सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 116, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 116

तैत्तिरीयब्राह्मणम् (१.२.३) ८७
अथ द्वितीयप्रपाके तृतीयोऽनुवाकः
द्वितीयेऽनुवाके नवाहानि विहितानि । अथ तृतीयेऽनुवाके तेषां
मध्यमेऽह्नि विषुवति केचिद्विशेषा उच्यन्ते । पूर्वत्र षड् दिनेषु
पराञ्चोऽर्वाञ्चश्च येऽतिग्राह्या विहितास्तानुभयविधानस्मिन्र्विषुवत्यह्नि
विधत्ते-
सं॒त॒तिर्वा ए॒ते ग्रहाः॑ । यत्परः॑ सा॒मानः॑ ।
वि॒षु॒वान्दि॑वाकी॒र्त्यम् । यथा॑ शा॒लायै॑ पक्ष॑सी । ए॒व ँ
सं॑वत्स॒रस्य॒ पक्ष॑सी । यदे॒ते न गृ॒ह्ये॑रन् । विषू॑ची संवत्स॒रस्य॑
पक्ष॑सी॒ व्य॑वस्रँसेयाताम् । आर्ति॒मार्छे॑युः यदे॒ते गृ॒ह्यन्ते॑ ।
यथा॑ शा॒लायै॑ पक्ष॑सी मध्य॒मं व ँ॑शम॒भिस॑माय॒च्छति॑ ।
(१) । ए॒व ँ सं॑वत्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑
म॒भिसंत॑न्वन्ति । नाऽऽर्ति॒मार्छ॑न्ति, इति ।
परःसामशब्देन तदर्हगताः पूर्वोक्ताः । पराञ्चोऽर्वाञ्चश्चातिग्राह्या
लक्ष्यन्ते । तादृशा ये सन्ति ते संततिरूपा । अविच्छेदकररज्जुस्थानीयाः।
यत्तु दिवाकीर्त्यमहः सोऽहर्विशेषो विषूवान् । दिवाैव कीर्त्यं सर्वमनुष्ठेयं
न तु रात्राविति दिवाकीर्त्यम् । विष्वक्परस्परविपरीतत्वेन वर्तमानावुभौ
पक्षौ यस्याहर्विशेषस्य सोऽयं विषूवान् । तदेतदहर्लौकिकदृष्टान्तेन स्पष्टी
क्रियते । लोके प्रौढां शालां कुर्वन्तो मध्य उन्नतांस्तम्भांस्थापयित्वा
तेषामग्रे तिर्यग्वंशं दीर्घं प्रतिष्ठाप्य तदाधारेणोभौ शालापक्षौ निर्मिमीते ।
यथा लौकिकी शालैवमत्रापि संवत्सरसत्ररूपां शाला । तस्याश्च
विषूवानेव स्तम्भाग्रगतवंशस्थानीयः । पूर्वोत्तरमासषट्कद्वयं
पक्षद्वयस्थानीयम् । तत्र पूर्वोत्तरेषु परःसामसु षडहःसुमध्यमे च विषुवति
गृह्यमाणा अतिग्राह्याः पृष्ठवंशपक्षद्वयबन्धनरज्जुस्थानीयाः । एवं सति
यद्येते ऽतिग्राह्याः परः सामसु विषुवति च न गृह्येरंस्तदा संवत्सरस्य
पार्श्वद्वयवर्तिनौ पक्षौ विष्वग्गतौ सन्तौ विस्रस्तौ विनष्टौ भवेताम् । ततो
यजमाना आर्तिं प्राप्नुयुः । यदि त्वतिग्राह्या गृह्यन्ते तदानीं यथा लोके
शालायाः पक्षद्वयं मध्यमेन वंशेन सह पुरुषो रज्ज्वा दृढं बध्नात्येवमस्य
संवत्सरसत्रस्य पक्षद्वयस्थानीयं मासषट्कद्वयं . वंशस्थानीयस्य
दिवाकीर्त्यस्योभयोः पार्श्वयोस्तेन दिवाकीर्त्येन सह दृढं संतन्वन्ति ।
तस्मिंश्च सातत्ये सति यजमाना आर्तिं नाऽऽप्नुवन्ति । तस्मात्परःसामस्विव
विषुवत्यपि सांतत्यायातिग्राह्याः कर्तव्या इति तात्पर्यार्थः ।
अथ विषुवत्यहनि स्तोमविशेषं ग्रहक्रमविशेषं च विधत्ते-