सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 111, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 111

(१.२.२) तैत्तिरीयब्राह्मणम्
आगोऽरणी प्रगृह्णाति ऋत्विग्द्वाभ्यां तु मन्त्रणम् ।
अनु वाचं नियम्याथ शल्कै रात्रौ समिध्यते ।। ७ ।।
जात द्वाभ्यां प्रातरग्नावरणी निष्पेत्तथा ।
अपेति स्थानमुद्धन्यादग्नेस्तु सिकता वपेत् ।। ८ ।।
सं वो द्वाभ्यां तु संभारान्वानस्पत्यान्संसृजेत् ।
ऋग्द्वाभ्यामग्न्युपस्थानं दिवस्त्वापोश्वमानलम् ।। ९ ।।
आधातेजीजनन्नाग्निमञ्जलौ धारयेत्तृजाः ।
जातं प्राणित्यहं पूर्वानिलाधानेऽभिमन्त्रयेत् ।। १० ।।
प्राणे त्वा पश्चिमाधा नं सुगार्हेत्यभिमन्त्रणम् ।
इमाः प्राञ्चोऽभियान्त्योजस्त्रिभिरुद्यम्यतेऽनलः ।। ११ ।।
प्राची त्रिभिः पूर्वयानं यदि वह्न्यभिमन्त्रणम् ।
प्राणं द्वाभ्या पूर्ववह्नेस्स्थानं ह्यनुमन्त्रयेत् ।। १२ ।।
उपस्थितिर्नयं पञ्च चतुर्वेदिं समीक्षते ।
इह गन्तुरुपस्थानं पञ्च सर्वाग्निमन्त्रणम् ।।
अत्राऽऽधानगता मन्त्रा द्वासप्ततिरुदीरिताः ।। १३ ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
अथ द्वितीयप्रपाठके द्वितीयोऽनुवाकः ।
प्रथमेऽनुवाक आधानमन्त्रा उक्ताः । तावताऽऽ धानं समाप्तम् । अथ
पञ्चस्वनुवाकेषु गवामयने केचिद्विशेषा उच्यन्ते । तत्रास्मिन्ननुवाके
विषुवन्नामकं मुख्यमहः । तदुभयपार्श्ववर्त्तीनि चत्वार्यहान्युच्यन्ते ।
तदेतद्विधत्ते -
नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः ।
यदे॒तान्यहा॑न्यु॒पयन्ति॑ । नव॑स्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिणः॑
प्र॒तिति॑ष्ठन्तो यन्ति, इति ।
षष्ठे मासि षड्विंशतिसंख्याकेष्वहस्सु गतेष्ववशिष्टानि चत्वार्यहानि
तत ऊर्ध्वं विषुवन्नामकमेकं मुख्यमहः । ततोऽप्यूर्ध्वमुत्तर-
मासषट्कस्याऽऽदौ चत्वार्यहानीत्येवमेतानि नवसंख्याकान्य-