सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 119, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 119

९० (१.२.४) तैत्तिरीयब्राह्मणम्
तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा ।
उ॒भयो॑र्लोकयो॒: प्रति॑तिष्ठन्ति, इति ।
महाव्रतदिवसो यज्ञस्यान्तः । परेद्युरेव सत्रसमाप्तेस्तत्र ग्रहणे सति
यज्ञसमाप्तौ लोकद्वये प्रतिष्ठा भवति । सोऽयं ग्रहग्रहणप्रकारः सूत्रे
स्पष्टमभिहितः-
“तानूर्ध्वानिवृत्तांश्च तेषां मध्ये सौर्य उदुत्यं
जातवेदसमित्येतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति
वाचस्पतिं विश्वकर्माणमिति । श्वोभूत आदित्यं महीमूषुमातरमिति
तावेवमेव व्यत्यासं गृह्णात्यामहाव्रतात्तौ सह महाव्रत” इति ।
अथ विषुवति शस्त्रविशेषं विधत्ते-
अ॒र्क्य॑मु॒क्थं भ॑वति । अन्ना॒द्यस्याव॑रुद्ध्यै, (४) इति ।
स॒मा॒यच्छ॑त्यतिग्रा॒ह्या गृ॒ह्यते॑ गृह्य॒ते सं॑वत्स॒रस्या॒न्योऽन्यो गृ॒ह्येते॑ प॒ञ्च
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये
तृतीयः प्रपाठ(योऽनुवा)कः ॥ ३ ॥
अर्चनीयो देवोऽर्कस्तत्संबद्धमुक्थं शस्त्रमर्क्यं तच्छंसनीयम् । “अर्को
वै देवानामन्नम्” इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता ।
इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
अथ द्वितीय प्रपाठके चतुर्थोऽनुवाकः ।
तृतीयेऽनुवाके विषुवद्दिनेऽतिग्राह्यविशेषाः उक्ताः । अथ चतुर्थे
तस्मिन्नेव दिने दिवाकीर्त्यनामानि सामान्युच्यन्ते । यद्विहितं पूर्वानुवाक
एकविंशमहर्भवतीति तदिह तावदादौ प्रशंसति-
ए॒क॒वि॒ꣳ॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा एक॑वि॒ꣳ॒शेन॑ ।
आ॒दि॒त्यामि॑त ऊ॒र्ध्वꣳ सु॑व॒र्गं लो॒कमरो॑हयन् । स वा ए॒ष