तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 115, कुल 345 में से
संदर्भ में पढ़ें८६ (१.२.२) तैत्तिरीयब्राह्मणम्
पृष्ठस्तोत्रे सामविशेषं विधाय पवमानस्तोत्रे सामविशेषं विधत्ते-
त्र॒यस्त्रिँ॑शी॒ नाम॒ साम॑ । मा॒ध्यं॒दि॒ने प॑व॒माने॑ भवति (४) ।
त्र॒य॑स्त्रि ँ शद्द्वै दे॒वता॑: । दे॒वता॑ ए॒वाव॑रुन्धते, इति ।
त्रयस्त्रिंशीति कस्यचित्साम्नो नामधेयम् । तच्च साम माध्यंदिने
पवमानाख्ये स्तोत्रे गायेत् । देवतानामियं संख्या-“त्रिंशत्त्रयश्च गणिनः”
इत्यादिमन्त्रे प्रसिद्धा ।
इदानीं विषुवत उत्तरेषु परः सामसु पूर्वोक्तविपरीतक्रमं विधत्ते-
ये वा इ॒तः परा॑ञ्च ँ संवत्स॒रमु॑प॒यन्ति॑ । न हैन॑न् ते स्व॒स्ति
सम॑श्नुवते । अथ॒येऽमुतो॒ऽर्वाञ्च॑मु॒पयन्ति॑ । ते हैन॑ ँ स्व॒स्ति
सम॑श्नुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॑मु॒पय॑न्ति । यदे॒वम् । यो
ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑ वे॒वेन्द्र॑: । तदु॑ दे॒वेभ्यो॒
नय॑न्ति (५), इति ।
कार्या॒ विराड् गृ॑ह्यन्ते पवमाने भवतीन्द्र॒ एकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
द्वितीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥
ये यजमान इतो भूलोकरूपादद्भ्य इत्यादिमन्त्रयुक्ताद-
तिग्राह्यादारभ्य पराञ्चमनुक्रमगतमेव संवत्सरक्रतुमनुतिष्ठन्ति ते यजमाना
एनं क्रतुं स्वस्ति क्षेमेण न समश्नुवते न सम्यक्प्राप्नुवन्ति । ये तु विषुवत्
ऊर्ध्वममुतो द्युलोकरूपात्प्रजाभ्यस्त्वेत्यादिमन्त्रयुक्तात्तृतीया-
दतिग्राह्यादारभ्यार्वाञ्चं व्युत्क्रमगतं संवत्सरक्रतुमनुतिष्ठन्ति त एव
यजमाना एनं क्रतुं क्षेमेण समापयन्ति । एवमतिग्राह्याणां व्युत्क्रमानुष्ठानं
यदस्त्येतेनैव प्रकारेणामुतोऽन्तादारभ्यार्वाञ्चं व्युत्क्रमगतं
संवत्सरमनुष्ठितवन्तो भवन्ति । तस्मादेवमनुतिष्ठेदित्यर्थः । यः
संवत्सरसत्रात्मकः प्रजापतिः स एवेन्द्रो देवानामधिपतिः ।
तस्मात्कारणाद्देवेभ्यो नयन्ति । देवार्थमेवैनं क्रतुमधिष्ठितवन्तो भवन्ति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥