शार्ङ्गधर संहिता (दीपिका टीका व हिन्दी व्याख्या सहित)
Sharangadhara Samhita with Dipika Hindi Commentary
शार्ङ्गधराचार्य द्वारा
स्रोत: चौखम्बा सुरभारती प्रकाशन · चौखम्बा सुरभारती प्रकाशन (उद्गम)
अञ्जननिदानम् 293
अञ्जननिदानम् 293
चतुर्थाऽसौ पृथक् सर्वैस्तैस्तत्कोपः क्रमादिह।
रविपञ्चदशत्रिंशद् दिनेषु सकलेष्वपि ।। 99 ।।
अशीतिर्वातजा रोगा भवन्त्याक्षेपाकादयः ।
अतिप्रसिद्धान् कियतस्तेष्वहं तानिह ब्रुवे ।। 100 ।।
आक्षेपको गतिक्षेपात् खल्ली जङ्घोरुपादरुक् ।
सरुङ्नाभेत्थो ग्रन्थिरष्ठीला रुद्धमूत्रविट् ।। 101 ।।
प्रत्यष्ठीलोदरे चेत्सा सपीड़ा तिर्यगुत्थिता।
आध्मानं स्याद् यदाऽऽध्मातं साटोपमुदरं सरुक् ।। 102 ।।
कफव्याकुलिते वाते प्रत्याध्मानं प्रजायते।
विण्मूत्राशयजा पीड़ाऽधोगता तूणिकोच्यते ।। 103 ।।
गुदोपस्थोत्थिता रुक् चेद्यात्यूर्ध्वं प्रतितूणिका ।
वक्रीकरोति वक्त्रार्धं वातश्चेत् सरुगर्दितम् ।। 104 ।।
गृध्रसीस्फिक्पायुकटिजानुजङ्घापदव्यथा ।
क्रोष्टुशीर्षं जानुशोथो विश्वाची भुजयोर्व्यथा ।। 105 ।।
खञ्जः स्यान्निग्रहात् सक्थ्नः पङ्गुत्वमुभयोस्तयोः ।
अत्युद्गारस्त्र्ध्ववातो नष्टवाक्त्वं तु मूकता ।। 106 ।।
कलायखञ्जः स भवेत् प्रकामं वेपते तु यः ।
आमूलमेकबाहोश्चेद्र्यथा स्यादपबाहुकः ।। 107 ।।
विवृतं संवृतं वाऽऽस्यं यः कुर्यात् स हनुग्रहः ।
सर्वाङ्गैकाङ्गरोगौ स्तः सर्वाङ्गैकाङ्गनिग्रहात् ।। 108 ।।
मुहुर्मुहुर्नमनमयेन्मोहयेच्चापतन्त्रकः ।
जिह्वास्तम्भः स येनान्नपानवाक्येष्वनीशता ।। 109 ।।
बाह्यायामान्तरायामौ बहिरन्तश्च कर्षणात्।
स्नायूनामथ विज्ञेयो व्रणायामोऽरुषा तथा ।। 110 ।।
स्थानानामानुरूप्यांश्च लिङ्गैः शेषान् विनिर्दिशेत् ।
घ्नन्ति वातामया वृद्धाः क्षीणमांसबलानलम् ।। 111 ।।
अत्यध्ववाहनविदाह्यन्नादैः सरुषाऽसृजा।
युज्यते चेन्मरुद् दुष्टस्तथा स्याद् वातशोणितम् ।। 112 ।।
दाहगौरवरुक्तोदकण्डूवैवर्ण्यमण्डलम् ।
त्वच्युदर्दाङ्गसङ्कोचशोथं वातास्रलक्षणम् ।। 113 ।।
वाताधिकेऽतिरुकित्ते दाहो रक्तेऽतिशोणता।
कफेऽतिगौरवं चिह्नं द्वित्रिजे द्वित्रिलक्षणम् ।। 114 ।।
मोहदाहज्वरास्वञ्पाङ्गु Albera वैकृतम् ।
मर्मग्रहभ्रमास्फोटा वातस्रोपद्रवा नव ।। 115 ।।
युगपत्कुपितावामवातौ स्वीयप्रकोपनैः।
आमवातं जनयतः सशोथं सीन्धुरुग्ग्रहम् ।। 116 ।।
सर्वाङ्गैकाङ्गसन्धिस्यशोथार्तिगृहगौरवम्
ज्वरापाकाग्निमान्द्ये च तृष्णा चामानिलाकृतिः ।। 117 ।।
आमवाताधिके वातेऽतिरुग्दाहस्तु पित्ततः ।
कफात् स्तैमित्यगुरुते सर्वलक्ष्मै त्रिदोषतः ।। 118 ।।
जाड्यान्त्रकूजनानाहतृट्छर्दिबहुमूत्रताः ।
शूलं शयननाशोऽष्टोपद्रवा आमवातजाः ।। 119 ।।
एकदेशेऽतिरुक् शूलं शिम्बीधान्यादिसेवनात् ।
क्रुद्धैः पृथग् द्वन्द्वसर्वैर्दोषैश्चामात्तदष्टधा ।। 120 ।।
पित्ते नाभ्यां चलाद्धस्तौ पार्श्वहृत्कुक्षिजं कफात् ।
द्वित्रिस्थानं द्वित्रिदोषं शूलं चामाशये रसात् ।। 121 ।।
वेदनाऽऽनाहमूर्च्छायास्तृट्कृच्छ्रे गौरवारुची।
कासः श्वासश्च हिक्का च शूलस्योपद्रवा दश ।। 122 ।।
बलासः प्रच्युतः स्थानात् पित्तेन सह मूर्च्छितः ।
वायुमादाय कुरुते शूलं जीर्यति भोजने ।। 123 ।।
वातविण्मूत्रजृम्भाऽश्रुक्षवथोद्गारवमीन्द्रियैः ।
क्षुत्तृष्णाश्वासनिद्राणां वृत्त्योदावर्तसम्भवः ।। 124 ।।
वातस्य रोधादाध्मानमूर्ध्वविट्कं विशोथरुक् ।
बस्तौ मूत्रस्य जृम्भायाः शिरोरुग्दृग्गुजोज्श्रुणः ।। 125 ।।
क्षवथोरिन्द्रियग्लानिरुद्गारस्यानिलार्त्तयः ।
छर्देः कुष्ठानीन्द्रियत्याश्मरी दृङ् मन्दता क्षुधः ।। 126 ।।
तृषोऽतितृष्णा श्वासत्य हृद्रुक् स्वापस्य जृम्भणम्।
विड्वान्तिशूलतृड्ग्लानिक्षैणयुक्तं त्यजेदमूम् ।। 127 ।।
हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः ।
वृत्तश्चयोपचयवान् स गुल्मः पञ्चधा मतः ।। 128 ।।
तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिबस्तयः ।
दोषैर्व्यस्तैः समस्तैश्च स्त्रीणां रक्तेन पञ्चमः ।। 129 ।।
जीर्णेऽन्ने वातजः कुप्येत् तस्मिञ्जीर्यति पित्तजः ।
भुक्ते तु कफजो गुल्मः सर्वदा सर्वदोषजः ।। 130 ।।
प्रसवार्त्तवपातानां काले याऽसात्म्यभोजना।
वायुस्तद्रक्तमादाय गुल्मं निर्माति पैत्तवत् ।। 131 ।।
स्पन्दते पिण्डतो नाङ्गैः सशूलो गर्भचिह्नयुक् ।
गुल्मोऽसृजश्चिकित्स्योऽसौ मासे तु दशमे गते ।। 132 ।।
श्वासशूलपिपासाऽन्नविद्वेषो ग्रन्थिगूढ़ता।
जायते दुर्बलत्वं च गुल्मिनो मरणाय वै ।। 133 ।।
दूषयित्वा रसं दोषा विगुणा हृदयं गताः ।
हृदि पीडां प्रकुर्वन्ति हृद्रोगं तं प्रचक्षते ।। 134 ।।
स पञ्चधा पृथग्दोषैः समस्तैश्च क्रमेरपि।
क्लमः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः ।। 135 ।।
नालस्य मूले मध्ये वा रुद्धं वाऽग्रे सदाहरुक्।
कणशश्चेत् स्रवेन्मूत्रं मूत्रकृच्छ्रं तदुच्यते ।। 136 ।।
294 शार्ङ्गधरसंहिता
मूत्रकृच्छ्राण्यष्टदोषाइमरीविट्शल्यशुक्रतः । वातविट्सङ्गदौर्बल्योदरवृद्ध्यग्निमन्दताः ।
दोषैर्लिङ्गं पृथक्सर्वैः कृच्छ्रे रुग्दाहगौरवम् ।। 137 ।। पच्छेद्वस्तिरुग्दाहाध्मानं सर्वोदराकृतिः ।। 153 ।।
द्विधारं मूत्रमश्मर्या विड्क्षोभाद्विङ्विगन्धि तत् । कृष्णपीतार्जुना दोषैः सिराः स्युरुदरे क्रमात् ।
क्षते हते वा शल्येन कृच्छ्रं स्यान्मूत्रवर्त्मनि ।। 138 ।। दुष्टाम्बुनखविद्लोमार्तवदूषीविषादिभिः ।। 154 ।।
तत्र रुद्धे मले शुक्रात् प्राप्तात् कृच्छ्रं परं सरुक् । दूष्योदरं त्रिलिङ्गं स्यान्नाभेरुर्ध्वं चितं सरुक् ।
वस्तिमेहनरुग्दाहाटोपैः कृच्छ्रं न सिध्यति ।। 139 ।। वामे जीर्णज्वरात् प्लीहा यकृद्दाल्यस्त्रतोऽन्यतः ।। 155 ।।
मूत्रादिधृत्या दुष्टेन रुद्ध्वा रुद्ध्वा शनैः शनैः । हृन्नाभिमध्ये निचितं दुष्टं वर्चोऽन्त्रलेपकृत् ।
मरुतोत्सृज्यते मूत्रं मूत्राघातस्तदा भवेत् ।। 140 ।। वातेन न बहिया॑ति तद्वद्धगुदमार्त्तिकृत् ।। 156 ।।
वातो मूत्रगतं शुक्रं कफं वा शोषयेद् यदा । अन्नाद्यागतशल्येन भिन्नमन्त्रे जलं गुदात् ।
तदाऽश्मरी स्यात् क्रमशो गोपित्तेष्विव रोचना ।। 141 ।। स्रवेन्नाभेरधोवृद्धं परिस्राव्युदरं हि तत् ।। 157 ।।
रुङ्नाभिसीवनीवस्तिमूर्द्धिनगोमेदकोपमम् । स्नेहपानाद्गुमेरेकादत्यम्बु पिबतो हिमम् ।
मूत्रकृच्छ्रं शीर्णधारं ज्वरश्चाश्मरिलक्षणम् ।। 142 ।। अम्बुपूर्णदृतिप्रख्यमधोनाभेदकोदरम् ।। 158 ।।
बालानां सा पृथग् दोषैर्नृणां शुक्रभवाऽश्मरी । पक्षाद् बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा ।
नाभ्यण्डशोथरुग्बद्धमूत्रात् त्वनया मृतिः ।। 143 ।। प्रायो भवत्यभावाय छिद्रान्त्रं चोदरं नृणाम् ।। 159 ।।
आस्यासुखं स्वजसुखं दधीनि अतिक्षाराम्लदुष्टाम्बुविरुद्धदधिमृद्गरैः ।
ग्राम्योदकानूपरसाः पयांसि । पञ्चकर्मापचाराद्यैर्जायते श्वयथुर्नृणाम् ।। 160 ।।
नवान्नपानं गुडवैकृतं च सिरातनुत्वं वैवर्ण्यं रोमाञ्चोत्सेधगौरवम् ।
प्रमेहहेतुः कफकृच्च सर्वम् ।। 144 ।। ऊष्मानवस्थितत्वं च सर्वं श्वयथुलक्षणम् ।। 161 ।।
मूत्रमिश्रं केवलं वा शुक्रं मेहति चेन्मुहुः । नवधा तैः पृथग्द्वन्द्वैः सर्वैर्घताद्विधाच्च सः ।
स प्रमेहोऽत्र भेदस्तु मूत्रवर्णविभेदतः ।। 145 ।। प्रागुक्तलिङ्गैस्ते ज्ञेया यथाहेतुः स घातजः ।। 162 ।।
जलेक्षुसान्द्रासवशुक्रपिष्ट- विषजः सविषप्राणिदंशमूत्रमलादिभिः ।
लालाशनेः सैकतशीततस्ते । ऊर्ध्वगामी नरं पद्भ्यामधोगामी मुखात् स्त्रियम् ।
माञ्जिष्ठहारिद्रकनीलकाल- उभयं वस्तिसम्पातः शोथो हन्ति न संशयः ।। 163 ।।
क्षारास्रतो मज्जवसेभपौष्यात् ।। 146 ।। छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च ।
साध्याः कफोत्था दश पित्तजाः सप्तकोऽयं सदौर्बल्यः शोथोपद्रवसंग्रहः ।। 164 ।।
षड् याप्या न साध्याः पवनाच्चतुष्काः । वायुर्वङ्क्षणतः प्राप्य मुष्के मुष्कधराः सिराः ।
समक्रियत्वाद्विषमक्रियत्वान्- प्रपीड्य वृद्धिं कुरुते मुष्कयोः स कुरण्डकः ।। 165 ।।
महात्ययत्वाच्च यथाक्रमं ते ।। 147 ।। दोषास्रमेदोमूत्रान्त्रैः स गदः सप्तधा स्मृतः ।
दोषप्रकोपचिह्नानि प्रमेहाणामुपद्रवाः । रुग्दाहकण्डूद्दोषेभ्योऽस्रात् कृष्णस्फोटभागशः ।। 166 ।।
शरावी कच्छपी पुत्रिन्यलजी च विदारिका ।। 148 ।। मेदोजः कफवन्मूत्रो धृतं तद्यन्त्रणात् सृजेत् ।
मसूरी विनता जालिन्यपि विद्रधिसार्षपी । आघातादर्मनीत्वा क्षुद्रान्त्रं वङ्क्षणादधः ।। 167 ।।
नामानुरूपाः पिडिका दशोमास्तदुपेक्षणात् ।। 149 ।। अन्त्रवृद्धिं करोत्यत्र यन्त्रणात् स्यात् सरुग्ध्वनिः ।
मेदस्तु वर्धते श्लेष्महेतुभिस्तेन ना भवेत् । वङ्क्षणग्रन्थिमनिलः करोति ब्रध्ननामकम् ।। 168 ।।
सर्वकर्मसमर्थोऽतिस्थूलस्फिग्गुदरस्तनः ।। 150 ।। पादशोफः श्लीपदं तैः पृथक् सर्वैः कफोल्बणैः ।
स्वभावदुर्बलो ह्येकः परो रोगादिदुर्बलः । तत्कर्णकरनेत्रौष्ठशिश्रनासास्वपि क्वचित् ।। 169 ।।
स्वभावदुर्बले नास्ति चिकित्साऽस्त्यपरत्र सा ।। 151 ।। प्राग्रूपमरुषः शोथः क्वाप्यङ्गे स्फुटितस्तु सः ।
मन्दानलेरहितैरन्नैरुदराण्यष्ट तानि तु । रूपं षोढा पृथक् सर्वं दोषास्त्रागन्तुकं च तत् ।। 170 ।।
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ।। 152 ।।