तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 121, कुल 345 में से
संदर्भ में पढ़ें९२ (१.२.४) तैत्तिरीयब्राह्मणम्
तमादित्यं सवनगतैर्गायत्र्यादिभिश्चन्दोभिर्दृढंस्तभितवन्तः ।
रज्जुभिर्बद्धमिवाकुर्वन् । तस्माद्धृत्यै छन्दांसि भवन्ति । ततो देवा
आदित्यस्यांवाचोऽवपादादधःपतनादबिभयुः । तत्परिहाराय पञ्चमी
रश्मिभिरादित्यमुदवयन्नूर्ध्वमुत्तम्भितवन्तः । तस्मादेकविंशे विषुवत्यह्नि
दिवाकीर्त्यनामकानि पञ्च सामानि कर्तव्यानि । तानि च
यथोक्तपञ्चरश्मिस्थानानि ।
अथ सामान्यतो विहितानि पञ्च सामानि विशेषाकारेण विधत्ते-
ये गा॑य॒त्रे । ते गा॑यत्री॒षूत्तर॑योः॒ पव॑मानयोः (२) ।
म॒हादि॑वाकी॒र्त्य ँ होतृ॑ः पृ॒ष्ठम् । वि॒क॒र्णं ब्र॑ह्मसा॒म ।
भा॒सौऽग्नि॒ष्टोमः॑, इति ।
गायत्रीछन्दोयुक्ते प्रातः सवने दिवैव कीर्तनीय भ्राजभासाख्ये ये
सामनी ते एवोत्तरयोर्माध्यंदिनार्भवपवमानयोर्गायत्रीछन्दस्कास्वृक्षु
गातव्ये । महादिवाकीर्त्यनामकं यत्साम तद्धोतृसंबन्धिपृष्ठस्तोत्रं कार्यम् ।
तथा विकर्णनामकं यत्तद्ब्रह्मसाम कार्यम् । तदेतदुभयं चतुर्षु पृष्ठस्तोत्रेषु
प्रथमतृतीययोः संपद्यते । भासाख्यं यत्सामाऽग्निष्टोमसाम कार्यम् ।
येनाग्निष्टोमः समाप्यते तदग्निष्टोमसाम ।
एवं विषुवति सामानि पुनरप्युभयतः स्थितानां परःसाम्नां स्तुतिः
क्रियते-
अथै॒तानि॒ परा॑णि । परै॒र्वे दे॒वा आ॑दि॒त्य ँ सु॑व॒र्गं
लो॒कम॑पारयन् । यदपा॑रयन् । तत्परा॑णां प॒रत्वम् ।
पा॒रय॑न्त्येनं॒ परा॑णि । य ए॒वं वेद॑ । अथै॒तानि॒ स्परा॑णि ।
स्प॒रैर्वे दे॒वा आ॑दि॒त्य ँ सु॑व॒र्गं यदस्पा॑रयन् । तत्प (त्स्प)
राणा ँ स्प॒रत्वम् । स्पा॒रय॑न्त्येन ँ स्परा॑णि । य ए॒वं वेद॑
(३), इति ।
ए॒ति॒ पव॑मानयोः॒ स्परा॑णि॒ पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
द्वितीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥