सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 110, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 110

तैत्तिरीयब्राह्मणम् (१.२.१) ८१
प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्सृ॒ष्टा प्र॒जाप॑तेः ।
ऊ॒र्ध्वाऽऽरौ॑हद्रोहि॒णी । योनि॑र॒ग्नेः प्र॒ति॑ष्ठितिः ( २७) ।
विश॑न्तु नः पु॒रूची॒र्विधे॑म नि॒धाय॑ यत्ते॒ऽप्र॑दाहाय बृ॒हत्यौ ब्रह्म॑णा
दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्र॑ज॑नयि॒ष्यथौ॑ जनिष्य॒तैऽस्मै॑ मर्म
महिम्ना वर्च॑से दध॑त्सुव॒र्गां मा॑हि संबभूवतुरायुर॒र्त्यान॑शे चतु॑ष्पदः स॒तां
प्र॒जाप॑तेर्द्धं च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
द्वितीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥
कल्पः-“पञ्चधाऽग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेरूर्ध्वाऽऽरोह-
द्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्” इति । यजमान उपतिष्ठत
इत्यनुवर्तते । प्रजापतेः संबन्धिनी येयं सृष्टा विराड्विशेषेण राजमाना
गोशरीरधारिणी तानेतानग्नीन्पञ्चधा व्यक्रामद्विभज्य क्रान्तवती।
अस्मिन्प्रदेशे गार्हपत्योऽस्मिन्नाहवनीय इत्येवं पदेनाऽऽक्रम्य
दर्शितवतीत्यर्थः । सा पुनः स्वस्याः प्रयोजनविशेषमेव
पश्यन्त्यूर्ध्वाऽभिमुखी द्युलोकमारोहत् । आरुह्य च रोहिण्यभूत् । सा
चाग्नेर्योनिः कारणभूता प्रतिष्ठाहेतुश्च । रोहिणीनक्षत्रेऽग्नीनामाधेयत्वात् ।
अत्र विनियोगसंग्रहः-
उद्धन्य भूमिमुद्धन्ति शं नो देवीरवोक्षति ।
वैश्वेति सिकता न्युप्य यदेत्युषान्वपेत्तथा ॥ १ ॥
ऊतीराखुकरीषं चोर्जं वल्मीकवपां प्रजाम् ।
सूदं यस्य तु वाराहीमृदं यत्पद्यपत्रकम् ॥ २ ॥
याभिस्तु शर्करा अग्नेः स्वर्णमश्वेति पिप्पलम् ।
ऊर्ज औदुम्बरं गायद्द्वाभ्यां पर्ण यया शमीम् ॥ ३ ॥
यत्ते विकङ्कतं यत्तेऽशनिदग्धं तरुं तथा ।
चित्रीयश्वत्थसमिधोऽश्वत्थादरणिमन्त्रणम् ॥ ४ ॥
यो अश्वावरण्युपादानं यं त्वां संभारसादनम् ।
प्रवे ब्रह्मौदने होमस्तत्रिभिः समिध क्षिपेत् ॥ ५ ॥
समित्रिभिस्तु राजन्यस्त्वां त्रयेण च वैश्यकः ।
प्रजा अजं प्रबध्नाति मही अरणीवीक्षणम् ॥ ६ ॥