तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
इस ग्रन्थ के बारे में
तैत्तिरीय ब्राह्मण कृष्ण यजुर्वेद की तैत्तिरीय संहिता से जुड़ा ब्राह्मण-ग्रन्थ है और इसे उसी संहिता का विस्तार माना जाता है। पुस्तक के पिछले आवरण पर बताया गया है कि विद्वान इसे सबसे प्राचीन उपलब्ध ब्राह्मणों में गिनते हैं; शतपथ ब्राह्मण की तरह इसका पाठ भी स्वरांकित है, और सायणाचार्य ने अपने भाष्य-कार्य का आरम्भ इसी ब्राह्मण से किया था। ग्रन्थ तीन काण्डों में है: पहले और दूसरे काण्ड में आठ-आठ और तीसरे में बारह प्रपाठक हैं।
यह नाग पब्लिशर्स, दिल्ली का संस्करण है, जिसमें सायणाचार्य के भाष्य सहित पाठ प्रो. पुष्पेन्द्र कुमार ने प्रस्तुत किया है; यह उसका पहला भाग है। संस्कृत भूमिका में ब्राह्मण की विशेषताओं, उसकी भाषा की प्राचीनता और उसमें आने वाले पुरूरवा-उर्वशी जैसे आख्यानों की चर्चा है। पाठ का आरम्भ अग्न्याधान की विधि से होता है, और उपहोम, सोमयाग आदि श्रौत कर्मों का विवेचन आगे के अनुवाकों में मिलता है। अनुवाकों की विस्तृत सूची भी दी गई है।
लगभग ३४५ पृष्ठों का यह भाग वैदिक यज्ञ-विधान और ब्राह्मण साहित्य के अध्येताओं के लिए उपयोगी है।
तैत्तिरीयब्राह्मणम् (१.२.१) ७९
अथर्व पूर्वमथर्वाख्येन (ण) महर्षिणा मथितत्वात्तद्रूपत्वम् । तथा
चान्यत्राऽऽम्नातम्-“अथर्वा त्वा प्रथमो निरमन्थदग्ने ” इति । तादृश हे
दक्षिणाग्ने मे पितुं मदीयमन्र्नं गोपाय । यो रसः क्षीरादिर्यच्चान्नं
व्रीहियवादिकं तदुभयमिह शरीर आयुष आयुर्थ स्थापयेति शेषः ।
हेऽदब्धायो केनाप्यहिंसिताग मन, न खलु त्वदीयमानगमनं केनचिदपि
निवारयितुं शक्यम् । हेऽशीततनो, उष्ण शरीर नोऽस्मदीयं पितुमन्नमविषं
विषरहितं कुरु ।
अथ तृतीयमाह-
शᳵस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः (२५) ।
अ॒ष्टाश॑फाश्च॒ य इ॒हाग्नै॑ । ये चैक॑शफा आशु॒गाः, इति ।
हे शंस्यर्त्विग्भिः प्रशस्यमानाऽऽहवनीय मे पशून्गोपाय । ये पशवो
द्विपादो मनुष्यरूपा येऽपि चतुष्पदो गवादिरूपास्तेऽप्यपि
चतुष्पात्स्वष्टाशफा गोमहिष्यादय एकशफा आशुगामिनश्चाश्वादयो ये
सन्ति तान्सर्वानिह लोके हेऽग्ने गोपाय ।
अथ चतुर्थमाह-
सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्याः॑ सभा॒सदः॑ ।
ताविन्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम्, इति ।
प्रथया ख्यातया सहितः सप्रथः । तादृश हे सभ्य मे
सभामधिदेवनस्थानं गोपाय । ये चं सभ्याः सभायोग्यः सभासदः
सभायामुपविष्टाः सन्ति तान्सर्वानिन्द्रियावतश्चक्षुरादीन्द्रियपाट-
वयुक्तान्कुरु । ते च सभ्याः सर्वमायुः शतसंवत्सरमायुरुपासतां
सेवन्ताम् ।
अत्र पञ्चममाह-
अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रयी॒वि॒दा वि॒दुः ।
ऋचः॒ सामा॑नि॒ यजू॑ᳵषि । सा हि श्रीरमृ॑ता स॒ताम्, (२६),
इति ।
हेऽहेऽहिंसितव्य बुध्निय बुध्ने मूले जगदादावुत्पन्नाऽऽवसथ्य मे
मदीयम्ऋगादिरूपं मन्त्रं गोपाय । यं मन्त्रं त्रयिविदा वेदत्रयाभिज्ञा ऋषयोऽ-
तीन्द्रियद्रष्टारो विदुर्जानन्ति । तं मन्त्रं गोपायेति पूर्वत्रान्वयः । वेदत्रयोक्ता
८० (१.२.१) तैत्तिरीयब्राह्मणम्
मन्त्रविशेषा ऋगादयः । गृहक्षेत्रादिपालनं परित्यज्य मन्त्रपालनप्रार्थने
कारयेत्युच्यते । सतां सन्मार्गवर्तिनामृगादिरूपा सा खल्वमृता श्रीः ।
धनादिरूपायाः श्रियो बहुधा विनाशः संभावितः ऋगादिरूपायास्तु पुनः
पुनरभ्यासेनाभिवृद्धिरेव न तूपक्षयः ।
चतुः॑शिखण्डा युव॒तिः सु॒पेशा॑: । घृ॒तप्र॑तीका॒ भुव॑नस्य
मध्यै॑ । म॒मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒
यज॑मानाय॒ कामा॑न् ।
कल्पः-“चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये
मर्मृज्यमाना महते सौभागाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं
संमृज्यमानाम्” इति । अनुमन्त्रयत इति शेषः । अस्य च
दर्शपूर्णमासगतयाजमानत्वात्तस्याङ्ग एवायं मन्त्र उत्तरे द्रष्टव्यः । बालानां
मूर्धगताः शिखण्डाश्चत्वारः । शिखण्डवदुन्नताः श्रोणिद्वयांसद्वयप्रदेश
यस्या वेदेः सा चतुःशिखण्डा युवतिर्मिश्रयित्री । सर्वाणि हवींषि वेद्यां
मिश्री भवन्ति । तत्राऽऽहितत्वात् । सुपेशाः सुपर्णं तद्वच्छोभमानं यस्याः
सा सुपेशाः । घृतप्रतीका घृतमेव प्रतीके मुखे यस्याः सा घृतप्रतीका
आदावाज्यमेव वेद्यामासद्यते । तादृशी वेदिर्भुवनस्य मध्येऽस्माकं महते
सौभागाय मर्मृज्यमानाऽतिशयेन शोध्यमाना वर्तते । हे वेदे यजमानाय
मह्यं कामान्धुक्ष्व संपादय ।
इ॒हैव सन्तंत्र॒ सतो॑ वो अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा
बिभर्मि । तिरो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो
वैश्वान॒रेणोप॑तिष्ठे ।
कल्पः-“इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि
तिरो मा संतमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति
यद्यनुपस्थाय प्रवसेदेतयैवोपत्तिष्ठेत” इति । अग्निहोत्रिणो ग्रामान्तरगमने
प्राप्ते सत्यग्न्युपस्थानं कृत्वा पश्चाद्गन्तव्यम् । यदि कदाचिन्महत
उपस्थानस्यावसरो न स्यात्तदानीमेतयैवैकयोपतिष्ठेत । हेऽग्नय इहैव देशे
सन्नहं तत्र तत्र गृहविशेषे सतो वर्तमानान्युष्मान्प्राणेन वाचा मनसा बिभर्मि
धारयामि । ग्रामान्तरे गतस्यापि मम प्राणादयो भवद्विषयदेशवर्तित्वेन
तिरोभूय सन्तमवस्थितं मामायुर्मा प्रहासीन्मा परित्यजतु । वैश्वानरेण
सर्वमनुष्यहितेन ज्योतिषा युक्तान्वो युष्मानुपतिष्ठे यत्र तत्र स्थितोऽप्यहं
सेवे । अयं मन्त्रोऽग्न्युपस्थानप्रकरणेऽग्निहोत्रविषये नेतव्यः ।
तैत्तिरीयब्राह्मणम् (१.२.१) ८१
प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्सृ॒ष्टा प्र॒जाप॑तेः ।
ऊ॒र्ध्वाऽऽरौ॑हद्रोहि॒णी । योनि॑र॒ग्नेः प्र॒ति॑ष्ठितिः ( २७) ।
विश॑न्तु नः पु॒रूची॒र्विधे॑म नि॒धाय॑ यत्ते॒ऽप्र॑दाहाय बृ॒हत्यौ ब्रह्म॑णा
दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्र॑ज॑नयि॒ष्यथौ॑ जनिष्य॒तैऽस्मै॑ मर्म
महिम्ना
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें(१.२.२) तैत्तिरीयब्राह्मणम्
आगोऽरणी प्रगृह्णाति ऋत्विग्द्वाभ्यां तु मन्त्रणम् ।
अनु वाचं नियम्याथ शल्कै रात्रौ समिध्यते ।। ७ ।।
जात द्वाभ्यां प्रातरग्नावरणी निष्पेत्तथा ।
अपेति स्थानमुद्धन्यादग्नेस्तु सिकता वपेत् ।। ८ ।।
सं वो द्वाभ्यां तु संभारान्वानस्पत्यान्संसृजेत् ।
ऋग्द्वाभ्यामग्न्युपस्थानं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.२) ८३
हान्त्यनुष्ठेयानि । अष्टाभिर्लोकपालैःपरिपालिता अष्टसंख्याकाः स्वर्गा
लोकास्तेषां मध्ये कश्चिदूर्ध्वदिग्वर्ती स्वर्ग इत्येवं नवसंख्याकाः स्वर्गाः ।
तेषु नवस्वपि तेन यथोक्तानुष्ठानेन प्रतिष्ठां प्राप्नुवन्तो गच्छन्ति ।
अत्र कंचिच्छाखान्तरीयं पक्षमुपन्यस्यति-
अ॒ग्नि॒ष्टोमाः॑ परः॒ सामा॑नः का॒र्या ३ इत्या॑हुः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८४ (१.२.२) तैत्तिरीयब्राह्मणम्
विश्वजिदाख्यो योऽयमेकाहः स उक्थ्येभ्यः पुरस्तात्कर्तव्यः स च
षष्ठे मासि सप्तविंशे दिने प्राप्नोति । अभिजिदाख्योऽपर एकाहः स च
पुरःसामभ्य उपरिष्टात्कर्तव्यः । तथा सति विषुवत उपरितने मासि
चतुर्थदिने प्राप्नोति । तावेतावग्निष्टोमौ द्वादशस्तोत्रयुक्तावेव कार्यौ ।
अथ पूर्वोक्तान्यहानि प्रशंसति-
उ॒क्थ्या॑: स॒प्तद॒शाः प॒रः सामा॑नः । ते सँस्तु॑ना
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.२) ८५
पृष्ठेभ्यः पृष्ठ (ष्ठ्य) षडहगतेभ्योऽहोभ्य उपरि नयन्ति । यद्यप्येतानि
ज्योतिरादीन्यभिप्लवषडहगतान्यहानि तथाऽपि रथंतरादिपृष्ठस्तो-
त्रयोगात्पृष्ठ (ष्ठ्य) षडहगतान्येव संपद्यन्त इत्यर्थः ।
अथैतेष्वहःस्वतिग्राह्यविशेषान्विधत्ते-
सं॒तन॑य ए॒ते ग्रहा॑ गृह्यन्ते (३) । अ॒ति॒ग्रा॒ह्याः॑ परः सामसु
इ॒माने॒वैतैर्लो॒कान्त्संत॑न्वन्ति, इति ।
संहितायां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८६ (१.२.२) तैत्तिरीयब्राह्मणम्
पृष्ठस्तोत्रे सामविशेषं विधाय पवमानस्तोत्रे सामविशेषं विधत्ते-
त्र॒यस्त्रिँ॑शी॒ नाम॒ साम॑ । मा॒ध्यं॒दि॒ने प॑व॒माने॑ भवति (४) ।
त्र॒य॑स्त्रि ँ शद्द्वै दे॒वता॑: । दे॒वता॑ ए॒वाव॑रुन्धते, इति ।
त्रयस्त्रिंशीति कस्यचित्साम्नो नामधेयम् । तच्च साम माध्यंदिने
पवमानाख्ये स्तोत्रे गायेत् । देवतानामियं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.३) ८७
अथ द्वितीयप्रपाके तृतीयोऽनुवाकः
द्वितीयेऽनुवाके नवाहानि विहितानि । अथ तृतीयेऽनुवाके तेषां
मध्यमेऽह्नि विषुवति केचिद्विशेषा उच्यन्ते । पूर्वत्र षड् दिनेषु
पराञ्चोऽर्वाञ्चश्च येऽतिग्राह्या विहितास्तानुभयविधानस्मिन्र्विषुवत्यह्नि
विधत्ते-
सं॒त॒तिर्वा ए॒ते ग्रहाः॑ । यत्परः॑ सा॒मानः॑ ।
वि॒षु॒वान्दि॑वाकी॒र्त्यम् । यथा॑ शा॒लायै॑ पक्ष॑सी । ए॒व ँ
सं॑वत्स॒रस्य॒ पक्ष॑सी । यदे॒ते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें८८ (१.२.३) तैत्तिरीयब्राह्मणम्
ए॒क॒विं॒शमह॑र्भवति । शुक्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै
सय॒त्वाय॑, इति ।
त्रिवृत्पञ्चदशसप्तदशापेक्षयाऽयमेकविंशस्तोम उन्नततः ।
एतदनुष्ठानेन वंशस्थानीयस्य विषुवतः प्रत्युत्तब्ध्यै प्राप्तिस्विकायोन्नत-
बन्धाय भवति । ग्रहाणां चैन्द्रवायव्याग्नेयत्वं परित्यज्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.३) ८९
वि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वै॑श्वक॒र्म॒णो गृ॒ह्यते॑ (३) ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै, इति ।
पुरा कदाचिदिन्द्रो वृत्रं हत्वा तदीयानसुरांश्च तिरस्कृत्य
लोकान्वशीकुर्वन्स्वर्गं न वशीचकार । ततः स्वयं विश्वकर्मा भूत्वा तं
स्वर्गमभ्यजयत् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९० (१.२.४) तैत्तिरीयब्राह्मणम्
तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा ।
उ॒भयो॑र्लोकयो॒: प्रति॑तिष्ठन्ति, इति ।
महाव्रतदिवसो यज्ञस्यान्तः । परेद्युरेव सत्रसमाप्तेस्तत्र ग्रहणे सति
यज्ञसमाप्तौ लोकद्वये प्रतिष्ठा भवति । सोऽयं ग्रहग्रहणप्रकारः सूत्रे
स्पष्टमभिहितः-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंइत॒ एक॑वि॒ꣳ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश परस्ता॑त् ।
स वा ए॒ष वि॒राज्युभयतः॒ प्रति॑ष्ठितः । वि॒राट्झि॒ हि वा ए॒ष
उ॒भयतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ यन् । सर्वे॑षु सुव॒र्गेषु॑
लो॒केष्व॒भित॑पन्नेति (१), इति ।
एष विषुवानेकविंशस्तोमको भवति । एतेनैकविंशस्तोमेन पुरा देवा
इतो भूलोकादुत्कृष्टतमं स्वर्गलोकं प्रत्यादित्यमारोहयन् । न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९२ (१.२.४) तैत्तिरीयब्राह्मणम्
तमादित्यं सवनगतैर्गायत्र्यादिभिश्चन्दोभिर्दृढंस्तभितवन्तः ।
रज्जुभिर्बद्धमिवाकुर्वन् । तस्माद्धृत्यै छन्दांसि भवन्ति । ततो देवा
आदित्यस्यांवाचोऽवपादादधःपतनादबिभयुः । तत्परिहाराय पञ्चमी
रश्मिभिरादित्यमुदवयन्नूर्ध्वमुत्तम्भितवन्तः । तस्मादेकविंशे विषुवत्यह्नि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.५) ९३
पूर्वोक्तविधिव्यवच्छेदार्थोऽथशब्दः । एतानि पुरस्तादुपरिष्टाच्च
कर्तव्यानि परःसामारख्यान्यहानि पराणि परशब्दाभिधेयानि । तत्कथमिति
तदुच्यते । पुरा देवाः पराख्यैरैतैरहोभिरेवाऽऽदित्यं स्वर्गं लोकमपार-
यन्प्रापितवन्तः। अतः पारयन्त्येभिरिति व्युत्पत्या परत्वं संपन्नम् । य एवं
परत्वं जानाति तमेनं पुरुषं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९४ (१.२.५) तैत्तिरीयब्राह्मणम्
कर्तुमशक्या । नवामामेवाहानामवशिष्टत्वात्संवत्सरपूरणाय
तावदष्टाहान्यवशिष्टानि । मध्ये विषुवत एकस्याह्नोऽधिकस्य
प्रविष्टत्वादत्र नवाहावशेषः ।
तेषु नवसु पशुभावेन येयमप्रतिष्ठा प्राप्ता तां वारयितुं क्रमेण नव
पशून्वैष्णवादीन्विधत्ते-
वै॒ष्ण॒वं वा॑म॒नमाल॑भन्ते । य॒ज्ञो वै
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.६) ९५
गालितवृषणः । अजाश्च पेत्वाश्चाजपेत्वास्तानजपेत्वानेव पशून्पूर्वमासैरेते
यजमानाः प्राप्नुवन्ति । इदानीं विधीयमानपशुयुक्तदिनेभ्यः पूर्वेषु मासेषु
तादृशानामेव पशूनामालब्धत्वादेतेषु तु विधीयमानेषु पशुषु धेन्वादयो
गव्याः सन्ति । तदालम्भने पशूनामुभयेषां पूर्वमालब्धा-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९६ (१.२.६) तैत्तिरीयब्राह्मणम्
तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद् व्र॒तमिति॑ ।
तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हतो॒ व्रतमिति॑ ।
तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम्, इति ।
प्रजासृष्टिव्यापारेण श्रान्तः प्रजापतिर्यदा शयनं कृतवांस्तदा देवाः
सर्वेषां भूतानां सारभूतं तेजः संपाद्य तेन तेजसा तमेनं श्रान्तं प्रजापतिं
चिकित्सितवन्तः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.२.६) ९७
अन्तिमादतिरात्रात्पूर्वश्वःसु योऽन्तः संवत्सरस्योपान्तरूपो
देशस्तत्रैतदहः कर्तव्यम् । यद्यस्मादिदमेव महाव्रतमन्ते क्रियते
तस्माल्लोकेषूत्कृष्टस्य कृष्यादिव्यापारस्यान्ते फलदशायां प्रजाः
सम्यग्वर्धन्ते । तस्मात्प्रजावृद्ध्यर्थमितरेषामह्नामन्त एवैतत्कर्तव्यम् ।
अस्याह्नः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें९८ (१.२.६) तैत्तिरीयब्राह्मणम्
योऽयं पूर्वत्र विहितः पञ्चविंशः स्तोमो भवतीति तं
मध्यशरीरत्वकल्पनया प्रशंसति-
प॒ञ्च॒वि॒ꣳ॒श आ॒त्मा भ॑वति । तस्मा॑न्मध्य॒तः प॒शवो॒
वरि॑ष्ठाः, इति ।
आत्मा पक्ष्याकारस्य महाव्रतस्य मध्यशरीरम् । तस्मादयं
पञ्चविंशस्तोम इतरेभ्यस्त्रिवृदादिस्तोमेभ्यो भूयांस्तस्मात्पशवो
मध्यशरीरभागे वरिष्ठाः स्थौल्ययुक्ता
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें