपरयापि श्रुत्यैवमेव निर्णीतमित्याह असंग-
इति । “असंगो ह्ययं पुरुषः” इति श्रुत्या बृहदारण्यके
वाजसनेयोपनिषदि पुरुषः असंगः प्रोक्तः देहकस्त्वनं-
तमलसंश्लिष्टः कथं पुमान्स्यादिति ॥ ३६ ॥
भा. टी, “असंयोगोयंपुरुषः” आत्मा सङ्गहीन है यह बृह
दारण्यक उपनिषद्की श्रुति है इस श्रुतिसेभी आत्मा असंग
सिद्ध होताहै और देह नानाप्रकारके मलोंकरकै लिपटा
हुआ फिर किसप्रकार आत्मा देहमय होसकै है ॥ ३६ ॥

संस्कृतटीका-भाषाटीकासहिता । ( ३६ )
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पू-
रुषः॥ जडः परप्रकाश्योसौ कथं० ३७॥
सं. टी. तत्रैवान्यप्रकारेणापि देहात्मनोर्वैलक्षण्यं नि-
रूपितमित्याह तत्रैवेति । तत्रैव बृहदारण्यक एवेत्यर्थः
अत्रायं पुरुषः स्वयंज्योतिर्भवतीति श्रुत्या स्वयंज्योतिः
पुरुषः समाख्यातः हीति विद्वत्प्रसिद्धिं द्योतयति असौ
घटादिवद्दृश्योऽत एव परप्रकाश्यस्तत एव जडो देहकः
कथं पुमान् स्यादिति व्याख्यातम् ॥ ३७ ॥
भा. टी. "पुरुषोज्योतिर्मयः" पुरुष स्वयंप्रकाश ज्योति-
स्वरूपहै यह श्रुति उसी बृहदारण्यक उपनिषदमें लिखीहै
इससे आत्मा तौ ज्योतिःस्वरूपहै और देह जड़है घटादिकोंकी
तरह परप्रकाश्यहै फिर किसप्रकार आत्मा देहमय हो
सकै है ॥ ३७ ॥
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्वि-
लक्षणः॥ नित्यश्च तत्फलं भुंक्ते देहपा-
तादनंतरम् ॥ ३८ ॥
सं.टी.अथास्तामिदं ज्ञानकांडं कर्मकांडेपिदेहात्मनो
भेद एवनिर्णीत इत्याहप्रोक्तइति।हियस्मात्कर्मकांडेनापि
"यावज्जीवमग्निहोत्रं जुहुयात् " इत्यादिरूपेण कर्मप्र-
तिपादकेन वेदभागेनेत्यर्थः आत्मा देहाद्विलक्षणः प्रोक्तः
कथमित्यतआह नित्य इति नित्यत्वं च कुतइत्यतआह

( ३६ ) अपरोक्षानुभूतिः ।
तदिति देहपातादनंतरं तत्फलमनित्यं कर्मफलं यत
आत्मा भुंक्तेऽतो नित्य इत्यर्थः चकारात् न्यायसांख्या
दावप्येवमेव देहात्मनोर्भेदो वर्णित इति दर्शितम् ॥३८॥
भा. टी. "यावज्जीवमग्निहोत्रं जुहुयात्" "अहरहः सन्ध्या
मुपासीत"। जबतक जिये अग्निहोत्र करै । प्रतिदिन सन्ध्या
करै । इत्यादि कर्मकाण्डमेंभी आत्मा देहसे अलग नित्य
देहपात होनेके अनन्तर कर्मोंके फलोंका भोगनेवाला कहाहै
इसप्रकारभी आत्मा देहातीतसा प्रतीत होयहै ॥ ३८ ॥
लिंगं चानेकसंयुक्तं चलं दृश्यं विकारि
च॥ अव्यापकमसद्रूपं तत्कथं स्यात्पु
मानयम् ॥ ३९ ॥
सं.टी. नन्वेवंसति वेदांतिनामपसिद्धांतःस्यादित्यत
आह लिंगमिति । लिंगं लिंगशरीरं तत्परोक्षादिधर्मवि-
शिष्टं अयं नित्यापरोक्षस्वभावः पुमान् कथं स्यान्नकथं-
चिदित्यर्थः चकारात्कारणशरीरमपि निराकृतं अनयो-
रपिभेदे लिंगदेहस्य वैलक्षण्यसूचकानि विशेषणान्याह
अनेकेति अनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरी-
रसंबधयुक्तं यद्वा श्रोत्रादिबुद्ध्यंतसप्तदशकलासंयुक्तं
तथा चलं चंचलं मनःप्रधानत्वादित्यर्थः पुनर्दृश्यं ममेदं
श्रोत्रं ममेदं मन इत्यादिममतास्पदत्वेनात्मन उपस-
र्जनभूतं च पुनर्विकारि उपचयादिमत् अव्यापकं परि-

संस्कृतटीका-भाषाटीकासहिता । ( ३७ )
च्छिन्नमसद्रूपमात्मज्ञानकबोध्यं च अत्रेद्माकूतं यद्यपि
लिंगशरीराध्यासे नात्मनः कर्तृत्वभोक्तृत्वादिभावस्त-
थाप्यात्मनः स्वतस्तदभावज्ञानेनाऽध्यासनिवृत्तावक-
र्तृत्वाभोक्तृत्वादिभावसिद्धिरिति वेदांतिनां न किंचि
दपसिद्धांतोऽन्यवदिति मंगलम् ॥ ३९ ॥
भा. टी. लिङ्ग और कारण इन दोप्रकारका शरीर नाना
प्रकारके शरीरोंके सम्बन्ध करकै युक्त चञ्चल विकारी एक-
देशमें रहनेवाला और असत्स्वरूप है फिर किसप्रकार देह
मय आत्मा होसकै है ॥ ३९ ॥
एवं देहद्वयादन्य आत्मा पुरुषई-
श्वरः॥ सर्वात्मा सर्वरूपश्च सर्वातीतो
हमव्ययः ॥ ४० ॥
सं.टी. इदानीं पूर्वोक्तमर्थमुपसंहरति एवमिति । एवं
पूर्वोक्तप्रकारेण देहद्वयात् स्थूलसूक्ष्मलक्षणादन्यो भिन्न
आत्मा कोऽसावित्यत आह पुरुष इति पुरुषः शरी
राधिष्ठाता तर्हि किं जीवः नेत्याह ईश्वर इति तत्र हेतुः
सर्वात्मेति तर्ह्यद्वैतहानिः स्यादित्यत आह सर्वरूप इति
एवंसति विकारित्वं स्यादित्यतआह सर्वातीत इति एता-
दृश आत्माचेदस्ति तर्हि कुतो नोपलभ्यत इत्यतआह
अहमिति अहंप्रत्यक्षोऽहंशब्दप्रत्ययालंबनत्वेन सर्वदो
पलब्धिस्वरूप इत्यर्थः तर्ह्यहंकारः स्यान्नेत्याह अव्यय

( ३८ ) अपरोक्षानुभूतिः।
इति अव्ययः अपक्षयादिविकारशून्यः अहंकारसाक्षीति
भावः ॥ ४० ॥
भा. टी. इसप्रकार आत्मा स्थूल और सूक्ष्म दोनों प्रका
रके देहोंसे अलगहै और ईश्वर है सर्वव्यापक है सर्वरूप है
सर्वसे अतीतहै ( अर्थात् जिससे परे और कोई नहीं है
सबसे श्रेष्ठ है ) अहम्शब्द करके कहा जाय है भूत भविष्यत
वर्तमान तीनों कालमें एकरस है ॥ ४० ॥
इत्यात्मदेहभागेन प्रपंचस्यैव सत्य-
ता ॥ यथोक्ता तर्कशास्त्रेण ततः किंपु-
रुषार्थता ॥ ४१ ॥
सं.टी. अथेदानीमात्मनो देहद्वयातिरिक्तत्वप्रतिपा
दनमनर्थकमिति शंकते इतीति । इति पूर्वोक्तप्रकारेण
वर्णितेनात्मदेहविभागेन प्रपंचस्यैव सत्यता तथोक्ता
यथा तर्कशास्त्रेण ततः प्रपंचसत्यत्वप्रतिपादनात्किंपु
रुषार्थता कुत्सितपुरुषार्थत्वं भयनिवृत्त्यभावादित्यर्थः
“द्वितीयाद्वै भयं भवति” इति श्रुतेः ॥ ४१ ॥
भा. टी. तर्कशास्त्र अर्थात् न्याय शास्त्रके माननेवालोंने
इस आत्मा और देहमें भेदबुद्धिकरके न्याय शास्त्रमें जो प्रप-
ञ्चकी सत्यता कही है ( अर्थात् परमाणुको नित्य मानकर
ईश्वरको निमित्तकारण संसारकी उत्पत्ति मानी है ) उसको

संस्कृतटीका-भाषाटीकासहिता ( ३९ )
स्वीकार करते हैं तिसकी अपेक्षा और पुरुषार्थता क्या
होगी ॥ ४१ ॥
इत्यात्मदेहभेदेन देहात्मत्वं निवारि-
तम्॥इदानीं देहभेदस्य ह्यसत्त्वं स्फुट-
मुच्यते ॥ ४२ ॥
सं. टी. भेदज्ञानस्याभेदज्ञानंप्रति कारणत्वादात्म
देहविभागकथनं नानर्थकमित्याह इतीति । इति पूर्वो
क्तेनात्मदेहभेदेनात्मनो देहात्पृथक्करणेन देहस्यैव प्राप्तं
चार्वाकमतेनात्मत्वं तन्निवारितं इदानीमुत्तरग्रंथेन तस्य
देहभेदस्यासत्त्वमात्मसत्तातिरिक्तसत्तारहित्यं स्फुटं
स्पष्टं यथास्यात्तथा हीतिप्रसिद्धमुच्यते ॥ ४२ ॥
भा. टी. इस प्रकार नैयायिकोंने आत्माका और देहका
भेद दिखाकर देहको आत्मत्व निवारण किया है । सो
अब देह आत्माके भेद असत्ता स्पष्ट दिखातैं है ॥ ४२ ॥
चैतन्यस्यैकरूपत्वाद्वेदो युक्तो न कर्हिं
चित् ॥ जीवत्वं च मृषा ज्ञेयं रज्जौ सर्प-
ग्रहो यथा ॥ ४३ ॥
सं. टी. तदेवाह चैतन्यस्येति।चैतन्यस्य सर्वभूतभौ-
तिकप्रपंचाधिष्ठानप्रकाशस्य घटःप्रकाशते पटः प्रकाश-
ते इत्यादिष्वेकरूपत्वादेकाकारत्वाद्भेदोः कर्हिचित्क-

( ४० ) - अपरोक्षानुभूतिः।
स्यांचिदवस्थायामपि भेदो नयुक्तो नयथार्थइत्यर्थः त-
र्हिजीवभेदःसत्यः स्यादित्यत आह जीवत्वमिति जीवत्वं
चकारोप्यर्थः मृषा मिथ्या ज्ञेयं तदुपाधेरेवांतःकरणादे-
र्मायामयत्वादित्यर्थः । अधिष्ठानसत्यत्वेन कल्पितस्य
मिथ्यात्वबोधे दृष्टांतमाह रज्जाविति यथारज्जौ तदज्ञा-
नात् वक्रतादिसादृश्येन मंदांधकारे सर्पग्रहः सर्पबु-
द्धिरव्युत्पन्नस्य भवति न तु व्युत्पन्नस्य तथैवात्मन्या-
त्माज्ञानात् प्रकाशसादृश्यादविशेषप्रकाशे चिज्जडग्रं-
थिरूपचिदाभासभ्रमो भवत्यविवेकिनां न तु विवेकिना
मिति वेदांतसिद्धांत रहस्यम् ॥ ४३ ॥
भा, टी. चैतन्यको (भूत भौतिक प्रपञ्चका जो आधान
है उसको चैतन्य कहते हैं ) एकरूप होनेसे और आत्माको
चैतन्यस्वरूप होनेसे देह और आत्माका भेद कभीभी युक्ति
युक्त नहीं है जिसतरह रज्जुमें वह सर्पका भ्रम होय है वास्तव
में वह सर्प नहीं होय है तिसीप्रकार आत्मासे भिन्न जीवका
मानना वृथा है ॥ ४३ ॥
रज्ज्वज्ञानात् क्षणेनैव यद्वद्रज्जुर्हि स-
र्पिणी ॥ भाति तद्वच्चितिः साक्षाद्वि-
श्वाकारेण केवला ॥ ४४ ॥
सं.टी. इदानीं पूर्वोक्तमेव दृष्टांतं विवृण्वन् सर्वस्यापि
प्रपंचस्य ब्रह्मरूपतामाह रज्ज्वाति। केवलेति विशेषणेन

संस्कृतटीका-भाषाटीकासहिता । (४१)
पूर्वावस्थामपरित्यज्यावस्थांतरप्राप्तिलक्षणविवर्त्तोपादान
त्वमेवोक्तं नारंभोपादानत्वं नापि परिणामोपादानत्व
मिति बोध्यं अन्यत् स्पष्टम् ॥ ४४ ॥
भा. टी. जिस समय रज्जुके स्वरूपका अज्ञान होय है
( अर्थात् यह रज्जुहै जब ऐसा ज्ञान नहीं होयहै ) तब रज्जुमें
भ्रान्ति होयहै ( अर्थात् अज्ञानसे रज्जुको सर्प समझै है) इसी
प्रकार जिससमयपर्य्यन्त आत्माका ज्ञान नहीं होयहै तब-
तक अज्ञानवशसे आत्माके विषयमें पुरुष नाना प्रकारकी
कल्पना करैहै ॥ ४४ ॥
उपादानं प्रपंचस्य ब्रह्मणोऽन्यन्न वि-
द्यते ॥ तस्मात्सर्वप्रपंचोयं ब्रह्मैवास्ति
न चेतरत् ॥ ४५ ॥
सं. टी. अत्र हेतुं दर्शयन् पूर्वोक्तमुपसंहरति उपा
दानमिति । यस्मात्प्रपंचस्याकाशादिदेहांतस्य जगद्वि-
स्तारस्य ब्रह्मणो मायाशबलाच्चैतन्यादन्यत्परमाणवो
यद्वा प्रकृतिरुपादानं कारणविशेषो न विद्यत इति “त-
स्माद्वा एतस्मादात्मन आकाशः संभूतः” इत्यादिश्रुतेः
तस्माद्धेतोरिति स्पष्टमन्यत् ॥ ४५ ॥
भा. टी. ब्रह्मके सिवाय इस प्रपञ्चका उपादान कारण
और कोई नहीं होसकैहै इसकारण सम्पूर्ण प्रपञ्च ब्रह्मही है
( अर्थात् सर्व संसार ब्रह्मस्वरूप है ) और कुछ नहीं है ॥४५॥

( ४२ ) अपरोक्षानुभूतिः ।
व्याप्यव्यापकता मिथ्या सर्वमात्मेति
शासनात् ॥ इति ज्ञाते परे तत्त्वे भेद-
स्यावसरः कुतः ॥ ४६ ॥
सं. टी. ननु व्याप्यव्यापकतारूपे भेदे जाग्रति सति
कथं प्रपंचस्य ब्रह्मतेत्याशंक्याह व्याप्येति । व्याप्य-
मंतरं व्यापकं बाह्यं तयोर्भावो मिथ्या घटाकाशादि-
वत् कल्पितत्वादसन्नित्यर्थः तत्रप्रमाणमाह सर्वमिति
“इदं ब्रह्मेदं क्षत्रमिति प्रकृत्येदं सर्व्वं यदयमात्मा” इत्यादि-
श्रुतिरूपेश्वराज्ञाबलादित्यर्थः ततः किमत आह इतीति
इति ज्ञाते इत्यादि सुगमम् ॥ ४६ ॥
भा. टी. “ब्रह्मैव सर्वमपरं नहि किञ्चिदस्ति” जो कुछ है
आत्मा है और कुछ नहीं है ऐसा कहनेसे आत्माका व्याप्य-
व्यापकभाव मिथ्या है ऐसा प्रतीयमान होता है इस प्रकार सर्वो-
त्कृष्ट अर्थात् सबसे श्रेष्ठ आत्माके जाननेपर भेदका तौ अव-
सरही नहीं है ॥ ४६ ॥
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन
हि ॥ कथं भासो भवेदन्यः स्थिते चा-
द्वयकारणे ॥ ४७ ॥
सं. टी. ननु प्रत्यक्षेणभासमानो व्याप्यव्यापकभावः
कथं मिथ्येत्याशंक्याह श्रुत्येति नूनमिति निश्चये हीति

संस्कृतकाटीका-भाषाटीकासहिता । ( ४३ )
प्रसिद्धौ श्रुत्या "नेह नानास्तिकिंचन" इत्यादिरूपये-
त्यर्थः । नानात्वं निवारितं तेन च नानात्वनिवारणे-
नाद्वयकारणेऽभिन्ननिमित्तोपादाने ब्रह्मणि स्थिते सति
भासो व्याप्यव्यापकतादिप्रतिभासाः कार्यभूतोऽन्यः
स्वकारणातिरिक्तः कथं भवेन्नकथं चिदित्यर्थः ॥ ४७ ॥
भा. टी. वेदकी श्रुति साक्षात् आप जगत्का नानात्व
निवारण करै है इसप्रकार ब्रह्म अद्वितीय अर्थात् कारण होने-
करिकै किसप्रकार भेदज्ञान होसकै है ॥ ४७ ॥
दोषोपि विहितः श्रुत्या मृत्योर्मृत्युं स-
गच्छति॥ इह पश्यति नानात्वं माय-
या वंचितो नरः ॥ ४८ ॥
सं. टी. किंच भेददृष्टेदोषश्रवणादपि कारणादभि
न्नमेव कार्यमित्याह दोषइति। "मृत्योः स मृत्युमाप्नोति
य इह नानेव पश्यति" इत्यादिरूपया श्रुत्येत्यर्थः तत्र
मृत्योरनंतरं मृत्युं जननमरणपरंपरामित्यर्थः स्पष्ट-
मन्यत् ॥ ४८ ॥
भा. टी: "मृत्योः स मृत्युमाप्नोति यइह नानेव पश्यति"
अर्थात् जो संसारको नानारूप माना है उसको वारंवार जन्म
मृत्यु नरक भोग करना पडैहै।इत्यादि श्रुतिद्वारा जो नानात्व
प्रदर्शन करै हैं । उनको दोष होयहै ऐसाभी कहाहै ।

( ४४ ) अपरोक्षानुभूतिः।
मनुष्य मायासे वञ्चित होकर जगतके नानात्वका अनुभव
करै है ॥ ४८ ॥
ब्रह्मणः सर्वभूतानि जायन्ते परमात्म-
नः॥ तस्मोदेतानिब्रह्मैव भवतीत्यव-
धारयेत् ॥ ४९ ॥
सं.टी. तर्हि किं कुर्यादित्यत आह ब्रह्मण इति। बृह-
त्त्वादपरिच्छिन्नत्वाद्व्रह्म तद्रूपात्परमात्मनः सर्वाणि भू-
तानि जायन्ते उत्पद्यंते जायंतइति स्थितिप्रलययोरप्यु-
पलक्षणं "यतोवा इमानि भूतानि जायन्ते" इत्यादिश्रुतेः
यस्मादेवं तस्माद्धेतोरेतानि भूतानि ब्रह्मैव भवंति
सन्मात्रब्रह्मरूपाणीत्यवधारयेन्निश्चिनुयादिति ॥ ४९ ॥
भा. टी. "यतो वा इमनि भूतानि जायन्ते" इतिश्रुतिः
अर्थात् जिससे प्राणी उत्पन्न होतेहैं इत्यादि श्रुतिसे समस्त
प्राणी ब्रह्मसेही उत्पन्न होते हैं इसीकारण सबही ब्रह्मस्वरूप
हैं ऐसा निश्चय है ॥ ४९ ॥
ब्रह्मैवसर्व नामानि रूपाणि विविधा-
निच॥ कर्माण्यपि समग्राणि बिभर्तीति
श्रुतिर्जगौ ॥ ५० ॥
सं. टी. ननु नानानामरूपकर्मभेदेन विचित्राणि
भूतानि कथं ब्रह्मात्मकानीत्याशंक्याह ब्रह्मैवेति "त्रयं वा
इदं नाम रूपं कर्म" इति बृहदारण्यकश्रुतिर्जगौ गायनं

संस्कृतटीका-भाषाटीकासहिता । (४५)
कृतवती स्वाधिकारिणः श्रावयामासेत्यर्थः । किमि-
त्यत आह ब्रह्मैव सर्वनामान्याकाशादिदेहांतान् संज्ञा-
विशेषान् च पुनर्विविधानि रूपाण्यवकाशादिद्विपदां-
तान् नानाविकारविशेषान् अपिशब्दश्चार्थे रूपग्रहणं
गंधादिग्रहणस्याप्युपलक्षणं समग्राणि कर्म्माण्यकाश-
प्रदानादीनि स्नानशौचादीन् क्रियाविशेषानपि बिभर्त्ति
रज्ज्वादिकमिव सर्पादिप्रतिभासं दधात्यधिष्ठानदर्श-
नशून्यान् प्रति दर्शयतीत्यर्थः ॥ ५० ॥
भा. टी. ब्रह्मही सम्पूर्ण प्रकारके नाम और नाना प्रकारके
रूप धारणकरता है और नानाप्रकारके कर्म्म धारण करताहै ।
ऐसा साक्षात् श्रुति कहती है ॥ ५० ॥
सुवर्णाज्जायमानस्य सुवर्णत्वं च शा-
श्वतम् ॥ ब्रह्मणो जायमानस्य ब्रह्मत्वं
च तथा भवेत् ॥ ५१ ॥
सं. टी. अत्र लोकप्रसिद्धं दृष्टांतमाह सुवर्णेति
सुगमम् ॥ ५१ ॥
भा. टी. जिसप्रकार सुवर्णसे कटक कुण्डलादिक बनाये
जाते हैं जबतक कुण्डलादि आकार रहा तबलों रहा फिर
गलानेसें सुवर्णका सुवर्णही होजाता है इसी प्रकार यह ब्रह्मसै
उत्पन्न हुआ संसार जबलौं किसी आकारमें रहता है तबलौं
रहता.है अन्तमें आकर दूर होने पर ब्रह्मही होता है ॥ ५१ ॥

( ४६ ) अपरोक्षानुभूतिः ।
स्वल्पमप्यंतरं कृत्वा जीवात्मपरमा-
त्मनोः ॥ यः संतिष्ठति मूढात्मा भयं
तस्याभिभाषितम् ॥ ५२ ॥
सं. टीः एवं कर्तृकर्मादिकारकघटस्यैकाधिष्ठानरू-
पत्वे सिद्धेपि भेददर्शिनो भयमाह स्वल्पेति । स्वल्पम-
प्यंतरमुपास्योपासकरूपं भेदं कृत्वा कल्पयित्वा
यस्तिष्ठति तस्य भयं भाषितम् "यदा ह्येवैष एत-
स्मिन्नुदरमंतरं कुरुते अथ तस्य भयं भवति ” इत्या-
दिश्रुत्येत्यर्थः ॥ ५२ ॥
भा. टी. जो पुरुष जीवात्मा और परमात्मामें कुछभी भेद
करै है और मानै है वह मूढ पुरुष भयको प्राप्त होय है अर्थात्
उसके चित्तको कदापि शान्ति नहीं होयहै ॥ ५२ ॥
यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्रपश्यति॥
आत्मत्वेन यदा सर्वं नेतरस्तत्र चा
ण्वपि ॥ ५३ ॥
सं. टीः ननु प्रकाशतमसोरिवपरस्परविरुद्धस्वभा-
वयोर्द्वैताद्वैतयोः कुत एकाधिकरणत्वमित्याशंक्याव-
स्थाभेदादित्याह यत्रेति यत्र यस्यामज्ञानावस्थायां
अज्ञानेन द्वैतमिव भवेत्तत्रतस्यामज्ञानावस्थायाम् "इत
रोऽन्योऽन्यत्पश्यति यत्रहि द्वैतमिव भवति तदितर इ-
तरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं शृणोति

संस्कृतटीका-भाषाटीकासहिता । (४७)
तदितर इतरमभिवदति तदितर इतरं मनुते तदि-
तर इतरं विजानातीति यत्र वाऽन्यदिव स्यात्तत्रान्यो-
न्यत्पश्येदन्योन्यञ्जिघ्रेदन्योऽन्यद्रसयेत्” इत्यादिश्रुतेः
चशब्दः पूर्वोक्ताद्वैलक्षण्यं सूचयति यदा यस्मिन्
ज्ञानकाले सर्वमात्मत्वेन भवेत् तत्र तस्मिन् ज्ञानकाले
इतरोऽपि किंचिदप्यन्यन्नपश्यति यत्रवा “अस्य
सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्” इत्या-
दिश्रुतेः सकार्याज्ञाननिवृत्त्या न द्वैतमिति भावः॥५३॥
भा. टी. जिस अवस्थामैं अज्ञान दशासे द्वैत होयहै उसी
अवस्थामैं एक पदार्थ दूसरे पदार्थका दर्शन करै है जब
आत्मज्ञान होजाय है तब किसीको कुछ अन्य नहीं
मालूम होयहै ॥ ५३ ॥
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन
विजानतः ॥ न वै तस्य भवेन्मोहो न
च शोकोऽद्वितीयतः ॥ ५४ ॥
सं. टी. ननु द्वैतादर्शने कः पुरुषार्थ इत्याशंक्य
तत्प्रतिपादिकाम्“यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजा-
नतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इति
श्रुतिमर्थः पठति यस्मिन्निति । यस्मिन्नवस्थाविशेषे
सर्वाणि भूतान्यात्मत्वेनात्मभावेन विजानतः अपरो-
क्षेण साक्षात्कुर्वतोऽधिकारिणः पुरुषस्य तस्येति षष्ठी

( ४८ ) अपरोक्षानुभूतिः
सप्तम्यर्थे तस्मिन्नवस्थाविशेषे वै निश्चयेन मोहो भ्रमो
नभवेच्च पुनः शोको व्याकुलतापि न भवेत् उभयत्र हेतुः
अद्वितीयतः तत्कारणाभावादित्यर्थः ॥ ५४ ॥
भा. टी. जिस अवस्थामें पुरुष. सर्व प्रपंचको आत्मरूप
मानै है उस अवस्थामें मनुष्यको अद्वैतज्ञान होनेसे शोक मोह
नहीं होयहै ॥ ५४ ॥
अयमात्मा हि ब्रह्मैव सर्वात्मकतया
स्थितः ॥ इति निर्धारितं श्रुत्याबृहदा-
रण्यसंस्थया ॥ ५५ ॥
सं. टी. शोककारणद्वैताभावे प्रमाणमाह अयमिति
“ सवा अयमात्मा ब्रह्म विज्ञानमयः ” इत्यादिरूपये
त्यर्थः । शेषंस्पष्टम् ॥ ५५ ॥
भा. टी. "सवा अयमात्मा ब्रह्मविज्ञानमयः" परमात्मस्वरूप
ब्रह्मही सर्वात्मकरूप स्थितहै ऐसा बृहदारण्य उपनिषद्की
श्रुतिने निश्चय किया है ॥ ५५ ॥
अनुभूतोऽप्ययंलोकोव्यवहारक्षमोऽपि
सन् ॥ असद्रूपो यथास्वप्न उत्तरक्षण-
बाधतः ॥ ५६ ॥ स्वप्नोजागरणेऽलीकः
स्वप्नेपि जागरो नहि ॥ द्वयमेव लये
नास्ति लयोपि ह्युभयोर्न च ॥ ५७ ॥

संस्कृतटीका-भाषाटीकासहिता । ( ४९ )
सं. टी. नन्वयंलोक एव तत्कारणे सति कथं शोका-
द्यभाव उच्यत इत्याशंक्य सदृष्टांतमाह अनुभूत इति
स्पष्टम् ॥ ५६ ॥ दृष्टांतं विवृण्वन्नुक्तन्यायमन्यत्राप्य-
तिदिशति स्वप्न इति अलीको मिथ्या द्वयं स्वप्नजागरणे
लये सुषुप्तौ शेषं स्पष्टम् ॥ ५७ ॥
भा. टी. जिस प्रकार स्वप्नावस्थामें स्वप्न देखाहुआ
पदार्थ सम्पूर्ण सत्स्वरूप मालूम पडै है स्वप्नसे दूसरेक्षणमें जगते
ही सब असत् स्वरूप हो जाय है इसी प्रकार इस संसारका
व्यवहार सत्य मालूम होयहै और असत् स्वरूप होयहै जाग्रत्
अवस्था में स्वप्न मिथ्या मालूम होयहै स्वप्ना अवस्थामें जाग्रत
मिथ्या मालूम होय है और सुषुप्ति अवस्थामें स्वप्न जाग्रत्
दोनों मिथ्या होयहैं इसी प्रकार स्वप्न और जाग्रत् अवस्थामें
सुषुप्ति मिथ्या प्रतीत होयहै ॥ ५६ ॥ ५७ ॥
त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मि-
तम्॥अस्य द्रष्टा गुणातीतो नित्यो ह्ये-
कश्चिदात्मकः ॥ ५८ ॥
सं. टी. उक्तमुपसंहरन्फलितमाह त्रयमिति त्रयं
जाग्रदाद्यवस्थात्रयमेव युक्तपरस्परव्यभिचारेण मिथ्या
मिथ्यात्वे हेतुः गुणेति गुणत्रयविनिर्मितं मायाकल्पित-
मित्यर्थः तर्हि किंसत्यमतआह अस्येति अस्यअवस्था
त्रयस्य शेषंस्पष्टम् ॥ ५८ ॥
३

( ५० ) अपरोक्षानुभूतिः ।
भा. टी. सतोगुण रजोगुण तमोगुणसे बने हुए जाग्रत
स्वप्न सुषुप्ति तीनो ऊपर कहे हुए प्रकारसे मिथ्या होयहैं इन
तीनों अवस्थाओंका साक्षी गुणातीत अर्थात गुणरहित चिन्मय
अर्थात् चैतन्य स्वरूप सत्य है ॥ ५८ ॥
यद्वन्मृदि घटभ्रांतिं शुक्तौ वा रज-
तस्थितिम् ॥ तद्वद्ब्रह्मणिजीवत्वं वी-
क्ष्यमाणे न पश्यति ॥ ५९ ॥
सं. टी. नन्ववस्थात्रयं मिथ्याभवतु जीवस्तु सत्यः
स्यादित्याशंक्य सदृष्टांतमुत्तरमाह यद्वदिति ब्रह्मणि
वीक्ष्यमाणे आत्मत्वेन साक्षात्कृते सति जीवत्वं न प-
श्यतीत्यन्वयः अन्यत्स्पष्टमेव ॥ ५९ ॥
भा. टी. यदि आत्मामें गुणत्रय मिथ्या है तौ जीवही सत्य
हो तहां कहै है । जिस प्रकार मृत्तिकामें घटकी भ्रान्ति है
परन्तु घट नष्ट होनेपर मृत्तिकाही दृष्टिगोचर होयहै और जैसे
शुक्तिमें चांदीकी भ्रान्ति होय है और जब समीपजाके देखै है
तों सीपी होयहै इसी प्रकार जबतक आत्माका ज्ञान नहीं
होय तब जीव है ऐसी प्रतीति होय है परंतु ब्रह्मका साक्षात्कार
होनेसे जीवको नहीं देखैं है ॥ ५९ ॥
यथामृदि घटोनामकनकेकुण्डलाभि-
धा ॥ शुक्तौ हिरजतख्यातिर्जीवशब्द्-
स्तथा परे ॥ ६० ॥

संस्कृतटीका-भाषाटीकासहिता । ( ५१ )
सं. टी. अज्ञानावस्थायां प्रतीयमानो यो जीवब्रह्म-
भेदः स नाममात्र इति बहुदृष्टांतैराह यथेति रजतस्य
ख्यातिराख्या नामेति यावत् परे परब्रह्मणि जीवशब्द-
स्तथा शेषं स्पष्टम् ॥ ६० ॥
भा. टी. अज्ञान अवस्थामें जो जीव ब्रह्मका भेद भासै है
सो केवल नाममात्र होय है वस्तुतः मृत्तिका होय परन्तु घट
ऐसा नाममात्र होयहै और सुवर्ण होयहै परन्तु कटक कुण्डल
ऐसा नाममात्र होयहै सीपी होयहै परन्तु मायावश पुरुष रजत
कहने लगे है इसी प्रकार वस्तुतः ब्रह्म होय है तबभी ब्रह्ममें
जीवसंज्ञा होय है सो नाममात्र है वस्तुतः मिथ्या है ॥ ६० ॥
यथैवव्योम्निनीलत्वं यथानीरं मरुस्थ
ले ॥ पुरुषत्वं यथास्थाणौ तद्वद्विश्वं
चिदात्मनि ॥ ६१ ॥
सं. टी. न केवलं जीव एव नाममात्रः किंतु सर्व्ववि-
श्वमपि ब्रह्मणि नाममात्रमित्यनेकदृष्टांतैराह यथैवेति
स्पष्टम् ॥ ६१ ॥
भा. टी. केवल जीवही नाममात्र नहींहै किन्तु सम्पूर्ण विश्व-
ही नाममात्र है जैसे आकाशमें वस्तुतः कुछ नहीं है परन्तु
नीलापन मालूम होयहै और जैसे मारवाड़की भूमिमें वस्तुतः
जल नहीं है परन्तु भ्रान्तीसे जल मालूम होय है और जैसे
अन्धकार दोषसे रात्रिमें ठूंठ पुरुष मालूम होय है परन्तु वस्तुतः

( ५२ ) अपरोक्षानुभूतिः ।
पुरुष है नहीं इसी प्रकार यह संसार परमात्मा ब्रह्मके विषै
भिन्न और सत्यसा प्रतीत होय है परन्तु वस्तुतः कुछभी
नहीं है ॥ ६१ ॥
यथैवशून्ये वैतालो गंधर्वाणांपुरंयथा ॥
यथाकाशे द्विचंद्रत्वं तद्वत्सत्ये जग-
त्स्थितिः ॥ ६२ ॥
सं. टी. नाममात्रप्रपंचस्य मिथ्यात्ववासनादार्ढ्यायै-
ममेवार्थं बहुभिर्लोकप्रसिद्धदृष्टांतैः प्रपंचयति यथैवशून्य
इत्यादि त्रिभिः शून्ये निर्जने देशे वैतालः अकस्मादा-
भासमानो भूतविशेषः गंधर्वपुरस्यापि शून्याधिष्ठानत्वं
ज्ञेयं गंधर्वनगरं नाम राजनगराकारो नीलपीतादिमेघर-
चनाविशेषः आकाशे स्पष्टमन्यत् ॥ ६२ ॥
भा. टी. जिसप्रकार निर्जन स्थानमें अकस्मात् प्रत्यक्ष
होकर वैताल ( भूत विशेष ) मालूम होयहै परन्तु वस्तुतः
मिथ्या होयहै और जैसे निर्जन स्थानमें नीले पीले मेघोंसे
बना हुवा गन्धर्वोंका नगर मालूम होने लगे है परन्तु वहभी
वस्तुतः मिथ्या होयहै और जैसे आकाशमें किसी समय किसी
कारण भ्रान्तिसे दो चंद्रमा मालूम होने लगे हैं इसी प्रकार
सत्यस्वरूप आत्मामें जगत सत्यसा प्रतीत होयहै वस्तुतः
सत्य नहीं है ॥ ६२ ॥
यथातरंगकल्लोलैर्जलमेवस्फुरत्यलम् ॥

संस्कृतटीका-भाषाटीकासहिता । (५३)
पात्ररूपेण ताम्रं हि ब्रह्मांडौघैस्तथा-
त्मता ॥ ६३ ॥
सं. टी. यथा तरंगेति सुगमम् ॥ ६३ ॥
भा. टी. जिसप्रकार जलही तरङ्गरूप देखनेमें आवैहै
और ताम्रही पात्राकार देखनेमें आवैहै इसीप्रकार आत्माही
ब्रह्माण्डाकार होकर दृष्टिगोचर होयहै ॥ ६३ ॥
घटनाम्नायथा पृथ्वी पटनाम्नाहि तं-
तवः॥जगन्नाम्नाचिदाभाति ज्ञेयं तत्तद
भावतः ॥ ६४ ॥
सं. टी. किंच घटेति तत्र पादत्रयं स्पष्टं ननु किम-
नेन मिथ्यात्ववासनादाढर्येनेत्यत आह ज्ञेयमिति तद्-
भावतो नामाभावतस्तद्ब्रह्म ज्ञेयम् “वाचारंभणं विकारो
नामधेयं मृत्तिकेत्येव सत्यम्” इत्यादिश्रुतेः ॥ ६४ ॥
भा. टी. जैसे संसार मृत्तिका घटनाम करके प्रसिद्ध होय
है और तन्तु पटनाम करकै प्रसिद्ध होयहै इसीप्रकार जीव
नाम करकै संसारमें चिद्रूप आत्मा प्रसिद्ध होयहै सो मिथ्या
है क्योंकि संसारके व्यवहारके वास्ते नाम संकेत मात्र
होयहै ॥ ६४ ॥
सर्वोपि व्यवहारस्तु ब्रह्मणा क्रियते ज-
नैः ॥ अज्ञानान्न विजानंति मृदेव हिघ
टादिकम् ॥ ६५ ॥